गोताबाय राजपक्से त्यागपत्रं समार्पयत्।
बुधवासरे राष्ट्रं त्यक्त्वा मालिद्वीपं प्राप्तवान् गोतबायः सुरक्षितस्थानमालक्ष्य गुरुवासरे सिङ्गप्पुरं प्राप्तः इति तद्देशीयविदेशमन्त्रालयेन स्थिरीकृतम्। किन्तु तेन अभयार्थित्वं नापेक्षितमिति अधिकृतैः उक्तम्।
गोताबाय राजपक्से त्यागपत्रं समार्पयत्।
बुधवासरे राष्ट्रं त्यक्त्वा मालिद्वीपं प्राप्तवान् गोतबायः सुरक्षितस्थानमालक्ष्य गुरुवासरे सिङ्गप्पुरं प्राप्तः इति तद्देशीयविदेशमन्त्रालयेन स्थिरीकृतम्। किन्तु तेन अभयार्थित्वं नापेक्षितमिति अधिकृतैः उक्तम्।
उत्तरप्रदेशसंस्कृतसंस्थानेन संगणक-ई-संसाधन-कार्यशालायाः शुभारम्भः।
कार्यशालायाम् आभारताद् षड् शताधिकाः शिक्षकाः, छात्राश्च प्रतिभागितायै पञ्जीयनं कारितवन्तः सन्ति। अधिकजनानां जिज्ञासां दृष्ट्वा सत्रद्वये समायोजिता वर्तते कार्यशाला।
उद्घाटनानन्तरं प्रथमसत्रे दिल्ली विश्वविद्यालयतः डॉ॰ उमेशकुमारसिंहमहोदयाः संस्कृते लेखनाय विभिन्नटूल्स-लिपिविषये व्याख्यानं प्रयोगञ्च कारितवन्तः। द्वितीयसत्रे संस्थानस्य प्रशासनिकाधिकारिणः श्रीमन्तो जगदानन्दझामहोदयाः संगणकस्य परिचयं सविस्तरं बोधितवन्तः।
अन्ते पर्यवेक्षकरूपेणोपस्थिताः डॉ॰ नवलता-महोदयाः अपि सम्बोधितवत्यः। कार्यशालायाः सञ्चालनं संयोजकः डॉ॰ चन्द्रकान्तदत्तशुक्लवर्याः कृतवन्तः। आदौ प्रखरप्रांशुलपाण्डेयौ सरस्वतीवन्दनां प्रस्तुतवन्तौ। डॉ॰ अरविन्दकुमारतिवारी, डॉ॰ गीता शुक्ला, डॉ॰ विमलेन्दुत्रिपाठी, डॉ॰ अवनीन्द्रपाण्डेयप्रभृतयः समुपस्थिता आसन्।
१८ - ५९ वयस्कानां कृते कोविड्वाक्सिनस्य अधिकमात्राः निश्शुल्केन।
नवदिल्ली> १८ - ५९ वयस्कानां कृते कोविड्वाक्सिनस्य अधिकमात्राः निश्शुल्केन दातुं केन्द्रसर्वकारेण निर्णीतम्। जूलाय् मासस्य १५ तम दिनाङ्कादारभ्य ७५ दिनानि यावत् एतदानुकूल्यं लभते। राष्ट्रस्य स्वतन्त्रतायाः ७५ तम वार्षिकोत्सवस्य अंशतया एवायं निर्णयः।
सेप्तम्बर् २७ दिनाङ्कपर्यन्तं आराष्ट्रं सर्वकारातुरालयानां सूचीकरणकेन्द्रेषु सुवेधेयं लभते इति स्वास्थ्यमन्त्रिणा अनुरागठक्कुरेण निगदितम्।
आबन्धं सम्पूर्णं तारपुञ्जः नासया जेयिंस् जाले वाननिरीक्षिण्या आलेखितं चित्रं प्रकाशिम्।
राशिमूल्यशोषणं जूण्मासे ७. ०१प्रतिशतम्।
मुम्बई> भारते उपभोक्तृमूल्यसूचिकामाधारीकृत्य राशिवर्धनं २०२२ जूण् मासे ७. ०१प्रतिशतम् अभवत्। २०२१ जूण् मासे एतत् ६. २६ आसीत्।
मेय् मासे पेट्रोलियम् इन्धनानां मूल्ये केन्द्रसर्वकारः अपचितिमकारयत्। किन्तु तस्य प्रयोजनम् इतःपर्यन्तं न लब्धमिति आर्थिकविचक्षणैः अनुमीयते।
नूतनसंसद्सभामन्दिरस्योपरिस्थम् अतिबृहत्तमं राष्ट्रचिह्नं प्रधानमन्त्रिणा नरेन्द्रमोदिना अनाच्छादितम्।
बि एस् एन् एल् संस्थायाः ४-जि शब्ददृश्यरङ्गावली न लब्धा।
भारतराष्ट्रे अधिकतया जन्तुवर्गान् प्रत्यभिज्ञातेषु राज्येषु केरलं प्रथमश्रेण्याम्।
संस्कृतं हृदयभाषा भवति - डो के पि सुधीरा।
केरले राज्यस्तरीयसंस्कृताध्यापिकासंगमः सम्पन्नः।
कोष़िक्कोट्> संस्कृतभाषा न केवलं भारतस्य सांस्कृतिकभाषा किन्तु जनानां हृदयभाषा भवतीति प्रशस्ता साहित्यकारी विद्यावचस्पतिः के पि सुधीरा अवोचत्। छात्राणां हृदयस्पर्शरूपेण संस्कृतम् अध्यापयितुम् अध्यापिकाः प्रभवाः इत्यपि तया उक्तम्। केरलसंस्कृताध्यापकफेडरेषन् संघटनेन आयोजितं षष्ठं राज्यस्तरीयं संस्कृताध्यापिकासंगमं - मातृकं २०२२ नामकं - उद्घाटनं कुर्वती भाषमाणा आसीत् सा।
कोष़िक्कोट् नगरे सम्पन्ने सम्मेलने पद्मश्री पुरस्कारलब्धा मीनाक्षी गुरुः समादृता। कोष़िक्कोट् विश्वविद्यालयस्य संस्कृत विभागाध्यक्षा प्रो के के गीताकुमारी । आकाशवाण्याः कलाकारी गीतादेवी वासुदेवः आशंसां कृतवती।
सम्मेलनेSस्मिन् संघटनस्य राज्यस्तरीयाध्यक्षः नीलमन शङ्करः अध्यक्ष आसीत्। कार्यदर्शिप्रमुखः सि पि सलनचन्द्रः संघटनासन्देशमकरोत्।के एस् टि एफ् [पि] विभागस्य अध्यक्षः एन् एन् रामः,सि पि शैलजा, के विन्ध्या, के विजयलक्ष्मी, बिन्सी , पि रेवती इत्येते प्रभाषणमकुर्वन्। सम्मेलनस्य अंशतया शीतल् एस् कुमारेण अवतारिता अष्टपदी अपि आसीत्।
श्रीलङ्कायाम् आभ्यन्तरकलापः अतिरूक्षः जातः। प्रधानमन्त्रिणा रनिल् विक्रमसिंगेन त्यागपत्रं समर्पितम्।
कोलम्बो>श्रीलङ्कायाः प्रधानमन्त्रिणा रनिल् विक्रमसिंगेन त्यागपत्रं समर्पितम्। राष्ट्रे आभ्यन्तरकलापे रूक्षे जाते सन्दर्भे एव प्रधानमन्त्रिणः त्यागपत्रसमर्पणम्। सर्वकारस्य अनुवर्तनदृढीकरणं तथा राष्ट्रे जनानां सुरक्षितत्वं च परिगणय्य अधिकारस्य परित्यागं ख्यापयामि इति विक्रमसिंगेन ट्वीट् कृतम्। दलनेतॄणाम् प्रार्थनामनुसृत्य संयुक्तदलीयसर्वकारः रूपीकरिष्यति इति विक्रमसिंगेन प्रोक्तम्।
लडाक् सीम्नि विमानं डाययित्वा चीनः प्रकोपयति।
तमिल्नाडे विषूचिका प्रसरति। केरलेषु अपि अतिजाग्रतानिर्देशः।
एडप्पाल्> विषूचिका (cholera) प्रसरं अनुवर्त्यमाने तमिल्नाडु राज्ये स्वास्थ्य- आपत्कालीनावस्था प्रख्यापिता। केरलेषु अपि अतिजाग्रतानिर्देशो दत्तः। तमिल्नाडुराज्यस्य समीपप्रदेशेषु तिरुवनन्तपुरं, इडुक्कि, कोल्लं जनपदेषु आहत्य कण्णूर्, कोषिक्कोट्, कासरगोड् जनपथेषु च अतिजाग्रतां पालयितुम् अधिकारिणः निर्दिष्टाः। 'अतिसाररोगप्रतिरोधस्य शक्तीकरणं, रोगं स्थिरीकरोति चेत् अतिनियन्त्रणानि स्वीकर्तुं च जिल्ला चिकित्साधिकारिणं प्रति निर्देशः दत्तः। ओ आर् एस् पानीयं, दस्ता गुलिका (zinc tablet) इत्यादीनि सुलभं कर्तुं तथा तेषां वितरणाय स्वास्थ्यकेन्द्रेषु कोणः (corner) सज्जीकर्तुं च निश्चितः।
अमरनाथमन्दिरसमीपे मेघविस्फोटनम्। पञ्चदश जनाः मृताः। चत्वारिंशत् जनाः अप्रत्यक्षाः जाताः।
जम्मूकाश्मीर्> जम्मूकाश्मीरे अमरनाथमन्दिरसमीपे मेघविस्फोटनमभवत्। ह्यः सायङ्काले सार्घपञ्चवादने जाते दुरन्ते पञ्चदश जनाः मृताः। चत्वारिंशदधिकजनाः अप्रत्यक्षाः जाताः इति प्रतिवेदनं सूचयति। मरणसंख्या वर्धेत इति सूचना अस्ति। व्रणितान् तीर्थाटकाः व्योममार्गेण आतुरालयं प्रति नीताः। राष्ट्रिय-राज्य दुरन्तनिवारण सेनयोः नेतृत्वे रक्षाप्रवर्तनानि प्रचलन्ति।
जापानस्य भूतपूर्वः प्रधानमन्त्री भुषुण्डिप्रयोगेण हतः।
जापाने अधिकाधिककालं प्रधानमन्त्रिपदमारूढवान् षिन्सो आबे राष्ट्रस्य आर्थिकमण्डलविकासाय निर्णायकं स्थानमावहत्। भारतस्य आत्ममित्रस्य दुरन्ते प्रधानमन्त्री नरेन्द्रमोदी अनुशोचनं प्राकाशयत्। आदरसूचकेन एकदिवसीयं दुःखाचरणं प्रख्यापितम्।
पूर्वकालानुभवाः सन्ति। पोर्चुगलः दावाग्निं प्रतिरोद्धुं सज्जते।
अतितापेन जायमानं दावाग्निं प्रतिरोद्धुं पोर्चुगलः सज्जते। प्रतिरोधप्रक्रमार्थं सर्वकारसंघटनस्य व्यवहारसंरक्षणसमित्या (civil protection agency) कर्मकराः नियुक्ताः। राष्ट्रस्य त्रिषु भागेषु एकभागः वनप्रदेशः भवति। तत्र दावाग्निसाध्यता अस्ति। अतः आराष्ट्रं जागरूकतानिर्देशः प्रदत्तः अस्ति। कार्यक्रमेषु प्रस्फोटकादीनां उपयोगः निरुध्यते। राष्ट्रे अर्धाधिके दावाग्नयः अनवधानताकारणेन एव जाताः इति अध्ययनानि सूचयन्ति। अतः एव अधिके सुरक्षाप्रक्रमाः राष्ट्रेण स्वीकृताः।
बोरिस् जोण्सणः त्यागपत्रं समर्पितवान्।
लैङ्गिकारोपणविधेयं क्रिस्टफर् पिञ्चर् नामकस्य Deputy chief whip स्थाननियुक्तिरेव जोण्सणस्य क्लेशपरम्परायाः प्रारम्भः। पिञ्चरस्य स्थानारोहणात्परं बहवः मन्त्रिणः स्वस्थानानि त्यक्त्वा प्रतिषेधं प्रकटितवन्तः। एवं ४० नेतारः मन्त्रिणश्च प्रशासनात् संघटनाच्च त्यागपत्रे समर्पिते बोरिस् जोण्सणस्य स्थानत्यागश्च अनिवार्यः अभवत्।
पि टि उषा, इलयराजाप्रभृतयः चत्वारः राज्यसभां प्रति नामनिर्दिष्टाः।
नवदिल्ली> ओलिम्पिक्स् स्पर्धात्री पि टि उषा, प्रसिद्धः सङ्गीतनिदेशकः इलयराजा, चलच्चित्रनिदेशकः के वि विजयेन्द्रप्रसादः, सामाजिकप्रवर्तकः वीरेन्द्र हेग्डे इत्यते राष्ट्रपतिना राज्यसभासदस्यरूपेण नियुक्ताः। चत्वार अपि दक्षिणभारतीयाः भवन्ति।
नूतनान् राज्यसभासदस्यानपि प्रधानमन्त्री नरेन्द्रमोदी अभिनन्दितवान्। विविधमण्डलेषु स्वप्रतिभां प्रकाशितवतां १२ महापुरुषाणां नामानि निर्दिष्टानि भवन्ति।