OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 2, 2022

 अपूर्वम् आमिषाहारिसस्यं पश्चिमहिमालये इदंप्रथमतया प्रत्यभिज्ञातम्।


नवदिल्ली> अपूर्वम् आमिषाहारिसस्यं पश्चिमहिमालये प्रथमतया गवेषकैः प्रत्यभिज्ञातम्। युट्रिकुलेरिया फर्सिलेट्टा (Utricularia Furcellata) इति शास्त्रनाम्नि विख्यातम् आमिषाहारिसस्यमेव प्रत्यभिज्ञातम् इति अधिकारिभिः आवेदितम्। चमोलि जिल्लायां मण्डल् अधित्यकायाम् उत्तराखण्डस्य गवेषकसंघैः एव सस्यं प्रत्यभिज्ञातम्। न केवलम् उत्तराखण्डेषु,पश्चिमहिमालयेषु अन्यत्र कुत्रापि इतः पूर्वं सस्यमिदं न सन्दृष्टमिति वनपालमुख्येन सज्जीव् चतुर्वेदिना निगदितम्।

Friday, July 1, 2022

 अद्य आरभ्य एकवारोपयोगपलास्तिकानां निरोधः। 

अनन्तपुरी> केन्द्र - राज्य सर्वकारयोः निरोधादेशप्रकारेण एकवारमुपयुज्यमानानां निश्चितानां पलास्तिकोत्पन्नानां निरोधः अद्य आरभ्य प्राबल्ये भविष्यति। एषां पलास्तिकवस्तूनाम् उत्पादन-विपणन- उपयोगादयः  दण्डार्हाः भविष्यन्ति। 

  प्रारम्भस्तरे १०,००० रूप्यकाणि आरभ्य ५०,००० रूप्यकाणि पर्यन्तं द्रव्यदण्डः लप्स्यते। केन्द्रसर्वकारेण निरुद्धान् उत्पन्नान् अतिरिच्य २०२० तमे वर्षे केरलस्य परिस्थितिविभागस्य आदेशानुसारेण निरोधिताः उत्पन्नाः च दण्ड्यविभागेषु अन्तर्भवन्ति।

 एकनाथषिन्दे महाराष्ट्रस्य मुख्यमन्त्री।

मुम्बई> महाराष्ट्रे ११ दिनानि यावत् अनुवर्तमानानां राजनैतिकनाटकानां अल्पकालिकपरिसमाप्तिः। शिवसेनादलस्य विमतनेता एकनाथषिन्दे महाराष्ट्रस्य २०तम मुख्यमन्त्रिरूपेण शपथवाचनं कृतवान्। भूतपूर्वः मुख्यमन्त्री देवेन्द्र फड्नविसः उपमुख्यमन्त्री भविष्यति। 

  राजभवने ह्यः सायं सार्धसप्तवादने आसीत् शपथवाचनम्। नूतनः सर्वकारः शनिवासरे विधानसभातले विश्वासमतसम्पादनाय विधेयः भविष्यति।

Thursday, June 30, 2022

 महाराष्ट्रं - उद्धवताक्करे त्यागपत्रं समार्पितवान्। 

मुम्बई> बहुदिनानि यावत् अनुवर्तमानस्य राजनैतिकानिश्चितत्वस्य अन्ते महाराष्ट्रस्य मुख्यमन्त्री उद्धवताक्करे पदं त्यक्तवान्। शिवसेनादलस्य विमतानां पृच्छानुसारं विधानसभायां गुरुवासरे विश्वासमतप्रक्रिया करणीया इति राज्यपालस्य निर्देशं प्रति सर्वोच्चन्यायालयस्य प्रतिकूलविधिं समादृत्य एव सः त्यागपत्रं समार्पितवान्।

  २०१९ इति वर्षे शिवसेना, कोण्ग्रस्,एन् सि पि प्रभृतीनां  'महा विकास् अघाडि' इति सख्यस्य नेतृरूपेण उद्धवताक्करे वर्यः महाराष्ट्रस्य मुख्यमन्त्रिपदं स्वीकृतवान्। सार्धद्वयवर्षस्य प्रशासने शिवसेनानेता एकनाथ षिन्डे इत्यस्य नेतृत्वे भूरिशः सदस्याः विमताः अभवन्। भा ज पा दलेन सह प्रशासनं रूपीकर्तुं प्रयत्नः आरब्धः। तस्यानन्तरफलमेव अयं स्थानत्यागः।

Tuesday, June 28, 2022

 यश्वन्तसिंहः नामाङ्कनपत्रिकां समर्पितवान्।


नवदिल्ली> राष्ट्रपतिनिर्वाचने स्पर्धमाानः विपक्षसंघस्य स्थानाशी यश्वन्तसिंहः सोमवासरे नामाङ्कनपत्रिकां समर्पितवान्। राज्यसभायाः कार्यदर्शी पि सि मोदी एव मुख्यवरणाधिकारी। 

  राहुल गान्धी, शरत्पवारः, सीताराम यच्चूरी, डि राजा, अखिलेशयादवः, फरूख् अब्दुल्ला इत्यादयः १६ विपक्षदलनेतारः यश्वन्तसिंहम् अन्वगच्छन्। 

  राष्ट्रपतिस्थानं लक्ष्यीकृत्य एषा स्पर्धा न वैयक्तिकसंबन्धिनी किन्तु आशयसम्बन्धिनी इति पत्रिकासमर्पणानन्तरं स्थानाशिना सह वार्ताहरान् भाषमाणः राहुल गान्धी उक्तवान्।

चतुर्दिनाभ्यन्तरे ९४००० उद्योगार्थिनः आवेदनपत्राणि दत्तवन्तः। अग्निपथे उद्योगार्थिनां प्रवाहः।

नवदिल्ली> गतद्विसप्ताहे राष्ट्रे प्रतिषेधाय संघर्षाय अग्निसादनाय च कारणभूतायां अग्निपथ् परियोजनायां उद्योगार्थिनां प्रवाहः। विज्ञापनप्रकानानन्तरं चतुर्दिने अतिते आवेदनपत्रं प्रेषितानां उद्योगार्थिनां संख्या ९४००० अतीता। व्योमसेनाविभागे ५६९६० आवेदनपत्राणि लब्धानि इति सेनया प्रोक्तम्। जूण् मासे १४ दिनाङ्के एव सेनानियुक्तिविषये ऐतिहासिकः निश्चयः केन्द्रसर्वकारेण बहिः प्रकाशितः।

Monday, June 27, 2022

 बङ्गलादेशस्य दीर्घतमः सेतुः उद्घाटितः। 

धाक्का> बङ्गलादेशस्य दक्षिणोत्तरक्षेत्रं राजधान्या सह संबध्यमानः सेतुः शनिवासरे प्रधानमन्त्रिण्या षैख् हसीनया उद्घाटितः। पद्मानद्याः तिरश्चीनेन  निर्मितः अयं सेतु‌ः ६. १५ किलोमीटर् दीर्घयुक्ता भवति।  रेल्-वीथीयानगमनागमनाय सेतुमिमम्  उपयोक्तुं शक्यते। 

  अस्यै परियोजनायै त्रिंशत्सहस्रं रूप्यकाणि व्ययं कृतानि। विदेशसाह्यं विना पूर्णतया गृहधनराशिव्ययेनैव सेतुरयं निर्मितः इति सविशेषता अस्ति।

 त्रिमासोनाः स्तनन्धयाः चलनचित्रेषु अन्यत्र च अभिनयार्थं न उपयोक्तव्याः इति बालाघिकारसमितिः।

 त्रिमासोनाः स्तनन्धयाः स्तन्यपाययनादीनां  प्रतिरोधचिकित्साविधीनां च बोधानात्मकानि चलनचित्रखण्डानि विहाय अन्येषु वेदिकासु न उपयोक्तव्याः। चलनचित्रेषु, ओ टि टि वेदिकायां,  सामाजिकमाध्यमजालपुटेषु च नवजातशिशुः चलनचित्रस्य चित्रीकरणार्थम् उपयुज्यते इत्यस्मिन् विषये  बालाधिकारसमित्या प्रकाशितां प्रथममार्गनिर्देशपत्रे अन्तर्गतं भवति एषा व्यवस्था।

Sunday, June 26, 2022

 'मेडिसेप्' याथार्थ्यं प्राप्नोति; अधिकमूल्यसमाहरणाय आदेशः दत्तः। 

अनन्तपुरी> केरलराज्ये सर्वकारसेवकानां सेवाविरतानां च कृते प्रख्यापिता मेडिसेप् नामिका स्वास्थ्यक्षेमपरियोजना प्रवृत्तिपथं प्राप्नोति। जूलाय् प्रथमदिनाङ्के आरभ्यमाणायाः परियोजनायाः उद्घाटनं मुख्यमन्त्री पिणरायि विजयः तस्मिन् दिनाङ्के एव करिष्यति। अस्यां परियोजनायां प्रतिसेवकात् ५०० रूप्यकाणि अधिकमूल्यरूपेण समाहर्तुम् आदेशः बहिरागतः। 

   सेवकानां जूण्मासस्य वेतनात् आरभ्य अधिकमूल्यं समाहरिष्यते। सेवाविरतेभ्यः अधुना चिकित्सासाह्यरूपेण लभमानानि ५०० रूप्यकाणि अधिकमूल्यरूपेण परिगणयिष्यन्ते। ११ लक्षं संख्याकाः सेवकाः सेवाविरताः तथा तेषां परिवाराङ्गाश्च अभिव्याप्य २७ लक्षं जनाः परियोजनायामस्याम् अन्तर्भवन्ति।

 वाराणसी विमानपत्तने विज्ञापनं देवभाषायामपि।

काशी> काशीविश्वनाथं सन्दर्शयितुं वाराणस्यां प्राप्तान् स्वीकर्तुं देवभाषया विज्ञापनं समारब्धम्। देवभाषया विज्ञापनं समारब्धं प्रथमं विमानपत्तनं भवति लाल् बहादूर् शास्त्रि अन्ताराष्ट्रियविमानपत्तनम्। आङ्गलभाषायां राष्ट्रभाषायां तथा देवभाषायामपि विज्ञापनम् आरब्धुं विमानपत्तनाधिकारिभिः निश्चितमस्ति। बनारस् हिन्दु विश्वविद्यापीठस्य सहकारेणैव विमानपत्तनाधिकारिणः विज्ञापनाय पद्धतिः आविष्कृता। संस्कृतभाषां मुख्यधारासु पुनरानेतुं एव अयं शुभारम्भः। कोविड् नियन्त्रणानि आहत्य हिन्दी भाषायाम् आङ्गलभाषायां तथा संस्कृते च विज्ञापयन्ति इति अधिकारिभिः ट्विट्टर् द्वारा आवेदितम्। विमानपत्तनसमुच्चये प्रविष्टानां यात्रिकाणां कृते संस्कृतभाषायाः श्रवणानुभवप्रदानं, संस्कृतभाषादरणं, जनानां मध्ये व्यावहारिकभाषारूपेण प्रचारणं च लक्ष्यीकृत्यैव परियोजनेयं समारब्धा इति विमानपत्तननिर्देशकेन आर्यमा सन्यालेन निगदितम्।

जि-७ उच्चशिखरे भागं स्वीकर्तुं प्रधानमन्त्री नरेन्द्रमोदी जर्मन्यां प्राप्तवान्।

नवदिल्ली> जि-७ उच्चशिखरे भागं स्वीकर्तुं प्रधानमन्त्री नरेन्द्रमोदी जर्मनीदेशं प्राप्तवान्। दिनद्वयसन्दर्शनाय अद्य प्रातःकाले म्यूणिक् देशं प्राप्तवान्। विमानपत्तने बवेलियन् मण्डलिकानादघोषेण नरेन्द्रमोदिने स्वागतं व्याजहार। जून्२६, जून्२८ दिनेषु प्रचाल्यमाणे उच्चशिखरमेलने परिस्थितिविषये ऊर्जविषये भक्ष्यसुरक्षाविषये स्वास्थ्यविषये च चर्चा प्रचलिष्यति। अमेरिकायाः राष्ट्रपतिः जोबैडन्, बिट्टण् राष्ट्रस्य प्रधानमन्त्री बोरिस् जोण्सण्, फ्रञ्ज् राष्ट्रस्य राष्ट्रपतिः इम्मानुवल् माक्रोण्, कानडस्य राष्ट्रपतिः जस्ट्टिन् ट्रूडो इत्यादयः उच्चशिखरे भागं स्वीकरिष्यन्ति। जर्मन्याः प्रधानमन्त्रिणा सह च नरेन्द्रमोदी मेलिष्यति।

Saturday, June 25, 2022

 नासया समुद्रसङ्गीतस्य आविष्कारः कृतः।

अमेरिक्कायाः बहिराकाशसंस्थया नासया समुद्रान्तर्भागे निगूढं कौतुकावहं समुद्रसङ्गीतं विश्वस्य पुरतः आविष्कृतम्। नासायाः गोड्डार्ड बहिराकाशडयनकेन्द्रस्य गवेषकः रयन् वान्डर्मीलन्, तस्य सोदरः संगणकयन्त्रकार्यकर्ता जोण् वान्डर्मीलन् च भवति अस्य आविष्कर्तारौ। समुद्रप्रवाहे चलने च सङ्गीतं निगूढं प्रसरति इति तौ प्रत्यभिज्ञातौ।

 द्रौपदी मुर्मू नामाङ्कनपत्रिकां समर्पितवती।

नवदिल्ली> एन् डि ए सख्यस्य राष्ट्रपतिस्थानाशिनी द्रौपदी मुर्मूवर्या नामाङ्कनपत्रिकां समर्पितवती। मुख्यवरणाधिकारी राज्यसभाकार्यदर्शिप्रमुखः पि सी मोदी इत्यस्य सकाशे एव पत्रिकासमर्पणं कृतवती। 

  ह्यः मध्याह्ने संसद्सभायाः ग्रन्थशालामन्दिरं प्राप्तवती  द्रौपदी मुर्मू प्रधानमन्त्रिणा तथा अन्यनेतृभिः सह मिलितवती। तदन्तरं सभामन्दिरस्य समीपे वर्तमानासु महात्मा गान्धी , बी आर् अम्बेदंकरः, बिर्सा मुण्टा इत्येतेषां प्रतिमासु पुष्पार्चनां कृतवती। 

  पत्रिकासमर्पणवेलायां प्रधानमन्त्री नरेन्द्रमोदी, भा ज पा अध्यक्षः जे पि नड्डा, वरिष्ठाः केन्द्रमन्त्रिणः राजनाथसिंहः, अमितशाहः, नितिन् गड्करी, पियूषगोयलः विविधराज्यानां मुख्यमन्त्रिणः इत्येषां सान्निध्यमभवत्।

 केरले प्रतिदिनकोविड्बाधिताः चतुस्सहस्रमतीताः।

अनन्तपुरी> केरलराज्ये प्रतिदिनकोविड्बाधितानां संख्या षण्मासानन्तरं पुनरपि चतुस्सहस्रमतीता। शुक्रवासरे  ४०९८ जनेषु रोगः दृढीकृतः। १० मरणान्यपि आवेदितानि। राज्ये रोगस्थिरीकरणमानं १८ प्रतिशतमिति अवर्धत। 

   अनन्तपुरि जिल्लायां १०३४ जनाः एरणाकुले ९३० जनाः च रोगबाधिताः अभवन्। केरले कोविडेन समं  डेङ्किज्वरः, मूषिकज्वरः इत्यादयः सांक्रमिकज्वराः अपि दृश्यन्ते इत्यतः जनाः जागरूकाः भवेयुः इति राज्यस्वास्थ्यमन्त्रालयेन निगदितम्।

Friday, June 24, 2022

 भारते १३,३१३ नूतनाः कोविड्रोगिणः। 

नवदिल्ली> गुरुवासरे समाप्ते २४होराकाले आराष्ट्रं १३,३१३ जनाः नूतनेन कोविड्बाधिताः अभवन्। ३८ जनाः अस्मिन् कालपरिधौ मृत्युवशं प्राप्तवन्तः। २. ०३ भवति गतदिनस्य रोगस्थिरीकरणमानम्। 

   महाराष्ट्रं, केरलं, दिल्ली इत्यादिषु राज्येषु एव रोगस्थिरीकरणमानम् उच्चस्तरे वर्तते। अधुना ८३,९९० रोगिणः परिचर्यायां वर्तन्ते। १९६. ६२ कोटिसंख्याकाः वाक्सिनमात्राः वितरीताः इति स्वास्थ्यमन्त्रालयेन निगदितम्।

 कोविड्व्यापने जागरूकता आवश्यकी - केन्द्रस्वास्थ्यमन्त्री।

नवदिल्ली> राष्ट्रे कोविड्रोगिणां संख्या उच्चस्थितौ जाते तादृशेषु जनपदेषु अधिकजागरूकता पालनीया इति केन्द्रस्वास्थ्यमन्त्रिणा डो मनसुख माण्डव्यवर्येण निर्दिष्टम्। केषुचित् राज्येषु कोविड्प्रकरणेषु वर्धितेषु विचक्षणैः सह सम्पन्ने कोविडवलोकनोपवेशने आसीत् अयं निर्देशः। 

    आर् टि पि सि आर् नामकपरिशोधना अधिका कर्तव्या। वाक्सिनीकरणस्य शीघ्रता वर्धितव्या। नूतनप्रभेदान् प्रत्यभिज्ञातुं जनितश्रेणीकरणप्रयासः अनुवर्तनीया इत्यादयः निर्देशाः अपि तेन सूचिताः।

ब्रिक्स् उच्चशिखरमेलने भारतस्य राजदूतः चीनस्य विदेशमन्त्रिणा सह अमिलत्। 

बेय्जिङ्> भारतस्य राजदूतः प्रदीपकुमाररावत्तः चीनस्य विदेशमन्त्रिणा वाङ्षिणा  सह मिलितवान् । वाङ्षेः उपचारपूर्वक्षणानुसारमेव रावत्तः मेलने भागं स्वीकृतवान्। राष्ट्रपतिः षिचिन् पिङ् इत्यस्य आध्यक्षे समारप्स्यमाणे ब्रिक्स् उच्चशिखरमेलने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी भागं स्वीकरिष्यति। तत् पुरस्कृत्यैव मेलनमिदम्। मार्च् मासे बेय्जिङ् मध्ये भारतस्य राजदूतरूपेण स्थानारोहणानन्तरं प्रथमसन्दर्शनमिदमिति भारतस्य दूतावासकार्यालयेन आवेदितम्। राष्ट्रसीमायां शान्ति - समता पालनमधिकृत्य परस्परं चर्चितौ।

Thursday, June 23, 2022

 राष्ट्रपतिनिर्वाचनं - द्रौपदी मुर्मू , यश्वन्त सिंहश्च स्थानाशिनौ। 


नवदिल्ली> जूलाय् १८ तमे दिनाङ्के सम्पत्स्यमानाय भारतराष्ट्रपतिनिर्वाचनाय शासनपक्ष-विपक्षस्थानाशिनौ प्रख्यापितौ। प्रशासनपक्षस्य एन् डि ए संघस्य स्थानाशिरूपेण द्रौपदी मुर्मू वर्या निर्णीता। ६४ वयस्का एषा ओडीषायां भा ज पा दलस्य वनवासिविभागस्य नेत्री झार्खण्डराज्यस्य भूतपूर्वा राज्यपालिका च अस्ति। 

  विपक्षसंघस्य स्थानाशिरूपेण भूतपूर्वः केन्द्रमन्त्री यश्वन्त सिंहः प्रख्यापितः। गतदिने एन् सि पि दलाध्यक्षस्य शरत् पवारस्य नेतृत्वे संवृत्ते १३ विपक्षदलानां समुपवेशने आसीत् ८४ वयस्कः यश्वन्त सिंहः स्वेषां स्थानाशिरूपेण निश्चितः। 

  अनेन भारते राष्ट्रपतिनिर्वाचनसंबन्धचित्रं सुव्यक्तं जातम्।