OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 15, 2022

 गोताबाय राजपक्से त्यागपत्रं समार्पयत्।


कोलम्बो> श्रीलङ्कायां जन कीयप्रक्षोभस्य विजयप्रारम्भः। राष्ट्रात् पलायितः राष्ट्रपतिः गोताबाय राजपक्से त्यागपत्रं समार्पयत्। सिङ्गप्पुरतः तस्य त्यागपत्रं 'ई-मेल्'द्वारा लब्धमिति सभाध्यक्षस्य महिन्दयाप अभयवर्धनस्य कार्यालयात् निगदितम्। किन्तु औद्योगिक प्रख्यापनं शुक्रवासरे एव भविष्यतीति अन्ताराष्ट्रियमाध्यमैः प्रस्तुतम्।

   बुधवासरे राष्ट्रं त्यक्त्वा मालिद्वीपं प्राप्तवान्  गोतबायः सुरक्षितस्थानमालक्ष्य गुरुवासरे सिङ्गप्पुरं प्राप्तः इति तद्देशीयविदेशमन्त्रालयेन स्थिरीकृतम्। किन्तु तेन अभयार्थित्वं नापेक्षितमिति अधिकृतैः उक्तम्।

उत्तरप्रदेशसंस्कृतसंस्थानेन संगणक-ई-संसाधन-कार्यशालायाः शुभारम्भः।

 राष्ट्रियशिक्षानीति: २०२० इत्याधारिते नवीनपाठ्यक्रमेषु संगणकेन सह ई-संसाधनानां ज्ञानम् अपेक्षितमस्ति। अतः संस्कृतविकासाय संगणकस्य, ई-संसाधनानाञ्चोपयोगिता विषयिण्याः सप्तदिवसीयायाः कार्यशालायाः शुभारम्भो जातः। संस्थानस्य माननीया अध्यक्षमहोदयाः आचार्या वाचस्पतिमिश्रमहोदयाः स्वकीयमार्गदर्शनं विधाय शुभारम्भं कृतवन्तः।

कार्यशालायाम् आभारताद् षड् शताधिकाः शिक्षकाः, छात्राश्च प्रतिभागितायै पञ्जीयनं कारितवन्तः सन्ति। अधिकजनानां जिज्ञासां दृष्ट्वा सत्रद्वये समायोजिता वर्तते कार्यशाला। 

उद्घाटनानन्तरं प्रथमसत्रे दिल्ली विश्वविद्यालयतः डॉ॰ उमेशकुमारसिंहमहोदयाः संस्कृते लेखनाय विभिन्नटूल्स-लिपिविषये व्याख्यानं प्रयोगञ्च कारितवन्तः। द्वितीयसत्रे संस्थानस्य प्रशासनिकाधिकारिणः श्रीमन्तो जगदानन्दझामहोदयाः संगणकस्य परिचयं सविस्तरं बोधितवन्तः।


अन्ते पर्यवेक्षकरूपेणोपस्थिताः डॉ॰ नवलता-महोदयाः अपि सम्बोधितवत्यः। कार्यशालायाः सञ्चालनं संयोजकः डॉ॰ चन्द्रकान्तदत्तशुक्लवर्याः कृतवन्तः। आदौ प्रखरप्रांशुलपाण्डेयौ सरस्वतीवन्दनां प्रस्तुतवन्तौ। डॉ॰ अरविन्दकुमारतिवारी, डॉ॰ गीता शुक्ला, डॉ॰ विमलेन्दुत्रिपाठी, डॉ॰ अवनीन्द्रपाण्डेयप्रभृतयः समुपस्थिता आसन्।

Thursday, July 14, 2022

 १८ - ५९ वयस्कानां कृते कोविड्वाक्सिनस्य अधिकमात्राः निश्शुल्केन। 

नवदिल्ली> १८ - ५९ वयस्कानां कृते कोविड्वाक्सिनस्य अधिकमात्राः निश्शुल्केन दातुं केन्द्रसर्वकारेण निर्णीतम्। जूलाय् मासस्य १५ तम दिनाङ्कादारभ्य ७५ दिनानि यावत् एतदानुकूल्यं लभते। राष्ट्रस्य स्वतन्त्रतायाः ७५ तम वार्षिकोत्सवस्य अंशतया एवायं निर्णयः।

   सेप्तम्बर् २७ दिनाङ्कपर्यन्तं आराष्ट्रं सर्वकारातुरालयानां सूचीकरणकेन्द्रेषु सुवेधेयं लभते इति स्वास्थ्यमन्त्रिणा अनुरागठक्कुरेण निगदितम्।

 आबन्धं सम्पूर्णं तारपुञ्जः नासया जेयिंस् जाले वाननिरीक्षिण्या आलेखितं चित्रं प्रकाशिम्।

भूमिः आकाशः च मिलित्वा प्रपञ्चदृश्यानि सर्वेषां कौतुकावहमेव। तादृशेषु दृश्येषु आकाशगङ्गायाः अनुपममेकं चित्रं अमेरिक्कस्य बहिराकाशसंस्थया प्रकाशितम्।स मीपकाले नासया विक्षिप्ता जेयिंस् -जाल - वाननिरीक्षिण्या आलिखितं औद्योगिकतया प्रकाशितं प्रथमं दृश्यं भवति एतत्। यु एस् राष्ट्रपतिना जो बैडनेन चित्रस्य प्रकाशनं कृतम्।

Wednesday, July 13, 2022

 राशिमूल्यशोषणं जूण्मासे ७. ०१प्रतिशतम्। 

मुम्बई> भारते उपभोक्तृमूल्यसूचिकामाधारीकृत्य राशिवर्धनं २०२२ जूण् मासे ७. ०१प्रतिशतम् अभवत्। २०२१ जूण् मासे एतत् ६. २६ आसीत्। 

  मेय् मासे पेट्रोलियम् इन्धनानां मूल्ये केन्द्रसर्वकारः अपचितिमकारयत्। किन्तु तस्य प्रयोजनम् इतःपर्यन्तं न लब्धमिति आर्थिकविचक्षणैः अनुमीयते।

Tuesday, July 12, 2022

 भारते १६,६७८ जनाः अपि कोविड्बाधिताः अभवन्।

नवदिल्ली> सोमवासरे प्रभाते समाप्तासु २४ होरासु राष्ट्रे १६,६७८ नूतनाः कोविड्रोगिणः इति दृढीकृतम्। २६ मरणानि अभवन्। प्रतिदिनरोगदृढीकरणमानं ५. ९९ जातम्। 

  १,३०,७१३ जनाः परिचर्यायां वर्तन्ते। १९८. ८८कोटि परिमिताः वाक्सिनमात्राः वितारिताः।

 नूतनसंसद्सभामन्दिरस्योपरिस्थम् अतिबृहत्तमं राष्ट्रचिह्नं प्रधानमन्त्रिणा नरेन्द्रमोदिना अनाच्छादितम्।


नवदिल्ली> नूतनसंसद्सभामन्दिरस्य छ्दे स्थापितस्य राष्ट्रचिह्नस्य अनाच्छादनं प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतम्। कांस्येन निर्मितस्य राष्ट्रचिह्नस्य प्रतिरूपस्य (model) ९५०० किलोमितः भारः तथा ६.५ मीट्टर् औनत्यं च अस्ति। राष्ट्रचिह्नस्य आश्रयरूपेण ६५०० किलो भारमिता सुविधा एव सज्जीकृता इति सर्वकारमण्डलैः आवेदितम्।

Monday, July 11, 2022

 बि एस् एन् एल् संस्थायाः ४-जि शब्ददृश्यरङ्गावली न लब्धा।


राष्ट्रे ५-जि शब्ददृश्यरङ्गावल्याः (spectrum) सोत्सव विक्रयणं समीपकाले भविष्यति। सन्दर्भे अस्मिन् सर्वकाराधीनसेवनदात्रा बि एस् एन् एल् इत्यनेन ४-जि सेवाः समारब्धुं न शक्यन्ते। बि एस् एन् एल् संस्थायाः तथा एम् टि एन् एल् इत्यस्य च कृते सर्वकारेण निश्चितपरिमाणयुक्तां शब्ददृश्यरङ्गावलीं दातुं निश्चिता अस्ति। किन्तु मन्त्रिपरिषदः अङ्गीकारलब्ध्यनन्तरमेव तरङ्गावली प्रदानप्रक्रमाः पूर्तिकर्तुं शक्यते इति भारतसञ्चारनिगमविभागेन उच्यते। ९००/१८०० मेगाहेर्ट्स्  शब्ददृश्यतरङ्गावलीं दातुं पर्यालोच्यते इति मन्त्रालयेन निगदितम्।

Sunday, July 10, 2022

भारतराष्ट्रे अधिकतया जन्तुवर्गान् प्रत्यभिज्ञातेषु राज्येषु केरलं प्रथमश्रेण्याम्।


केरलम्> २०२१ संवत्सरे भारते अधिकतया जन्तुवर्गान् प्रत्यभिज्ञातेषु राज्येषु केरलं प्रथमस्थानमावहत्। भारतीय-प्राणिविज्ञान- सर्वेषणमण्डलस्य वार्षिकप्रतिवेदनमनुसृत्य नूतनाः ३६ प्राणिनः केरलदेशात् प्रत्यभिज्ञाताः। गतवर्षे भारते आहत्य ४०६ नूतनभेदाः वर्गीकृताः। केरलदेशात् त्रिविधाः भुजङ्गाः, पञ्चविधाः गोधिकाः सप्तविधाः मण्डूकाः च तेषु अन्तर्भवन्ति। एतदतिरिच्य चित्रपतगाः ,कीटकाः, प्राचिकाः (Dragonfly) वरटाः च पट्टिकायाम् अन्तर्भवन्ति।

 संस्कृतं हृदयभाषा भवति - डो  के पि सुधीरा। 

केरले राज्यस्तरीयसंस्कृताध्यापिकासंगमः सम्पन्नः। 

कोष़िक्कोट्> संस्कृतभाषा न केवलं भारतस्य सांस्कृतिकभाषा किन्तु जनानां हृदयभाषा भवतीति प्रशस्ता साहित्यकारी विद्यावचस्पतिः के पि सुधीरा अवोचत्। छात्राणां हृदयस्पर्शरूपेण संस्कृतम् अध्यापयितुम् अध्यापिकाः प्रभवाः इत्यपि तया उक्तम्। केरलसंस्कृताध्यापकफेडरेषन् संघटनेन आयोजितं षष्ठं राज्यस्तरीयं संस्कृताध्यापिकासंगमं - मातृकं २०२२ नामकं -  उद्घाटनं कुर्वती भाषमाणा आसीत् सा। 

  कोष़िक्कोट् नगरे सम्पन्ने  सम्मेलने पद्मश्री पुरस्कारलब्धा मीनाक्षी गुरुः समादृता। कोष़िक्कोट् विश्वविद्यालयस्य संस्कृत विभागाध्यक्षा प्रो के के गीताकुमारी । आकाशवाण्याः कलाकारी गीतादेवी वासुदेवः आशंसां कृतवती। 

   सम्मेलनेSस्मिन् संघटनस्य राज्यस्तरीयाध्यक्षः नीलमन शङ्करः अध्यक्ष आसीत्।  कार्यदर्शिप्रमुखः सि पि सलनचन्द्रः संघटनासन्देशमकरोत्।के एस् टि एफ् [पि] विभागस्य अध्यक्षः एन् एन् रामः,सि पि शैलजा, के विन्ध्या, के विजयलक्ष्मी, बिन्सी , पि रेवती इत्येते  प्रभाषणमकुर्वन्। सम्मेलनस्य अंशतया शीतल् एस् कुमारेण अवतारिता अष्टपदी अपि आसीत्।

श्रीलङ्कायाम् आभ्यन्तरकलापः अतिरूक्षः जातः। प्रधानमन्त्रिणा रनिल् विक्रमसिंगेन त्यागपत्रं समर्पितम्।

कोलम्बो>श्रीलङ्कायाः प्रधानमन्त्रिणा रनिल् विक्रमसिंगेन त्यागपत्रं समर्पितम्। राष्ट्रे आभ्यन्तरकलापे रूक्षे जाते सन्दर्भे एव प्रधानमन्त्रिणः त्यागपत्रसमर्पणम्। सर्वकारस्य अनुवर्तनदृढीकरणं तथा राष्ट्रे जनानां सुरक्षितत्वं च परिगणय्य अधिकारस्य परित्यागं ख्यापयामि इति विक्रमसिंगेन ट्वीट् कृतम्। दलनेतॄणाम् प्रार्थनामनुसृत्य संयुक्तदलीयसर्वकारः रूपीकरिष्यति इति विक्रमसिंगेन प्रोक्तम्।

Saturday, July 9, 2022

लडाक् सीम्नि विमानं डाययित्वा चीनः प्रकोपयति।


नवदिल्ली> भारतसीम्नि संघर्षं जनयितुं चीनेन परिश्रमः कृतः इति भारतसर्वकारः। जूण् मासस्य अन्तिमे पादे भारतचीनयोः सीम्नि नियन्त्रणरेखायाः समीपे चीनेन विमानः डायितः। भारतीयव्योमसेनया सन्दर्भोचितपूर्वोपायप्रक्रमाः स्वीकृताः इति सर्वकारमण्डलैः आवेदितम्। मासानाम् आभ्यन्तरे प्रथमतया एव चीनस्प एतादृशं व्योमसीमालङ्घनम् इति सर्वकारमण्डलैः आवेदितम्।

तमिल्नाडे विषूचिका प्रसरति। केरलेषु अपि अतिजाग्रतानिर्देशः। 

एडप्पाल्> विषूचिका  (cholera) प्रसरं अनुवर्त्यमाने तमिल्नाडु राज्ये स्वास्थ्य- आपत्कालीनावस्था प्रख्यापिता। केरलेषु अपि अतिजाग्रतानिर्देशो दत्तः। तमिल्नाडुराज्यस्य समीपप्रदेशेषु तिरुवनन्तपुरं, इडुक्कि, कोल्लं जनपदेषु आहत्य कण्णूर्, कोषिक्कोट्, कासरगोड् जनपथेषु च अतिजाग्रतां पालयितुम् अधिकारिणः निर्दिष्टाः। 'अतिसाररोगप्रतिरोधस्य शक्तीकरणं, रोगं स्थिरीकरोति चेत् अतिनियन्त्रणानि स्वीकर्तुं च जिल्ला चिकित्साधिकारिणं प्रति निर्देशः दत्तः। ओ आर् एस् पानीयं, दस्ता गुलिका (zinc tablet) इत्यादीनि सुलभं कर्तुं तथा तेषां वितरणाय स्वास्थ्यकेन्द्रेषु कोणः (corner) सज्जीकर्तुं च निश्चितः।

अमरनाथमन्दिरसमीपे मेघविस्फोटनम्। पञ्चदश जनाः मृताः। चत्वारिंशत् जनाः अप्रत्यक्षाः जाताः।

 जम्मूकाश्मीर्> जम्मूकाश्मीरे अमरनाथमन्दिरसमीपे मेघविस्फोटनमभवत्। ह्यः सायङ्काले सार्घपञ्चवादने जाते दुरन्ते पञ्चदश जनाः मृताः। चत्वारिंशदधिकजनाः अप्रत्यक्षाः जाताः इति प्रतिवेदनं सूचयति। मरणसंख्या वर्धेत इति सूचना अस्ति। व्रणितान् तीर्थाटकाः व्योममार्गेण आतुरालयं प्रति नीताः। राष्ट्रिय-राज्य दुरन्तनिवारण सेनयोः नेतृत्वे रक्षाप्रवर्तनानि प्रचलन्ति।

 जापानस्य भूतपूर्वः प्रधानमन्त्री भुषुण्डिप्रयोगेण हतः। 


टोक्यो> जापानस्य भूतपूर्वः प्रधानमन्त्री षिन्सो आबे वर्यः [६७] भुषुण्डिप्रयोगेण मारितः। पश्चिमनगरे नारानामके निर्वाचनप्रचारणस्य अंशतया भाषमाणे तस्य पश्चाद्भागतः आसीत् आक्रमणम्। व्योममार्गेण झटित्येव आतुरालयं प्रवेशितः अपि प्राणरक्षा न साधिता। घातक इति सन्दिह्यमानः तेट्सुया यामागामि नामकः   घटनास्थानादेव भुषुण्डिना सह निगृहीतः। 

  जापाने अधिकाधिककालं प्रधानमन्त्रिपदमारूढवान् षिन्सो आबे राष्ट्रस्य आर्थिकमण्डलविकासाय निर्णायकं स्थानमावहत्। भारतस्य आत्ममित्रस्य दुरन्ते प्रधानमन्त्री नरेन्द्रमोदी अनुशोचनं प्राकाशयत्। आदरसूचकेन एकदिवसीयं दुःखाचरणं प्रख्यापितम्।

Friday, July 8, 2022

पूर्वकालानुभवाः सन्ति। पोर्चुगलः दावाग्निं प्रतिरोद्धुं सज्जते।

अतितापेन जायमानं दावाग्निं प्रतिरोद्धुं पोर्चुगलः सज्जते। प्रतिरोधप्रक्रमार्थं सर्वकारसंघटनस्य व्यवहारसंरक्षणसमित्या (civil protection agency) कर्मकराः नियुक्ताः। राष्ट्रस्य त्रिषु भागेषु एकभागः वनप्रदेशः भवति। तत्र दावाग्निसाध्यता अस्ति। अतः आराष्ट्रं जागरूकतानिर्देशः प्रदत्तः अस्ति। कार्यक्रमेषु प्रस्फोटकादीनां उपयोगः निरुध्यते। राष्ट्रे अर्धाधिके दावाग्नयः अनवधानताकारणेन एव जाताः इति अध्ययनानि सूचयन्ति। अतः एव अधिके सुरक्षाप्रक्रमाः राष्ट्रेण स्वीकृताः।

 बोरिस् जोण्सणः त्यागपत्रं समर्पितवान्। 


लण्टन् > ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणः पदमत्यजत्। तेन नेतृत्वं क्रियमाणात् 'कण्सर्वेटीव् पार्टी' इत्यस्मात् क्लेशे वर्धिते नेतृस्थानं त्यक्तुं सः निर्बन्धितः आसीत्। नूतननेतुः निर्वाचनं तावत् प्रधानमन्त्रिपदे अनुवर्ते इति गतदिने तेन स्पष्टीकृतम्। नूतननेतुः निर्वाचनाय संघटनस्य वरिष्ठनेतृजनानाम् उपवेशनं सोमवासरे भविष्यतीति जोण्सणः अवोचत्। 

  लैङ्गिकारोपणविधेयं क्रिस्टफर् पिञ्चर् नामकस्य   Deputy chief whip स्थाननियुक्तिरेव जोण्सणस्य क्लेशपरम्परायाः प्रारम्भः। पिञ्चरस्य स्थानारोहणात्परं बहवः मन्त्रिणः स्वस्थानानि त्यक्त्वा प्रतिषेधं प्रकटितवन्तः। एवं ४० नेतारः मन्त्रिणश्च प्रशासनात् संघटनाच्च त्यागपत्रे समर्पिते बोरिस् जोण्सणस्य स्थानत्यागश्च अनिवार्यः अभवत्।

Thursday, July 7, 2022

 पि टि उषा, इलयराजाप्रभृतयः चत्वारः राज्यसभां प्रति नामनिर्दिष्टाः।

नवदिल्ली> ओलिम्पिक्स् स्पर्धात्री पि टि उषा, प्रसिद्धः सङ्गीतनिदेशकः इलयराजा, चलच्चित्रनिदेशकः के वि विजयेन्द्रप्रसादः, सामाजिकप्रवर्तकः वीरेन्द्र हेग्डे इत्यते राष्ट्रपतिना राज्यसभासदस्यरूपेण नियुक्ताः। चत्वार अपि दक्षिणभारतीयाः भवन्ति। 

   नूतनान् राज्यसभासदस्यानपि प्रधानमन्त्री नरेन्द्रमोदी अभिनन्दितवान्। विविधमण्डलेषु स्वप्रतिभां प्रकाशितवतां १२ महापुरुषाणां नामानि  निर्दिष्टानि  भवन्ति।