OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 18, 2022

 राष्ट्रपतिनिर्वाचनम् अद्य।

नवदिल्ली> भारते राष्ट्रपतिनिर्वाचनम् अद्य सम्पद्यते। शासनपक्षस्थानाशिरूपेण द्रौपदी मुर्मू, विपक्षस्थानाशिरूपेण यश्वन्तसिंहश्च स्पर्धेते। द्रौपदी मुर्मू ६० प्रतिशतं मतदानेन विजयं प्राप्स्यतीति राजनैतिकनिरीक्षकै‌ः कल्प्यते।

Sunday, July 17, 2022

अग्निपथयोजनायाः कृते ७.५ लक्षं युवानः अवेदनपत्रं प्रेषितवन्तः। 


विपक्षिदलानां प्रतिषेधः सत्यपि अग्निवीरान् भवितुम् आवेदितानां संख्या 7.5 लक्षं अभवत्। व्योमसेनाधिकारिणा एयर् चीफ् मार्षल् वि आर् चौधरिणा एव विवरणमिदं प्रकाशितम्। युवजनाः अनया योजनया प्रभाविताः। अवेदनसंख्या वर्धिता इत्यनेन यूनां राष्ट्रसेवातत्परता दृश्यते। डिसम्बर् मासाभ्यन्तरे चयनप्रक्रिया पूर्णातां प्राप्स्यति इत्यपि चौधरिणा उक्तम्। 

 

सौदी अमेरिक्का राष्ट्रद्वयेन १८ सन्धिषु हस्ताक्षरं कृतम्। 

अबुदाबी> सौदी अरेबिया अमेरिक्का च विविधक्षेत्रेषु सहयोगाय १८ सुप्रधानसम्मतपत्रेषु हस्ताक्षरमकरोत्। जिद्दायां सम्पन्ने अरबशिखरसम्मेलने सौदीराष्ट्रस्य मन्त्रिणः अमेरिक्कायाः विविधविभागानां कार्यदर्शिमण्डलेन सह कृतायां चर्चायामन्ते सन्धिषु उपशमः जातः। ऊर्जः, निक्षेपः, बहिराकाशः, वार्ताविनिमय‌ः, स्वास्थ्यमित्यादिषु क्षेत्रेषु आसीत् सहयोगदृढीकरणं सम्पन्नम्। 

   यू ए ई राष्ट्रपतिः शैख् मुहम्मद बिन् सायिदः अमेरिक्कायाः राष्ट्रपतिना जो बैडनेन 'वैट् हौस्' प्रति आमन्त्रितः। शिखरसम्मेलने इरानः, इराखः, ओमान‌ः, यू ए ई,सौदी, जोर्दानः,खत्तरं, कुवैट् इत्यादीनाम् अरबराष्ट्राणां अधिकारिणः भागं स्वीकृतवन्तः।

 केरले वर्षा शक्तिरार्जिता; दुष्प्रभावे ४ मरणानि। 

अनन्तपुरी> केरलराज्ये वर्षाकालः शक्तिं प्राप्तवान्।। कोष़िक्कोट्, वयनाट्, कासर्कोट् इत्येतेषु जनपदेषु वर्षदुष्प्रभावेण चत्वारः जनाः मृताः। 

  केरलस्य उत्तरजनपदेषु अतिवृष्टिः अनुवर्तते। वृष्ट्या सह प्रचण्डवातोSपि वाति इत्येतत् अधिककष्टनष्टानां कारणमभवत्। वृक्षाः वीथीः पतित्वा मार्गस्थगनमभवत्। वाहनान्यपि विशीर्णानि। बहुत्र विद्युत्स्थगनमपि सञ्जातम्। 

  अतिवृष्टिदुष्प्रभावेण जलोपप्लवः जातः इत्यस्मात् सहस्राधिकाः जनाः अभयस्थानानि नीताः। पालक्काट् जनपदस्थस्य मलम्पुष़ा सेतोः अधिकजलनिर्गमनद्वाराणि सर्वाणि उद्घाटितानि। 

  दक्षिणकेरले शक्ता वृष्टिः भवत्यपि नाशनष्टाः तारतम्येन न्यूनाः वर्तन्ते।

Saturday, July 16, 2022

राज्ये स्वतन्त्रतादिवसीयविरामदिनम् उतरप्रदेशसर्वकारेण निरस्तम्। विद्यालयाः उद्घाटयिष्यन्ति। शुचीकरणप्रवर्तनानि आयोजयिष्यन्ति।

लख्नौ> स्वतन्त्रतादिवसस्य विरामः उत्तरप्रदेशसर्वकारेण निरस्तम्। सर्वकारः, सर्वकारेतरसंस्थाः विद्यालयाः, महाविद्यालयाः, विश्वविद्यालयाः, आपणानि इत्यादीनि सर्वणि स्वतन्त्रतादिने उद्घाटयिष्यन्ति। स्वतन्त्रतायाः पञ्चसप्ततितम संवत्सरीयमहोत्सवानुबन्धितया स्वतन्त्रतादिनाचरणं विशेषकार्यक्रमैः साकं समाचरिष्यन्ति इति उत्तरप्रदेशास्य मुख्यमन्त्रिणा योगी आदित्यनाथेन आवेदितम्।

Friday, July 15, 2022

 भारते वानरवसूरिरोगः दृढीकृतः।

अनन्तपुरी> भारते इदंप्रथमतया वानरवसूरिरोगः दृढीकृतः।  दिनद्वयात्पूर्वं यू ए ई राष्ट्रात् स्वराज्यं प्राप्तस्य कोल्लं प्रदेशीयस्य केरलीयस्य शरीरे परिशोधिते  एवास्य रोगस्य स्थिरीकरणम्। 

  यू ए ईस्थे मित्रे वानरवसूरिः स्थिरीकृतः इत्यस्मात् केरलं प्राप्तः कोल्लं प्रदेशीयः समीपस्थं आतुरालयं प्रविश्य परिशोधनां कृतवानासीत्। पूणैस्थं Virology Institute मध्ये शोधिते स्रवे वानरवसूरिरोगस्य सूक्ष्माणवः दृष्टाः। अतः सः इदानीं अनन्तपुरी मेडिक्कल् कोलज् आतुरालयं प्रवेशितः।

 गोताबाय राजपक्से त्यागपत्रं समार्पयत्।


कोलम्बो> श्रीलङ्कायां जन कीयप्रक्षोभस्य विजयप्रारम्भः। राष्ट्रात् पलायितः राष्ट्रपतिः गोताबाय राजपक्से त्यागपत्रं समार्पयत्। सिङ्गप्पुरतः तस्य त्यागपत्रं 'ई-मेल्'द्वारा लब्धमिति सभाध्यक्षस्य महिन्दयाप अभयवर्धनस्य कार्यालयात् निगदितम्। किन्तु औद्योगिक प्रख्यापनं शुक्रवासरे एव भविष्यतीति अन्ताराष्ट्रियमाध्यमैः प्रस्तुतम्।

   बुधवासरे राष्ट्रं त्यक्त्वा मालिद्वीपं प्राप्तवान्  गोतबायः सुरक्षितस्थानमालक्ष्य गुरुवासरे सिङ्गप्पुरं प्राप्तः इति तद्देशीयविदेशमन्त्रालयेन स्थिरीकृतम्। किन्तु तेन अभयार्थित्वं नापेक्षितमिति अधिकृतैः उक्तम्।

उत्तरप्रदेशसंस्कृतसंस्थानेन संगणक-ई-संसाधन-कार्यशालायाः शुभारम्भः।

 राष्ट्रियशिक्षानीति: २०२० इत्याधारिते नवीनपाठ्यक्रमेषु संगणकेन सह ई-संसाधनानां ज्ञानम् अपेक्षितमस्ति। अतः संस्कृतविकासाय संगणकस्य, ई-संसाधनानाञ्चोपयोगिता विषयिण्याः सप्तदिवसीयायाः कार्यशालायाः शुभारम्भो जातः। संस्थानस्य माननीया अध्यक्षमहोदयाः आचार्या वाचस्पतिमिश्रमहोदयाः स्वकीयमार्गदर्शनं विधाय शुभारम्भं कृतवन्तः।

कार्यशालायाम् आभारताद् षड् शताधिकाः शिक्षकाः, छात्राश्च प्रतिभागितायै पञ्जीयनं कारितवन्तः सन्ति। अधिकजनानां जिज्ञासां दृष्ट्वा सत्रद्वये समायोजिता वर्तते कार्यशाला। 

उद्घाटनानन्तरं प्रथमसत्रे दिल्ली विश्वविद्यालयतः डॉ॰ उमेशकुमारसिंहमहोदयाः संस्कृते लेखनाय विभिन्नटूल्स-लिपिविषये व्याख्यानं प्रयोगञ्च कारितवन्तः। द्वितीयसत्रे संस्थानस्य प्रशासनिकाधिकारिणः श्रीमन्तो जगदानन्दझामहोदयाः संगणकस्य परिचयं सविस्तरं बोधितवन्तः।


अन्ते पर्यवेक्षकरूपेणोपस्थिताः डॉ॰ नवलता-महोदयाः अपि सम्बोधितवत्यः। कार्यशालायाः सञ्चालनं संयोजकः डॉ॰ चन्द्रकान्तदत्तशुक्लवर्याः कृतवन्तः। आदौ प्रखरप्रांशुलपाण्डेयौ सरस्वतीवन्दनां प्रस्तुतवन्तौ। डॉ॰ अरविन्दकुमारतिवारी, डॉ॰ गीता शुक्ला, डॉ॰ विमलेन्दुत्रिपाठी, डॉ॰ अवनीन्द्रपाण्डेयप्रभृतयः समुपस्थिता आसन्।

Thursday, July 14, 2022

 १८ - ५९ वयस्कानां कृते कोविड्वाक्सिनस्य अधिकमात्राः निश्शुल्केन। 

नवदिल्ली> १८ - ५९ वयस्कानां कृते कोविड्वाक्सिनस्य अधिकमात्राः निश्शुल्केन दातुं केन्द्रसर्वकारेण निर्णीतम्। जूलाय् मासस्य १५ तम दिनाङ्कादारभ्य ७५ दिनानि यावत् एतदानुकूल्यं लभते। राष्ट्रस्य स्वतन्त्रतायाः ७५ तम वार्षिकोत्सवस्य अंशतया एवायं निर्णयः।

   सेप्तम्बर् २७ दिनाङ्कपर्यन्तं आराष्ट्रं सर्वकारातुरालयानां सूचीकरणकेन्द्रेषु सुवेधेयं लभते इति स्वास्थ्यमन्त्रिणा अनुरागठक्कुरेण निगदितम्।

 आबन्धं सम्पूर्णं तारपुञ्जः नासया जेयिंस् जाले वाननिरीक्षिण्या आलेखितं चित्रं प्रकाशिम्।

भूमिः आकाशः च मिलित्वा प्रपञ्चदृश्यानि सर्वेषां कौतुकावहमेव। तादृशेषु दृश्येषु आकाशगङ्गायाः अनुपममेकं चित्रं अमेरिक्कस्य बहिराकाशसंस्थया प्रकाशितम्।स मीपकाले नासया विक्षिप्ता जेयिंस् -जाल - वाननिरीक्षिण्या आलिखितं औद्योगिकतया प्रकाशितं प्रथमं दृश्यं भवति एतत्। यु एस् राष्ट्रपतिना जो बैडनेन चित्रस्य प्रकाशनं कृतम्।

Wednesday, July 13, 2022

 राशिमूल्यशोषणं जूण्मासे ७. ०१प्रतिशतम्। 

मुम्बई> भारते उपभोक्तृमूल्यसूचिकामाधारीकृत्य राशिवर्धनं २०२२ जूण् मासे ७. ०१प्रतिशतम् अभवत्। २०२१ जूण् मासे एतत् ६. २६ आसीत्। 

  मेय् मासे पेट्रोलियम् इन्धनानां मूल्ये केन्द्रसर्वकारः अपचितिमकारयत्। किन्तु तस्य प्रयोजनम् इतःपर्यन्तं न लब्धमिति आर्थिकविचक्षणैः अनुमीयते।

Tuesday, July 12, 2022

 भारते १६,६७८ जनाः अपि कोविड्बाधिताः अभवन्।

नवदिल्ली> सोमवासरे प्रभाते समाप्तासु २४ होरासु राष्ट्रे १६,६७८ नूतनाः कोविड्रोगिणः इति दृढीकृतम्। २६ मरणानि अभवन्। प्रतिदिनरोगदृढीकरणमानं ५. ९९ जातम्। 

  १,३०,७१३ जनाः परिचर्यायां वर्तन्ते। १९८. ८८कोटि परिमिताः वाक्सिनमात्राः वितारिताः।

 नूतनसंसद्सभामन्दिरस्योपरिस्थम् अतिबृहत्तमं राष्ट्रचिह्नं प्रधानमन्त्रिणा नरेन्द्रमोदिना अनाच्छादितम्।


नवदिल्ली> नूतनसंसद्सभामन्दिरस्य छ्दे स्थापितस्य राष्ट्रचिह्नस्य अनाच्छादनं प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतम्। कांस्येन निर्मितस्य राष्ट्रचिह्नस्य प्रतिरूपस्य (model) ९५०० किलोमितः भारः तथा ६.५ मीट्टर् औनत्यं च अस्ति। राष्ट्रचिह्नस्य आश्रयरूपेण ६५०० किलो भारमिता सुविधा एव सज्जीकृता इति सर्वकारमण्डलैः आवेदितम्।

Monday, July 11, 2022

 बि एस् एन् एल् संस्थायाः ४-जि शब्ददृश्यरङ्गावली न लब्धा।


राष्ट्रे ५-जि शब्ददृश्यरङ्गावल्याः (spectrum) सोत्सव विक्रयणं समीपकाले भविष्यति। सन्दर्भे अस्मिन् सर्वकाराधीनसेवनदात्रा बि एस् एन् एल् इत्यनेन ४-जि सेवाः समारब्धुं न शक्यन्ते। बि एस् एन् एल् संस्थायाः तथा एम् टि एन् एल् इत्यस्य च कृते सर्वकारेण निश्चितपरिमाणयुक्तां शब्ददृश्यरङ्गावलीं दातुं निश्चिता अस्ति। किन्तु मन्त्रिपरिषदः अङ्गीकारलब्ध्यनन्तरमेव तरङ्गावली प्रदानप्रक्रमाः पूर्तिकर्तुं शक्यते इति भारतसञ्चारनिगमविभागेन उच्यते। ९००/१८०० मेगाहेर्ट्स्  शब्ददृश्यतरङ्गावलीं दातुं पर्यालोच्यते इति मन्त्रालयेन निगदितम्।

Sunday, July 10, 2022

भारतराष्ट्रे अधिकतया जन्तुवर्गान् प्रत्यभिज्ञातेषु राज्येषु केरलं प्रथमश्रेण्याम्।


केरलम्> २०२१ संवत्सरे भारते अधिकतया जन्तुवर्गान् प्रत्यभिज्ञातेषु राज्येषु केरलं प्रथमस्थानमावहत्। भारतीय-प्राणिविज्ञान- सर्वेषणमण्डलस्य वार्षिकप्रतिवेदनमनुसृत्य नूतनाः ३६ प्राणिनः केरलदेशात् प्रत्यभिज्ञाताः। गतवर्षे भारते आहत्य ४०६ नूतनभेदाः वर्गीकृताः। केरलदेशात् त्रिविधाः भुजङ्गाः, पञ्चविधाः गोधिकाः सप्तविधाः मण्डूकाः च तेषु अन्तर्भवन्ति। एतदतिरिच्य चित्रपतगाः ,कीटकाः, प्राचिकाः (Dragonfly) वरटाः च पट्टिकायाम् अन्तर्भवन्ति।

 संस्कृतं हृदयभाषा भवति - डो  के पि सुधीरा। 

केरले राज्यस्तरीयसंस्कृताध्यापिकासंगमः सम्पन्नः। 

कोष़िक्कोट्> संस्कृतभाषा न केवलं भारतस्य सांस्कृतिकभाषा किन्तु जनानां हृदयभाषा भवतीति प्रशस्ता साहित्यकारी विद्यावचस्पतिः के पि सुधीरा अवोचत्। छात्राणां हृदयस्पर्शरूपेण संस्कृतम् अध्यापयितुम् अध्यापिकाः प्रभवाः इत्यपि तया उक्तम्। केरलसंस्कृताध्यापकफेडरेषन् संघटनेन आयोजितं षष्ठं राज्यस्तरीयं संस्कृताध्यापिकासंगमं - मातृकं २०२२ नामकं -  उद्घाटनं कुर्वती भाषमाणा आसीत् सा। 

  कोष़िक्कोट् नगरे सम्पन्ने  सम्मेलने पद्मश्री पुरस्कारलब्धा मीनाक्षी गुरुः समादृता। कोष़िक्कोट् विश्वविद्यालयस्य संस्कृत विभागाध्यक्षा प्रो के के गीताकुमारी । आकाशवाण्याः कलाकारी गीतादेवी वासुदेवः आशंसां कृतवती। 

   सम्मेलनेSस्मिन् संघटनस्य राज्यस्तरीयाध्यक्षः नीलमन शङ्करः अध्यक्ष आसीत्।  कार्यदर्शिप्रमुखः सि पि सलनचन्द्रः संघटनासन्देशमकरोत्।के एस् टि एफ् [पि] विभागस्य अध्यक्षः एन् एन् रामः,सि पि शैलजा, के विन्ध्या, के विजयलक्ष्मी, बिन्सी , पि रेवती इत्येते  प्रभाषणमकुर्वन्। सम्मेलनस्य अंशतया शीतल् एस् कुमारेण अवतारिता अष्टपदी अपि आसीत्।

श्रीलङ्कायाम् आभ्यन्तरकलापः अतिरूक्षः जातः। प्रधानमन्त्रिणा रनिल् विक्रमसिंगेन त्यागपत्रं समर्पितम्।

कोलम्बो>श्रीलङ्कायाः प्रधानमन्त्रिणा रनिल् विक्रमसिंगेन त्यागपत्रं समर्पितम्। राष्ट्रे आभ्यन्तरकलापे रूक्षे जाते सन्दर्भे एव प्रधानमन्त्रिणः त्यागपत्रसमर्पणम्। सर्वकारस्य अनुवर्तनदृढीकरणं तथा राष्ट्रे जनानां सुरक्षितत्वं च परिगणय्य अधिकारस्य परित्यागं ख्यापयामि इति विक्रमसिंगेन ट्वीट् कृतम्। दलनेतॄणाम् प्रार्थनामनुसृत्य संयुक्तदलीयसर्वकारः रूपीकरिष्यति इति विक्रमसिंगेन प्रोक्तम्।

Saturday, July 9, 2022

लडाक् सीम्नि विमानं डाययित्वा चीनः प्रकोपयति।


नवदिल्ली> भारतसीम्नि संघर्षं जनयितुं चीनेन परिश्रमः कृतः इति भारतसर्वकारः। जूण् मासस्य अन्तिमे पादे भारतचीनयोः सीम्नि नियन्त्रणरेखायाः समीपे चीनेन विमानः डायितः। भारतीयव्योमसेनया सन्दर्भोचितपूर्वोपायप्रक्रमाः स्वीकृताः इति सर्वकारमण्डलैः आवेदितम्। मासानाम् आभ्यन्तरे प्रथमतया एव चीनस्प एतादृशं व्योमसीमालङ्घनम् इति सर्वकारमण्डलैः आवेदितम्।