भारतस्य विप्रतिपत्तिं विगणय्य चीनस्य गुप्तचरनौका श्रीलङ्कायाः तीरं प्राप्ता।
७५० किलो मीट्टर् दूरपरिधौ जायमानानि तरङ्गानि गृहीतुं अनया नौकया शक्यते।
भारतस्य विप्रतिपत्तिं विगणय्य चीनस्य गुप्तचरनौका श्रीलङ्कायाः तीरं प्राप्ता।
७५० किलो मीट्टर् दूरपरिधौ जायमानानि तरङ्गानि गृहीतुं अनया नौकया शक्यते।
आङ् सान् स्यूची षड्संवत्सरीयकारागृहवासाय पुनरपि दण्डिता।
गोप्यरूपेण आसीत् प्रकरणानाम् उपधा संवृत्ता। भ्रष्टाचारः, देशद्रोहमित्याद्यपराधान् प्रकल्प्य पूर्वमेव स्यूची ११ वर्षाणां कारागारदण्डनाय विहिता आसीत्। गतवर्षस्य फेब्रुवरिमासे म्यान्मरे प्रजातन्त्रीयसर्वकारं प्रतिलोमरूपेण तिरस्कृत्य सैनिकशासनं प्रतिष्ठितम्। ततः परं स्यूची बाह्यलोकात् अदृष्टा वर्तमाना भवति।
काश्मीरे बस्यानं नदीं पतित्वा ७ सैनिकाः वीरमृत्युं प्राप्ताः।
श्रीनगरं> अमरनाथतीर्थाटनस्य सुरक्षाकार्यं समाप्य प्रतिनिवृत्तेषु सैनिकेषु सप्त भटाः बस् यानदुर्घटनया वीरमृत्युं प्राप्ताः। जम्मुकाश्मीरस्य पहल्गाम प्रदेशे बस् यानं नदीं पतित्वा एव अपमृत्यवः जाताः।
३२ सैनिकाः आहताः वर्तन्ते। तेषु अष्टानामवस्था कठिनतरा भवति। 'इन्डो-टिबटन् सीमा आरक्षकाः' [ऐ टि बी पि] एव दुर्घटनाविधेयाः अभवन्। चन्दनवाटीस्थात् आरक्षककेन्द्रात् कार्यनिर्वहणं समाप्य श्रीनगरं प्रति निवर्तमानाः आसन्।
दुर्घटनायां राष्ट्रपतिः द्रौपदी मुर्मू उपराष्ट्रपतिः जगदीपधन्करः इत्यादयः अनुशोचितवन्तः।
भारतीय-प्रौद्योगिकी-संस्थानम्-रुड़की मध्ये संस्कृतसंभाषणशिबिरस्य शुभारम्भः अभवत्।
संस्कृतसप्ताहमालक्ष्य भारतीय-प्रौद्योगिकी-संस्थान-रुड़की मध्ये संस्कृतसंभाषणशिबिरस्य शुभारम्भः अभवत्। शिबरेऽस्मिन् केन्द्रीयसंस्कृतविश्वविद्यालयेन नियुक्ता संस्कृतशिक्षिका आचार्या शालिनीदीक्षिता शिविरपाठनस्य आरम्भं कृतवती। शिबिरस्य उद्घाटनं डाॅ सोहम चक्रवर्ती वर्याणाम् उपस्थितौ सरस्वतीपूजनपुरस्सरम् अभवत्, श्री नवल किशोर पन्तः, श्री विष्णुदत्तगौड़ महोदयाः अपि सरस्वती पूजने समुपस्थिताः आसन्। रामजी दीक्षितः सरस्वती वन्दनां कृतवान्। आचार्या शालिनीदीक्षित द्वारा तत्र उपस्थितान् छात्रान् अत्यंत रुचिपूर्णविधिना संस्कृतभाषायां परिचयः पाठितः। अयं पाठनक्रमः प्रतिदिनं प्रचलिष्यति इति संस्थायाः अध्यक्षेण निगदितम् ।
नवदिल्ल्यां कोविड् प्रकरणानि वर्धन्ते। प्रतिदिनं ८-१० मरणानि प्रतिवेदयन्ति। जाग्रतापालनाय निर्देशः दत्तः।
भारतस्य विदेशनयं प्रकीर्त्य इम्रान् खानः।
इस्लामबादः> भारतस्य स्वतन्त्ररूपः विदेशनयः पाकिस्थानस्य भूतपूर्वप्रधानमन्त्रिणा इम्रानखानेन पुनरपि प्रकीर्तितः। लाहोरे सम्पन्ने सामान्यसम्मेलने आसीत् 'ब्राट्टिस् लावा उच्चशिखरमेलने' भागं स्वीक्रियमाणं भारतविदेशकार्यमन्त्रिणं एस् जयशङ्करं प्रकीर्त्य इम्रानखानस्य प्रभाषणम्।
रूस् राष्ट्रात् भारतस्य तैलेन्धनक्रयमुद्दिश्य अमेरिक्कायाः विरुद्धोक्तिविषये जयशङ्करेण कृतं प्रतिवचनं इम्रानखानः प्रशशंस।
भारतस्य अभिमानः अकाशपर्यन्तम्; लक्षपादाधिके ऊर्ध्वतायां राष्ट्रध्वजःपरिलसितः।
स्तन्त्रतायाः अमृत महोत्सवः
ऐतिहासिकं दिनमिति प्रधानमन्त्री नरेन्द्रमोदी ।
नवदिल्ली> पञ्चसप्ततितम स्वतन्त्रतादिनसंवत्सरोत्सवः भारतस्य ऐतिहासिकदिनमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तम्। रक्तदुर्गे राष्ट्रध्वजमुत्तोलयित्वा भारतराष्ट्रं अभिसंबुद्ध्य भाषमाणः आसीत्सः। अवसरेऽस्मिन् सर्वेभ्यः नागरिकेभ्यः स्वतन्त्रतादिनाशंसाः अपि तेन अर्पिताः। राष्ट्रस्य पञ्चसप्ततितमसंवत्सरेषु प्रयाणं सुखकरं न आसीत्, कालेऽस्मिन् पुरोगतिरधोगतयः मध्ये मध्ये राष्ट्रेण अभिमुखीकृताः इति तेन निगदितम्। अद्य राष्ट्रस्य एकैकेषु कोणेषु अपि राष्ट्रध्वजः परिलसति इति प्रधानमन्त्रिणा प्रोक्तम्।
अद्य विश्वसंस्कृतदिनम् ॥
भारतस्य २२ राजभाषासु संस्कृतभाषा अन्यतमा भवति। १९६९ तमे भारतसर्वकारेण श्रावणपूर्णिमादिनं संस्कृतदिनत्वेन परिगण्यते।
तदनन्तरं प्रतिसंवत्सरं श्रावणपूर्णिमादिनेन सह सप्तदिनानि संस्कृतसप्ताहत्वेन आचरामः।
जगति विद्यमानासु भाषासु अत्याधुनिकता सम्पूर्णता च संवत्सरात् पूर्वं संस्कृतभाषया समार्जितम्। वैयाकरणदृष्ट्या वैज्ञानिकी भाषा च भवति संस्कृतम्। अत एव सङ्गणकयन्त्रे उपयोक्तुम् अत्यनुयोज्या इति सङ्गणकविद्वांसः अभिप्रयन्ति।
आधुनिके अन्तर्जालयुगे अपि संस्कृतभाषायाः स्वकीयं विपुलप्रयोगसाधकं स्थानम् अस्ति। तादृशेषु स्थानेषु यू-नालिकावाहिन्यः संस्कृत-अन्तर्जालपत्रिकाः च संस्कृतस्य आधुनिकत्वम् उद्घोषयन्ति। सम्प्रतिवार्ता-पत्रिकायाः अन्तर्जालवार्ताप्रसारणपुटद्वारा यू-नालिका द्वारापि लघुवयस्काः बालिकाबालकाः अपि संस्कृतवार्ताप्रवाचकत्वेन सुप्रसिद्धाः इति संस्कृतस्य गरिमा तथा लखिमा च युगपदेव प्रमाणीक्रियते।
संस्कृतस्य पोषणेन अस्माकं संस्कृतीनां पोषणं भविष्यति। अस्माकं मनोबलस्य पोषणं भविष्यति। विश्वमानवत्वस्य पोषणं च भविष्यति। अतः अस्माकं सुरक्षित-शान्तिमय-जीवनाय संस्कृतम् अध्येमः। संस्कृतेन चिन्तयामः। संस्कृतेन वदामः। संस्कृतं प्रसारयामः॥
भूमेः भ्रमणवेगः अवर्धत। कारणम् अज्ञातम् ।
नवदिल्ली> भूमेः भ्रमणवेगः अवर्धत इति वैज्ञानिकाः वदन्ति। जूलाई २९ दिनाङ्के एव भूमेः भ्रमणवेगः उत्थितः। एकवारं भ्रमणपूर्तीकरणाय भूमेः २४ होराः एव सामान्यतया आवश्यकम् । किन्तु जूलै२९ दिनाङ्के १.५९ मिल्ली न्यूनक्षणेन भूमेः भ्रमणपूर्तीकरणं समभवत्। २०२० जूलै१९ तमे दिनाङ्के एव इतः पूर्वं न्यूनक्षणेन भूमेः भ्रमणं पूर्तीकृतम् । आगमि संवत्सरे अपि एवं न्यूनक्षणेन भूमिः भ्रमणं पूर्तीकरिष्यति इति प्रतिवेदनमस्ति। भूमेः भ्रमणवेग-परिवर्तनस्य कारणं किमिति अज्ञातम् अस्ति इति वैज्ञानिकाः वदन्ति। ध्रुवप्रदेशेषु हिमद्रवणेन भूमेः ध्रुवभागस्य भारस्य न्यूनत्वमेव भ्रमणवेगपरिवर्तनस्य कारणमिति एकः वादः अस्ति। भूमेः मेरुदण्डे जातः परिवर्तनमेव भ्रमणवेगस्य कारणमिति अन्यः वादः अपि अस्ति।
व्यायामः, सौहृदानि च स्मृतिभ्रंशप्रतिरोधाय सहायकः भवति।
कोमण्वेल्त् - अन्तिमदिनमपि भारतस्य सुवर्णदिनम्।
बर्मिङ्हामः> कोमण्वेल्त् राष्ट्राणां कायिकक्रीडास्पर्धायाः अन्तिमदिनेSपि भारतस्य सुवर्णवृष्टिः सम्पन्ना। चत्वारि सुवर्णानि समेत्य ६ पतकानि राष्ट्रेण समार्जितानि। पिच्छकन्दुकस्पर्धासु त्रीणि सुवर्णपतकानि 'टेबिल् टन्निस्' स्पर्धायामेकं सुवर्णं च अन्तिमदिने भारताय लब्धानि। २२ सुवर्णानि अभिव्याप्य ६१ पतकैः भारतं चतुर्थस्थाने विराजते।
ह्यः सम्पन्ने पिच्छकन्दुकक्रीडायाः महिलानाम् एकैकविभागस्य अन्तिमे प्रतिद्वन्द्वे पि वि सिन्धू सुवर्णं प्राप्तवती। एतस्यापि पुरुषविभागे लक्ष्यसेन् नामकः अपि सुवर्णं प्राप्तवान्। पुरुषाणां द्वितयविभागे रङ्किरड्डि - चिरागषेट्टी सख्याय सुवर्णपतकं लब्धम्।
पुरुषाणां टेबिल् टन्निस्' क्रीडायाः अन्तिमचक्रे अचन्तशरत् कमलः सुवर्णं सम्प्राप्तवान्। होक्किक्रीडायां भारताय रजतपतकं सम्प्राप्तम्।
कोमण् वेल्त् कायिकक्रीडायाः परिसमाप्तिः - भारताय चतुर्थस्थानम्।
बर्मिङ्हामः> दिनदशकं दीर्घितायाः कोमण् वेल्त् राष्ट्राणां कायिकक्रीडायाः यू के राष्ट्रे ह्यः परिसमाप्तिरभवत्। ६७ सुवर्णानि, ५७ रजतानि, ५४ कांस्यानि इति क्रमेण आहत्य १७८ पतकानि सम्पाद्य आस्ट्रेलिया प्रथमस्थानमावहत्। ५७, ६६, ५३ इति क्रमेण आहत्य १७६ पतकैः आतिथेयराष्ट्रम् इङ्लान्ट् द्वितीयस्थानं प्राप। २६ सुवर्णैः सह ९२ पतकानि सम्प्राप्य कानडा तृतीयं स्थानं प्राप्तवत्।
भारताय चतुर्थस्थानं लब्थम्। २२ सुवर्णानि, १६ रजतानि, २३ कांस्यानि च भारतेन प्राप्तानि। आहत्य ६१ पतकानि। आगामिनी कायिकक्रीडा २०२६ तमे वर्षे आस्ट्रेलियायं मेल्बणनगरे सम्पत्स्यते।
'कोमण् वेल्त्' स्पर्धाक्रीडायां नूतनचरितं विरचय्य भारतं - त्रिप्लुतप्रतियोगितायां सुवर्णरजतपतके भारताय।
बर्मिङ्हामः > कोमण् वेल्त्' स्पर्धाक्रीडायाः कूर्दनक्षेत्रे भारतीयक्रीडकानाम् अत्युज्वलं क्रियानुष्ठानम्। पुरुषाणां त्रिप्लुतप्रतियोगितायां सुवर्णरजतपतके भारतक्रीडकाभ्यां सम्प्राप्ते। द्वावपि केरलीयाविति सविशेषताप्यस्ति।
केरलस्य एरणाकुलं जनपदस्थे राममङ्गलं प्रदेशीयः एल्दोस् पोल् सुवर्णं सम्प्राप्तवान्। कोष़िक्कोट् जनपदस्थे वलयं प्रदेशीयः अब्दुल्ला अबूबक्करः रजतपतकं च सम्प्राप्तवान्। अन्यः भारतीयः प्रवीण् चित्रवेल् नामकः चतुर्थस्थानमेति स्म।
आकाशं संस्पृश्य आकाशः। प्रथमविमानम् उड्डीयोत्थितम्।
चरित्रम् विचय्य ऐ एस् आर् ओ संस्थया एस् एस् एल् वि विक्षिप्तः।
जग्दीप् धनकरः भारतराष्ट्रस्य नूतनउपराष्ट्रपतिः।
एकस्मिन् ध्वजस्तम्भे राष्ट्रध्वजेन साकं अन्यपताकाः न उच्छ्रीयन्ताम्।
तिरुवनन्तपुरम्> स्वतन्त्रतायाः७५ संवत्सरमहोत्सवानुबन्धितया आगस्त् मासे १३ आरभ्य१५ पर्यन्तं गृहेषु राष्ट्रध्वजारोहणसमये ध्वज-विधानादेशनिर्देशाः पालनीयाः इति मुख्यकार्यदर्शिना आदिष्टम्। रात्रौ गृहेषु राष्ट्रध्वजस्य अवरोहणं न आवश्यकम्। ध्वजसमारोहणम् आदरेण प्रत्यक्षेण अन्यजन सान्निध्ये च कर्तुमर्हति। मलीमसं विदीर्णं च ध्वजं न समारोहणीयम्। अन्यध्वजेभ्यः सार्धं एकस्मिन् ध्वजस्तम्भे राष्ट्रध्वजः न समारोहणीयः। राष्ट्रध्वजः तोरणरूपेण न उपयोक्तव्यः।