OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 12, 2022

 'एष्यन् चषकपादकन्दुकक्रीडा' - भारताय विजयः। 

कोल्कोत्ता> एष्यन् चषकपादकन्दुकक्रीडायाः योग्यतापादस्पर्धायाम् अफ्गानिस्थानं विरुध्य भारतस्य विजयः। 'डि'नामके संघे अफ्गानिस्थानं २-१ इति लक्ष्यकन्दुकक्रमेण भारतं विजयं प्राप। स्थगितसमीकरणसमये सहल् अब्दुल् समद् इत्यनेन प्राप्तेन लक्ष्यकन्दुकेनैव भारतं विजयपदं प्राप्तवत्। 

   पूर्वं ८६तमे निमिषे भारतनायकः सुनिल् छेत्री प्रथमतया भारतमग्रं प्राप्तवान्। किन्तु निमिषद्वये सुबायिर् अमिरि इत्यनेन अफ्खानक्रीडकेण समावस्था  सम्प्राप्ता। अनन्तरं नष्टपरिहारकालस्य आद्यनिमिषे एव सहलस्य लक्ष्यकन्दुकेन भारतस्य विजयप्राप्तिरभवत्। 

    भारतस्य द्वितीयो विजय एवायम्। प्रथमे द्वन्द्वे कम्बोडियां अभिभूतवत्। अस्मिन् चक्रे भारतस्य अन्तिमक्रीडा १४तमे दिनाङ्के होङ्कोङ्ङं प्रति भविष्यति।

Saturday, June 11, 2022

 राज्यसभानिर्वाचनं - महाराष्ट्रे  हरियाने च मतगणना स्थगिता। 

नवदिल्ली> मतदानवेलायां निर्वाचनानुशीलनानि लङ्घितानि इत्यारोपेण महाराष्ट्रे  हरियाने च मतगणना स्थगिता। अद्य उषसि आगतं निर्वाचनायोगस्य औद्योगिकफलप्रख्यापनमनुसृत्य हरियानस्य स्थानद्वयमपि भाजपादलेन प्राप्तम्। विजयप्रतिक्षामवलम्बितः कोण्ग्रस् स्थानाशी अजयमाक्कः पराजितः। महाराष्ट्रस्य औद्योगिकं फलं नागतम्।

 राज्यसभानिर्वाचनं सम्पन्नम्।

नवदिल्ली> चतुर्षु राज्येषु राज्यसभायाः १६ स्थानानि प्रति सम्पन्नं निर्वाचनं घटनावैविध्येन समाप्तम्। महाराष्ट्रं - ६, राजस्थानं -४, हरियानं -२, कर्णाटकं - ४ इत्येवं १६ स्थानेभ्यः आसीत् निर्वाचनम्। 

  राजस्थानस्य त्रीणि स्थानानि कोण्ग्रस् दलेन एकं स्थानं भा ज पा दलेन च प्राप्तानि। कर्णाटके त्रिषु  स्थानेषु भा ज पा दलेन प्राप्तेषु एकं स्थानं कोण्ग्रस् दलेन प्राप्तम्। वित्तमन्त्रिणी निर्मलासीतारामः कर्णाटकतः  विजितेषु प्रमुखा भवति।

 बहिराकाशदौत्येषु भारतीय बहिराकाश - अनुसन्धान-संस्थया साकम् अन्याः निजीयसंस्थाः च। इन्स्पेस् आस्थानमन्दिरम् उद्घाटितम्।

 अहम्मदाबाद्>विश्वस्मिन् बहिराकाशविपण्यां भारतस्य योगदानं संवर्धनीयम्। तदर्थं निजीय मण्डलाय नूतनाशयाय च वेदिकां दातव्यमस्ति प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितम्। इन्स्पेस् आस्थानमन्दिरं उद्घाटनं कृत्वा भाषमाणः आसीत् सः। बहिराकाशदौत्येषु भागं स्वीकर्तुं निजीयसंस्थाभ्यः सौकर्यं प्रददातुमेव इन्स्पेस् इत्यस्य प्रारम्भः कृतः।तद्वारा राष्ट्रे विविध निजीयसंस्थायाः ऐ एस् आर् ओ संस्थया सह मिलित्वा प्रवर्तयितुं अवसरो लभते। बहिराकाशानुसन्धानदौत्येषु तथा नूतनसूचनप्रौद्योगिकविद्याविकसन प्रवर्तनेषु च ऐ एस् आर् ओ संस्थायाः सौकर्याणि अपि उपयोक्तुं इन्स्पेस् साहाय्यं प्रदास्यति। बहिराकाशमण्डले निजीयनिक्षेपाणां तथा नूतनाशयानां च प्रोत्साहनार्थं भारतसर्वकारेण गुजरात् राज्ये स्थापितं भवति इन्स्पेस्।

Friday, June 10, 2022

 'ट्रोलिंग्' निरोधः आरब्धः। 

अनन्तपुरी> केरलराज्ये समुद्रस्य गभीरतायां सयन्त्रनौकाद्वारा बृहज्जालानि उपयुज्य मत्स्यबन्धनं गतरात्रावारभ्य निरुद्धम्। जूलाय्मासस्य ३१ दिनाङ्कपर्यन्तमेव निरोधः। किन्तु परम्परागतमत्स्यबन्धनाय निरोधः नास्ति।

 मिताली राजः निवृत्ता। 


नवदिल्ली>  महिलाक्रिक्कट्दलाय भासमानं मुखं सङ्केतं च दत्तवती भारतस्य महिलाक्रिक्कट्दलस्य नायिका मिताली राजः क्रीडायाः सर्वेभ्यः प्रकारेभ्यः निवर्तते इति ट्विट्टर् द्वारा प्रख्यापितवती। 

    १९९९ तमे वर्षे स्वस्याः १६ तमे वयसि अयर्लान्डं विरुध्य एकदिनक्रीडया अन्तर्राष्ट्रीयक्रिक्कट्क्रीडाक्षेत्रे प्रारम्भं कृतवती मिताली २३ संवत्सराणि क्रीडाङ्कणेषु अभिमानार्हाभिः क्रीडाभिः प्रशोभितवती। एकदिनेषु निकषास्पर्धासु च भारतदलस्य नायिका आसीत्। १०,८६८ धावनाङ्कैः महिलाक्रिक्कट्क्रीडासु अधिकतमधावनाङ्कप्राप्ता इति श्रेष्ठपदं च प्राप्तवती। वनिताएकदिनस्पर्धासु अधिकतमधावनाङ्कार्हा च [७८०५] अभवत्।

Thursday, June 9, 2022

 राष्ट्रे कोविड् प्रकरणानि वर्धन्ते। विमानेषु मुखावरणम् अनिवार्यम् ।

नवदिल्ली> राष्ट्रे कोविड् प्रकरणानि अनुदिनं वर्धन्ते इत्यतः विमान-यात्रिकेभ्यः मुखावरणम् अनिवार्यम् अकरोत्। निर्देशं दत्वा अपि मुखावरणं धर्तुं विमुखेभ्यः यात्रिकेभ्यः निश्चितकालपर्यन्तं  मार्गे स्थगनं विमानप्रवेशरोधनं च कर्तव्यम् इति व्योमयाननिर्देशकालयेन विमानसंस्थाधिकारिणः आदिष्टाः। एतेभ्यः यात्रिकेभ्यः दण्डशुल्कः दापनीयः इत्यपि निर्देशकालयेन आदिष्टः। मुखावरणधारणे विमुखान् प्रति कठिनप्रक्रमाः स्वीकरणीयाः इति नवदिल्ली उच्च-न्यायालयस्य आदेशानुसारेण भवति व्योमयानमन्त्रालयस्य अयं निर्देशः ।

 भारते प्रतिदिनकोविड्बाधा ७००० अतीता। 

नवदिल्ली> राष्ट्रे ९३ दिनानामनन्तरं प्रतिदिनकोविड्व्यापनं ह्यः ७००० अतीतम्। बुधवासरे प्रभाते समाप्ते २४ होराकाले ५२३३ जनाः नूतनतया कोविड्बाधिताः अभवन्। १. ६७ प्रतिशतमेव प्रतिदिनरोगस्थिरीकरणमानम्। 

    अनेन राष्ट्रे सम्पूर्णे आहत्य कोविड्बाधिताः ४,३१,९०,२८२ जाताः। इदानीं २८,८५७ रोगिणः परिचर्यायां वर्तन्ते।गतदिने सप्त जनाः मृताः। आहत्य ५,२४,१५ जनाः मृत्युवशं प्राप्ताः। आराष्ट्रं १९४. ४३ कोटि प्रत्यौषधमात्राः वितरीताः।

Wednesday, June 8, 2022

 केरले कोविड्प्रकरणानि वर्धन्ते।

अनन्तपुरी> केरलराज्ये कोविड्प्रकरणानि अनुदिनं वर्धन्ते। ह्यः २२३१ जनाः रोगबाधिताः अभवन्। गतसाप्ताहिके प्रतिदिनसंख्या  सहस्रातीता अनुवर्तमाना आसीत्। एरणाकुलं, तिरुवनन्तपुरं, कोट्टयं, तृश्शिवपेरूर् जनपदेषु एव नूतनाः कोविड्बाधिताः अधिकतया दृश्यन्ते। 

  रोगः तीव्रस्वभावरूपः नास्तीति स्वास्थ्यविभागेन निगदितम्। किन्तु मुखावरक-हस्तप्रक्षालनादिकानि कोविडनुशीलनानि पालनीयानीति निर्दिष्टमस्ति।

अष्टादश रोगिणः अर्बुदरोगात् मुक्तिं प्राप्तवन्तः । परीक्षणौषधम् फलप्रदम्।


न्यूयोर्क्> चरित्रे इदंप्रथमतया अर्बुदरोगचिकित्सापरीक्षणे भागं स्वीकृताः सर्वे रोगिणः रोगात् मुक्तिं प्राप्तवन्तः। मलाशयार्बुदबाधिताः अष्टादश रोगिणः पूर्णतया रोगात् मुक्तिं प्राप्तवन्तःइति न्यूयोर्क् टैम्स् वार्तामाध्यमेन प्रतिवेदितम्। डोस्टार्लिमाब् नाम औषधं षण्मासं यावत् स्वीकृत्यानन्तरं सर्वेषु रोगिषु अर्बुदकोशाः अप्रत्यक्षाः जाताः इति न्यूयोर्क् टैम्स् वार्तामाध्यमेन प्रतिवेदितम्।

Tuesday, June 7, 2022

भारतेन पुनरपि अग्नि -४ नाम क्षेपणास्त्रं विजयरूपेण परीक्षितम्। 


भुवनेश्वरम्> आणवायुधवाहक-क्षमतायुक्तम् अग्नि ४ नाम दीर्घदूरक्षेपणास्त्रं भारतेन विजयरूपेण परीक्षितम्। ओडिषायाः तीरे डो. अब्दुल् कलाम् द्वीपस्थे इन्टग्रेड् टेस्ट् रेञ्ज् इति स्थानात् सायङ्काले सार्धसप्त वादने आसीत् विक्षेपणम्। स्ट्राट्टजिक् फोर् कमाण्ड् इत्यस्य नेतृत्वे समायोजितस्य नित्यपरिशीलनस्य भागतया एव परीक्षणमिदं समायोजितम्। परीक्षणं सम्पूर्णतया विजयप्रदमिति प्रतिरोधमन्त्रालयेन आवेदितम्।

 'फ्रञ्च् ओपण् टेन्निस्' - पुरुषकिरीटं राफेल नदालेन  प्राप्तं; महिलाकिरीटं इगा स्वियाटेक् इत्यनया च।

पारीस्> फ्रञ्च् ओपण् नामके टेन्निस् खेलने पुरुषाणाम् एकलस्पर्धायाः अन्तिमचक्रे स्पेयिन् देशीयः रफेल् नडालः किरीटं प्राप्तवान्। नोर्वे राष्ट्रस्य कास्पर् रूड् इत्येनं [६-३, ६-३, ६-०] इति क्रमेण नडालः अभिभूतवान्। तस्य १४तमं फ्रञ्च् ओपण् किरीटं भवत्येतत्। २२ तमः 'ग्रान्ड् स्लां' लाभश्च।

  महिलानां फ्रञ्च् ओपण् प्रतियोगितायां पोलण्ट् देशीया इगा स्विया टेक् नामिका अमेरिक्कायाः कोको गाफ् इत्येनां [६-१, ६-३] इति क्रमेण पराजितवती। २१ वयस्का इगा द्वितीयवारमेव फ्रञ्च् ओपण् विजितवती।

Sunday, June 5, 2022

 काश्मीरि पण्डितविभागानां कृते सविशेषसुरक्षा दास्यते। 

 नवदिल्ली> जम्मु-काश्मीरे 'पण्डित'नामकविभागे अन्तर्भूताः जनाः निरन्तरं  भीकराक्रमणविधेयाः भवन्ति इत्यतः तेषां कृते सविशेषसुरक्षां दास्यति। गृहमन्त्रिणः अमितषाहस्य नेतृत्वे सम्पन्ने उच्चस्तरीयोपवेशने आसीदयं निर्णयः। भीकराक्रमणं प्रतिरोद्धुं कर्कशप्रक्रमान् अवलम्बितुमपि निर्णीतम्। 

  अमर्नाथतीर्थाटनं प्रति भीकराक्रमणसाध्यता वर्तते इत्यतः सुरक्षाशक्तीकरणाय गुप्तचरविभागविन्यासाय अपि निर्णयः कृतः। उपवेशने राष्ट्रियसुरक्षाउपदेष्टा अजित् डोवलः, स्थलसेनाधिकारी जन. मनोज् पाण्डे, जम्मु-काश्मीरस्य लफ्टनन्ट् राज्यपालः मनोज सिंहः इत्यादयः भागं स्वीकृतवन्तः।

Saturday, June 4, 2022

 विधानसभा उपनिर्वाचनानि - उत्तरखण्डे मुख्यमन्त्री विजयीभूतः। 

अन्यस्मिन् स्थानद्वये वर्तितदलश्च। 

नवदिल्ली> राष्ट्रे गते ३१तमे दिनाङ्के सम्पन्नानां त्रयाणां विधानसभाउपनिर्नाचनानां मतगणनाफलं प्रख्यापितम्। उत्तराखण्डस्य चम्पावत विधानसभामण्डले सम्पन्ने उपनिर्वाचने मुख्यमन्त्री पुष्करसिंहधामी विजयीभूतः। 

   कृतेषु मतदानेषु ९२.९४% संलभ्य एव सः मुख्यमन्त्रिपदं दृढीकृतवान्। मुख्यप्रतियोगी कोण्ग्रस्दलस्य निर्मला गह्तोरी इत्येनमपेक्ष्य ५५,००० मतदानानि धामिने अधिकतया लब्धानि। विगते विधानसभानिर्वाचने भा ज पी दलाय शासनाधिकारः पुनर्लब्धोSपि खातिमामण्दडले स्पर्धितः भाजपादलस्य मुख्यमन्त्रिस्थानाशी  धामी पराजितः आसन्। किन्तु धामी एव मुख्यमन्त्रिरूपेण दलेन नियुक्तः। ततः मुख्यमन्त्रिणः स्पर्धायै भाजपादलप्रतिनिधी विधानसभाङ्गः कैलाष चन्द्र गह्तोरी स्वस्थानं परित्यक्तवान्। तत्रैव धामी उज्वलविजयं प्राप्तवान्। 

  अन्ययोः मण्डलयोः वर्तितस्य राजनैतिकदलस्य प्रतिनिधिः एव विजितः। ओडीषायां ब्रजराजनगरविधानसभामण्डले प्रशासनदलस्य बिजु जनता दलस्य अलक मोहन्ती विजयीभूतः। तथा च केरले तृक्काक्कर मण्डले कोण्ग्रस् दलस्य  स्थानाशिनी उमातोमसः उज्वलविजयेन स्वदलस्य मण्डलं सुरक्षितमकरोत्।

हिमालयस्य उपत्यकायां संभूता पुष्पवाटिका यात्रिकाणां कृते उद्घाटिता। 


हिमालयेषु नानावर्णैः अलङ्कृतानां पुष्पाणाम् उपत्यका सहृदयानां मनांसि हठात् आकर्षत् विराजते। उत्तराखण्डे चमोलि जनपदे हिमालयस्य उपत्यकायां संभूता पुष्पवाटिका सन्दर्शकाणां कृते उद्घाटिता। प्रथमदिने ७६ सन्दर्शकाः उपत्यकायाम् आगताः। तेषु एकः विदेशीयः अपि अस्ति। 
   युनेस्को संस्थायाः पैतृकपट्टिकायाम् अन्तर्गता भवति १००० पादमितोन्नता एषा उपत्यका। इयं ८७.५ चतुरश्रपादविस्तृता भवति। ५०० विधानि पुष्पवैविध्यानि जून् मासादारभ्य ओक्टोबर् मासपर्यन्तं प्रफुल्लन्ति। ओक्टोबर् मासस्य एकत्रिंशत् दिनपर्यन्तं वाटिका सन्दर्शकानां कृते सुसज्जा भविष्यति। अत्यपूर्वं हिमालयसौन्दर्यंमपि आस्वादयितुं शक्यते इत्यतः एषा उपत्यका सहृदयानां यात्रिकाणां प्रियङ्करी भवति।

Friday, June 3, 2022

 तुर्कीराष्ट्रं नूतनं नाम स्वीकृतम्; संयुक्तराष्ट्रसंख्येन अङ्गीकृतम्।


तुर्कीदेशः पुरातनः तुर्कीदेशः नास्ति। 'तुर्की' इति नाम अपि परिवर्तितम्। संयुक्तराष्ट्रसङ्घस्य अभिलेखेषु नूतनं नाम भविष्यति। तुर्की-सर्वकारस्य अनुरोधेन संयुक्तराष्ट्रसङ्घेन अस्य नामपरिवर्तनस्य अनुमोदनं कृतम्। संयुक्तराष्ट्रसङ्घस्य प्रवक्ता अवदत् यत् विषयेऽस्मिन् तुर्कीदेशस्य विदेशमन्त्रिणः पत्रं प्राप्तम्। इतःपरं सर्वत्र 'तुर्की' इत्यस्य स्थाने 'तुर्कीये' इत्यस्य उपयोगं कर्तुं संप्रार्थितम् आसीत्। यू एन् प्रवक्ता उक्तवान् यत् पत्रं प्राप्तात् क्षणात् एव देशस्य नामपरिवर्तनं प्रवर्तते। तुर्कीये-सर्वकारेण उक्तं यत् अन्याभ्यः अन्ताराष्ट्रीयसंस्थाभ्यः अन्येभ्यः देशेभ्यः च नाम परिवर्तनस्य विषये शीघ्रमेव सूचयिष्यति इति। 
    नूतनं नाम देशस्य सर्वोत्तममार्गं प्रतिनिधानं करोति इति राष्ट्रपतिः तैय्यप् एर्दोगानः अवदत्। देशस्य जनानां संस्कृतिं, सभ्यतां, मूल्यानि च समाहितं भवति नूतनं नाम इति तेनोक्तम्। देशात् निर्यातितेषु सर्वेषु उत्पादेषु "मेड् इन् तुर्कीये" इति योजितम् अस्ति। अस्मिन् वर्षे प्रारम्भे 'हेलो तुर्कीये' इति पर्यटन-अभियानं प्रारब्धम् आसीत्। इतः परं सर्वासु भाषासु देशस्य वर्णनार्थं "तुर्कीये" इति शब्दस्य प्रयोगं कर्तुं जनसमुदायेन आग्रहः क्रियते। सः राज्यसंस्थाभ्यः अपि स्वपत्राचारेषु तुर्कीयेदेशनामस्य उपयोगं कर्तुं राष्ट्रपतिः तैय्यप् एर्दोगानः निर्देशितवान्।

Thursday, June 2, 2022

 संस्कृतपत्रकारितादिने सम्प्रतिवार्ताः अपि सफला जाता।

महर्षिपाणिनिवैदिकविश्वविद्यालयेन संरचितं चित्रम्।

१८६६-वर्षे जूनमासे प्रथमदिने 'काशीविद्यासुधानिधिः' इति पत्रिका प्रथमतया प्रकाशिता जाता। ततः परं आधुनिक-संस्कृत-पत्रकारिता प्रवर्तिता। शुभं भवतु सर्वेषाम्।

Wednesday, June 1, 2022

 केरलराज्ये कोविड्-प्रकरणेषु महती वृद्धिः; 

तिरुवनन्तपुरम्> अद्यत्वे ११६१ जनाः अस्मिन् रोगेण पीडिताः सन्ति। एर्णाकुलम् जनपदे भवन्ति अधिके रोगिणः। प्रायः ३६५ जनाः अद्य रोगबाधिताः सन्ति। द्वौ मृतौ। अन्येषु जनपदेषु अपि कोविड् प्रकरणाः वर्धमानाः सन्ति। सम्प्रति देशे सर्वत्र १७८८३ कोविड्-रोगिणः चिकित्सां स्वीकुर्वन्ति। रोगबाघितेषु केवलं ०.०४% एव चिकित्सा स्वीक्रियन्ते। विगत२४ होरासु २१३४ जनाः स्वस्थतां प्राप्तवन्तः। एतेन रोगान्मुक्तानां संख्या ४२६१५५७४ अभवत्। अनेन रोगमुक्तिमानः प्रतिशतं ९८.७४ भवति। विगत २४ होरासु २३३८ नूतनाः प्रकरणानि प्राप्तानि। दैनिकं रोगव्यापनमानः प्रतिशतं ०.६४ इति भवति। साप्ताहिकं रोगव्यापनमानं प्रतिशतं ०.६१ इत्यपि भवति। केन्द्रसर्वकारस्य गणनानुसारम् इतः पर्यन्तं ८५.०४ कोटिः कोविड् परीक्षाः कृताः, विगत २४ होरासु ३६३८८३ परीक्षणानि कृतानि च।