OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 25, 2022

 द्रौपदी मुर्मू नामाङ्कनपत्रिकां समर्पितवती।

नवदिल्ली> एन् डि ए सख्यस्य राष्ट्रपतिस्थानाशिनी द्रौपदी मुर्मूवर्या नामाङ्कनपत्रिकां समर्पितवती। मुख्यवरणाधिकारी राज्यसभाकार्यदर्शिप्रमुखः पि सी मोदी इत्यस्य सकाशे एव पत्रिकासमर्पणं कृतवती। 

  ह्यः मध्याह्ने संसद्सभायाः ग्रन्थशालामन्दिरं प्राप्तवती  द्रौपदी मुर्मू प्रधानमन्त्रिणा तथा अन्यनेतृभिः सह मिलितवती। तदन्तरं सभामन्दिरस्य समीपे वर्तमानासु महात्मा गान्धी , बी आर् अम्बेदंकरः, बिर्सा मुण्टा इत्येतेषां प्रतिमासु पुष्पार्चनां कृतवती। 

  पत्रिकासमर्पणवेलायां प्रधानमन्त्री नरेन्द्रमोदी, भा ज पा अध्यक्षः जे पि नड्डा, वरिष्ठाः केन्द्रमन्त्रिणः राजनाथसिंहः, अमितशाहः, नितिन् गड्करी, पियूषगोयलः विविधराज्यानां मुख्यमन्त्रिणः इत्येषां सान्निध्यमभवत्।

 केरले प्रतिदिनकोविड्बाधिताः चतुस्सहस्रमतीताः।

अनन्तपुरी> केरलराज्ये प्रतिदिनकोविड्बाधितानां संख्या षण्मासानन्तरं पुनरपि चतुस्सहस्रमतीता। शुक्रवासरे  ४०९८ जनेषु रोगः दृढीकृतः। १० मरणान्यपि आवेदितानि। राज्ये रोगस्थिरीकरणमानं १८ प्रतिशतमिति अवर्धत। 

   अनन्तपुरि जिल्लायां १०३४ जनाः एरणाकुले ९३० जनाः च रोगबाधिताः अभवन्। केरले कोविडेन समं  डेङ्किज्वरः, मूषिकज्वरः इत्यादयः सांक्रमिकज्वराः अपि दृश्यन्ते इत्यतः जनाः जागरूकाः भवेयुः इति राज्यस्वास्थ्यमन्त्रालयेन निगदितम्।

Friday, June 24, 2022

 भारते १३,३१३ नूतनाः कोविड्रोगिणः। 

नवदिल्ली> गुरुवासरे समाप्ते २४होराकाले आराष्ट्रं १३,३१३ जनाः नूतनेन कोविड्बाधिताः अभवन्। ३८ जनाः अस्मिन् कालपरिधौ मृत्युवशं प्राप्तवन्तः। २. ०३ भवति गतदिनस्य रोगस्थिरीकरणमानम्। 

   महाराष्ट्रं, केरलं, दिल्ली इत्यादिषु राज्येषु एव रोगस्थिरीकरणमानम् उच्चस्तरे वर्तते। अधुना ८३,९९० रोगिणः परिचर्यायां वर्तन्ते। १९६. ६२ कोटिसंख्याकाः वाक्सिनमात्राः वितरीताः इति स्वास्थ्यमन्त्रालयेन निगदितम्।

 कोविड्व्यापने जागरूकता आवश्यकी - केन्द्रस्वास्थ्यमन्त्री।

नवदिल्ली> राष्ट्रे कोविड्रोगिणां संख्या उच्चस्थितौ जाते तादृशेषु जनपदेषु अधिकजागरूकता पालनीया इति केन्द्रस्वास्थ्यमन्त्रिणा डो मनसुख माण्डव्यवर्येण निर्दिष्टम्। केषुचित् राज्येषु कोविड्प्रकरणेषु वर्धितेषु विचक्षणैः सह सम्पन्ने कोविडवलोकनोपवेशने आसीत् अयं निर्देशः। 

    आर् टि पि सि आर् नामकपरिशोधना अधिका कर्तव्या। वाक्सिनीकरणस्य शीघ्रता वर्धितव्या। नूतनप्रभेदान् प्रत्यभिज्ञातुं जनितश्रेणीकरणप्रयासः अनुवर्तनीया इत्यादयः निर्देशाः अपि तेन सूचिताः।

ब्रिक्स् उच्चशिखरमेलने भारतस्य राजदूतः चीनस्य विदेशमन्त्रिणा सह अमिलत्। 

बेय्जिङ्> भारतस्य राजदूतः प्रदीपकुमाररावत्तः चीनस्य विदेशमन्त्रिणा वाङ्षिणा  सह मिलितवान् । वाङ्षेः उपचारपूर्वक्षणानुसारमेव रावत्तः मेलने भागं स्वीकृतवान्। राष्ट्रपतिः षिचिन् पिङ् इत्यस्य आध्यक्षे समारप्स्यमाणे ब्रिक्स् उच्चशिखरमेलने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी भागं स्वीकरिष्यति। तत् पुरस्कृत्यैव मेलनमिदम्। मार्च् मासे बेय्जिङ् मध्ये भारतस्य राजदूतरूपेण स्थानारोहणानन्तरं प्रथमसन्दर्शनमिदमिति भारतस्य दूतावासकार्यालयेन आवेदितम्। राष्ट्रसीमायां शान्ति - समता पालनमधिकृत्य परस्परं चर्चितौ।

Thursday, June 23, 2022

 राष्ट्रपतिनिर्वाचनं - द्रौपदी मुर्मू , यश्वन्त सिंहश्च स्थानाशिनौ। 


नवदिल्ली> जूलाय् १८ तमे दिनाङ्के सम्पत्स्यमानाय भारतराष्ट्रपतिनिर्वाचनाय शासनपक्ष-विपक्षस्थानाशिनौ प्रख्यापितौ। प्रशासनपक्षस्य एन् डि ए संघस्य स्थानाशिरूपेण द्रौपदी मुर्मू वर्या निर्णीता। ६४ वयस्का एषा ओडीषायां भा ज पा दलस्य वनवासिविभागस्य नेत्री झार्खण्डराज्यस्य भूतपूर्वा राज्यपालिका च अस्ति। 

  विपक्षसंघस्य स्थानाशिरूपेण भूतपूर्वः केन्द्रमन्त्री यश्वन्त सिंहः प्रख्यापितः। गतदिने एन् सि पि दलाध्यक्षस्य शरत् पवारस्य नेतृत्वे संवृत्ते १३ विपक्षदलानां समुपवेशने आसीत् ८४ वयस्कः यश्वन्त सिंहः स्वेषां स्थानाशिरूपेण निश्चितः। 

  अनेन भारते राष्ट्रपतिनिर्वाचनसंबन्धचित्रं सुव्यक्तं जातम्।

Tuesday, June 21, 2022

 अन्ताराष्ट्रिययोगदिनस्य शुभकामनाः।

योगेन चित्तस्य पदेन वाचां, 
मलं शरीरस्य च वैद्यकेन। 
योऽपाकरोत् तं प्रवरं मुनीनां, 
पतंजलिं प्राञ्जलिरानतोस्मि॥


Monday, June 20, 2022

 प्रणोयः पराजितः। 

जक्कार्ता> इन्डोनेष्या ओपण्  पिच्छकन्दुकक्रीडायाः उपान्त्यचक्रे भारतक्रीडकः प्रणोयः पराजितोSभवत्। चीनस्य सावो जुन् पेङ् इत्येनं प्रति २१-१६, २१-१५ इति क्रमेण सः पराभवं स्वीकृतवान्। 'सीड्'पदरहितौ द्वावपि श्रेष्ठतरेण क्रीडाप्रभावेणैव उपान्त्यचक्रं प्राप्तवन्तौ। रविवासरे सम्पद्यमाने अन्तिमद्वन्द्वे सावो जुन् पेङः विश्वस्य प्रथमस्थानीयेन डेन्मार्क् देशीयेन विक्टर् अक्सल्सः इत्यनेन सह स्पर्धिष्यते।

 तटित्प्रहरः - त्रिषु राज्येषु २४ मरणानि। 

नवदिल्ली> रविवासरे प्रपन्नेन तीव्रेण तटित्प्रहरेण ओडीषा, बिहारं, छत्तीसगढ राज्येषु २४ जनाः मृत्युमुपगताः। 

  बिहारे १७ जनाः मृताः। भगत्पुरे जनपदे अष्ट ,वैशाल्यां त्रीणि, बङ्क, बगारिय जनपदयोः द्विक्रमेण, मुन्गर्, कतिहार्, मधेपुरं, सहर्सा जनपदेषु एकैकश्च मृत्युवशं गताः। 

  ओडीषायां महिलामभिव्याप्य चतुर्णां प्राणाः विनष्टाः। द्वौ व्रणितौ अभवताम्। छत्तीसगढे गरियाबाद् मुङ्गेलि भटपार जनपदेषु त्रयः विनष्टप्राणाः जाताः। सहस्पुरग्रामे चरन्तः ५२ अजाः अपि मृताः।

इन्धनं नास्ति। श्रीलङ्कायां विद्यालयान् कार्यालयान् च कीलयितुं सर्वकारः सज्जते।

कोलम्बो> नगरपरिधौ सर्वकारीयविद्यालयाः निजीयविद्यालयाः च आगामि वासरे न उद्घाटयिष्यन्ति इति शिक्षामन्त्रालयस्य परिपत्रे विशदयति। इन्धनस्य दौर्लभ्यः, सामान्यगमनागमनस्य न्यूनता तथा निजीययात्रासुविधायाः अप्रायोगिकता च परिगणय्य सोमवासरादारभ्य कार्यालयेषु केवलम् अवश्यकर्मकराः एव सन्निहिताः भवितव्याः इति गृहमन्त्रालयेन आदेशो दत्तः। स्वास्थ्यमण्डलस्थाः कर्मकराः पूर्ववत् सेवायै आगन्तव्याः इति निर्देशः अस्ति।

प्रगति मैदान् गमनागमनसुरङ्गः प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटितः।

नवदिल्ली> प्रगति मैदान् नाम संयोजितगमनागमनसुरङ्गः प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पितः। उद्घाटनानन्तरं सुरङ्गसन्दर्शनावसरे प्रधानमन्त्रिणा तत्रस्थानि मालिन्यानि निर्मार्जयन्तं दृश्यमपि त्वरितप्रसारणमभवत्। सुरङ्गसन्दर्शनावसरे अधः क्षिप्तां पलस्तिककूपीं, तथा अन्यानि मालिन्यानि च निर्माजयन्तं दृश्यमेव चलनचित्रखण्डे द्रष्टुं शक्यते। स्वच्छभारत अभियोजनां प्रति प्रधानमन्त्रिणः प्रतिज्ञाबद्धतां प्रकटयति इदं दृश्यम् इति सूचयन् बहवः जनाः तम् अभिनन्द्य पुरतः आगताः।

Sunday, June 19, 2022

 अग्निपथे रोषाग्निः प्रज्वालयति; शीतीकर्तुं सर्वकारः। 

नवदिल्ली> अग्निपथप्रकरणे चतुर्थदिनेSपि अनुवर्तमानं देशव्याप्तप्रक्षोभं शीतीकर्तुं केन्द्रसर्वकारेण आरक्षणानि लाघवानि च प्रख्यापितानि। अग्निपथप्रकारेण वर्षचतुष्टयं सेवामनुष्ठीयमानेभ्यः अग्निवीरेभ्यः तेषां योग्यतायाः आधारेण रक्षामन्त्रालयस्य विविधेषु विभागेषु १० प्रतिशतम् आरक्षणमनुमोदितम्। अर्धसैनिकविभागेषु  आरक्षणं दास्यतीति गृहमन्त्रालयेनापि  प्रख्यापितम्। अग्निवीराणां वयःपरिधिः २६ संवत्सराणीति दीर्घितम्। 

   किन्तु प्रक्षोभः अधिकराज्येषु व्याप्तमस्ति। गतदिने कर्णाटकं केरलम् इत्यादिषु राज्येषु अपि प्रतिषेधाः संवृत्ताः। ह्यः अपि उत्तरभारतराज्येषु रेल् यानानि अन्यानि वाहनानि च आक्रमितानि। बीहारे प्रख्यापितं बन्द् सम्पूर्णमासीत्।

Saturday, June 18, 2022

 केरलेषु पाठ्ययोजना परिष्कारः समारब्धः। 

तिरुवनन्तपुरम्> सार्वजनिकशिक्षायाः अभ्युत्थानाय विद्यालयानां मानकीकरणं गुणवत्ता-निर्धारणं च करणीयम् इति अनुशंसितम्। एतत् राज्यस्तरीय विद्यालयपाठ्यक्रमस्य पूर्वसङ्कल्पे उक्तम् अस्ति।

   इदमपि प्रस्तावितं यत् उच्चगुणवत्तायुक्तानां महाविद्यालयानाम् कृते नाक् (NAAC) मान्यतायाः समानं मान्यतायाः समानं मूल्यदानेन तरतमत्वविवेचनं तदनुसारेण मूल्याङ्कनं च विद्यालयानां कृते दातव्यम्। नूतनपाठ्यक्रमे डिजिटल् शिक्षा, व्यावसायिकप्रशिक्षणं च केन्द्रितं भविष्यति। विषयेऽस्मिन् तिरुवनन्तपुरे कार्यशाला आरब्धा अस्ति। नवीनं पाठ्यक्रमं पाठ्यपुस्तकानि च चतुविंशत्युत्तर द्विसहस्रतमे (२०२४) शैक्षणिकवर्षात् उपलभ्यन्ते। पाठ्यप्रणाल्यः केन्द्रीयशिक्षानीतेः अनुरूपाः सन्ति। पाठ्यपुस्तकान्तर्गतानि तथ्यानि विमर्श्य स्वयमेव निपुणतां प्राप्तुं छात्रेभ्यः शक्नोति।

 काबूले गुरुद्वारे भीकराक्रमणम्। सुरक्षाभटः निहतः।

काबूलः> अफ्गानिस्थानस्य राजधान्यां काबूलनगरे गुरुद्वारस्योपरि भीकराणाम् आक्रमणम्। 'कारते परवान्' नाम गुरुद्वारम् अतिक्रम्य प्रविष्टाः भीकराः कारणं विना गोलिकाप्रहारं कृतवन्तः। गुरुद्वारस्य अन्तर्भागे नैके विस्फोटाः अभवन् इति प्रतिवेदनानि सूचयन्ति। आक्रमणे अस्मिन् गुरुद्वारस्य एकः सुरक्षाभटः निहतः इति दृग्साक्षिणम् उद्धृत्य प्रादेशिकमाध्यमैः आवेदितम्। आक्रमणस्य पृष्टतः ऐ एस् भीकराः इति सूचना अस्ति।

 इन्डोनेष्या ओपण् पिच्छकन्दुकः - प्रणोय् उपान्त्यचक्रे। 

जक्कार्ता> इन्डोनेष्या ओपण् पिच्छकन्दुकक्रीडाश्रृङ्खलायां भारतस्य एछ् एस् प्रणोयः उपान्त्यचक्रं प्रविष्टवान्। शुक्रवासरे रात्रौ सम्पन्नायां क्रीडायां डेन्मार्कदेशस्य क्रीडकं रास्मस् गंके नामकं केरलीयोSयं  पराजितवान्। उपान्त्यस्पर्धायां चीनस्य सावो जुन् पेङ् प्रतियोगी भविष्यति।

 अग्निपथप्रक्षोभः व्याप्यते। 

नवदिल्ली> केन्द्रसर्वकारेण उद्घुष्टं ह्रस्वकालीनां सैनिकनियुक्तिपरियोजनां अग्निपथनामिकां विरुध्य गतदिने अपि राष्ट्र व्यापकप्रक्षोभः प्रचालितः। सर्वकारेण प्रख्यापिताः अनुनयनिर्देशाः निष्फलाः जाताः। सैनिकानां सेवाकालः २३ वयःपर्यन्तमिति परिष्कृत्य निगदितमासीत्। 

     पूर्वम् उत्तरभारतीयराज्येषु आपन्नाः अक्रमघटनाः गतदिने दक्षिणभारतमपि व्यापिताः। बिहारं, ओडीशा, उत्तरप्रदेशः, हरियानं, मध्यप्रदेशः इत्यादीनि राज्यानि विना तेलङ्काने अपि प्रतिषेधः अक्रमासक्तः अभवत्। रेल् यानानि इतरवाहनान्यपि प्रक्षोभकैः अग्निसात्कृतानि। 

   तेलङ्काने सेक्कन्दराबादे आरक्षकसेनया कृते भुषुण्डिप्रयोगे राकेशो नाम युवकः हतः। परियोजनां प्रतिषिध्य बिहारे अद्य विपक्षसंघटनैः 'बन्द' नामकं प्रतिषेधान्दोलनम् आचरिष्यते।

Friday, June 17, 2022

 अग्निपथः प्रज्वालयति -  उत्तरभारते व्यापकप्रतिषेधः। 

नवदिल्ली> केन्द्रसर्वकारस्य निर्दिष्टम् अग्निपथं नामिकां परियोजनां विरुध्य आराष्ट्रं प्रतिषेधः प्रवर्तते। केषुचित् स्थानेषु प्रतिषेधः अक्रमासक्तः अभवत्। राष्ट्रस्य सायुधसेनासु युवकानां वर्षचतुष्टयं यावत् ह्रस्वकालनियुक्तिं दीयमाना परियोजना अस्त्येषा। 

   बिहारः, उत्तरप्रदेशः, हरियानं, राजस्थानं, मध्यप्रदेशः, जम्मु, उत्तराखण्डः, हिमाचलप्रदेशः इत्येषु उत्तरभारतीयराज्येषु युवकाः वीथिं प्राप्य तीव्रं प्रतिषेधं प्राकटयन्। बिहारे त्रीणि रेल् यानानि अग्निसात्कृतानि। बहुत्र राजमार्गाः रेल्मार्गाश्च उपरुद्धाः। 

  परियोजनां प्रति प्रतिषेधस्य कारणानि एतानि - स्थिरनियुक्तिः नास्ति, पूर्वसेवावेतनादिकानि आनुकूल्यानि नार्हन्ति, कार्यकालः सप्तदशवयः आरभ्य २१ वयःपर्यन्तमित्यतः उन्नतशिक्षां बाधते, वर्षचतुष्टयानन्तरं अव्यक्तता वर्तते, वर्षचतुष्टयानन्तरं ७५% सैनिकाः अवश्यं सेवातः निवर्तयितव्याः।

Thursday, June 16, 2022

 परशुरामस्य व्यक्तित्व-कृतित्व-विषयिणी राष्ट्रिय-शोधसंगोष्ठी हरिद्वारे 


  महाविष्णोः अंशावतारस्य भगवतः परशुरामस्य व्यक्तित्व-कृतित्व-विषयिणी द्विदिवसीया राष्ट्रिय-शोधसंगोष्ठी मासेऽस्मिन् १९-२०-दिनाङ्कयोः हरिद्वारे भगवत्याः भागीरथ्याः तटे प्राचीनावधूत-मण्डलाश्रमे सम्पत्स्यते।

  राष्ट्रिय-परशुराम-परिषदा आयोज्यमाने अस्मिन् विद्वत्-सन्त-समागमे देशस्य विभिन्नेभ्यः भागेभ्यः समागताः विद्वान्सः महात्मानश्च भगवतः परशुरामस्य गहन-चरित्रस्य विषये स्व-स्वानुसन्धान-विचारान् प्रस्तोष्यन्ति। अत्र सुज्ञातः संस्कृतवार्ता-प्रवाचकः तथा विश्वसंस्कृत-पत्रकारिता-परिषदः राष्ट्रियाध्यक्षः डॉ.बलदेवानन्द-सागरः ‘वैदिक-संस्कृतेः अप्रतिमः संरक्षकः – भगवान् श्रीपरशुरामः’ इति कृत्वा स्वीयान् विचारान् उपस्थापयिष्यति।