OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 7, 2022

 हज्ज् कर्माणि अद्य आरभन्ते। 

मक्का> इस्लामधर्मीयानां हज्ज् पुण्यकर्माणि गुरुवासरे  आरभन्ते। तीर्थाटकाः सर्वे मध्याह्नात् पूर्वं मिना अधित्यकायां शिबिरेषु प्राप्य प्रार्थनानिमग्नाः भविष्यन्ति। 

   शुक्रवासरे प्रभातनमस्कारानन्तरं अरफासंगमाय अरफाङ्कणं प्राप्स्यन्ति। मिनायां मध्याह्ननमस्कारादारभ्य [लुहर्] प्रभातनमस्कारपर्यन्तं [सुब्हि] पञ्चकालिकनमस्कारक्रियाः भविष्यन्ति।

Wednesday, July 6, 2022

 प्रमुखः गान्धितत्वानुयायी  गोपिनाथन् नायर् दिवंगतः।

अनन्तपुरी> 'गान्धिमार्ग'श्रृङ्खलायाः अन्तिमवलयस्थेषु  अन्यतमः तथा च केरलस्य शान्तिदूत‌ः इति प्रसिद्धः पि गोपिनाथन् नायर् वर्यः दिवंगत‌ः। अनन्तपुर्यां नेय्याट्टिन्करास्थे निजीयातुरालये मङ्गलवासरे रात्रौ  आसीत् शतवयस्कस्य तस्य अन्त्यः। अन्त्यकर्माणि बुधवासरे सायं सम्पन्नानि। 

  महात्मागान्धिनः जीवन-प्रवर्तनमूल्यैः समाकृष्टः  गोपिनाथन् नायर् वर्यः स्वस्य जीवने कर्मपथे च गान्धितत्वानि स्वायत्तीकृत्य तदनुसारं स्वजीवितमपि आविष्कृतवान्। अत एव पद्मश्रीपुरस्कारेण सः समादृतः। तस्य वियोगे प्रमुखाः सांस्कृतिकनायकाः राजनैतिकवर्याश्च श्रद्धाञ्जलिं समर्पितवन्तः।

Tuesday, July 5, 2022

 नाटकनिदेशकः पीटर् ब्रूकः दिवंगतः। 


लण्टन्> विश्वप्रसिद्धः ब्रिट्टनीयनाटकनिदेशकः पीटर् ब्रूकः [९७] दिवंगतः। षेक्स्पियरस्य रचनाः आरभ्य भारतीयाः पुराणेतिहासकथाः पर्यन्तं नाटकरूपेण वेदिकामानीतवान् प्रतिभासम्पन्नः आसीदयम्। पारम्पर्यगङ्गसज्जीकरणादिभ्यः बहिः प्राप्तवान् ब्रूक् वर्यः असाधारणानि स्थानान्यपि नाटकावतरणाय वेदिकामकरोत्। व्यायामकेन्द्राणि, खननस्थानानि, विद्यालयाः इत्यादयः तस्य नाटकावतरणस्थानानि आसन्। 

   भारतस्य इतिहासग्रन्थः महाभारतं नवहोरापर्यन्तं दैर्घ्ययुक्तेन नाटकरूपेण वेदिकामानीय पीटर् ब्रूकः लोकप्रसिद्धः अभवत्। आगोलनाटकमण्डले प्रसिद्धान् अभिनेतॄन् वेदिकामेकां संयोज्य आसीत् महाभारतस्य रङ्गाविष्कारः। तत्र द्रौपदीरूपेण भारतीया मल्लिका साराभायी, भीमः, भीष्मः, कर्णः, कुन्ती इत्येतान् आफ्रिकाभूखण्डात्, द्रोणाचार्यं  गान्धारीं  च एष्याखण्डात् च इत्येवं महाभारतनाटकस्य २१ कथापात्राणि १६ राष्ट्रेभ्यः प्रगत्भान् नटान् अधिगम्य  सः वेदिकामानीतवान्।

Monday, July 4, 2022

 नमस्या - श्रीमद्भ्यः स्वप्रभानन्दस्वामिपादेभ्यः समादरणम्।


कोट्टयं मण्डले अरुणापुरं श्रीरामकृष्णमठे विख्तातसंस्कृतविद्वद्वरेण्याः पूजनीयस्वप्रभानन्दस्वामिपादाः तेषां शिष्यगणैः समादृताः| नमस्या नाम्ना एवायं कार्यक्रमः समायोजितः| अस्मिन् कार्यक्रमे राज्यसभासदस्यः श्री जोस् के माणि महाभागः आध्यक्ष्यमवहत् | विधानसभासदस्यः श्री माणि सि काप्पन् महोदयः कार्यक्रमस्य उद्घाटनमकरोत्| पूर्वराज्यपालः श्री कुम्मनं राजशेखरन् वर्यः मुख्यातिथिश्चासीत्| मठाध्यक्षः श्रीमत् स्वामि वीतसंगानन्द वर्यः आशंसाभाषणमकरोत्| एवं अनेके सन्यासिवर्याः स्वप्रभानन्दस्वामिनां शिष्याः तद्देशीयाः जनाश्च कार्यक्रमे

 जम्मूकाश्मीरे अमरनाथ् तीर्थाटकसंघस्योपरि आक्रमणं कर्तुं प्रयतमानौ  द्वौ भीकरौ निगृहीतौ।


श्रीनगरम्> अमरनाथ् तीर्थयात्रासंघस्योपरि आक्रमणं कर्तुं  आसूत्रणं कृतवन्तौ द्वौ भीकरौ देशवासिनां साहाय्येन रक्षिपुरुषैः निगृहीतौ। तालिब् हुसैन्, फैसल् अहम्मद् धर् च भवति तयोः नामनि। तौ लष्कर् त्वय्ब नाम भीकरसंधैः साकं भीकरप्रवर्तने निमग्नौ भवतः। रजौरि देशे दक्षिणकाश्मीरे च बहुषु तीव्रवादसम्बन्धिप्रकरणेषु  रक्षिपुरुषैः निग्रहणार्थं अन्वेषयन्तौ आसीत् एतौ।

Sunday, July 3, 2022

जङ्गमदूरवाणीं दूरे क्षिप्त्वा जीवनं नयतु इति जङ्गमदूरवाण्याः आविष्कर्ता मार्ट्टिन् कूप्परः।


करतले स्थापयित्वा सर्वत्र नेतुं शक्या काचन दूरवाणी इत्यमुम् आशयं  प्रवृत्तिपथमानीतवान् यः भवति सः मार्ट्टिन् कूप्परः जङ्गमदूरवाण्यां अहोरात्रं समयं यापयितॄन् नूतनवंशपरम्परान् प्रति एवं वदति - जङ्गमदूरवाणीं दूरे क्षिप्त्वा जीवनं नयतु इति। बि बि सि माध्यमस्य कार्यक्रमे भागं स्वीकुर्वन् भाषमाणावसरे एव जङ्गमदूरवाण्याः सह अधिकसमयं यापयितृभ्यः नूतनवंशपरम्पराभ्यः तस्य उपदेशः। सः तस्य समयस्य प्रतिशतं पञ्चोनसमयमेव जङ्गमदूरवाण्याः उपयोगं कुरुते इति सः व्यजिज्ञपत्। दूरवाण्यां अधिकसमयं यापयन्तः जनाः अल्पसमयम् एव जीवन्ति इति सः अवदत्। आप् आनि नाम आप् मोणिहिङ् संस्थायाः गणनामनुसृत्य जनाः प्रतिदिनं सामान्यतः ४.८ होराः यावत्  जङ्गमदूरवाण्यां समयं यापयन्ति। इमां गणनामनुसृत्य प्रतिसप्ताहं ३३.६ होराः तथा प्रतिमासं १४४ होराः भविष्यति। एवं चेत् संवत्सरे मासमेकं दूरवाण्यां यापयन्ति ।

 भारते उपराष्ट्रपतिनिर्वाचनम् ओगस्त् षष्ठे दिनाङ्के। 

नवदिल्ली> भारते उपराष्ट्रपतिनिर्वाचनम् ओगस्त् षष्ठे दिनाङ्के भविष्यति। तद्दिने एव फलप्रख्यापनमपि सम्पत्स्यति। इदानीन्तनोपराष्ट्रपतेः वेङ्कय्यनायिडोः कार्यकालः आगस्तमासस्य दशमे दिनाङ्के परिसमाप्यते। 

   जूलाय् पञ्चमे दिनाङ्के विज्ञापनं भविष्यति। १९ दिनाङ्कपर्यन्तं नामाङ्कनपत्रिकां समर्पयितुमवसरः। राज्यसभां प्रति चिताः २३३ सदस्याः, नामनिर्देिष्टाः १२ सदस्याः, लोकसभायां ५४३ सदस्याः इत्येते मतदानाय अर्हा‌ः भवन्ति।

 दक्षिणभारते वर्षाकालः शक्तोSभवत्। 

अनन्तपुरी> केरलं, लक्षद्वीपः, कर्णाटकराज्येषु वर्षाकालः शक्तः जातः। रविवासरतः मङ्गलवासरपर्यन्तं मेघगर्जनैः सह शक्ता वर्षा भविष्यतीति पर्यावरणविभागेन निगदितम्। 

  केरले १३ जनपदेषु पीतजागरूकता उद्घोषिता। केरल-कर्णाटक-लक्षद्वीपतीरसागरे मत्स्यबन्धनं न कर्तव्यमिति दुरन्तनिवारणविभागः न्यगादीत्।

 जनावासकेन्द्रं प्रति अग्निशस्त्राक्रमणं- युक्रैने मरणानि २१। 

कीव्> युक्रेनस्थे ओडेसाप्रदेशे जनावासकेन्द्रं प्रति गतदिने रूसेन कृतेन अग्निशस्त्रप्रयोगेण मरणानि २१ अभवन्। उपचत्वारिंशत् जनाः व्रणिताः जाताः। आक्रमणमिदं रूस् राष्ट्रस्य प्रशासनभीकरतां प्रकाशयतीति युक्रेनस्य राष्ट्रपतिः व्लादिमिर् सेलन्स्की आरोपितवान्। 

  ओडेसाप्रदेशस्थे सेर्हिकानामके स्थाने सहस्रपर्यन्तं सामान्यजनाः अधिवसन्तं नवश्रेणीयुतम्  आवाससमुच्चयं प्रति गतदिने उषसि एकवादने आसीत् आक्रमणम्। त्रीणि अग्निशस्त्राणि निपतितानि। भवनसमुच्चयस्य कश्चिदंशः पूर्णतया विशीर्णः। तत्र आयुधाः सैनिकोपकरणानि वा न सम्भृतानीति सेलन्स्किवर्येण उक्तम्।

   किन्तु रूसस्य आक्रमणं जनावासं लक्ष्यीकृत्य नासीत् , प्रत्युत स्फोटकवस्तु-आयुधसम्भृतानि भवनानि लक्ष्यीकृत्य आसीदिति रूस् राष्ट्रस्य प्रवक्ता दिमित्री एस् पेस्कोव् इत्यनेन निगदितम्।

Saturday, July 2, 2022

 अपूर्वम् आमिषाहारिसस्यं पश्चिमहिमालये इदंप्रथमतया प्रत्यभिज्ञातम्।


नवदिल्ली> अपूर्वम् आमिषाहारिसस्यं पश्चिमहिमालये प्रथमतया गवेषकैः प्रत्यभिज्ञातम्। युट्रिकुलेरिया फर्सिलेट्टा (Utricularia Furcellata) इति शास्त्रनाम्नि विख्यातम् आमिषाहारिसस्यमेव प्रत्यभिज्ञातम् इति अधिकारिभिः आवेदितम्। चमोलि जिल्लायां मण्डल् अधित्यकायाम् उत्तराखण्डस्य गवेषकसंघैः एव सस्यं प्रत्यभिज्ञातम्। न केवलम् उत्तराखण्डेषु,पश्चिमहिमालयेषु अन्यत्र कुत्रापि इतः पूर्वं सस्यमिदं न सन्दृष्टमिति वनपालमुख्येन सज्जीव् चतुर्वेदिना निगदितम्।

Friday, July 1, 2022

 अद्य आरभ्य एकवारोपयोगपलास्तिकानां निरोधः। 

अनन्तपुरी> केन्द्र - राज्य सर्वकारयोः निरोधादेशप्रकारेण एकवारमुपयुज्यमानानां निश्चितानां पलास्तिकोत्पन्नानां निरोधः अद्य आरभ्य प्राबल्ये भविष्यति। एषां पलास्तिकवस्तूनाम् उत्पादन-विपणन- उपयोगादयः  दण्डार्हाः भविष्यन्ति। 

  प्रारम्भस्तरे १०,००० रूप्यकाणि आरभ्य ५०,००० रूप्यकाणि पर्यन्तं द्रव्यदण्डः लप्स्यते। केन्द्रसर्वकारेण निरुद्धान् उत्पन्नान् अतिरिच्य २०२० तमे वर्षे केरलस्य परिस्थितिविभागस्य आदेशानुसारेण निरोधिताः उत्पन्नाः च दण्ड्यविभागेषु अन्तर्भवन्ति।

 एकनाथषिन्दे महाराष्ट्रस्य मुख्यमन्त्री।

मुम्बई> महाराष्ट्रे ११ दिनानि यावत् अनुवर्तमानानां राजनैतिकनाटकानां अल्पकालिकपरिसमाप्तिः। शिवसेनादलस्य विमतनेता एकनाथषिन्दे महाराष्ट्रस्य २०तम मुख्यमन्त्रिरूपेण शपथवाचनं कृतवान्। भूतपूर्वः मुख्यमन्त्री देवेन्द्र फड्नविसः उपमुख्यमन्त्री भविष्यति। 

  राजभवने ह्यः सायं सार्धसप्तवादने आसीत् शपथवाचनम्। नूतनः सर्वकारः शनिवासरे विधानसभातले विश्वासमतसम्पादनाय विधेयः भविष्यति।

Thursday, June 30, 2022

 महाराष्ट्रं - उद्धवताक्करे त्यागपत्रं समार्पितवान्। 

मुम्बई> बहुदिनानि यावत् अनुवर्तमानस्य राजनैतिकानिश्चितत्वस्य अन्ते महाराष्ट्रस्य मुख्यमन्त्री उद्धवताक्करे पदं त्यक्तवान्। शिवसेनादलस्य विमतानां पृच्छानुसारं विधानसभायां गुरुवासरे विश्वासमतप्रक्रिया करणीया इति राज्यपालस्य निर्देशं प्रति सर्वोच्चन्यायालयस्य प्रतिकूलविधिं समादृत्य एव सः त्यागपत्रं समार्पितवान्।

  २०१९ इति वर्षे शिवसेना, कोण्ग्रस्,एन् सि पि प्रभृतीनां  'महा विकास् अघाडि' इति सख्यस्य नेतृरूपेण उद्धवताक्करे वर्यः महाराष्ट्रस्य मुख्यमन्त्रिपदं स्वीकृतवान्। सार्धद्वयवर्षस्य प्रशासने शिवसेनानेता एकनाथ षिन्डे इत्यस्य नेतृत्वे भूरिशः सदस्याः विमताः अभवन्। भा ज पा दलेन सह प्रशासनं रूपीकर्तुं प्रयत्नः आरब्धः। तस्यानन्तरफलमेव अयं स्थानत्यागः।

Tuesday, June 28, 2022

 यश्वन्तसिंहः नामाङ्कनपत्रिकां समर्पितवान्।


नवदिल्ली> राष्ट्रपतिनिर्वाचने स्पर्धमाानः विपक्षसंघस्य स्थानाशी यश्वन्तसिंहः सोमवासरे नामाङ्कनपत्रिकां समर्पितवान्। राज्यसभायाः कार्यदर्शी पि सि मोदी एव मुख्यवरणाधिकारी। 

  राहुल गान्धी, शरत्पवारः, सीताराम यच्चूरी, डि राजा, अखिलेशयादवः, फरूख् अब्दुल्ला इत्यादयः १६ विपक्षदलनेतारः यश्वन्तसिंहम् अन्वगच्छन्। 

  राष्ट्रपतिस्थानं लक्ष्यीकृत्य एषा स्पर्धा न वैयक्तिकसंबन्धिनी किन्तु आशयसम्बन्धिनी इति पत्रिकासमर्पणानन्तरं स्थानाशिना सह वार्ताहरान् भाषमाणः राहुल गान्धी उक्तवान्।

चतुर्दिनाभ्यन्तरे ९४००० उद्योगार्थिनः आवेदनपत्राणि दत्तवन्तः। अग्निपथे उद्योगार्थिनां प्रवाहः।

नवदिल्ली> गतद्विसप्ताहे राष्ट्रे प्रतिषेधाय संघर्षाय अग्निसादनाय च कारणभूतायां अग्निपथ् परियोजनायां उद्योगार्थिनां प्रवाहः। विज्ञापनप्रकानानन्तरं चतुर्दिने अतिते आवेदनपत्रं प्रेषितानां उद्योगार्थिनां संख्या ९४००० अतीता। व्योमसेनाविभागे ५६९६० आवेदनपत्राणि लब्धानि इति सेनया प्रोक्तम्। जूण् मासे १४ दिनाङ्के एव सेनानियुक्तिविषये ऐतिहासिकः निश्चयः केन्द्रसर्वकारेण बहिः प्रकाशितः।

Monday, June 27, 2022

 बङ्गलादेशस्य दीर्घतमः सेतुः उद्घाटितः। 

धाक्का> बङ्गलादेशस्य दक्षिणोत्तरक्षेत्रं राजधान्या सह संबध्यमानः सेतुः शनिवासरे प्रधानमन्त्रिण्या षैख् हसीनया उद्घाटितः। पद्मानद्याः तिरश्चीनेन  निर्मितः अयं सेतु‌ः ६. १५ किलोमीटर् दीर्घयुक्ता भवति।  रेल्-वीथीयानगमनागमनाय सेतुमिमम्  उपयोक्तुं शक्यते। 

  अस्यै परियोजनायै त्रिंशत्सहस्रं रूप्यकाणि व्ययं कृतानि। विदेशसाह्यं विना पूर्णतया गृहधनराशिव्ययेनैव सेतुरयं निर्मितः इति सविशेषता अस्ति।

 त्रिमासोनाः स्तनन्धयाः चलनचित्रेषु अन्यत्र च अभिनयार्थं न उपयोक्तव्याः इति बालाघिकारसमितिः।

 त्रिमासोनाः स्तनन्धयाः स्तन्यपाययनादीनां  प्रतिरोधचिकित्साविधीनां च बोधानात्मकानि चलनचित्रखण्डानि विहाय अन्येषु वेदिकासु न उपयोक्तव्याः। चलनचित्रेषु, ओ टि टि वेदिकायां,  सामाजिकमाध्यमजालपुटेषु च नवजातशिशुः चलनचित्रस्य चित्रीकरणार्थम् उपयुज्यते इत्यस्मिन् विषये  बालाधिकारसमित्या प्रकाशितां प्रथममार्गनिर्देशपत्रे अन्तर्गतं भवति एषा व्यवस्था।

Sunday, June 26, 2022

 'मेडिसेप्' याथार्थ्यं प्राप्नोति; अधिकमूल्यसमाहरणाय आदेशः दत्तः। 

अनन्तपुरी> केरलराज्ये सर्वकारसेवकानां सेवाविरतानां च कृते प्रख्यापिता मेडिसेप् नामिका स्वास्थ्यक्षेमपरियोजना प्रवृत्तिपथं प्राप्नोति। जूलाय् प्रथमदिनाङ्के आरभ्यमाणायाः परियोजनायाः उद्घाटनं मुख्यमन्त्री पिणरायि विजयः तस्मिन् दिनाङ्के एव करिष्यति। अस्यां परियोजनायां प्रतिसेवकात् ५०० रूप्यकाणि अधिकमूल्यरूपेण समाहर्तुम् आदेशः बहिरागतः। 

   सेवकानां जूण्मासस्य वेतनात् आरभ्य अधिकमूल्यं समाहरिष्यते। सेवाविरतेभ्यः अधुना चिकित्सासाह्यरूपेण लभमानानि ५०० रूप्यकाणि अधिकमूल्यरूपेण परिगणयिष्यन्ते। ११ लक्षं संख्याकाः सेवकाः सेवाविरताः तथा तेषां परिवाराङ्गाश्च अभिव्याप्य २७ लक्षं जनाः परियोजनायामस्याम् अन्तर्भवन्ति।