OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 30, 2022

 युक्रेन् - आक्रमणं न्यूनीकरिष्यतीति रषिया।

कीव्> तुर्कीस्थे इस्ताम्बूले सम्पन्नायां शान्तिचर्चायाम् आश्वासपूर्णा प्रगतिः। कीव् चेर्णीव् क्षेत्रेषु आक्रमणं न्यूनीकरिष्यतीति रषियायाः प्रतिनिधिसंघे अन्तर्भूतः रक्षासहमन्त्री अलक्साण्टर् फोमिन् इत्यनेन निगदितम्। चर्चायां आशावहा प्रगतिरभूदिति मध्यस्थः तुर्कीराष्ट्रपतिः रजप् तय्यिप् इत्येषश्च प्रोक्तवान्। पुटिन-सेलन्की मेलनम् अचिरादेव भविष्यतीति चर्चायाः युक्रेनस्य प्रतिनिधिः डेविड् अराखामिया इत्यनेन उक्तम्। 

  'नाटो' समित्यामङ्गत्वमिति याचना युक्रेनेन त्यक्ता इति सूच्यते। किन्तु नाटोनियमस्य पञ्चमानुच्छेदमनुसृत्य राष्ट्रसुरक्षा आवश्यकीति युक्रेनस्य अपेक्षा। प्रतिसन्ध्यवस्थासु राष्ट्रैः परस्परसाह्यं करणीयमिति पञ्चमानुच्छेदस्य सत्ता।

 इन्धनमूल्यं षष्ठदिनेऽपि वर्धापितम्। 

कोच्ची> यानेन्धनस्य मूल्यं अनुस्यूततया षष्ठदिनेऽपि वर्धापितम्। पेट्रोल् तैलस्य ८८ पैसापरिमितस्य डीसल् तैलस्य ८४ पैसापरिमितस्य च वर्धनं गतदिने जातम्। अनेन केरले पेट्रोल् तैलस्य डीसल् तैलस्य च मूल्यं यथाक्रमं ११०. २८, ९७. ३२ रूप्यकाणि अभवन्। मार्च् २२ दिनाङ्कतः षट् रूप्यकाणां वर्धनमभवत्।

नवदिल्ल्याम् उड्डयनात् पूर्वं स्तम्भे घट्टयित्वा विमानस्य पक्षः भग्नः।

नवदिल्ली> नवदिल्ली विमानपत्तने उड्डयनात् पूर्वं स्पैस् जेट् विमानम् वैद्युतस्तम्भे अघट्टयत्। घट्टनाघातेन स्तम्भः पूर्णतया भग्नः। विमानस्य तु क्षतिः अभवत्। विमानयात्रिकाः क्षतिं विना रक्षां प्रापुः। नवदिल्लीतः जम्मूकाश्मीरं प्रति प्रस्थितस्य विमानस्य वामपक्षः एव वैद्युतस्तम्भे घट्टयित्वा विदीर्णः। घटनायाः अस्याः अन्वेषणाय अधिकृतैः निर्देशो दत्तः।

Tuesday, March 29, 2022

हरियाणासंस्कृतविद्यापीठे अन्ताराष्ट्रियसंगोष्ठी॥ 

(वार्ताहरः वत्स देशराज शर्मा)


नवदिल्ली> सामोदं संकेतयामि दिल्ली-केन्द्रीय-संस्कृतविश्वविद्यालयेन सम्बद्धे यद्धरियाणा-संस्कृतविद्यापीठे द्विदिवसात्मिका अन्ताराष्ट्रिय-संस्कृतसंगोष्ठी संजाता। यस्यां संगोष्ठ्यां विविधबुधकुलालंकारा विभिन्नेभ्यो राज्येभ्यो विदेशेभ्यश्च सम्प्राप्ताः। यस्याः संगोष्ठ्या विषयोऽतीवरुचिकरो ज्ञानवर्धकश्चासीत् यथा- एकविंशशताब्द्या

 इम्रान् खानं विरुध्य अविश्वासप्रमेयः - पाकिस्तानसंसदि चर्चा आरब्धा। 

इस्लामाबादः> प्रधानमन्त्रिणं इम्रान् खानं विरुध्य समर्पिते अविश्वासप्रमेये पाकिस्तानसंसदि चर्चा आरब्धा। राष्ट्रियसंसदः विपक्षनेता तथा च 'पाकिस्थान् मुस्लीमलीग् [नवास्]' दलस्य अध्यक्षः षेह्बास् षरीफ् इत्यनेन प्रमेयपत्रं अधोसभायां समर्पितम् ।

  चर्चां पूर्तीकृत्य एप्रिल् ३ - ७ दिनाङ्कयोर्मध्ये प्रमेयस्योपरि मतदानं भवेत्।

 प्रधानमन्त्रीपदात्  निष्कासयितुं विदेशधनम् उपयुज्यते- इम्रान्खानः।


इसलामाबाद्> अविश्वासनिर्णय-विधेयकद्वारा निष्कासनभीषां अभिमुखीक्रियमाणः पाकिस्थानस्य प्रधानमन्त्री इम्रान्खानः इस्लामाबादे स्वस्य दलस्य शक्तिं प्रदर्शितवान्। प्रधानमन्त्रीपदात् तं निष्कासयितुं विपक्षदलीयाः विदेशधनम् व्ययं कुर्वन्ति इत्यस्मिन् विषये स्ववशे प्रमाणमस्ति इति सहस्रशान् जनान् अभिसंबोधनं कृत्वा इम्रान्खानेन प्रोक्तम्।

Monday, March 28, 2022

 राष्ट्रं विभक्तुं रषिया यतते - युक्रेनः। 

कीव्> राष्ट्रं द्विधा विभक्तुं रषिया यतते इति युक्रेनस्य गुप्तान्वेषणविभागस्य प्रमुखः किरिलो बुधनोवः आरोपितवान्। राष्ट्रविभजनाय अपेक्षितान् प्रदेशान् स्ववशं कर्तुं युक्रेनस्य पूर्वमण्डलेन सह क्रैमियां सम्बद्धुं च रूस् राष्ट्रपतेः व्लादिमर् पुतिनस्य लक्ष्यमिति सः उक्तवान्। 

  प्रत्युत रूस् राष्ट्रेण सह मेलितुं जनानां तात्पर्यावगमनाय युक्रेनस्य लुहान्स्क् प्रदेशे  हितपरिशोधनां करिष्यतीति तत्रस्थैः रषियानुकूलविमतैः उक्तम्। लुहान्स्क्, डोणटिस्क् नामकाः प्रदेशाः स्वतन्त्राः अभवन्निति पुटिनेन पूर्वं प्रख्यापितमासीत्।

जीवजलस्य कृते श्रीमान् नारायणाय मोदिनः अभिनन्दनानि।


कालटी> प्रधानमन्त्रिणः मोदिनः 'मन की बात' इति आकाशवाणीकार्यक्रमे आसीत् उपरि दत्तं वचनम्। केरलीयः एरणाकुलं देशीयः श्रीमान् नारायणः एव अभिनन्दनपात्रमभवत्। एषः महोदयः २०१८ आरभ्य अनुवर्तमाना परियोजना भवति यत् तत्र तत्र  जीविनां कृते जलपूर्णं एकैकं मृत्भाजनम् स्थापनीयम् इति । मनसि निधाय महोदयेन आरब्धा योजना भवति । मार्च् मासे उष्णाधिक्येन पक्षि-पशुवर्गाः पिपासार्ताः भवन्ति। सन्दर्भेऽस्मिन् तेषां जीवरक्षायै जीवजलदानमेव महोदयेन क्रियते। इतः पर्यन्तं लक्षाधिकानि मृत्भाजनानी महोदयेन स्थापितानि । भाजनस्य मूल्यं तु स्वयं व्ययीकरोति। एवं महता यत्नेन महोदयः स्वस्य पुण्यकर्मणि व्यापृतो वर्तते। 

Sunday, March 27, 2022

 सर्वकारं प्रति 'सविनयं' नावश्यकम्।

अनन्तपुरी> केरले सर्वकारीयसंस्थाः अभिव्याप्य सर्वकारीय-अर्धसर्वकारीय-सामान्यमण्डलसंस्थासु समर्प्यमानासु सामान्यजनानामभ्यर्थनासु 'विनम्रतया' इत्यर्थकं पदं नावश्यकमिति। राज्यस्य प्रशासनपरिष्कारविभस्यायमादेशः। सविनयमिति पदं परित्यज्य अभ्यर्थ्यते अपेक्षते वा इत्युपयोक्तुं शक्यते।

 चरकशपथम्' अधुना नास्ति।

नवदिल्ली> वैद्यकीयछात्राणां बिरुददानवेलायां 'हिप्पोक्राट्टीयशपथं' विसृज्य 'महर्षि चरकशपथम्' अन्तर्भावयितुं राष्ट्रिय वैद्यक आयोगस्य उपदेशं शीघ्रं न विधास्यतीति केन्द्रप्रशासनेन निर्णीतम्। विषयेऽस्मिन् स्वास्थ्यमन्त्रालयेन अद्यावधि निर्णयः न कृत इति लोकसभायां केषाञ्चित् सदस्यानां प्रश्नानां प्रतिवचनरूपेण स्वास्थ्यसहमन्त्री भारती पर्वीण् पवारः उक्तवान्। 

यानेन्धनमूल्यं पुनरपि वर्धितम्।

कोच्ची> अनुस्यूततया तृतीयदिने अपि पेट्रोल्-डीसलिन्धनयोः मूल्यं वर्धापितम्। षड्भिः दिनैः एतयोः मूल्ये चतुरधिकरूप्यकाणां वृद्धिरभवत्। 

 युक्रेनाय बैडनस्य अधिकसैनिकसाह्यवाग्दानम्। 

वार्सा> रषियां प्रतिरोद्धुं युक्रेनाय अधिकतया सैनिकसाह्यं करिष्यामीति अमेरिक्कायाः राष्ट्रपतिः जो बैडनः वाग्दानमकरोत्। चतुर्दिवसीयसन्दर्शनाय पोलण्टराष्ट्रं प्राप्तवान् बैडनः युक्रेनीयमन्त्रिभिस्सह कृते अभिमुखे एव वृत्तान्तमिदं न्यवेदयत्। युक्रेनस्य विदेशमन्त्री, रक्षामन्त्री, अमेरिक्कायाः विदेश-रक्षासचिवौ  इत्यादयः समुपवेशने भागं कृतवन्तः। 

  युक्रेनस्य आर्थिक मानवीय लक्ष्याणां च सर्वविधसहयोगाः अमेरिक्कया वाग्दत्ताः।

अद्य अर्धरात्रादारभ्य राष्ट्रियकर्मविरामः; अवश्यसेवाः परिवर्जिताः।

नवदिल्ली> केन्द्रसर्वकारं विरुध्य विपक्षदलीयैः संयुक्तकर्मचारिसंघटनैः उद्घुष्टं दिनद्वयस्य देशीयकर्मविरामान्दोलनं अद्य अर्धरात्रे आरभते। किन्तु क्षीर-वार्तापत्र-आतुरालयादीनि अत्यन्तापेक्षितानि सेवनानि कर्मविरामान्दोलनात् परिवर्जितानि। 

  मार्च् २७ रात्रौ १२ वादनतः २९ रात्रौ १२ वादनपर्यन्तमेवान्दोलनम्।

वार्तामुद्रणकाकदस्य दौलभ्यतया श्रीलङ्कायां वार्तापत्रद्वयस्य प्रकाशनम् अवरुद्धम्।

कोलम्बो> श्रीलङ्कायां आर्थिकसङ्कटकारणेन जातस्य वार्तामुद्रणकाकदस्य दौलभ्यतया मूल्यवर्धनहेतुना च वार्तापत्रद्वयस्य प्रकाशनं स्थगितम्। वार्तामुद्रणकाकद-दौलभ्यतया 'द ऐलण्ड्' नाम आङ्गलेयवार्तापत्रिकायाः तथा दिवयीन नाम सिंहलवार्तापत्रिकायाः च मुद्रणं तत्कालिकतया बन्धितम्। १९८१ संवत्सरादारभ्य प्रकाश्यमाना 'द ऐलण्ड्' नाम दिनपत्रिका इ -पत्रिका रूपेण प्रवर्तते इति अधिकारिभिः प्रतिवेदितम्।

Saturday, March 26, 2022

उत्तरप्रदेशे योगी आदित्यनाथ‌ः पुनरपि मुख्यमन्त्रिपदमारूढवान्।

लख्नौ> भा ज पा नेता योगी आदित्यनाथः अविरामेण द्वितीयवारमपि उत्तरप्रदेशस्य मुख्यमन्त्रिरूपेण शपथवाचनं कृतवान्। द्वौ उपमुख्यमन्त्रिणौ अभिभूय ५२ मन्त्रिणश्च तेन सह शपथवाचनं कृत्वा अधिकारं प्राप्तवन्तः। 

   लख्नौस्थे ए बि वाजपेयी क्रीडाङ्कणे सम्पन्ने समारोहे राज्यपालः आनन्दीबन् पट्टेलः शपथवाचनं कारितवान्। प्रधानमन्त्री नरेन्द्रमोदी, राजनाथसिंहः, अमितषाहः, स्मृति इरानी इत्यादय‌ोSपि कार्यक्रमे सन्निहिताः आसन्।

 इम्रान् खानं विरुद्ध्य अविश्वासप्रमेयः न परिगणितः। 

इस्लामबाद्> पाकिस्थानप्रधानमन्त्रिणं इम्रान् खानं विरुध्य विमतपक्षेण समर्पितः अविश्वासप्रमेयपत्रं पाकिस्थानसंसदा शुक्रवासरे न परिगणितम्। सदस्यः खायल् समन् इत्यस्य देहवियोगे श्रद्धाञ्जलिं प्रकाश्य सोमवासरपर्यन्तं सभा अवष्टम्भिता। गतदिनस्य कार्यक्रमेषु अविश्वासप्रमेयपत्रं नान्तर्भावितमित्यतः विपक्षदलीयैः प्रतिषिद्धमासीत्। 

   पाकिस्थानस्य आर्थिकप्रतिसन्धेः द्रव्यमूल्यातिवर्धनस्य च हेतुः इम्रान् खानस्य विलक्षितनयाः इत्यारोप्य मार्च् ८ तमे उपशतं विपक्षसदस्याः अविश्वासप्रमेयपत्रं समर्पितवन्तः।  इम्रान् खानस्य दलात् २५ विमतसदस्याः अपि प्रमेयानुकूलिनः भविष्यन्तीति वृत्तान्तं बहिरागतम्।

Friday, March 25, 2022

रूसीयभीषा - पूर्वयूरोपे ४०,००० भटाः विन्यस्ताः भविष्यन्तीति 'नाटो'। 

ब्रसल्स्> युक्रैने रूस् राष्ट्रस्य अधिनिवेशः अनुवर्तमानः वर्तते इत्यतः यूोरोपभूखण्डस्य पूर्वभागे सैनिकबलं वर्धापयितुं नाटोनामकराष्ट्रसख्येन निश्चितम्। तदर्थं ४०,००० भटान् विन्यस्तुं बल्जियस्य राजधान्यां - ब्रसल्स् नगरे- सम्पन्ने नाटोराष्ट्राधिपतीनाम् उपवेशने निर्णीतम्। 

  पूर्वयूरोपस्य वायु-नाविकसंविधानानि विपुलीकरिष्यति। 'सैबर्' आक्रमणानि प्रतिरोद्धुं पदक्षेपान् स्वीकरिष्यन्ते। रासजैवाणवाक्रमणानि प्रतिरोद्धुं युक्रेनाय साह्यं करिष्यतीति च नाटो इत्यस्य सचिवप्रमुखेन जेन्स् स्टोल्टन् बर्ग् इत्यनेन निगदितम्।

Thursday, March 24, 2022

इन्धनमूल्यं वर्धमानं; जीवनक्लेशोSपि वर्धते।

कोच्ची> सार्धचतुर्मासानां विरामकालानन्तरं पेट्रोल्, डीसल्, पाकेन्धनमित्यादीनां मूल्यं संवर्धितम्। वाहनेन्धनस्य मूल्यं तु प्रतिदिनम् उपैकरूप्यमिति क्रमेण वर्धमानमस्ति। पाकेन्धनस्य मूल्यं गतदिने ५० रूप्यकाणि वर्धयति स्म। अतः जनानां जीवनव्ययः अपि वर्धते स्म। 

   गतवर्षे मार्च् मासे पेट्रोल् तैलस्य मूल्यं ९३. ०५ रूप्यकाणि आसीत्। गतदिने तु तत् १०८. ११ अभवत्। डीसलिन्धनस्य मूल्ये ८ रूप्यकाणां वर्धनमभवत्।