OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 20, 2022

 राजीवगान्धिहत्यापराधी पेररिवालः मोचितः। 



नवदिल्ली> भारतस्य भूतपूर्वप्रधानमन्त्रिणः राजीवगान्धिनः हत्याप्रकरणे जीवपर्यन्तकारागृहवासाय दण्डितः ए जि पेररिवालः ३१ संवत्सराणां कारागृहवासानन्तरं सर्वोच्चन्यायालयस्य आदेशेन विमोचितः। सम्पूर्णनीतिं दृढीकर्तुं सर्वोच्चन्यायालयस्य सविशेषमधिकारं - प्रशासनसंविधानस्य १४२ तमम् अनुच्छेदम् - उपयुज्य एव न्याया. एस् नागेश्वररावस्य अध्यक्षतायाम् अङ्गत्रयात्मकनीतिपीठेन अयं निर्णयः स्वीकृतः। 

  राजीवगान्धिनः हत्याप्रकरणे षष्ठः अपराधी आसीत् पेररिवालः। १९९१ तमे वर्षे तमिळनाडस्थे श्रीपेरुम्पुत्तूरे एल् टि टि ई नामकेन संघेन कृते बोम्बस्फोटने आसीत् राजीवगान्धी हतः। स्फोटके उपयुक्तः विद्युत्कोशः १९वयस्केन  पेररिवालेन आनीतमित्यासीत् तस्योपरि आरोपितः अपराधः। किन्तु विद्युत्कोशः किमर्थमिति  तदानीं तेन अज्ञातमासीदिति प्रकरणान्वेषकेषु अन्यतमेन सि बी ऐ अधिकारिणा ज्ञापितम्। ततः प्रभृति पेररिवालस्य विमोचनाय तस्य माता अर्पुतम्माल् तथा अन्ये मानवाधिकारप्रवर्तकाः च अक्षीणं प्रयत्नं कुर्वन्तः आसन्। 

   पेररिवालं मोचयितुं तमिलनाट्सर्वकारस्य आवेदनं राज्यपालेन अकारणेन विलम्बायितमित्येतदपि सर्वोच्चन्यायालयस्य प्रक्रमस्य कारणमभवत्। किन्तु कोण्ग्रस् दलेन पेररिवालस्य मोचने प्रतिषेधः प्राकट्यत।

 चीनेन भारतस्य सीमनि सेतुः निर्मीयते। घटना निरीक्षते इति भारतम्। 


नवदिल्ली> पूर्वलडाकस्य समीपे पाङ्गोङ् तटाकस्य अक्ष्णया चीनः सेतु निर्मीयते इत्यस्ति प्रतिवेदनम्। घटनेयं निरीक्षते इति भारतस्य विदेशकार्य मन्त्रालयेन प्रोक्तम्। सेतुं निर्मीयते इति प्रतिवेदितं प्रदेशं संवत्सरात् पूर्वं चीनेन अधिनिविष्टम् आसीत् इति विदेशकार्य-मन्त्रालयस्य वक्ता अरिन्दं बाग्चि अवदत्। मण्डलेऽस्मिन् शीघ्रतरं सैनिकविन्यासं कर्तुमुद्दिश्य भवति चीनस्य अयं प्रक्रमः इति सैनिकाधिकारिणः वाचः उद्धृत्य राष्ट्रियवार्तामाध्यमैः प्रतिवेदितम् आसीत्।

Thursday, May 19, 2022

 मरियापोल् नगरं युक्रैनस्य नियन्त्रणात् अपभ्रष्टम्। 

कीव्> ८२ दिनानां युद्धस्य अन्ते मरियापोल् नगरं युक्रैनात्  रूस् अधिनिवेशनेन  बलादपहृतम्। नगरस्थे 'अस्टोवस्टाल्' अयोनिर्माणकेन्द्रे युक्रेनेन कृत‌ः प्रतिरोधः समापितः। 

  तीव्ररीत्या व्रणिताः ५३ युक्रेनभटाः रष्यायाः नियन्त्रणे वर्तमाने नावो असोविस्क् नगरस्थे आतुरालये प्रवेशिताः। अवशिष्टान् द्विशताधिकान् सैनिकान् मानवीयमार्गेण ओलेनिव्कानामकं ग्रामं प्रापयिष्यतीति युक्रेनस्य रक्षासहमन्त्रिणा हन्ना मालियार् इत्यनेनोक्तम्। सैनिकानां प्राणरक्षणमेव प्रधानमिति राष्ट्रपतिः व्लादिमिर् सेलन्स्की अवोचत्।

शिलातैलापणस्य पुरतः पङ्क्तिबद्धतायाः आवश्यकता नास्ति। श्रीलङ्का-सर्वकारः। 

 नवीदिल्ली> श्रीलङ्का-सर्वकारेण उक्तं यत् देशे पेट्रोल् न प्राप्यते, जनाः शिलातैलापणस्य-पुरतः पङ्क्तिं न स्थापयन्तु। श्रीलङ्कादेशस्य सर्वकारेण उक्तं यत् पेट्रोलस्य क्रयणार्थं पर्याप्तं विदेशीयविनिजं नास्ति। देशे डीज़लस्य भण्डारः अस्ति। परन्तु अवशिष्टं पेट्रोल् आम्बुलेन्स् यानेन सहितम् आवश्यकसेवानां कृते निर्धारितम् इति अधिकारिणः अवदन्।

तटे शिलातैलसंभृतं महानौका अस्ति। परन्तु ऊर्जामन्त्री कञ्चना विजेसेकेरा सभां प्रति अवदत् यत् तस्य क्रयणार्थं आवश्यकं विदेशीयविनिमयं तस्य समीपे नास्ति।

 अद्य वा श्वः वा महानौकायाः तैलविषये निर्णयं कर्तुं शक्यते इत्यपि तेनोक्तम्।

Wednesday, May 18, 2022

 जम्मू- काश्मीरे दौ लश्कर-ई-तैयबा भीकरौ गृहीतौ।

जम्मू-कश्मीरस्य बुडगाम-नगरे आरक्षक-सुरक्षाबलयोः संयुक्त-प्रक्रमे द्वौ लश्कर-ई-तैयबा-भीकरौ गृहीतौ। ताभ्यां विस्फोटकं प्राप्तम् इति आरक्षकैः उक्तम्।

   साहिद् अहमद् शेख् एवं साहिल बशीर् दार् च निग्रहीतौ। अन्वेषणप्रक्रमे सेनया (62RR)  CRPF (43Bn) सह बुडगामनगरे आरक्षकैः कृते अन्वेषणे एव एतौ गृहीतौ। प्रतिबन्धित भीकरसंगठनस्य लश्करस्य  आपराधिक सामग्री, एकं  ग्रेनेड्, द्वे गोलिकाशस्त्रे अन्यानि बहूनि विस्फोटकवस्तूनि च लब्धानि। तौ भीकरौ विरुद्ध्य प्रकरणं कृत्वा अन्वेषणम् आरब्धम् अस्ति। क्षेत्रे अग्रे निरीक्षणं प्रचलति।

Tuesday, May 17, 2022

 भारतनेप्पालौ ६ सन्धिपत्रेषु हस्ताक्षरमकुरुताम्। 

नवदिल्ली> शैक्षिक जलवैद्युतमण्डलेषु परस्पर सहवर्तित्वमालक्ष्य भारतनेप्पालराष्ट्रयोर्मिथः ६ सन्धिपत्राणि हस्ताक्षरीकृतानि। 

  बुद्धपूर्णिमादिनाघोषेषु भागं कर्तुं लुम्बिनीं प्राप्तः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी नेप्पालस्य प्रधानमन्त्री षेर् बहादूर् दुबा इत्येभ्यां कृते  नयतन्त्रचर्चायाः परमेव सन्धिपत्राणि हस्ताक्षरीकृतानि।

Monday, May 16, 2022

 तोमस् चषक पिच्छकन्दुकक्रीडा - भारताय चरित्रकिरीटम्। 


बाङ्कोक्क्> विश्वपिच्छकन्दुकक्रीडायाः उत्तुङ्गश्रृङ्गे भारतदलम्। विश्वपुरुष दलस्य वीरताप्रदर्शने तोमस् कप् नामके भारतम् इदंप्रथमतया वीरत्वं प्राप्तवत्। गतदिने सम्पन्ने अन्तिमचक्रे १४ वारं वीरपदं प्राप्तं तथा अतिशक्तम् इन्डोनेषीयदलं भारतं ३ - ० इति क्रमे बभञ्ज। 

  तोमस् चषकं प्राप्तवत् षष्ठं राष्ट्रं भवति भारतम्। भारतस्य इतःपर्यन्तं लाभः उपान्त्यचक्रप्रवेशः आसीत्। तत्तु ४३ वर्षेभ्यः पूर्वम्। 

  एकलखेलने लक्ष्यासेन्, किडम्बि श्रीकान्तः इत्येतौ युगलखेलने सात्विक साय्राजः रेङ्किरेड्डि - चिराग षेट्टि सख्यं च अन्तिमे चक्रे भारताय विस्मयविजयं प्राप्तवन्तः।

 सैमण्ट्सः कार् यानदुर्घटनया मृतः। 


सिड्नी> आस्ट्रेलियायाः क्रिक्कट्दलस्य भूतपूर्वः सर्वोत्कृष्टः क्रीडकः आन्ड्रू सैमण्ट्स् नामकः आस्ट्रेलियायां क्वीन्लान्ड् मध्ये टौण्स् विले नामके स्थाने शनिवासरे दुरापन्नया कार् यानदुर्घटनया मृतः। तेनैव चालितं कार् यानं त्यक्तनियन्त्रणं भूत्वा एव दुर्घटना जाता। 

    १९९९ - २००९ कालखण्डे आस्ट्रेलिया राष्ट्राय क्रीडित्वा द्वे विश्वचषककिरीटे सम्पादयितुं प्रयतितवान् आसीत् सैमण्ट्सः। क्रिकेट् क्रीडायाः समस्तांशेषु स्वस्य प्रावीण्यं प्रदर्शितवानयं All Rounder रूपेण प्रशोभितवान्।

Sunday, May 15, 2022

 दिल्याम् अग्निप्रकाण्डः ३० अपमृत्यवः। 

नवदिल्ली> पश्चिमदिल्ल्यां मुण्टकस्थाने त्रिभूमिकायुक्ते भवनसमुच्चये शुक्रवासरे सायं दुरापन्ने अग्निप्रकाण्डे त्रिंशज्जनाः मृत्युवशं गताः। त्रिंशदधिकाः दाहव्रणिताः अभवन्। 

  मुण्टक मेट्रो निस्थानसमीपे वर्तिते त्रिभूमिकात्मकभवने प्रवर्तमाने C C T V निर्माणकेन्द्रे एव ज्वलनमुपगतम्।    वृत्तान्ते बहिरागते २४ अग्निशमनवाहनानि शीघ्रमागत्य रक्षाप्रवर्तनानि आरब्धानि। भवनसमुच्चये लग्नाः ७० अधिकाः रक्षिताः।

  दुरन्ते राष्ट्रपतिः उपराष्ट्रपतिः प्रधानमन्त्री इत्यादयः अनुशोचं प्रकाशितवन्तः।

 सर्वकारवृत्तान्ताः सामान्यजनेभ्योSपि - राष्ट्रियतत्त्वविशकलनवेदिका  उद्घाटिता।

नवदिल्ली> प्रशासनस्य विज्ञापनानि वृत्तान्तानि च इतःपरं जनकीयं कर्तुं नीतिआयोगेन सज्जीकृता राष्ट्रियतत्त्वविशकलनवेदिका 'एन् डाप्' नामिका सामान्यजनेभ्यः समर्पिता। विज्ञानभवने सम्पन्ने कार्यक्रमे नीति आयोगस्य उपाध्यक्षः सुमन् बरिवर्यः उद्घाटनमकरोत्। सर्वकारस्य सर्वेषां परियोजनानां वृत्तान्तान्  तासां धनविनियोगेन सह सर्वेभ्यः लब्धुं अनया सुविधया शक्यते। किञ्च परियोजनानां विशकलनाय तुलनात्मकाध्ययनाय च सुविधेयं प्रयोजकीभविष्यतीति सुमन् बरिवर्येण उक्तम्। 

    नीति आयोगस्य वरिष्ठाधिकारिणी अन्ना रोय् महाभागायाः नेतृत्वे आसीत् वेदिकेयं परिकल्पिता। ndap.niti.gov.in इति अन्तर्जालपटलेन वेदिकां प्रयोजकीकर्तुं शक्यते।

उत्तरराज्येषु अत्यन्तं तापतरङ्गः; ४ जनपदेषु रक्तवर्ण पूर्वसूचना।

>उत्तरराज्येषु तापतरङ्गः सर्वाधिकं तीव्रः भवति । राजस्थानस्य चतुर्षु जनपदेषु अद्य रक्तवर्ण पूर्वसूचना घोषिषा अस्ति। दिल्ली एवं पंजाब् राज्ययोः 'ओरञ्च् अलर्ट्'। अधुना दिल्लीनगरं १९५१ तमसंवत्सरात् परं सर्वाधिकम् उष्णेन ग्रीष्मकालम् अनुभूयते। उत्तरराज्यानि तापतरङ्गेन स्वेदयन्ति। दिल्ली-नगरस्य सफदरजङ्ग-नगरे अद्य केन्द्रीयवातावरणविभागेन ४५ डिग्री सेल्सियस-तापस्य पूर्वानुमानं कृतम् अस्ति । अस्मिन् ग्रीष्मकाले देशस्य राजधान्याम् एतत् पञ्चमं तापतरङ्गम् अस्ति। राजस्थानस्य २३ नगरेषु अधिकतमं तापमानं ४४ डिग्रीतः उपरि अभवत्।

 श्रीगंगानगर, हनुमानगढ़, बीकानेर, चूरु जनपदेषु वीथी जाग्रता घोषिता अस्ति। जैसलमेर् सहित 12 जनपदेषु 'ओरेंज् अलर्ट्' घोषिता। गुरुग्रामं हरियाणायाः सर्वोच्चम् उष्णस्थानम् भवति। जम्मू-कश्मीरे अपि तापमानं वर्धते। विदर्भा, महाराष्ट्रं, झारखण्डं, पंजाब्, उत्तरप्रदेशम् एवं मध्यप्रदेशे च दुर्घटनायाः पूर्वसूचना उद्घोषिता अस्ति।

Saturday, May 14, 2022

राष्ट्रपतेः देहवियोगः - यु ए इ राष्टे चत्वारिंशद्दिनात्मकं दुःखाचरणं ख्यापितम्।

अबुदाबि> यु ए इ राष्ट्रपतेः तथा अबुदाबि शासनाधिकारिणः शैख् खलीफा बिन् सायिद् अल् नह्यानस्य मृत्युम् अनुवर्त्य यु ए इ राष्ट्रे चत्वारिंशद्दिनात्मकं दुःखाचरणं ख्यापितम्। शुक्रवासरे सायङ्काले राष्ट्रपतिकार्यमन्त्रालयेन एव वियोगवार्ताऔद्योगिकतया बहिः ज्ञापिता। चत्वारिंशद्दिनात्मकदुःखाचरणावसरे राष्ट्रे राष्ट्रियपताकाम् अर्धावरोहणं कृत्वा बध्नाति।

Friday, May 13, 2022

प्राक्तनः प्रधानमन्त्री रनिल् विक्रमसिंगे श्रीलङ्कायाः प्रधानमन्त्रिपदं स्वीकृतवान्।

कोलम्बो> श्रीलङ्कायाः भूतपूर्वप्रधानमन्त्री विक्रमसिंङ्गे पुनरपि प्रधानमन्त्रिपदं स्वीकृतवान्। गुरुवासरे सायंकाले आसीत् स्थानारोहः। पञ्चमवारं भवति महोदयस्य प्रधानमन्त्तिपदप्राप्तिः। किन्तु सभायां तस्य राजनैतिकदलस्य एकं स्थानं एव अस्ति। किन्तु विपक्षदलीयाः अन्यदलीयाश्च तस्य अनुकूलिनः   भविष्यन्ति।

Thursday, May 12, 2022

 शोकाकुलम् संस्कृतजगत्।


मूर्धन्यः संस्कृत-विद्वान् पद्मश्रीः  भागीरथप्रसादत्रिपाठिवागीशशास्त्री गतरात्रौ पञ्चत्वे निलीनः। असौ चिकित्सालये उपचर्यमाणः आसीत्। आचार्यो वागीशशास्त्री तेषु विद्वत्सु अन्यतम: आसीत् यै: प्रभूतसङ्ख्यायां वैदेशिका: संस्कृतम् अध्यापिता: । सुख्याता पॉपसंगीतगायिका मैडोना अपि तस्मात् संस्कृत -श्लोकानाम् शुद्धोच्चारणम् अधीतवती । 

 हिन्दीभाषायाः बर्धनाय संयुक्तराष्ट्रसभायै भारतेन ८ लक्षं डोलर् प्रदत्तम्।


न्यूयोर्क्> संयुक्तराष्ट्रसभायै भारतं ८ लक्षं डोलर् धनम् अददात्। संयुक्तराष्ट्रसभायां हिन्दीभाषायाः सुप्रचाराय भवति धनम्। भारतस्य सभाप्रतिनिधी आर् रवीन्द्रः धनादेशपत्रस्य पणनं कृतवान्। २०२८ संवत्सरे समारब्धायाः 'हिन्दी अट् यु एन्' इति परियोजनायाः कृते भवति इयं धनराशिः।

Wednesday, May 11, 2022

रमाकान्तशुक्लः पञ्चत्वे विलीनः। 


नवदिल्ली> संस्कृतजगतः मूर्धन्यः विद्वान् कविश्च आधुनिकसंस्कृतयुगप्रणेता महामहोपाध्यायः आचार्यः रमाकान्तशुक्लः पञ्चत्वे विलीनः। पद्मश्रीः  रमाकान्तशुक्लमहोदययः भाति मे भारतम् काव्यमुखेन भारतस्य प्रत्येकं जनं संस्कृतानुप्राणितम् आपादयितुम् अचेष्टत। तदीयं काव्यमिदं संस्कृतस्य राष्ट्रगीतमिव समाद्रियते ।

 सः मे मासस्य एकादशे दिने रेलमार्गद्वारा दिल्लीतः झारखण्डं प्रति गच्छन् आसीत्। मार्गे अकस्मात् एव अलीगढस्थाने आचार्यप्रवरस्य हृदयगतिः अवरुद्धा। द्व्यशीतिवर्षीयः आचार्यः रमाकान्तशुक्लः पद्मश्रीरिति सम्मानेन अलङ्कृतः आसीत्। सममेव राष्ट्रपतिसम्मानप्रमाणपत्रं समेत्य साहित्यअकादेमीपुरस्कार-सदृशैः अनेकैः पुरस्कारैः सभाजितः आचार्यशुक्लः आधुनिकसंस्कृतकवितायाः युगे राष्ट्रचेतनायाः उदात्तस्वरः आसीत्। भाति मे भारतम् इति गीतस्य प्रणेता, दिल्याः देववाणी-परिषदः संस्थापकः अध्यक्षश्च, अर्वाचीनसंस्कृतस्य यशस्वी सम्पादकः सार्धैकशतादपि अधिकग्रन्थानां सम्पादकः, अखिलभारतीयप्राच्यविद्यासम्मेलनस्य संयोजकः, भारतीय-संस्कृत-पत्रकार-सङ्घस्य अध्यक्षः च अवर्तत। अकस्मान्निधनेन संस्कृतजगति शोकलहरी प्रसृता, संस्कृतजगतः कृते अपूरणीया क्षतिः एषा।

 आन्ध्रातीरे सुवर्णवर्णरथः। असानी चक्रवाते तीरं प्राप्तः इति सन्देहः। 

श्रीकाकुलम्> असानी चक्रवातहेतुना जलप्रवाहैराप्लुत्य सुवर्णवर्णयुक्तः रथः आन्ध्रातीरं प्राप्तः। श्रीकाकुलं जिल्लायां सुन्नाप्पल्लि नौकाश्रयस्य समीपे एव रथः तीरं प्राप्तः। कस्यापि दक्षिणपूर्वराष्ट्रस्य एव एषः रथः इति इन्ट्या टुडे नाम माध्यमेन प्रतिवेदितम्। प्रदेशवासिभिः धीवरैः एव प्रथमं रथः सन्दृष्टः। तैः रज्जुमुपयुज्य रथः तीरमानीतः। घटनायाः अस्याः दृश्यानि सामूहिकमाध्यमेषु प्रचलितानि सन्ति। दृश्ये तीरस्थाः जनाः रथं तीरेषु आनयन्तं दृश्यं सुव्यक्तम् अस्ति। घटनामधिकृत्य भारतीय-बौद्धिकसंघाय विवरणानि आवेदितानि इति नौपाडा उपनिरीक्षकेण प्रतिवेदितम्।

 गूगिल् ट्रांसलेट् अन्तर्जालपुटे संस्कृतभाषा अपि समायोजिता।

गूगिल् ट्रान्सलेट् इत्यस्मिन् अन्तर्जालपुटे गूगिल् संस्थया भारतस्य ८ नवीनाः भाषाः  समायोजिताः। तासु संस्कृतभाषा अपि अस्ति इत्यनेन आविश्वं संस्कृतप्रेमिणः मोदन्ते। संस्कृतमपि आन्तर्जालिके पुुुटे भाषारूपेण भवतु इति संस्कृतप्रेमिणां महती अभिलाषा आसीत् । जनेभ्यः लब्धेभ्यः याचनासन्देशेषु संस्कृतं सर्वप्रथमस्थाने आसीत्, अत एव अस्माभिः संस्कृतम् गूगलट्रासलेट् पटले समायोजिता इति गूगिल् संस्थायाः वरिष्ठेण तन्त्रांशाधिकारिणा इस्साक-केसवेल् इत्याख्येन उक्तम् । 

अस्मिन् नुदतु । 

Google translate