हरियाणासंस्कृतविद्यापीठे अन्ताराष्ट्रियसंगोष्ठी॥
(वार्ताहरः वत्स देशराज शर्मा)
हरियाणासंस्कृतविद्यापीठे अन्ताराष्ट्रियसंगोष्ठी॥
(वार्ताहरः वत्स देशराज शर्मा)
इम्रान् खानं विरुध्य अविश्वासप्रमेयः - पाकिस्तानसंसदि चर्चा आरब्धा।
इस्लामाबादः> प्रधानमन्त्रिणं इम्रान् खानं विरुध्य समर्पिते अविश्वासप्रमेये पाकिस्तानसंसदि चर्चा आरब्धा। राष्ट्रियसंसदः विपक्षनेता तथा च 'पाकिस्थान् मुस्लीमलीग् [नवास्]' दलस्य अध्यक्षः षेह्बास् षरीफ् इत्यनेन प्रमेयपत्रं अधोसभायां समर्पितम् ।
चर्चां पूर्तीकृत्य एप्रिल् ३ - ७ दिनाङ्कयोर्मध्ये प्रमेयस्योपरि मतदानं भवेत्।
प्रधानमन्त्रीपदात् निष्कासयितुं विदेशधनम् उपयुज्यते- इम्रान्खानः।
राष्ट्रं विभक्तुं रषिया यतते - युक्रेनः।
कीव्> राष्ट्रं द्विधा विभक्तुं रषिया यतते इति युक्रेनस्य गुप्तान्वेषणविभागस्य प्रमुखः किरिलो बुधनोवः आरोपितवान्। राष्ट्रविभजनाय अपेक्षितान् प्रदेशान् स्ववशं कर्तुं युक्रेनस्य पूर्वमण्डलेन सह क्रैमियां सम्बद्धुं च रूस् राष्ट्रपतेः व्लादिमर् पुतिनस्य लक्ष्यमिति सः उक्तवान्।
प्रत्युत रूस् राष्ट्रेण सह मेलितुं जनानां तात्पर्यावगमनाय युक्रेनस्य लुहान्स्क् प्रदेशे हितपरिशोधनां करिष्यतीति तत्रस्थैः रषियानुकूलविमतैः उक्तम्। लुहान्स्क्, डोणटिस्क् नामकाः प्रदेशाः स्वतन्त्राः अभवन्निति पुटिनेन पूर्वं प्रख्यापितमासीत्।
जीवजलस्य कृते श्रीमान् नारायणाय मोदिनः अभिनन्दनानि।
सर्वकारं प्रति 'सविनयं' नावश्यकम्।
अनन्तपुरी> केरले सर्वकारीयसंस्थाः अभिव्याप्य सर्वकारीय-अर्धसर्वकारीय-सामान्यमण्डलसंस्थासु समर्प्यमानासु सामान्यजनानामभ्यर्थनासु 'विनम्रतया' इत्यर्थकं पदं नावश्यकमिति। राज्यस्य प्रशासनपरिष्कारविभस्यायमादेशः। सविनयमिति पदं परित्यज्य अभ्यर्थ्यते अपेक्षते वा इत्युपयोक्तुं शक्यते।
चरकशपथम्' अधुना नास्ति।
नवदिल्ली> वैद्यकीयछात्राणां बिरुददानवेलायां 'हिप्पोक्राट्टीयशपथं' विसृज्य 'महर्षि चरकशपथम्' अन्तर्भावयितुं राष्ट्रिय वैद्यक आयोगस्य उपदेशं शीघ्रं न विधास्यतीति केन्द्रप्रशासनेन निर्णीतम्। विषयेऽस्मिन् स्वास्थ्यमन्त्रालयेन अद्यावधि निर्णयः न कृत इति लोकसभायां केषाञ्चित् सदस्यानां प्रश्नानां प्रतिवचनरूपेण स्वास्थ्यसहमन्त्री भारती पर्वीण् पवारः उक्तवान्।
युक्रेनाय बैडनस्य अधिकसैनिकसाह्यवाग्दानम्।
वार्सा> रषियां प्रतिरोद्धुं युक्रेनाय अधिकतया सैनिकसाह्यं करिष्यामीति अमेरिक्कायाः राष्ट्रपतिः जो बैडनः वाग्दानमकरोत्। चतुर्दिवसीयसन्दर्शनाय पोलण्टराष्ट्रं प्राप्तवान् बैडनः युक्रेनीयमन्त्रिभिस्सह कृते अभिमुखे एव वृत्तान्तमिदं न्यवेदयत्। युक्रेनस्य विदेशमन्त्री, रक्षामन्त्री, अमेरिक्कायाः विदेश-रक्षासचिवौ इत्यादयः समुपवेशने भागं कृतवन्तः।
युक्रेनस्य आर्थिक मानवीय लक्ष्याणां च सर्वविधसहयोगाः अमेरिक्कया वाग्दत्ताः।
अद्य अर्धरात्रादारभ्य राष्ट्रियकर्मविरामः; अवश्यसेवाः परिवर्जिताः।
नवदिल्ली> केन्द्रसर्वकारं विरुध्य विपक्षदलीयैः संयुक्तकर्मचारिसंघटनैः उद्घुष्टं दिनद्वयस्य देशीयकर्मविरामान्दोलनं अद्य अर्धरात्रे आरभते। किन्तु क्षीर-वार्तापत्र-आतुरालयादीनि अत्यन्तापेक्षितानि सेवनानि कर्मविरामान्दोलनात् परिवर्जितानि।
मार्च् २७ रात्रौ १२ वादनतः २९ रात्रौ १२ वादनपर्यन्तमेवान्दोलनम्।
वार्तामुद्रणकाकदस्य दौलभ्यतया श्रीलङ्कायां वार्तापत्रद्वयस्य प्रकाशनम् अवरुद्धम्।
कोलम्बो> श्रीलङ्कायां आर्थिकसङ्कटकारणेन जातस्य वार्तामुद्रणकाकदस्य दौलभ्यतया मूल्यवर्धनहेतुना च वार्तापत्रद्वयस्य प्रकाशनं स्थगितम्। वार्तामुद्रणकाकद-दौलभ्यतया 'द ऐलण्ड्' नाम आङ्गलेयवार्तापत्रिकायाः तथा दिवयीन नाम सिंहलवार्तापत्रिकायाः च मुद्रणं तत्कालिकतया बन्धितम्। १९८१ संवत्सरादारभ्य प्रकाश्यमाना 'द ऐलण्ड्' नाम दिनपत्रिका इ -पत्रिका रूपेण प्रवर्तते इति अधिकारिभिः प्रतिवेदितम्।
उत्तरप्रदेशे योगी आदित्यनाथः पुनरपि मुख्यमन्त्रिपदमारूढवान्।
लख्नौ> भा ज पा नेता योगी आदित्यनाथः अविरामेण द्वितीयवारमपि उत्तरप्रदेशस्य मुख्यमन्त्रिरूपेण शपथवाचनं कृतवान्। द्वौ उपमुख्यमन्त्रिणौ अभिभूय ५२ मन्त्रिणश्च तेन सह शपथवाचनं कृत्वा अधिकारं प्राप्तवन्तः।
लख्नौस्थे ए बि वाजपेयी क्रीडाङ्कणे सम्पन्ने समारोहे राज्यपालः आनन्दीबन् पट्टेलः शपथवाचनं कारितवान्। प्रधानमन्त्री नरेन्द्रमोदी, राजनाथसिंहः, अमितषाहः, स्मृति इरानी इत्यादयोSपि कार्यक्रमे सन्निहिताः आसन्।
इम्रान् खानं विरुद्ध्य अविश्वासप्रमेयः न परिगणितः।
इस्लामबाद्> पाकिस्थानप्रधानमन्त्रिणं इम्रान् खानं विरुध्य विमतपक्षेण समर्पितः अविश्वासप्रमेयपत्रं पाकिस्थानसंसदा शुक्रवासरे न परिगणितम्। सदस्यः खायल् समन् इत्यस्य देहवियोगे श्रद्धाञ्जलिं प्रकाश्य सोमवासरपर्यन्तं सभा अवष्टम्भिता। गतदिनस्य कार्यक्रमेषु अविश्वासप्रमेयपत्रं नान्तर्भावितमित्यतः विपक्षदलीयैः प्रतिषिद्धमासीत्।
पाकिस्थानस्य आर्थिकप्रतिसन्धेः द्रव्यमूल्यातिवर्धनस्य च हेतुः इम्रान् खानस्य विलक्षितनयाः इत्यारोप्य मार्च् ८ तमे उपशतं विपक्षसदस्याः अविश्वासप्रमेयपत्रं समर्पितवन्तः। इम्रान् खानस्य दलात् २५ विमतसदस्याः अपि प्रमेयानुकूलिनः भविष्यन्तीति वृत्तान्तं बहिरागतम्।
रूसीयभीषा - पूर्वयूरोपे ४०,००० भटाः विन्यस्ताः भविष्यन्तीति 'नाटो'।
ब्रसल्स्> युक्रैने रूस् राष्ट्रस्य अधिनिवेशः अनुवर्तमानः वर्तते इत्यतः यूोरोपभूखण्डस्य पूर्वभागे सैनिकबलं वर्धापयितुं नाटोनामकराष्ट्रसख्येन निश्चितम्। तदर्थं ४०,००० भटान् विन्यस्तुं बल्जियस्य राजधान्यां - ब्रसल्स् नगरे- सम्पन्ने नाटोराष्ट्राधिपतीनाम् उपवेशने निर्णीतम्।
पूर्वयूरोपस्य वायु-नाविकसंविधानानि विपुलीकरिष्यति। 'सैबर्' आक्रमणानि प्रतिरोद्धुं पदक्षेपान् स्वीकरिष्यन्ते। रासजैवाणवाक्रमणानि प्रतिरोद्धुं युक्रेनाय साह्यं करिष्यतीति च नाटो इत्यस्य सचिवप्रमुखेन जेन्स् स्टोल्टन् बर्ग् इत्यनेन निगदितम्।
इन्धनमूल्यं वर्धमानं; जीवनक्लेशोSपि वर्धते।
कोच्ची> सार्धचतुर्मासानां विरामकालानन्तरं पेट्रोल्, डीसल्, पाकेन्धनमित्यादीनां मूल्यं संवर्धितम्। वाहनेन्धनस्य मूल्यं तु प्रतिदिनम् उपैकरूप्यमिति क्रमेण वर्धमानमस्ति। पाकेन्धनस्य मूल्यं गतदिने ५० रूप्यकाणि वर्धयति स्म। अतः जनानां जीवनव्ययः अपि वर्धते स्म।
गतवर्षे मार्च् मासे पेट्रोल् तैलस्य मूल्यं ९३. ०५ रूप्यकाणि आसीत्। गतदिने तु तत् १०८. ११ अभवत्। डीसलिन्धनस्य मूल्ये ८ रूप्यकाणां वर्धनमभवत्।
श्रीलङ्कायाम् आर्थिकसमस्या; दुर्भिक्षभीत्या जनाः पलायन्ते।
कोलम्बो> आर्थिकसमस्यया श्रीलङ्का महान्तं क्लेशमनुभवति। जनजीवनं दुस्सहमभवत्। दौर्भिक्ष्यं भविष्यतीति मत्वा जनाः पलायनमारभन्त। षट् श्रीलङ्कीयनागरिकाः गतदिने तमिल्नाटे रामेश्वरं प्राप्ताः। भारत तटसंरक्षणसेनया ते परिप्रश्नविधेयाः कृताः।
अवश्यवस्तूनां मूल्यातिवर्धनमभवत्। मूल्यातिवर्धनस्य दुर्भिक्षस्य च हेतोः पेट्रोल्-डीसल् तैलादीनां नियन्त्रणं विधत्तम्। पाकवातानिलकोशस्य मूल्यं १३५९ भारतीयरूप्यकाणि अभवत्। विद्युन्निलयाः पिहिताः। एकलिटर् परिमितस्य पेट्रोल् तैलस्य मूल्यं २८३ श्रीलङ्कीयरूप्यकाणि अभवत्। डीसलाय १७६ रूप्यकाणि दातव्यानि। १ लिटर् क्षीरं - २६३, १ किलो तण्डुलं - ४४८ रूप्यकाणि। एतादृशरीत्या एव श्रीलङ्कायाम् अवश्यवस्तूनां मूल्यवर्धनम्। कोविड्महामारेः अनन्तरफलमेव आर्थिकसमस्यया कारणमिति सूच्यते। भारतं, चीनः इत्यादीनि राष्ट्राणि साह्याभ्यर्थितानि सन्ति।
रष्येण सह सर्वान् वाणिज्यबन्धान् समापयतु इति यूरोपीयनेतॄन् प्रति सेलन्स्केः आह्वानम्।
कीव्> रष्येण सह सर्वान् वाणिज्यबन्धान् समापयितुं युक्रैन् राष्ट्रपतिना वोलेदिमर् सेलेन्स्किना यूरोपीयनेतृभ्यः आह्वानं दत्तम्। बाल्टिक्राष्ट्राणि आहत्य यूरोपीय - ऐक्यान्तर्गतानि बहूनि राष्ट्राणि रष्यस्य तैलवातकस्य रष्यात् आयापनाय (import) उपरोधं दापयितुं निश्चिते सन्दर्भे एव सेलेन्स्केः अभ्यर्थना ।