OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 7, 2022

 'फ्रञ्च् ओपण् टेन्निस्' - पुरुषकिरीटं राफेल नदालेन  प्राप्तं; महिलाकिरीटं इगा स्वियाटेक् इत्यनया च।

पारीस्> फ्रञ्च् ओपण् नामके टेन्निस् खेलने पुरुषाणाम् एकलस्पर्धायाः अन्तिमचक्रे स्पेयिन् देशीयः रफेल् नडालः किरीटं प्राप्तवान्। नोर्वे राष्ट्रस्य कास्पर् रूड् इत्येनं [६-३, ६-३, ६-०] इति क्रमेण नडालः अभिभूतवान्। तस्य १४तमं फ्रञ्च् ओपण् किरीटं भवत्येतत्। २२ तमः 'ग्रान्ड् स्लां' लाभश्च।

  महिलानां फ्रञ्च् ओपण् प्रतियोगितायां पोलण्ट् देशीया इगा स्विया टेक् नामिका अमेरिक्कायाः कोको गाफ् इत्येनां [६-१, ६-३] इति क्रमेण पराजितवती। २१ वयस्का इगा द्वितीयवारमेव फ्रञ्च् ओपण् विजितवती।

Sunday, June 5, 2022

 काश्मीरि पण्डितविभागानां कृते सविशेषसुरक्षा दास्यते। 

 नवदिल्ली> जम्मु-काश्मीरे 'पण्डित'नामकविभागे अन्तर्भूताः जनाः निरन्तरं  भीकराक्रमणविधेयाः भवन्ति इत्यतः तेषां कृते सविशेषसुरक्षां दास्यति। गृहमन्त्रिणः अमितषाहस्य नेतृत्वे सम्पन्ने उच्चस्तरीयोपवेशने आसीदयं निर्णयः। भीकराक्रमणं प्रतिरोद्धुं कर्कशप्रक्रमान् अवलम्बितुमपि निर्णीतम्। 

  अमर्नाथतीर्थाटनं प्रति भीकराक्रमणसाध्यता वर्तते इत्यतः सुरक्षाशक्तीकरणाय गुप्तचरविभागविन्यासाय अपि निर्णयः कृतः। उपवेशने राष्ट्रियसुरक्षाउपदेष्टा अजित् डोवलः, स्थलसेनाधिकारी जन. मनोज् पाण्डे, जम्मु-काश्मीरस्य लफ्टनन्ट् राज्यपालः मनोज सिंहः इत्यादयः भागं स्वीकृतवन्तः।

Saturday, June 4, 2022

 विधानसभा उपनिर्वाचनानि - उत्तरखण्डे मुख्यमन्त्री विजयीभूतः। 

अन्यस्मिन् स्थानद्वये वर्तितदलश्च। 

नवदिल्ली> राष्ट्रे गते ३१तमे दिनाङ्के सम्पन्नानां त्रयाणां विधानसभाउपनिर्नाचनानां मतगणनाफलं प्रख्यापितम्। उत्तराखण्डस्य चम्पावत विधानसभामण्डले सम्पन्ने उपनिर्वाचने मुख्यमन्त्री पुष्करसिंहधामी विजयीभूतः। 

   कृतेषु मतदानेषु ९२.९४% संलभ्य एव सः मुख्यमन्त्रिपदं दृढीकृतवान्। मुख्यप्रतियोगी कोण्ग्रस्दलस्य निर्मला गह्तोरी इत्येनमपेक्ष्य ५५,००० मतदानानि धामिने अधिकतया लब्धानि। विगते विधानसभानिर्वाचने भा ज पी दलाय शासनाधिकारः पुनर्लब्धोSपि खातिमामण्दडले स्पर्धितः भाजपादलस्य मुख्यमन्त्रिस्थानाशी  धामी पराजितः आसन्। किन्तु धामी एव मुख्यमन्त्रिरूपेण दलेन नियुक्तः। ततः मुख्यमन्त्रिणः स्पर्धायै भाजपादलप्रतिनिधी विधानसभाङ्गः कैलाष चन्द्र गह्तोरी स्वस्थानं परित्यक्तवान्। तत्रैव धामी उज्वलविजयं प्राप्तवान्। 

  अन्ययोः मण्डलयोः वर्तितस्य राजनैतिकदलस्य प्रतिनिधिः एव विजितः। ओडीषायां ब्रजराजनगरविधानसभामण्डले प्रशासनदलस्य बिजु जनता दलस्य अलक मोहन्ती विजयीभूतः। तथा च केरले तृक्काक्कर मण्डले कोण्ग्रस् दलस्य  स्थानाशिनी उमातोमसः उज्वलविजयेन स्वदलस्य मण्डलं सुरक्षितमकरोत्।

हिमालयस्य उपत्यकायां संभूता पुष्पवाटिका यात्रिकाणां कृते उद्घाटिता। 


हिमालयेषु नानावर्णैः अलङ्कृतानां पुष्पाणाम् उपत्यका सहृदयानां मनांसि हठात् आकर्षत् विराजते। उत्तराखण्डे चमोलि जनपदे हिमालयस्य उपत्यकायां संभूता पुष्पवाटिका सन्दर्शकाणां कृते उद्घाटिता। प्रथमदिने ७६ सन्दर्शकाः उपत्यकायाम् आगताः। तेषु एकः विदेशीयः अपि अस्ति। 
   युनेस्को संस्थायाः पैतृकपट्टिकायाम् अन्तर्गता भवति १००० पादमितोन्नता एषा उपत्यका। इयं ८७.५ चतुरश्रपादविस्तृता भवति। ५०० विधानि पुष्पवैविध्यानि जून् मासादारभ्य ओक्टोबर् मासपर्यन्तं प्रफुल्लन्ति। ओक्टोबर् मासस्य एकत्रिंशत् दिनपर्यन्तं वाटिका सन्दर्शकानां कृते सुसज्जा भविष्यति। अत्यपूर्वं हिमालयसौन्दर्यंमपि आस्वादयितुं शक्यते इत्यतः एषा उपत्यका सहृदयानां यात्रिकाणां प्रियङ्करी भवति।

Friday, June 3, 2022

 तुर्कीराष्ट्रं नूतनं नाम स्वीकृतम्; संयुक्तराष्ट्रसंख्येन अङ्गीकृतम्।


तुर्कीदेशः पुरातनः तुर्कीदेशः नास्ति। 'तुर्की' इति नाम अपि परिवर्तितम्। संयुक्तराष्ट्रसङ्घस्य अभिलेखेषु नूतनं नाम भविष्यति। तुर्की-सर्वकारस्य अनुरोधेन संयुक्तराष्ट्रसङ्घेन अस्य नामपरिवर्तनस्य अनुमोदनं कृतम्। संयुक्तराष्ट्रसङ्घस्य प्रवक्ता अवदत् यत् विषयेऽस्मिन् तुर्कीदेशस्य विदेशमन्त्रिणः पत्रं प्राप्तम्। इतःपरं सर्वत्र 'तुर्की' इत्यस्य स्थाने 'तुर्कीये' इत्यस्य उपयोगं कर्तुं संप्रार्थितम् आसीत्। यू एन् प्रवक्ता उक्तवान् यत् पत्रं प्राप्तात् क्षणात् एव देशस्य नामपरिवर्तनं प्रवर्तते। तुर्कीये-सर्वकारेण उक्तं यत् अन्याभ्यः अन्ताराष्ट्रीयसंस्थाभ्यः अन्येभ्यः देशेभ्यः च नाम परिवर्तनस्य विषये शीघ्रमेव सूचयिष्यति इति। 
    नूतनं नाम देशस्य सर्वोत्तममार्गं प्रतिनिधानं करोति इति राष्ट्रपतिः तैय्यप् एर्दोगानः अवदत्। देशस्य जनानां संस्कृतिं, सभ्यतां, मूल्यानि च समाहितं भवति नूतनं नाम इति तेनोक्तम्। देशात् निर्यातितेषु सर्वेषु उत्पादेषु "मेड् इन् तुर्कीये" इति योजितम् अस्ति। अस्मिन् वर्षे प्रारम्भे 'हेलो तुर्कीये' इति पर्यटन-अभियानं प्रारब्धम् आसीत्। इतः परं सर्वासु भाषासु देशस्य वर्णनार्थं "तुर्कीये" इति शब्दस्य प्रयोगं कर्तुं जनसमुदायेन आग्रहः क्रियते। सः राज्यसंस्थाभ्यः अपि स्वपत्राचारेषु तुर्कीयेदेशनामस्य उपयोगं कर्तुं राष्ट्रपतिः तैय्यप् एर्दोगानः निर्देशितवान्।

Thursday, June 2, 2022

 संस्कृतपत्रकारितादिने सम्प्रतिवार्ताः अपि सफला जाता।

महर्षिपाणिनिवैदिकविश्वविद्यालयेन संरचितं चित्रम्।

१८६६-वर्षे जूनमासे प्रथमदिने 'काशीविद्यासुधानिधिः' इति पत्रिका प्रथमतया प्रकाशिता जाता। ततः परं आधुनिक-संस्कृत-पत्रकारिता प्रवर्तिता। शुभं भवतु सर्वेषाम्।

Wednesday, June 1, 2022

 केरलराज्ये कोविड्-प्रकरणेषु महती वृद्धिः; 

तिरुवनन्तपुरम्> अद्यत्वे ११६१ जनाः अस्मिन् रोगेण पीडिताः सन्ति। एर्णाकुलम् जनपदे भवन्ति अधिके रोगिणः। प्रायः ३६५ जनाः अद्य रोगबाधिताः सन्ति। द्वौ मृतौ। अन्येषु जनपदेषु अपि कोविड् प्रकरणाः वर्धमानाः सन्ति। सम्प्रति देशे सर्वत्र १७८८३ कोविड्-रोगिणः चिकित्सां स्वीकुर्वन्ति। रोगबाघितेषु केवलं ०.०४% एव चिकित्सा स्वीक्रियन्ते। विगत२४ होरासु २१३४ जनाः स्वस्थतां प्राप्तवन्तः। एतेन रोगान्मुक्तानां संख्या ४२६१५५७४ अभवत्। अनेन रोगमुक्तिमानः प्रतिशतं ९८.७४ भवति। विगत २४ होरासु २३३८ नूतनाः प्रकरणानि प्राप्तानि। दैनिकं रोगव्यापनमानः प्रतिशतं ०.६४ इति भवति। साप्ताहिकं रोगव्यापनमानं प्रतिशतं ०.६१ इत्यपि भवति। केन्द्रसर्वकारस्य गणनानुसारम् इतः पर्यन्तं ८५.०४ कोटिः कोविड् परीक्षाः कृताः, विगत २४ होरासु ३६३८८३ परीक्षणानि कृतानि च।

Tuesday, May 31, 2022

 अतिवृष्टिदुष्प्रभावेन असमे चत्वारः अपि मृताः।

    असमदेशे विगत-चतुर्विंशतिहोरासु चत्वारः अपि मृताः अभवन्। नवगांव एवं चाचर प्रदेशयोः च चत्वारः मृताः। एतावता जलप्रलयेन ३६ जनाः मृताः इति असमराज्यस्य दुरन्तनिवारणायोगेन निगदितम्। नवगांवमण्डलं जलप्रलयेन सर्वाधिकं क्षतिग्रस्तम् आसीत्। नवगाव मण्डले ३.४६ लक्षं जनाः प्रलयबाधिताः सन्ति।

असमस्य अनेकेषु भागेषु अद्यापि पृथक् वृष्टिः प्रचलति। राज्ये ५०० संख्याधिकानि दुरिताश्वासशिबिराणि स्थापितानि सन्ति। सम्प्रति शिबिरेषु प्रायः एकलक्षं जनाः निवसन्ति।

Saturday, May 28, 2022

उग्रप्रहरक्षमतायुक्तानां सैनिकोपकरणानां विदेशविक्रयणाय अनुमतिं दातुं जप्पान् सर्वकारः निरनोत्।

नवदिल्ली> भारतसहितं १२ देशेभ्यः क्षेपणास्त्रसहितं घातकशस्त्राणां विदेशविक्रयणं कर्तुं जप्पानः सज्जते। अग्निबाणादि उगप्रहरक्षमतायुक्तानि सैनिकोपकरणानि प्रतिरोधशस्त्रनिर्माणमण्डले भारतजप्पानयोः मिथः बन्धं दृढीकर्तुं प्रभवति। सैनिकोपकरणानां विदेशविक्रयणम् अनुबन्ध्य २०२३ मार्च् मासादारभ्य नियन्त्रणानि लघूकरिष्यति इति जप्पानस्य माध्यमेन निक्किना प्रतिवेदितम्।

Friday, May 27, 2022

 अमेरिक्कायां विद्यालये १८ वयस्केन कृते भुषुण्डिप्रहारे २१ अपमृत्यवः।

हूस्टण्> अमेरिक्कायां टेक्सस् राज्ये युवाल्डिस्थाने 'रोब् एलिमेन्टरि' विद्यालये केनचन १८ वयस्केन कृते भुषुण्डिप्रहारे १९ छात्राः द्वावध्यापकौ च हताः। घातक इति सन्दिग्धः साल्वदोर् रामोस् नामकं युवकं आरक्षिसंघः गोलिकाप्रहारेण जघान। १० संवत्सराभ्यन्तरे अमेरिक्काराष्ट्रे दुरापन्नः महत्तमः भुषुण्डिप्रहारः एषः। ७ - १० वयस्काः बालका एव हताः। 

  हत्याप्रकरणे राष्ट्रपतिः जो बैडनः अत्यन्तवैकारिकतया दःखं प्रतिषेधं च प्रकाशितवान्।

 राजनैतिकक्षेत्रे महिलाप्रातिनिध्यं न्यूनं - राष्ट्रपतिः।

अनन्तपुरी> राजनैतिकमण्डले महिलानां कृते तासां सामर्थ्यानुसारं स्थानं न लभते इति राष्ट्रपतिः रामनाथकोविन्दः प्रास्तूयत्। केरलविधानसभया आयोजिते भारतस्य महिलासामाजिकानां राष्ट्रियसम्मेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् राष्ट्रपतिः। 

  "राजनैतिकक्षेत्रे महिलानां पश्चाद्गमनत्वं लोके सर्वत्र दृश्यते। मनोभावस्य परिवर्तनमेव परिहारः।" -  राष्ट्रपतिना उक्तम्।

   भारतस्वातन्त्र्यस्य ७५ तमसंवत्सराोत्सवः  'आसादी का अमृतमहोत्सव' इत्यस्य अंशतया सम्पद्यमाने अस्मिन् सम्मेलने महिलाः लोकसभा-विधानसभासामाजिकाः भागं कुर्वन्ति। अद्य सम्पत्स्यमानं समापनसम्मेलनं लोकसभाध्यक्षः ओं बिर्लावर्यः करिष्यति।

 महिलानां स्वतन्त्र्यं मा ध्वंसयतु । सङ्कल्पान् परिवर्तयन्तु - तालिबानं प्रति यु एन्।


अफ्गानिस्थाने महिलाभिः अभिमुखीक्रियमाणायां अस्वतन्त्रतायाम् संयुक्तराष्ट्रसभाया: सुरक्षाधिकारिणाम्  आयोगः आशङ्कां प्राकाशयत्। बालिकाभ्यः मानविकमूल्यनिषेधकं नियमं त्यजन्तु इति तालिबानीयाधिकारिणं प्रति तर्जनं कृतम् । विगते दिने तालिबानेन दूरदर्शनस्य महिलाप्रस्तोतृभ्यः मुखम् आच्छादयितुम् आदेशः दत्तः आसीत् । ततः परम् आसीत् UNSC इत्यस्य आह्वानम्। विना विलम्बं विद्यालयाः उद्घाट्य बालिकानां शिक्षाविषये आनुकूल्यं करणीयमित्यपि आयोगेन अह्वानं कृतम्।

Thursday, May 26, 2022

 श्रीलङ्कायाम् आर्थिकमन्त्री प्रधानमन्त्री एव।

कोलम्बो> राष्ट्रस्य वित्तमन्त्रिरूपेण प्रधानमन्त्री रनिल् विक्रमसिंगे राष्ट्रपतिना गोताबय राजपक्से वर्येण नियुक्तः। अन्येषु सर्वेषु विभागेषु मन्त्रिषु नियुक्तेष्वपि वित्तमन्त्रिस्थाने अनिश्चितत्वं वर्तितमासीत्। ह्यः एव वित्तविभागः प्रधानमन्त्रिणा एव बिभर्तु इति राष्ट्रपतिः निर्णयमकरोत्।

Wednesday, May 25, 2022

क्वाड् उच्चशिखरमेलनमध्ये जप्पानस्य आकाशोपरि रष्यस्य चीनस्य च विमानानि ।

डोक्यो> क्वाड् राष्ट्रनेतृणां मेलनमध्ये स्वव्योमसीमायाः समीपे चीनेन रष्येण च संयोज्य विमानोड्डयनं कृतमिति कारणेन जप्पानस्य प्रतिरोधमन्त्रिणा नोबुवो किषिणा खेदः प्रकटितः । चीनस्य रष्यस्य च प्रवृत्ततिं न्यायीकर्तुं न शक्यते इति तेन प्रोक्तम्। क्वाड् राष्ट्राणां अमेरिक्का, इन्ड्या, ओस्ट्रेलिया, तथा जप्पानस्य च राष्ट्रनेतारःप्रादेशिक सुरक्षामधिकृत्य परस्परं चर्चिते सन्दर्भे एव विमानानि जप्पानस्य व्योमसीम्नि प्रविष्टानि।

Tuesday, May 24, 2022

 'क्वाड्' शिखरसम्मेलनम् अद्य। 

नवदिल्ली>  Quadrilateral Security Dialogue (QUAD) इति कृतनामधेयस्य भारत-अमेरिक्का-आस्त्रेलिया-जापानराष्ट्राणां संघस्य तृतीयं शिखरसम्मेलनम् अद्य टोकियो नगरे समपद्यते। रूस्-युक्रेनयुद्धः, भारत-पसफिक् क्षेत्रे जाताः समस्याः, कोविड् व्यापनं प्रतिरोधश्च इत्यादयः विषयाः सम्मेलने चर्चाविधेयाः भविष्यन्ति। 

  शिखरसम्मेलनमध्ये भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अमेरिक्कायाः राष्ट्रपतिः जो बैडनः, जापानीयप्रधानमन्त्री फुमियो किषिदः, आस्ट्रेलियायाः नूतनः प्रधानमन्त्री आन्टणी अल्बनीसः इत्येभिः सह उभयराष्ट्र चर्चां करिष्यति।

 मूल्यातिवर्धनं तीव्रं - सामान्यजनाः महासङ्कटे। 

कोच्ची> साप्ताहिकं यावत् केरले जनाः भोज्यवस्तूनां नित्योपयोगवस्तूनां च मूल्यातिवर्धने महान्तं क्लेशमनुभवन्ति। इन्धनमूल्यातिवर्धनस्य कारणतः राष्ट्रे सञ्जातस्य द्रव्यातिवर्धनस्य परिणितफलमिति आर्थिककुशलाः अभिप्रयन्ति। 

  केरलेषु सर्वत्र शाकादीनां मूल्यमनुदिनं वर्धते। मासैकस्मात् पूर्वं शतरूप्यकैः पञ्चकिलोपरिमितं रक्तफलं लब्धमासीत्। किन्तु इदानीं एककिलोपरिमिताय रक्तफलाय १०० - १२० रूप्यकाणि दातव्यानि। तथा च अन्येषां शाकानामपि २० % - ३० % मूल्यवर्धनमभवत्। तण्डुलस्यापि मूल्यं अष्टरूप्यकपर्यन्तं किलोपरिमिताय वर्धितम्। 

  जनानां सङ्कटपरिहाराय सर्वकारस्य पदक्षेपः अत्यन्तापेक्षित इति बहुभिः संघटनैः आवेदितम्।

वानरज्वरः - द्वादशराष्ट्रेषु यावत् शताधिकप्रकरणानि प्रतिवेदितानि। 

जनीव> विश्वराष्ट्राणां मध्ये आशङ्कां जनयन् वानरज्वरव्यापनं विविधराष्ट्रेषु अनुवर्तते । कोविड्व्यापनं विविधराष्ट्रेषु अनुवर्तमाने सन्दर्भे अस्मिन् वानरज्वरस्य व्यापनम् आशङ्कां जनयन् अस्ति। मेय् मासस्य एकविंशतितमदिनाङ्कपर्यन्तां औद्योगिकगणनामनुसृत्य द्वादशराष्ट्रेभ्यः द्विनवति प्रकरणानि प्रतिवेदितानि। तानि प्रकरणानि अतिरिच्य २८ जनाः वानरज्वरस्य लक्षणानि प्रकटयन्तः सन्ति । कोविड् व्यापनम् अनुवर्तमानेभ्यः द्वादशराष्ट्रेभ्य: एव विश्वस्वास्थ्यसंस्थायाः प्रतिवेदनानि लब्धानि। वानरज्वरबाधया मरणानि इतःपर्यन्तं न प्रतिवेदितानि ।

Monday, May 23, 2022

प्रधानमन्त्री नरेन्द्रमोदी  'क्वाड्' नेतृतलसम्मेलने सहभागित्वं कर्तुं जप्पानं प्रति प्रस्थितवान्।

नवदिल्ली> क्वाड् नेतृत्वतलसम्मेलने सहभागित्वं कर्तुं प्रधानमन्त्री नरेन्द्रमोदी जप्पानं प्रति प्रस्थितवान्। जप्पानस्य प्रधानमन्त्रिणः फुमियो किषिदस्य निमन्त्रणं अनुसृत्यैव प्रधानमन्त्री नरेन्द्रमोदी जाप्पानं प्रति प्रस्थितवान्। भारतं, अमेरिक्का, जप्पानः तथा ओस्ट्रेलियाराष्ट्रः च क्वाड् सख्ये अन्तर्भवन्ति। क्वाड् योगः अद्य डोक्यो मध्ये समारप्स्यते। चतुर्विंशतिहोरापर्यन्तम् आयोज्यमाने दिनद्वयात्मके कार्यक्रमे विविधेषु  त्रयोविंशति कार्यक्रमेषु सः भागं स्वीकरिष्यति। क्वाड् नेतृत्वतलयोगाभ्यन्तरे प्रधानमन्त्री नरेन्द्रमोदी अमेरिक्कायाः राष्ट्रपतिना जो बैडनेन सह मेलनं  भविष्यति।