स्वदेशीयोत्पन्नानाम् उपयोगं करोतु इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी।
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Sunday, April 17, 2022
भारतसर्वकारपरियोजनाः अधिकृत्य महती प्रश्नोत्तरी।
नवदिल्ली> भारतसर्वकारपरियोजनाः अधिकृत्य जनान् प्रबोधयितुम् आयोजिता 'सब् का विकास्' नामिका महती प्रश्नोत्तरी समारब्धा। अम्बेद्कर् जयन्ती दिने एव प्रधानमन्त्रिणा कार्यक्रमोऽयम् उद्घोषितः। कार्यक्रमेण अनेन जनान् अपि संयोज्य प्रशासननिर्वहणम् आविष्कर्तुं सर्वकारः सङ्कल्पयति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितम् ।
Saturday, April 16, 2022
प्रधानमन्त्रिसंग्रहालयः राष्ट्राय समर्पितः।
नवदिल्ली> भारतस्य १४ भूतपूर्वप्रधानमन्त्रिणां जीवनचरितं प्रवर्तनानि च अवतार्यमाणः प्रधानमन्त्रिसंग्रहालयनामकः प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पितः। दिल्ल्यां तीन्मूर्तिभवने नेह्रूस्मारककौतुकागारस्य ग्रन्थशालायाः च समीपे १०,००० चतुरश्रपादपरिमिते विस्तारे एव नूतनः भवनसमुच्चयः निर्मितः।
राष्ट्रप्रगतये स्वतन्त्रतानन्तरं प्रवर्तिताः सर्वे सर्वकाराः सविशेषाणि योगदानानि अकुर्वन्निति उद्घाटनभाषणे प्रधानमन्त्री उक्तवान्।
किवौ आक्रमणं प्रबलीकरिष्यति इति रष्यः।
मोस्को/कीव्> युक्रैनं विरुध्य आक्रमणं तीव्रं करिष्यति इति रष्येण पूर्वसूचना प्रदत्ता। कृष्णसमुद्रे स्थिता रष्यस्य युद्धनौका जले निमज्जिता इति युक्रैनेन अभिप्रैतमासीत्। तत्पश्चादेव घटनेयम्। युक्रैनस्थे महानौकावेधाग्निबाणानां तथा अग्निबाणप्रतिरोधविधानानां च निर्माणयन्त्रागारोपरि क्रूस् अग्निबाणाक्रमणं कृतमिति रष्येण प्रोक्तम्। युक्रैनस्य राजधानीं कीवं लक्ष्यीकृत्य क्रियमाणानां अग्निबाणाक्रमणानां संख्या तीव्रता च वर्धयिष्यति इति पूर्वसूचना एव रष्येण प्रदत्ता।
Friday, April 15, 2022
काश्मीरेषु भीकराक्रमणम्। बारमुल्ला प्रदेशे ग्राममुख्यः हतः।
श्रीनगरम्> काश्मीरेषु भीकराक्रमणम्। बारमुल्ला प्रदेशे ग्राममुख्यः भीकराणां गोलिकाप्रहरेण हतः। पतानस्य गोषबुग प्रदेशस्य ग्राममुख्यः मनसूर अहम्मदः एव हतः। प्रदेशः सेनया बन्धितः। भीकराः सेनया अन्विष्टाः सन्तः। विगते दिने काश्मीरस्य षोपियाने आपन्ने सङ्घर्षे चत्वारः लष्कर् तोइब भीकरा: सेनया हताः। समीपकाले पुल्वामा प्रदेशे षोपियाने च कृतेषु भीकरप्रवर्तनेषु व्यापृताः एव इदानीं सेनया हताः।
राष्ट्रम् अम्बेद्करजन्मदिनं समाचरत्।
नवदिल्ली> भारतस्य राजनीतिसंविधानशिल्पिनः डा भीमरावु अम्बेद्करवर्यस्य १३१तमं जन्मदिनं राष्ट्रेण सादरम् अनुष्ठितम्
संसद्परिसरे वर्तमानायां अम्बेद्करप्रतिमायां नेतारः पुष्पाञ्जलिं कृतवन्तः। राष्ट्रपतिः रामनाथकोविन्दः, प्रधानमन्त्री नरेन्द्रमोदी, उपराष्ट्रपतिः एम् वेङ्कय्यनायिडुः, लोकसभाध्यक्षः ओम् बिर्ला, कोण्ग्रसः अध्यक्षा सोणियागान्धी इत्यादयः भागमभजन्त।
आराष्ट्रम् अम्बेद्करजयन्त्युत्सवाः विविधानां संघटनानामाभिमुख्ये समायोजिताः।
बाह्याकाशयानानि पुनरुपयोक्तुं भारतीय अन्तरिक्षानुसन्धान-संस्था सज्जते।
विक्षेपणानन्तरं पूर्णतया नाशमुपगतानां यानानां स्थाने अन्येषां सज्जीकरणाय कृतः प्रयत्नः अन्तिमपादे। भारतीयान्तरिक्षानुसन्धान-संघटनेन नूतनपदन्यासः क्रियते। विक्षेपदौत्यपूर्तीकरणानन्तरं प्रत्यागत्य अपरदौत्याय सज्जीकृतानि यानानि विलम्बं विना परीक्ष्यन्ते। एतत् प्रवृत्तिपथं आगमिष्यति चेत् उपग्रहविक्षेपणाय तथा अनुसन्धानाय च आवश्यकं अधिकधनव्ययं न्यूनीकर्तुं शक्यते इति प्रतीक्षते ।
Wednesday, April 13, 2022
पाकिस्थाने षहबास् षरीफः नूतनः प्रधानमन्त्री।
इस्लामबादः> पाकिस्थाने अविश्वासप्रस्तावस्योपरि सम्पन्ने मतदाने इम्रान् खानः बहिष्कृतः। विपक्षदलीयानां नेता 'पाकिस्थान मुस्लिम लीग्' इत्यस्य अध्यक्षः षहबास् षरीफः प्रधानमन्त्रिरूपेण प्रतियोगितां विना चितः। अनन्तरं सः शपथवचनं कृत्वा अधिकारं प्राप्तवान्।
राष्ट्रपतिः आरिफ् आल्वी देहास्वास्थेन कार्यक्रमेषु भागं न कृतवानित्यतः सभाध्यक्षः सादिख् सञ्जरानी शपथं कारितवान्।
भारतेन सह सौहार्दं सम्बन्धमिच्छतीति नूतनप्रधानमन्त्रिणा षहबासेन उक्तम्। काश्मीरप्रकरणे शान्तिपूर्णं परिहारमावश्यकमिति तेन सूचितम्।
वृष्टिरनुवर्तिष्यते।
अनन्तपुरी> पञ्चदिनानि यावत् केरले मेघगर्जनयुक्ता वृष्टिः अनुवर्तिष्यते इति केन्द्र ऋतुविज्ञानीयविभागेन निगदितम्। तमिल्नाट् तटस्योपरि वर्तमानः चक्रवातावर्तः अधुनापि प्रबलः वर्तते।
केरलं, कर्णाटकं, लक्षद्वीपः इत्येतेषां तीरप्रदेशेषु प्रतिहोरायां ४० - ६० किलोमीटर् वेगेन वातप्रवाहोSपि भविष्यति।
Monday, April 11, 2022
कोविड् -पञ्चराज्जानि प्रति जागरणनिर्देशः।
नवदिल्ली> कोविड्प्रकरणानां वर्धने आशङ्कायां सञ्जातायां केरलमभिव्याप्य पञ्चभिः राज्यैः जाग्रता पालनीया इति स्वास्थ्यमन्त्रालयेन निर्दिष्टम्। केरलेन सह दिल्ली, हरियानं, महाराष्ट्रं, मिसोरम् इत्येतेषु राज्येषु रोगव्यापननिरोधाय प्रक्रमाः स्वीकरणीयाः इति निर्दिष्टम्।
Sunday, April 10, 2022
विषुवत्कालपूजार्थं शबरिगिरिः उद्घाटितः।
शबरिमला> मेषमासपूजार्थं शबरिगिरिमन्दिरस्य कवाटः उद्घाटितः। अद्य सायङ्काले पञ्चवादने मन्दिरस्य तन्त्रमुख्यः कण्ठरर् महेष् मोहनरस्य मुख्यकार्मिकत्वे मन्दिरस्य प्रधानार्चकः एन् परमेश्वरन् नम्पूतिरिवर्यः मन्दिरकवाटम् उद्घाट्य दीपान् प्रज्वालयत्। अनन्तरम् उपदेवतामन्दिराणां कवाटान् अपि उद्घाट्य दीपाः प्रज्वालयत् ।
भारते १८वयोधिकानां कृते कोविड्प्रत्यौषधस्य शक्तीकरणमात्राप्रदानमारब्धम्।
नवदिल्ली> आभारतं ये नागरिकाः १८ वयः पूर्तीकृताः तेषां कृते कोविड्वाक्सिनस्य शक्तीकरणमात्रां दातुम् आरब्धम्। द्वितीयमात्रां स्वीकृत्य ९ नवमासानन्तरमेव प्रबलीकरणमात्रां स्वीकर्तुं शक्यते। पूर्वं यन्नामकस्य औषधस्य सूचीवेधः स्वीकृतः आसीत्, तन्नामकं औषधं एव शाक्तीकरणाय अथवा प्रतिरोधवर्धनाय स्वीकर्तव्यम्। निजीयस्वास्थ्यकेन्द्रेभ्यः मूल्यसमर्पणेनैव वाक्सिनस्वीकारः शक्यते।
तथा च प्रमुखवाक्सिनद्वयस्य मूल्ये च आकुञ्चनं विधत्तम्। कोविषील्ड्, कोवाक्सिन् इत्यनयोः औषधयोः मूल्यं २२५ रूप्यकाणि भविष्यति। पूर्वमनयोः मूल्यं यथाक्रमं ६००, १२०० च आसीत्।
किन्तु पूर्वमेव प्रबलीकरणमात्रामनूदिताः ६० वयोधिकाः, स्वास्थ्यप्रवर्तकाः इत्यादिनां कृते निश्शुल्कतया एव तृतीयं वाक्सिनं लब्धुमर्हति।
Saturday, April 9, 2022
केरले वृष्टिः १२ तमपर्यन्तमनुवर्तिष्यते।
अनन्तपुरी> केरले एप्रिल् १२तमदिनाङ्कपर्यन्तं मेघगर्जनैः सह तीव्रवृष्टिः भविष्यतीति केन्द्र-पर्यावरणविभागेन निगदितम्। द्वित्राणि दिनानि यावत् राज्यस्य विविधस्थानेषु वृष्टिः अनुवर्तमाना वर्तते।
अद्य सप्तसु दक्षिणजनपदेषु पीतजाग्रता उद्घुष्टा। वंगान्तरालसमुद्रे जातस्य न्यूनमर्दस्य प्रभावेणैव केरले वृष्टिः जाता।
पाकिस्थाने अद्य अविश्वासप्रस्तावोपरि मतदानप्रक्रिया।
इस्लामबादः> पाकिस्थानस्य राष्ट्रियसंसदि प्रधानमन्त्रिणम् इम्रानखानं विरुध्य अवतारितस्य अविश्वासप्रस्तावस्योपरि मतदानप्रक्रिया भविष्यति। देशी राष्ट्रियसभां शिथिलयितुं राष्ट्रपतिना आरिफ् आर्विना कृतं प्रक्रमं सर्वोच्चन्यायालयेन निरस्तमासीत्। मतदानप्रक्रिया आवश्यकीति नीतिपीठेन निर्दिष्टमासीत्।
मार्च् ८ तमे दिनाङ्गात् आरब्धस्य राजनैतिकानिश्चितत्वस्य अद्य विरामो भविष्यतीति प्रतीक्षते।
प्रमुखपादकन्दुकक्रीडकः चिबुसोर् दिवङ्गतः।
अब> (नैजीरिया) १९८० संवत्सरकाले कोल्कत्तायाः क्रीडाङ्कणेषु पादकन्दुकप्रेमिणां मनांसि हठात् आकर्षन् विराजमानः नैजीरियायाः पूर्वतन - पादकन्दुकक्रीडकः चिबुसोर् न्वकन्म(५७) दिवङ्गतः। हृदयस्तम्भनमेव मरणकारणम् । अबायां स्वगृहे एव देहवियोगः अभवत् । चिबुसोरस्य सहक्रीडकः एमेक्का एसयुगो इत्याख्येन मरणवर्ता प्रतिवेदिता।