OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 12, 2022

 शोकाकुलम् संस्कृतजगत्।


मूर्धन्यः संस्कृत-विद्वान् पद्मश्रीः  भागीरथप्रसादत्रिपाठिवागीशशास्त्री गतरात्रौ पञ्चत्वे निलीनः। असौ चिकित्सालये उपचर्यमाणः आसीत्। आचार्यो वागीशशास्त्री तेषु विद्वत्सु अन्यतम: आसीत् यै: प्रभूतसङ्ख्यायां वैदेशिका: संस्कृतम् अध्यापिता: । सुख्याता पॉपसंगीतगायिका मैडोना अपि तस्मात् संस्कृत -श्लोकानाम् शुद्धोच्चारणम् अधीतवती । 

 हिन्दीभाषायाः बर्धनाय संयुक्तराष्ट्रसभायै भारतेन ८ लक्षं डोलर् प्रदत्तम्।


न्यूयोर्क्> संयुक्तराष्ट्रसभायै भारतं ८ लक्षं डोलर् धनम् अददात्। संयुक्तराष्ट्रसभायां हिन्दीभाषायाः सुप्रचाराय भवति धनम्। भारतस्य सभाप्रतिनिधी आर् रवीन्द्रः धनादेशपत्रस्य पणनं कृतवान्। २०२८ संवत्सरे समारब्धायाः 'हिन्दी अट् यु एन्' इति परियोजनायाः कृते भवति इयं धनराशिः।

Wednesday, May 11, 2022

रमाकान्तशुक्लः पञ्चत्वे विलीनः। 


नवदिल्ली> संस्कृतजगतः मूर्धन्यः विद्वान् कविश्च आधुनिकसंस्कृतयुगप्रणेता महामहोपाध्यायः आचार्यः रमाकान्तशुक्लः पञ्चत्वे विलीनः। पद्मश्रीः  रमाकान्तशुक्लमहोदययः भाति मे भारतम् काव्यमुखेन भारतस्य प्रत्येकं जनं संस्कृतानुप्राणितम् आपादयितुम् अचेष्टत। तदीयं काव्यमिदं संस्कृतस्य राष्ट्रगीतमिव समाद्रियते ।

 सः मे मासस्य एकादशे दिने रेलमार्गद्वारा दिल्लीतः झारखण्डं प्रति गच्छन् आसीत्। मार्गे अकस्मात् एव अलीगढस्थाने आचार्यप्रवरस्य हृदयगतिः अवरुद्धा। द्व्यशीतिवर्षीयः आचार्यः रमाकान्तशुक्लः पद्मश्रीरिति सम्मानेन अलङ्कृतः आसीत्। सममेव राष्ट्रपतिसम्मानप्रमाणपत्रं समेत्य साहित्यअकादेमीपुरस्कार-सदृशैः अनेकैः पुरस्कारैः सभाजितः आचार्यशुक्लः आधुनिकसंस्कृतकवितायाः युगे राष्ट्रचेतनायाः उदात्तस्वरः आसीत्। भाति मे भारतम् इति गीतस्य प्रणेता, दिल्याः देववाणी-परिषदः संस्थापकः अध्यक्षश्च, अर्वाचीनसंस्कृतस्य यशस्वी सम्पादकः सार्धैकशतादपि अधिकग्रन्थानां सम्पादकः, अखिलभारतीयप्राच्यविद्यासम्मेलनस्य संयोजकः, भारतीय-संस्कृत-पत्रकार-सङ्घस्य अध्यक्षः च अवर्तत। अकस्मान्निधनेन संस्कृतजगति शोकलहरी प्रसृता, संस्कृतजगतः कृते अपूरणीया क्षतिः एषा।

 आन्ध्रातीरे सुवर्णवर्णरथः। असानी चक्रवाते तीरं प्राप्तः इति सन्देहः। 

श्रीकाकुलम्> असानी चक्रवातहेतुना जलप्रवाहैराप्लुत्य सुवर्णवर्णयुक्तः रथः आन्ध्रातीरं प्राप्तः। श्रीकाकुलं जिल्लायां सुन्नाप्पल्लि नौकाश्रयस्य समीपे एव रथः तीरं प्राप्तः। कस्यापि दक्षिणपूर्वराष्ट्रस्य एव एषः रथः इति इन्ट्या टुडे नाम माध्यमेन प्रतिवेदितम्। प्रदेशवासिभिः धीवरैः एव प्रथमं रथः सन्दृष्टः। तैः रज्जुमुपयुज्य रथः तीरमानीतः। घटनायाः अस्याः दृश्यानि सामूहिकमाध्यमेषु प्रचलितानि सन्ति। दृश्ये तीरस्थाः जनाः रथं तीरेषु आनयन्तं दृश्यं सुव्यक्तम् अस्ति। घटनामधिकृत्य भारतीय-बौद्धिकसंघाय विवरणानि आवेदितानि इति नौपाडा उपनिरीक्षकेण प्रतिवेदितम्।

 गूगिल् ट्रांसलेट् अन्तर्जालपुटे संस्कृतभाषा अपि समायोजिता।

गूगिल् ट्रान्सलेट् इत्यस्मिन् अन्तर्जालपुटे गूगिल् संस्थया भारतस्य ८ नवीनाः भाषाः  समायोजिताः। तासु संस्कृतभाषा अपि अस्ति इत्यनेन आविश्वं संस्कृतप्रेमिणः मोदन्ते। संस्कृतमपि आन्तर्जालिके पुुुटे भाषारूपेण भवतु इति संस्कृतप्रेमिणां महती अभिलाषा आसीत् । जनेभ्यः लब्धेभ्यः याचनासन्देशेषु संस्कृतं सर्वप्रथमस्थाने आसीत्, अत एव अस्माभिः संस्कृतम् गूगलट्रासलेट् पटले समायोजिता इति गूगिल् संस्थायाः वरिष्ठेण तन्त्रांशाधिकारिणा इस्साक-केसवेल् इत्याख्येन उक्तम् । 

अस्मिन् नुदतु । 

Google translate

Monday, May 9, 2022

 युक्रेनीयविद्यालये रष्यायाः बोम्बाक्रमणं - ६० मरणानि। 

कीव्> पूर्वयुक्रेनस्य लुहानस्कस्थं विद्यालयं प्रति रूस् राष्ट्रेण कृते बोम्बाक्रमणे षष्ठ्यधिकाः जनाः निहताः। रषियायाः आक्रमणात् रक्षां प्राप्तुं विद्यालये अभयं प्राप्ताः ग्रमीणाः एव निहता इति लुहानस्कस्य राज्यपालेन सेर्हि गायदायः इत्यनेन निगदितम्। आक्रमणे विद्यालयसमुच्चयः अग्निसात्कृतः अभवत्। किन्तु आरोपणानि रष्यया निरस्तानि। रष्यायाः नियन्त्रणे वर्तमाने मरियापोल् नगरस्थे अयोनिर्माणकेन्द्रे प्रतिरोधं कुर्वन्तः युक्रेनसैनिकाः आत्मसमर्पणे असन्नद्धाः इति स्पष्टीकृतवन्तः। व्रणितान् सैनिकान् अपाकर्तुं नयतन्त्रभाषणानि पुरोगच्छन्ति।

Saturday, May 7, 2022

 काञ्चन्जंगा पर्वतारोहणावसरे भारतीयपर्वतारोहकः मृतः।

काड्मण्डू> भारतीयपर्वतारोहकः नारायणय्यर् महाभागः (५२) पर्वतारोहणवेलायां दिवङ्गतः। विश्वस्मिन् तृतीयं अत्युन्नतं  काञ्चन्जंगा नाम पर्वतश्रृङ्गं प्रति आरोहणवेलायामेव मरणमुपगतवान्। महाराष्ट्रम् एव अस्य जन्मस्थलम्। मरणवेलायां८२०० कि .मि उपरि आसीत्। पर्वतारोहणवेलायां जातः श्वासरोधः एव मरणकारणम्। अस्मिन् संवत्सरे काञ्चन्जंगायां मृतेषु तृतीयः भवति नारायणय्यर्।

 चीने कोविड् तीव्रं - एष्या कायिकोत्सवः विलम्बायितः। 

बेय्जिङ्> चीनराष्ट्रे कोविड्रोगः अतितीव्रं व्याप्यते। प्रधाननगरे षाङ् हायि नामके सम्पूर्णपिधानं प्रख्यापितम्। 

   तत्समापस्थे हाङ् षु नगरे सेप्तम्बर मासे प्रचालयितुं निश्चितः 'एषियन् गयिंस्' नामकः कायिकोत्सवः दीर्घितः। डिसम्बर् मासे विधास्यमानः 'एषियन् यूत् गयिंस्' नामकः कायिकोत्सवः निरस्तः।

Friday, May 6, 2022

 त्रिचक्रिकायाः उपरि उष्णः पराजयीभूतः। 


अत्युष्णात् संरक्षणं प्राप्तुं विविधमार्गाः अस्माभिः अवलम्बिताः। विषयेस्मिन् नूतनं विशेषप्रतिवेदनं दिल्लीतः समागच्छति। दिल्लीवासी महेन्द्रकुमारः त्रिचक्रिकाचालकः अस्ति। महोदयः स्वस्य त्रिचक्रिकायाः उपरि भागे आरामः निर्मितवान् । तेन त्रिचक्रिकायाः यात्रिकेभ्यः शीतलता लभ्यते ।  इदानीं अयं नूतनाशयः सर्वत्र प्रसृतः वर्तते। औषधसस्यानि शाकासस्यानि अन्यानि सस्यानि एवम् आहत्य २० बालसस्यानि तेन त्रिचक्रिकायाः उपरि संवर्धितानि । 'सञ्चरितोद्यान'मिति जनाः त्रिचक्रिकायैः नम दत्तम् अस्ति॥

 भारते ४७ लक्षं कोविड् मरणानि इति विश्वस्वास्थ्यसंस्था। गणनेयं भारतेन निराकृता।

नवदिल्ली> विश्वस्मिन् कोविड्रोगबाधया भारते एव अधिकजनाः मृताः  इति विश्वस्वास्थ्यसंस्थायाः गणनां विरुध्य केन्द्रसर्वकारः। विश्वस्वास्थ्यसंस्थायाः कोविड्मरणसंख्यागणनारीतिः असमीचीना सत्यविरुद्धा च इति सर्वकारेण उक्तम्। राष्ट्रे अतिशक्तम् जननमरणपञ्चीकरणसंविधानम् अस्ति इत्यतः विश्वस्वास्थ्यसंस्थायाः दत्तांशसञ्चयः अव्यक्तः संशयास्पदः च भवति इत्यपि सर्वकारेण निगदितम्।

Thursday, May 5, 2022

स्त्रीणां वाहनचालनानुज्ञप्तिः न दास्यते - तालिबानः। 

> अफ्गानिस्थाने स्त्रीणां कृते वाहनचालनानुज्ञा तालिबानेन अवसिता। स्त्री स्वतन्त्रय निरोधकान् विषयान् अधिकतया नियमपूर्वकं नियन्त्रितेषु राष्ट्रेषु अन्यतमः भवति तालिबानः। तालिबानस्य अधिनिवेशात् पूर्वं स्त्रीणां बाहनचालनाय अनुमतिः आसीत्। इदानीं तत्रत्या मानवाधिकारस्य स्थितिः प्रतिदिनं शोचनीया वर्तते।

Wednesday, May 4, 2022

नीलगिरिं प्रति सञ्चारीणां प्रवाहः। ऊट्टी मुतुमला च जनप्रवाहैराप्लुता।

गुडल्लूर्> ऊट्टी सस्योद्यानं, पाटलोद्यानं, नौकालयः, बिक्कर नौकालयः, उच्चिमला दृश्यबिन्दुः, मुतुमला व्याघ्रपालनकेन्द्रम् इत्यादीनि प्रधानविनोदसञ्चारकेन्द्राणि सन्द्रष्टुम् आगतानां सञ्चारिणां प्रवाहः अवर्धत। ऊट्टी नौकालये गुडल्लूरस्थे उच्चिमला दृश्यबिन्दौ च ग्रीष्मकालदृश्यानि आस्वादयितुं सन्दर्शकाः संघीभूय आगच्छन्ति। कोविडस्य अतिप्रसरेण गतद्विसंवत्सरकाले सन्दर्शकानां संख्या न्यूना आसीत्। इदानीं कोविड् नियन्त्रणानि पूर्णतया अपाकृतानि। गतत्रिदिनाभ्यन्तरे नीलगिरिं बहवः विनोदयात्रिकाः सन्दर्शनार्थं आगत्य प्रतिनिवृत्ताः।

Tuesday, May 3, 2022

 राष्ट्रे 'टोल्' स्वीकरणे नूतनी रीतिः पर्यालोच्यते भारतसर्वकारेण।

नवदिल्ली> आभारतं मार्गतरणशुल्कस्य स्वीकरणे नूतनी रीतिः पर्यालोच्यते केन्द्रसर्वकारेण। दूरस्य आधारेण भवति नूतनम् शुल्कम्। 'नाविगेषन् मार्गम्' अवलम्ब्य शुल्कमाने निर्णयः स्वीकरोति। शुल्कादानप्रकोष्ठानां  पिधानं क्रियते।  यूरोपीय राष्ट्राणां सामानरीत्या अत्रापि सुविधयाः उपयोगं भविष्यति ॥

 'सन्तोष् ट्रोफी' केरलेन प्राप्तम्।

मलप्पुरम्> 'सन्तोष् ट्रोफी' पादकन्दुकक्रीडापरम्परायाः उद्वेगभरितायाम्  अन्तिमप्रतियोगितायां पश्चिमवंगं  विजित्य केरलं किरीटं प्राप्तवत्। केरलस्य सप्तमः किरीटप्राप्तिः एषः।

    निश्चितायां सार्धहोरायां लक्ष्यकन्दुकरहितसमावस्थायामासीत् दलद्वयमपि। अधिकसमयक्रीडायां एकैकं लक्ष्यकन्दुकं समाहृत्य पुनरपि समावस्था। अन्ते 'पेनाल्टी षूटौट्' मध्ये केरले पञ्च लक्ष्यकन्दुके प्राप्ते पश्चिमवंगस्य एकं ताडनं लक्ष्यात् बहिर्गतम्। एवं ५ - ४ इति क्रमेण केरलस्य अन्तिमविजयः अभूत्।

 भारते कोविड् लघुतरं वर्धते।

नवदिल्ली> राष्ट्रे कोविड्व्यापनं शनैः शनैः वर्धते। प्रतिदिनरोगबाधिताः गतेषु चतुर्दिनेषु त्रिसहस्राधिकाः वर्तन्ते। ह्यः रोगबाधितानां स्पष्टीकरणमानं प्रतिशतमेकं जातम्। 

   स्वास्थ्यविभागेन निगदितं यत् भारते अधुना चतुर्थतरङ्गस्य सूचना न विद्यते तथापि जाग्रतानिर्देशा‌ः अनुवर्तनीयाः। ६ - १२ वयस्कानां बालकानां कृते वाक्सिनीकरणं जवेन करणीयम्। तथा च वाक्सिनस्य प्रबलीकरणमात्रायाः कालान्तरं नवमासमित्यस्मात्  षण्मासमिति परिष्कर्तुं निर्देशः दत्तः।

Monday, May 2, 2022

गुरुरेव गरीयः

मम दिग्दर्शकः, गुरुः, सर्वस्वम्... श्री. प्रोफ. आर्. वासुदेवन् पोट्टी। 


-डा. मनोजः बी. (भावना)


   प्री-डिग्रीं समाप्य मया निर्णीतं यत् इतःपरं मम अर्हतानुगुणं यत्किमपि कर्म करोमीति। यतो हि यावदध्येतव्यं तावदधीतम् इत्यासीत्  मूर्खस्य मम विचारः। किन्तु मम पितुः अभिलाषः उच्चस्तरीयः आसीत्। सः साधारणः कश्चन मानवः आसीत् यः प्रतिदिनं अष्टादश किलोमीट्टर् पर्यन्तं द्विचक्रिकां चालयित्वा कर्म कृत्वा अस्माकं कुटुम्बं संरक्षति स्म। स्वस्य कार्याय कदापि त्रिचक्रिकया यात्रां न कृतवान् सः एकस्मिन् दिने त्रिचक्रिकया गृहमागत्य मां

Sunday, May 1, 2022

 "शासनं नीतियुक्तं चेत् न्यायालयेभ्यः प्रतिरोधः न स्यात्।

प्रशासनानि नियमनिर्माणं च विमर्शयन् मुख्यन्यायाधिपः एन् वि रमणः।


नवदिल्ली> प्रधानमन्त्रिणः नरेन्द्रमोदिनः सान्निध्ये सर्वकारान् नूतन-नियमनिर्माणप्रक्रियाः च निशितरीत्या विमर्शयन् सर्वोच्चनीतिपीठस्य मुख्यन्यायाधिपः न्या. एन् वि रमणः। प्रशासननिर्वहणं यदि सुतार्यतया नीतियुक्तेन च प्रचलति तर्हि नीतिपीठव्यवधानस्य आवश्यकता न भवेदिति विज्ञानभवने सम्पन्ने मुख्यमन्त्रिणां मुख्यन्यायाधीशानां च सम्मेलने सः प्रोक्तवान्। 

  नियमनिर्माणे सम्भूयमानाः अव्यक्तताः न्यायालयानां भारं वर्धयन्ति। जनक्षेममालक्ष्य सुव्यक्ततया दीर्घवीक्षणेन च नियमनिर्माणसभासु नियमाः अनुमोद्यन्ते चेत् नीतिलब्धये  सामान्यजनानां नीतिपीठाश्रयणं न्यूनीकर्तुं शक्यते इति तेनोक्तम्।

उत्तरभारते उष्णतरङ्गः अतिरूक्षः जातः। आगामिदिनेषु तापमानः वर्धिष्यते।

नवदिल्ली> उत्तरभारते अतितापः रूक्षः जातः। आगामिदिनेषु तापमानः २°c अधिकः भविष्यति इति पूर्वसूचना अस्ति। राजस्थानं, दिल्ली, हरियाना, उत्तरप्रदेशः, ओडिषा राज्येषु orange वर्णजाग्रता ख्यापिता। उष्णतरङ्गः नवदिल्ल्यां अनुवर्तिष्यते। मध्यप्रदेशः, विदर्भा, जम्मूः, पञ्जाबः, हरियाना, चण्डीगढ:, उत्तरप्रदेशः, चत्तीस्गढः, राजस्थानं, बीहारः, झार्खंण्डः, तेलङ्गाना, ओडिषा राज्येषु प्रत्येकं प्रदेशेषु अपि तापवर्धनसाध्यता अस्ति