OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 25, 2022

क्वाड् उच्चशिखरमेलनमध्ये जप्पानस्य आकाशोपरि रष्यस्य चीनस्य च विमानानि ।

डोक्यो> क्वाड् राष्ट्रनेतृणां मेलनमध्ये स्वव्योमसीमायाः समीपे चीनेन रष्येण च संयोज्य विमानोड्डयनं कृतमिति कारणेन जप्पानस्य प्रतिरोधमन्त्रिणा नोबुवो किषिणा खेदः प्रकटितः । चीनस्य रष्यस्य च प्रवृत्ततिं न्यायीकर्तुं न शक्यते इति तेन प्रोक्तम्। क्वाड् राष्ट्राणां अमेरिक्का, इन्ड्या, ओस्ट्रेलिया, तथा जप्पानस्य च राष्ट्रनेतारःप्रादेशिक सुरक्षामधिकृत्य परस्परं चर्चिते सन्दर्भे एव विमानानि जप्पानस्य व्योमसीम्नि प्रविष्टानि।

Tuesday, May 24, 2022

 'क्वाड्' शिखरसम्मेलनम् अद्य। 

नवदिल्ली>  Quadrilateral Security Dialogue (QUAD) इति कृतनामधेयस्य भारत-अमेरिक्का-आस्त्रेलिया-जापानराष्ट्राणां संघस्य तृतीयं शिखरसम्मेलनम् अद्य टोकियो नगरे समपद्यते। रूस्-युक्रेनयुद्धः, भारत-पसफिक् क्षेत्रे जाताः समस्याः, कोविड् व्यापनं प्रतिरोधश्च इत्यादयः विषयाः सम्मेलने चर्चाविधेयाः भविष्यन्ति। 

  शिखरसम्मेलनमध्ये भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अमेरिक्कायाः राष्ट्रपतिः जो बैडनः, जापानीयप्रधानमन्त्री फुमियो किषिदः, आस्ट्रेलियायाः नूतनः प्रधानमन्त्री आन्टणी अल्बनीसः इत्येभिः सह उभयराष्ट्र चर्चां करिष्यति।

 मूल्यातिवर्धनं तीव्रं - सामान्यजनाः महासङ्कटे। 

कोच्ची> साप्ताहिकं यावत् केरले जनाः भोज्यवस्तूनां नित्योपयोगवस्तूनां च मूल्यातिवर्धने महान्तं क्लेशमनुभवन्ति। इन्धनमूल्यातिवर्धनस्य कारणतः राष्ट्रे सञ्जातस्य द्रव्यातिवर्धनस्य परिणितफलमिति आर्थिककुशलाः अभिप्रयन्ति। 

  केरलेषु सर्वत्र शाकादीनां मूल्यमनुदिनं वर्धते। मासैकस्मात् पूर्वं शतरूप्यकैः पञ्चकिलोपरिमितं रक्तफलं लब्धमासीत्। किन्तु इदानीं एककिलोपरिमिताय रक्तफलाय १०० - १२० रूप्यकाणि दातव्यानि। तथा च अन्येषां शाकानामपि २० % - ३० % मूल्यवर्धनमभवत्। तण्डुलस्यापि मूल्यं अष्टरूप्यकपर्यन्तं किलोपरिमिताय वर्धितम्। 

  जनानां सङ्कटपरिहाराय सर्वकारस्य पदक्षेपः अत्यन्तापेक्षित इति बहुभिः संघटनैः आवेदितम्।

वानरज्वरः - द्वादशराष्ट्रेषु यावत् शताधिकप्रकरणानि प्रतिवेदितानि। 

जनीव> विश्वराष्ट्राणां मध्ये आशङ्कां जनयन् वानरज्वरव्यापनं विविधराष्ट्रेषु अनुवर्तते । कोविड्व्यापनं विविधराष्ट्रेषु अनुवर्तमाने सन्दर्भे अस्मिन् वानरज्वरस्य व्यापनम् आशङ्कां जनयन् अस्ति। मेय् मासस्य एकविंशतितमदिनाङ्कपर्यन्तां औद्योगिकगणनामनुसृत्य द्वादशराष्ट्रेभ्यः द्विनवति प्रकरणानि प्रतिवेदितानि। तानि प्रकरणानि अतिरिच्य २८ जनाः वानरज्वरस्य लक्षणानि प्रकटयन्तः सन्ति । कोविड् व्यापनम् अनुवर्तमानेभ्यः द्वादशराष्ट्रेभ्य: एव विश्वस्वास्थ्यसंस्थायाः प्रतिवेदनानि लब्धानि। वानरज्वरबाधया मरणानि इतःपर्यन्तं न प्रतिवेदितानि ।

Monday, May 23, 2022

प्रधानमन्त्री नरेन्द्रमोदी  'क्वाड्' नेतृतलसम्मेलने सहभागित्वं कर्तुं जप्पानं प्रति प्रस्थितवान्।

नवदिल्ली> क्वाड् नेतृत्वतलसम्मेलने सहभागित्वं कर्तुं प्रधानमन्त्री नरेन्द्रमोदी जप्पानं प्रति प्रस्थितवान्। जप्पानस्य प्रधानमन्त्रिणः फुमियो किषिदस्य निमन्त्रणं अनुसृत्यैव प्रधानमन्त्री नरेन्द्रमोदी जाप्पानं प्रति प्रस्थितवान्। भारतं, अमेरिक्का, जप्पानः तथा ओस्ट्रेलियाराष्ट्रः च क्वाड् सख्ये अन्तर्भवन्ति। क्वाड् योगः अद्य डोक्यो मध्ये समारप्स्यते। चतुर्विंशतिहोरापर्यन्तम् आयोज्यमाने दिनद्वयात्मके कार्यक्रमे विविधेषु  त्रयोविंशति कार्यक्रमेषु सः भागं स्वीकरिष्यति। क्वाड् नेतृत्वतलयोगाभ्यन्तरे प्रधानमन्त्री नरेन्द्रमोदी अमेरिक्कायाः राष्ट्रपतिना जो बैडनेन सह मेलनं  भविष्यति।

Sunday, May 22, 2022

सौदि अरेब्याराष्ट्रेषु इदानीं वानरज्वरः न प्रमाणीकृतः इति स्वास्थ्यमन्त्रालयः।

विविधराष्ट्रेषु प्रसृतः वानरज्वरः इतःपर्यन्तं सौदि अरेब्याराष्ट्रेषु न प्रमणीकृतः इति स्वास्थ्यमन्त्रालयेन आवेदितम्। यूरोप्प् राष्ट्रे तथा अमेरिक्का राष्ट्रे च वानरज्वरः प्रतिवेदितः अस्ति। तदनुसृत्य विश्वस्वास्थ्यसंस्थायाः नेतृत्वे सौदि अरेब्याराष्ट्रेषु निरीक्षणं प्रबलम् अकरोत् । रोगबाधितराष्ट्रेषु गच्छद्भिः सन्दर्शकैः स्वास्थ्यमानदण्डाः पालनीयाः।

 श्रीलङ्कायां नव मन्त्रिणः अपि नियुक्ताः; किन्तु वित्तमन्त्री नास्ति।

कोलम्बो> श्रीलङ्कायां मन्त्रिमण्डले स्वास्थ्य-शैक्षिक-विनोदसञ्चारादिषु विभागेषु नूतनाः नव मन्त्रिणः अपि राष्ट्रपतिना गोताबय राजपक्से इत्यनेन नियुक्ताः। किन्तु सुप्रधाने वित्तविभागे मन्त्री न नियुक्तः।  

  मासान् यावत् राजनैतिकानिश्चितत्वे आर्थिकसङ्कटे च पतितमस्ति राष्ट्रम्। मेय् नवमदिनाङ्के प्रधानमन्त्री महिन्द राजपक्से इत्यस्य स्थानत्यागेन मन्त्रिमण्डलमसाधुः अभवत्। ततः रनिल् विक्रमसिंगे प्रधानमन्त्रिपदे नियुक्तः। गतवासरे चत्वारः मन्त्रिणः अपि नियुक्ताः। तान् विना एव नव मन्त्रिणः अपि अधिकतया नियुक्ताः। तेषु द्वौ विमतपक्षीयौ अपि स्तः।

Friday, May 20, 2022

 महाराष्ट्रे विधवासम्बन्धिनः दुराचाराः तिरस्क्रियन्ते। 

मुम्बई> राज्ये विधवासम्बन्धिनः दुराचारान् तिरस्कृत्य सर्वकारः शासनं ज्ञापितवान्। ग्रामविकासमन्त्रिणा हसन् मुषिरिफ् वर्येण वृत्तान्तोSयं निगदितः। 

  यदा भर्तुः मृतदेहसंस्कारक्रियाः आरभन्ते ततः पूर्वं पत्न्याः सीमन्तसिन्दूरनिर्मार्जनं, स्फटिककङ्कणानां भञ्जनं, परिणयसूत्रखण्डनमित्याद्याः दुराचाराः राज्ये बहुषु स्थानेषु इदानीमपि वर्तन्ते। किञ्च विधवाः मङ्गलकर्मभ्यः निवार्यन्ते च। मानवाधिकारलङ्घनपराः एतादृशाः आचाराः महिलानामात्माभिमानवेधाः इति मन्त्रिणा उक्तम्। 

  कोलाप्पूरस्थे मन्गावग्रामे तथा हेर्वादग्रामे च एतादृशानां स्त्रीविरुद्धानां दुराचाराणां निरोधः कृतः आसीत्। ततः प्रचोदितेनैव सर्वकारस्य अयं निर्णयः।

 राजीवगान्धिहत्यापराधी पेररिवालः मोचितः। 



नवदिल्ली> भारतस्य भूतपूर्वप्रधानमन्त्रिणः राजीवगान्धिनः हत्याप्रकरणे जीवपर्यन्तकारागृहवासाय दण्डितः ए जि पेररिवालः ३१ संवत्सराणां कारागृहवासानन्तरं सर्वोच्चन्यायालयस्य आदेशेन विमोचितः। सम्पूर्णनीतिं दृढीकर्तुं सर्वोच्चन्यायालयस्य सविशेषमधिकारं - प्रशासनसंविधानस्य १४२ तमम् अनुच्छेदम् - उपयुज्य एव न्याया. एस् नागेश्वररावस्य अध्यक्षतायाम् अङ्गत्रयात्मकनीतिपीठेन अयं निर्णयः स्वीकृतः। 

  राजीवगान्धिनः हत्याप्रकरणे षष्ठः अपराधी आसीत् पेररिवालः। १९९१ तमे वर्षे तमिळनाडस्थे श्रीपेरुम्पुत्तूरे एल् टि टि ई नामकेन संघेन कृते बोम्बस्फोटने आसीत् राजीवगान्धी हतः। स्फोटके उपयुक्तः विद्युत्कोशः १९वयस्केन  पेररिवालेन आनीतमित्यासीत् तस्योपरि आरोपितः अपराधः। किन्तु विद्युत्कोशः किमर्थमिति  तदानीं तेन अज्ञातमासीदिति प्रकरणान्वेषकेषु अन्यतमेन सि बी ऐ अधिकारिणा ज्ञापितम्। ततः प्रभृति पेररिवालस्य विमोचनाय तस्य माता अर्पुतम्माल् तथा अन्ये मानवाधिकारप्रवर्तकाः च अक्षीणं प्रयत्नं कुर्वन्तः आसन्। 

   पेररिवालं मोचयितुं तमिलनाट्सर्वकारस्य आवेदनं राज्यपालेन अकारणेन विलम्बायितमित्येतदपि सर्वोच्चन्यायालयस्य प्रक्रमस्य कारणमभवत्। किन्तु कोण्ग्रस् दलेन पेररिवालस्य मोचने प्रतिषेधः प्राकट्यत।

 चीनेन भारतस्य सीमनि सेतुः निर्मीयते। घटना निरीक्षते इति भारतम्। 


नवदिल्ली> पूर्वलडाकस्य समीपे पाङ्गोङ् तटाकस्य अक्ष्णया चीनः सेतु निर्मीयते इत्यस्ति प्रतिवेदनम्। घटनेयं निरीक्षते इति भारतस्य विदेशकार्य मन्त्रालयेन प्रोक्तम्। सेतुं निर्मीयते इति प्रतिवेदितं प्रदेशं संवत्सरात् पूर्वं चीनेन अधिनिविष्टम् आसीत् इति विदेशकार्य-मन्त्रालयस्य वक्ता अरिन्दं बाग्चि अवदत्। मण्डलेऽस्मिन् शीघ्रतरं सैनिकविन्यासं कर्तुमुद्दिश्य भवति चीनस्य अयं प्रक्रमः इति सैनिकाधिकारिणः वाचः उद्धृत्य राष्ट्रियवार्तामाध्यमैः प्रतिवेदितम् आसीत्।

Thursday, May 19, 2022

 मरियापोल् नगरं युक्रैनस्य नियन्त्रणात् अपभ्रष्टम्। 

कीव्> ८२ दिनानां युद्धस्य अन्ते मरियापोल् नगरं युक्रैनात्  रूस् अधिनिवेशनेन  बलादपहृतम्। नगरस्थे 'अस्टोवस्टाल्' अयोनिर्माणकेन्द्रे युक्रेनेन कृत‌ः प्रतिरोधः समापितः। 

  तीव्ररीत्या व्रणिताः ५३ युक्रेनभटाः रष्यायाः नियन्त्रणे वर्तमाने नावो असोविस्क् नगरस्थे आतुरालये प्रवेशिताः। अवशिष्टान् द्विशताधिकान् सैनिकान् मानवीयमार्गेण ओलेनिव्कानामकं ग्रामं प्रापयिष्यतीति युक्रेनस्य रक्षासहमन्त्रिणा हन्ना मालियार् इत्यनेनोक्तम्। सैनिकानां प्राणरक्षणमेव प्रधानमिति राष्ट्रपतिः व्लादिमिर् सेलन्स्की अवोचत्।

शिलातैलापणस्य पुरतः पङ्क्तिबद्धतायाः आवश्यकता नास्ति। श्रीलङ्का-सर्वकारः। 

 नवीदिल्ली> श्रीलङ्का-सर्वकारेण उक्तं यत् देशे पेट्रोल् न प्राप्यते, जनाः शिलातैलापणस्य-पुरतः पङ्क्तिं न स्थापयन्तु। श्रीलङ्कादेशस्य सर्वकारेण उक्तं यत् पेट्रोलस्य क्रयणार्थं पर्याप्तं विदेशीयविनिजं नास्ति। देशे डीज़लस्य भण्डारः अस्ति। परन्तु अवशिष्टं पेट्रोल् आम्बुलेन्स् यानेन सहितम् आवश्यकसेवानां कृते निर्धारितम् इति अधिकारिणः अवदन्।

तटे शिलातैलसंभृतं महानौका अस्ति। परन्तु ऊर्जामन्त्री कञ्चना विजेसेकेरा सभां प्रति अवदत् यत् तस्य क्रयणार्थं आवश्यकं विदेशीयविनिमयं तस्य समीपे नास्ति।

 अद्य वा श्वः वा महानौकायाः तैलविषये निर्णयं कर्तुं शक्यते इत्यपि तेनोक्तम्।

Wednesday, May 18, 2022

 जम्मू- काश्मीरे दौ लश्कर-ई-तैयबा भीकरौ गृहीतौ।

जम्मू-कश्मीरस्य बुडगाम-नगरे आरक्षक-सुरक्षाबलयोः संयुक्त-प्रक्रमे द्वौ लश्कर-ई-तैयबा-भीकरौ गृहीतौ। ताभ्यां विस्फोटकं प्राप्तम् इति आरक्षकैः उक्तम्।

   साहिद् अहमद् शेख् एवं साहिल बशीर् दार् च निग्रहीतौ। अन्वेषणप्रक्रमे सेनया (62RR)  CRPF (43Bn) सह बुडगामनगरे आरक्षकैः कृते अन्वेषणे एव एतौ गृहीतौ। प्रतिबन्धित भीकरसंगठनस्य लश्करस्य  आपराधिक सामग्री, एकं  ग्रेनेड्, द्वे गोलिकाशस्त्रे अन्यानि बहूनि विस्फोटकवस्तूनि च लब्धानि। तौ भीकरौ विरुद्ध्य प्रकरणं कृत्वा अन्वेषणम् आरब्धम् अस्ति। क्षेत्रे अग्रे निरीक्षणं प्रचलति।

Tuesday, May 17, 2022

 भारतनेप्पालौ ६ सन्धिपत्रेषु हस्ताक्षरमकुरुताम्। 

नवदिल्ली> शैक्षिक जलवैद्युतमण्डलेषु परस्पर सहवर्तित्वमालक्ष्य भारतनेप्पालराष्ट्रयोर्मिथः ६ सन्धिपत्राणि हस्ताक्षरीकृतानि। 

  बुद्धपूर्णिमादिनाघोषेषु भागं कर्तुं लुम्बिनीं प्राप्तः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी नेप्पालस्य प्रधानमन्त्री षेर् बहादूर् दुबा इत्येभ्यां कृते  नयतन्त्रचर्चायाः परमेव सन्धिपत्राणि हस्ताक्षरीकृतानि।

Monday, May 16, 2022

 तोमस् चषक पिच्छकन्दुकक्रीडा - भारताय चरित्रकिरीटम्। 


बाङ्कोक्क्> विश्वपिच्छकन्दुकक्रीडायाः उत्तुङ्गश्रृङ्गे भारतदलम्। विश्वपुरुष दलस्य वीरताप्रदर्शने तोमस् कप् नामके भारतम् इदंप्रथमतया वीरत्वं प्राप्तवत्। गतदिने सम्पन्ने अन्तिमचक्रे १४ वारं वीरपदं प्राप्तं तथा अतिशक्तम् इन्डोनेषीयदलं भारतं ३ - ० इति क्रमे बभञ्ज। 

  तोमस् चषकं प्राप्तवत् षष्ठं राष्ट्रं भवति भारतम्। भारतस्य इतःपर्यन्तं लाभः उपान्त्यचक्रप्रवेशः आसीत्। तत्तु ४३ वर्षेभ्यः पूर्वम्। 

  एकलखेलने लक्ष्यासेन्, किडम्बि श्रीकान्तः इत्येतौ युगलखेलने सात्विक साय्राजः रेङ्किरेड्डि - चिराग षेट्टि सख्यं च अन्तिमे चक्रे भारताय विस्मयविजयं प्राप्तवन्तः।

 सैमण्ट्सः कार् यानदुर्घटनया मृतः। 


सिड्नी> आस्ट्रेलियायाः क्रिक्कट्दलस्य भूतपूर्वः सर्वोत्कृष्टः क्रीडकः आन्ड्रू सैमण्ट्स् नामकः आस्ट्रेलियायां क्वीन्लान्ड् मध्ये टौण्स् विले नामके स्थाने शनिवासरे दुरापन्नया कार् यानदुर्घटनया मृतः। तेनैव चालितं कार् यानं त्यक्तनियन्त्रणं भूत्वा एव दुर्घटना जाता। 

    १९९९ - २००९ कालखण्डे आस्ट्रेलिया राष्ट्राय क्रीडित्वा द्वे विश्वचषककिरीटे सम्पादयितुं प्रयतितवान् आसीत् सैमण्ट्सः। क्रिकेट् क्रीडायाः समस्तांशेषु स्वस्य प्रावीण्यं प्रदर्शितवानयं All Rounder रूपेण प्रशोभितवान्।

Sunday, May 15, 2022

 दिल्याम् अग्निप्रकाण्डः ३० अपमृत्यवः। 

नवदिल्ली> पश्चिमदिल्ल्यां मुण्टकस्थाने त्रिभूमिकायुक्ते भवनसमुच्चये शुक्रवासरे सायं दुरापन्ने अग्निप्रकाण्डे त्रिंशज्जनाः मृत्युवशं गताः। त्रिंशदधिकाः दाहव्रणिताः अभवन्। 

  मुण्टक मेट्रो निस्थानसमीपे वर्तिते त्रिभूमिकात्मकभवने प्रवर्तमाने C C T V निर्माणकेन्द्रे एव ज्वलनमुपगतम्।    वृत्तान्ते बहिरागते २४ अग्निशमनवाहनानि शीघ्रमागत्य रक्षाप्रवर्तनानि आरब्धानि। भवनसमुच्चये लग्नाः ७० अधिकाः रक्षिताः।

  दुरन्ते राष्ट्रपतिः उपराष्ट्रपतिः प्रधानमन्त्री इत्यादयः अनुशोचं प्रकाशितवन्तः।

 सर्वकारवृत्तान्ताः सामान्यजनेभ्योSपि - राष्ट्रियतत्त्वविशकलनवेदिका  उद्घाटिता।

नवदिल्ली> प्रशासनस्य विज्ञापनानि वृत्तान्तानि च इतःपरं जनकीयं कर्तुं नीतिआयोगेन सज्जीकृता राष्ट्रियतत्त्वविशकलनवेदिका 'एन् डाप्' नामिका सामान्यजनेभ्यः समर्पिता। विज्ञानभवने सम्पन्ने कार्यक्रमे नीति आयोगस्य उपाध्यक्षः सुमन् बरिवर्यः उद्घाटनमकरोत्। सर्वकारस्य सर्वेषां परियोजनानां वृत्तान्तान्  तासां धनविनियोगेन सह सर्वेभ्यः लब्धुं अनया सुविधया शक्यते। किञ्च परियोजनानां विशकलनाय तुलनात्मकाध्ययनाय च सुविधेयं प्रयोजकीभविष्यतीति सुमन् बरिवर्येण उक्तम्। 

    नीति आयोगस्य वरिष्ठाधिकारिणी अन्ना रोय् महाभागायाः नेतृत्वे आसीत् वेदिकेयं परिकल्पिता। ndap.niti.gov.in इति अन्तर्जालपटलेन वेदिकां प्रयोजकीकर्तुं शक्यते।