OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 23, 2022

 भारतेऽपि कोविड् घटना वर्धते। पुनरपि मुखावरणधारणं निर्बन्धितम्।


नवदिल्ली> भारतस्य विभिन्नराज्येषु कोविड् रोगाणुव्यापनं वर्धते इत्यतः भारतसर्वकारेण पुनरपि मुखावणधारणं निर्बन्धितम् अभवत्। नवदिल्याम् मुखावरणधारणे विमुखेभ्यः ५०० रूप्यकाणि दण्डः लभते । रोगप्रतिरोध-प्रक्रमानुसारेण दुरन्तनिवारणायोगेन आयोजिते उपवेशने एव निर्णयः स्वीकृतः। विद्यालयेषु अध्ययनम् अनुवर्तिष्यते।

स्वदेशीयरूपेण निर्मिता ऐ एन् एस् वाग्षीर् नामिका अन्तर्वाहिनी जले प्रथमस्पर्शमकरोत् ।

मुम्बै> भारतेन निर्मिता षष्ठी स्वदेशीया स्कोर्पीन् कक्ष्या अन्तर्वाहिनी जले प्रथमस्पर्शमकरोत्।दक्षिणमुम्बय्यां मसगावे सम्पन्ने कार्यक्रमे प्रतिरोधकार्यदर्शी अजयकुमारः अन्तर्वाहिन्याः प्रथमजलस्यर्शं कृतवान् ।

Friday, April 22, 2022

ओमिक्रोणस्य नूतनविभेदाः स्युः - स्वास्थ्यविशारदाः।

नवदिल्ली> भारते इदानीं वर्धमानस्य कोविड् रोगाणु व्यापनस्य कारणम् , ओमिक्रोणस्य नूतनविभेदाः स्युः इति स्वास्थ्यविशारदाः अभिप्रयन्ति। इतःपर्यन्तम् ओमिक्रोणस्य अष्ट (८) विभेदाः उद्भूताः सन्ति। तेषु अन्यतमः भवति प्रैम् (Prime) । ऐ एल् बि एस् मध्ये ओमिक्रोणस्य विविध-प्रतिरूपाणि अवलोक्यन्ते इति आवेदितम् अस्ति ।

BA.2.12.1 इति विभेदः भवति नवदिल्ल्यां हेतुः। किन्तु चतुर्थेन रोगाणुव्यापनतरङ्गत्वेन घटनेयं न परिणमिष्यति इति एम् सि एम् आर् संस्थायाः पूर्ववैज्ञानिकेन डॉ आर् गङ्गा खेद्खरेण उक्तम्। ओमिक्रोणस्य विभेदाः भारते सन्त्यपि नूतनविभेदाः इतः पर्यन्तं न प्रतिवेदिताः इत्यपि तेनोक्तम्।

Thursday, April 21, 2022

ब्रिट्टनस्य प्रधानमन्त्री अद्य भारतम् आगच्छति। भारत-ब्रिट्टननयतन्त्रचर्चा श्वः।

 नवदिल्ली> रूस् - युक्रैनयोः युद्धे अनुवर्तमाने भारत-ब्रिट्टनीय नयतन्त्रचर्चा ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणः अद्य भारतं प्राप्नोति। प्रभाते अहम्मदाबादं प्राप्नुवन् सः सबर्मती आश्रमं सन्द्रक्ष्यति। ततः हालोल् प्रदेशे वर्तमानायाः ब्रिट्टनीयसंस्था जे सि बि इत्यस्याः नूतनसंस्थायाः उद्घाटनं करिष्यति। सायं सः दिल्लीं प्राप्स्यति। 

  श्वः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह सम्पत्स्यमानायां नयतन्त्रचर्चायां रूस् - युक्रैनयुद्धं, रूसतः भारतस्य तैलेन्धनस्य क्रयः, भारत-यू के स्वतन्त्रव्यापारसन्धिः इत्यादीनि प्रकरणानि अन्तर्भवन्ति। प्रधानमन्त्रिरूपेण बोरिस जोण्सणस्य प्रथमं भारतसन्दर्शनं भवत्येतत्।

Wednesday, April 20, 2022

 पाकिस्थाने ३४ अङ्गयुक्तं मन्त्रिमण्डलं शपथमकरोत्। 

इस्लामबादः> पाकिस्थाने आकाङ्क्षायाः विरामं कृत्वा प्रधानमन्त्रिणः षहबास् षरीफस्य नेतृत्वे ३४ अङ्गयुक्ता मन्त्रिसभा कुजवासरे शपथवाचनमकरोत्। ३१ पूर्णाधिकारमन्त्रिणः त्रयः सहमन्त्रिणश्च सन्ति। किन्तु सर्वेभ्यः मन्त्रिभ्यः विभागाः न निर्णीताः। 

   नूतने मन्त्रिमण्डले ५ महिलाः सन्ति। राष्ट्रपतेः अभावे सभानाथः सादिख् सञ्जरानी नूतनमन्त्रिणः शपथवाचनमकारयत्।

Tuesday, April 19, 2022

 नेप्पाले अपि आर्थिकसमस्या ।

काठ्मण्डुः> श्रीलङ्कां पाकिस्थानं चानुगम्य भारतस्य इतरं प्रातिवेशिकराष्ट्रं नेप्पालमपि आर्थिकसमस्याम् अभिमुखीकरोति। राष्ट्रस्य विदेशद्रव्यस्य संरक्षितसञ्चयः सप्तभिर्मासैः १६ प्रतिशतं न्यूनीभूतः। १. १७ लक्षं कोटि नेप्पालरूप्यकाणि अवशिष्टानीति आर्थिकविचक्षणैः परिकल्प्यते। 

  इन्धनमभिव्याप्य प्रायेण सर्वाण्यवश्यवस्तूनि भारतादेव आनयनं कुरुते नेप्पालाय माससप्तकस्य व्ययमेव साध्यते। कोविड्महामारिकारणतः  एव   नेप्पालस्य आर्थिकक्लेशः आरब्धः। विनोदसञ्चारेण लभ्यमानं धनं प्रवासिभिः प्रेषितद्रव्याणि च राष्ट्रस्य मुख्यः आयमार्गः।

लफ्. जनरल् मनोज् पाण्डे भारतस्थलसेनायाः नूतनाध्यक्षः।


नवदिल्ली> भारतस्थलसेनायाः नूतनाध्यक्षः लफ्. जनरल् मनोज् पाण्डे भविष्यति। जनरल् नरवने महोदयः एप्रिल्मासस्य ३० दिनाङ्के निवृत्तः भविष्यति। तस्मिन् स्थाने मनोज् पाण्डे महोदयस्य नियुक्तिः भविष्यति। इदानीं स्थलसेनायाः उपाध्यक्षः भवति पाण्डे महोदयः।

Monday, April 18, 2022

पाक्किस्थानेन कृते व्योमाक्रमणे३६ जनाः हताः। प्रत्याक्रमणं भविष्यति इति अफ्गानिस्थानः।

काबूल्> अफ्गानिस्थानं प्रति पाकिस्थानेन कृते व्योमाक्रमणे शिशुभिः सह ३६ अफ्गानिस्थानीयाः जनाः मृताः इति प्रतिवेदनम्। अफ्गानिस्थाने खोस्त्, कुमार् मण्डलेषु एव पाकिस्थानेन आक्रमणं कृतमिति अन्ताराष्ट्रिय-वार्ताहरैः आवेदितम्। आक्रमणस्य पश्चात् काबूलस्थं पाकिस्थानस्य नयतन्त्रप्रतिनिधिं मन्सूर् अहम्मद् खानम् आहूय तालिबानस्य नेतृभिः प्रतिषेधः प्रकटितः।

Sunday, April 17, 2022

 संस्कृतसंस्कृतिवैभवाख्यान्ताराष्ट्रियं सम्मेनलं समनुष्ठितम्

विश्वप्रसिद्धाया: अक्षरधामसंस्थया: प्रवर्तकस्य प्रमुखस्वामिमहाराजस्य शताब्दिमहोत्सवावसरे स्वस्तिवाचनसंस्थाया: च एकादशवर्षपूर्त्यवसरे दिल्ल्याम् अक्षरधाममन्दिरस्थे प्रमुखस्वामिसभागरे एकं भव्यं संस्कृतसंस्कृतिवैभवाख्यम् अन्ताराष्ट्रियं सारस्वतसम्मेलनं समनुष्ठितम्। यत्र देशविदेशेभ्य: समागतै: संस्कृतमनीषिभिः विद्वद्भिः शोधार्थिभि: साहित्यकारै: संस्कृतानुरागिभि: च संस्कृतसंस्कृत्यो: संवर्धनार्थं परिचर्चापूर्वकं संस्कृतसंरक्षणसंवर्धनं प्रति नैज-नैज-सद्भावना: प्रकटिता:। सारस्वतसम्मेलनं बी. ए. पी. एस्. स्वामिनारायणानुसन्धा

स्वदेशीयोत्पन्नानाम् उपयोगं करोतु इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी।


अहम्मदाबाद्> जनैः आगामिनि पञ्चविंशतिसंवत्सरं यावत् स्वदेशीयोत्पन्नानि उपयुज्यन्ते चेत् राष्ट्रे कर्मराहित्यं न भविष्यति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना न्यगादीत्। हनूमद्जयन्ति दिने गुजरात्ते मोर्ब्यां १०८ पादमितोन्नतायाः हनूमद्प्रतिमायाः अनाच्छादनं कुर्वन् भाषमाणः आसीत् सः। अस्माकं गृहेषु अस्माकं जनैः निर्मितानि वस्तूनि उपयोक्तव्यानि। विदेशनिर्मितवस्तूनि उपयुज्यते चेत् एतादृश कठिननिर्मणप्रयत्नस्य का आवश्यकता इति वयं न जानीमः। अतः स्वदेशीयोत्पन्नानि क्रेतुं जनान् प्रेरयन्तु इति प्रधानमन्त्रिणा अभ्यर्थितम् ।

भारतसर्वकारपरियोजनाः अधिकृत्य महती प्रश्नोत्तरी।

नवदिल्ली> भारतसर्वकारपरियोजनाः अधिकृत्य जनान् प्रबोधयितुम् आयोजिता 'सब् का विकास्' नामिका महती प्रश्नोत्तरी समारब्धा। अम्बेद्कर् जयन्ती दिने एव प्रधानमन्त्रिणा कार्यक्रमोऽयम् उद्घोषितः। कार्यक्रमेण अनेन जनान् अपि संयोज्य प्रशासननिर्वहणम् आविष्कर्तुं सर्वकारः सङ्कल्पयति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितम् ।

Saturday, April 16, 2022

प्रधानमन्त्रिसंग्रहालयः राष्ट्राय समर्पितः। 

नवदिल्ली> भारतस्य १४ भूतपूर्वप्रधानमन्त्रिणां जीवनचरितं प्रवर्तनानि च अवतार्यमाणः प्रधानमन्त्रिसंग्रहालयनामकः प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पितः। दिल्ल्यां तीन्मूर्तिभवने नेह्रूस्मारककौतुकागारस्य ग्रन्थशालायाः च समीपे १०,००० चतुरश्रपादपरिमिते विस्तारे एव नूतनः भवनसमुच्चयः निर्मितः। 

   राष्ट्रप्रगतये स्वतन्त्रतानन्तरं प्रवर्तिताः सर्वे सर्वकाराः सविशेषाणि योगदानानि अकुर्वन्निति उद्घाटनभाषणे प्रधानमन्त्री उक्तवान्।

किवौ आक्रमणं प्रबलीकरिष्यति इति रष्यः।

मोस्को/कीव्> युक्रैनं विरुध्य आक्रमणं तीव्रं करिष्यति इति रष्येण पूर्वसूचना प्रदत्ता। कृष्णसमुद्रे स्थिता रष्यस्य युद्धनौका जले निमज्जिता इति युक्रैनेन अभिप्रैतमासीत्। तत्पश्चादेव घटनेयम्। युक्रैनस्थे महानौकावेधाग्निबाणानां तथा अग्निबाणप्रतिरोधविधानानां च निर्माणयन्त्रागारोपरि क्रूस् अग्निबाणाक्रमणं कृतमिति रष्येण प्रोक्तम्। युक्रैनस्य राजधानीं कीवं लक्ष्यीकृत्य क्रियमाणानां अग्निबाणाक्रमणानां संख्या तीव्रता च वर्धयिष्यति इति पूर्वसूचना एव रष्येण प्रदत्ता।

Friday, April 15, 2022

 काश्मीरेषु भीकराक्रमणम्। बारमुल्ला प्रदेशे ग्राममुख्यः हतः।

श्रीनगरम्> काश्मीरेषु भीकराक्रमणम्। बारमुल्ला प्रदेशे ग्राममुख्यः भीकराणां गोलिकाप्रहरेण हतः। पतानस्य गोषबुग प्रदेशस्य ग्राममुख्यः मनसूर अहम्मदः एव  हतः। प्रदेशः सेनया बन्धितः। भीकराः सेनया अन्विष्टाः सन्तः। विगते दिने काश्मीरस्य षोपियाने आपन्ने सङ्घर्षे चत्वारः लष्कर् तोइब भीकरा: सेनया हताः। समीपकाले पुल्वामा प्रदेशे षोपियाने च कृतेषु भीकरप्रवर्तनेषु व्यापृताः एव इदानीं सेनया हताः।

 राष्ट्रम् अम्बेद्करजन्मदिनं समाचरत्। 

नवदिल्ली> भारतस्य राजनीतिसंविधानशिल्पिनः डा भीमरावु अम्बेद्करवर्यस्य १३१तमं जन्मदिनं राष्ट्रेण सादरम् अनुष्ठितम्

  संसद्परिसरे वर्तमानायां अम्बेद्करप्रतिमायां नेतारः पुष्पाञ्जलिं कृतवन्तः। राष्ट्रपतिः रामनाथकोविन्दः, प्रधानमन्त्री नरेन्द्रमोदी, उपराष्ट्रपतिः एम् वेङ्कय्यनायिडुः, लोकसभाध्यक्षः ओम् बिर्ला, कोण्ग्रसः अध्यक्षा सोणियागान्धी इत्यादयः भागमभजन्त। 

  आराष्ट्रम् अम्बेद्करजयन्त्युत्सवाः विविधानां संघटनानामाभिमुख्ये समायोजिताः।

 'सन्तोष् ट्रोफी' पादकन्दुकक्रीडा श्वः आरभते। 

मलप्पुरम्> भारतस्य राष्ट्रिय-  पादकन्दुकक्रीडा 'सन्तोष् ट्रोफी' नामिका केरलस्य मलप्पुरं जनपदे श्वः आरभते।  श्वस्तनस्य प्रथमप्रतिद्वन्द्वः प्रभाते ९.३० वादने पश्चिमवंग-पञ्चाबयोः प्रतियोगितया आरप्स्यते। अन्तिमक्रीडा मेय् द्वितीयदिनाङ्के सम्पत्स्यते।

 बाह्याकाशयानानि पुनरुपयोक्तुं भारतीय अन्तरिक्षानुसन्धान-संस्था सज्जते।

विक्षेपणानन्तरं पूर्णतया नाशमुपगतानां यानानां स्थाने  अन्येषां सज्जीकरणाय कृतः प्रयत्नः अन्तिमपादे। भारतीयान्तरिक्षानुसन्धान-संघटनेन नूतनपदन्यासः क्रियते। विक्षेपदौत्यपूर्तीकरणानन्तरं प्रत्यागत्य अपरदौत्याय सज्जीकृतानि यानानि विलम्बं विना परीक्ष्यन्ते। एतत् प्रवृत्तिपथं आगमिष्यति चेत् उपग्रहविक्षेपणाय तथा अनुसन्धानाय च आवश्यकं  अधिकधनव्ययं  न्यूनीकर्तुं शक्यते इति प्रतीक्षते ।

Wednesday, April 13, 2022

पाकिस्थाने षहबास् षरीफः नूतनः प्रधानमन्त्री।

इस्लामबादः> पाकिस्थाने अविश्वासप्रस्तावस्योपरि सम्पन्ने मतदाने इम्रान् खानः बहिष्कृतः। विपक्षदलीयानां नेता 'पाकिस्थान मुस्लिम लीग्' इत्यस्य अध्यक्षः षहबास् षरीफः प्रधानमन्त्रिरूपेण प्रतियोगितां विना चितः। अनन्तरं सः शपथवचनं कृत्वा अधिकारं प्राप्तवान्। 

  राष्ट्रपतिः आरिफ् आल्वी देहास्वास्थेन कार्यक्रमेषु भागं न कृतवानित्यतः सभाध्यक्षः सादिख् सञ्जरानी शपथं कारितवान्। 

  भारतेन सह सौहार्दं सम्बन्धमिच्छतीति नूतनप्रधानमन्त्रिणा षहबासेन उक्तम्। काश्मीरप्रकरणे शान्तिपूर्णं परिहारमावश्यकमिति तेन सूचितम्।