OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 22, 2022

 रष्येण सह सर्वान् वाणिज्यबन्धान् समापयतु इति यूरोपीयनेतॄन् प्रति सेलन्स्केः आह्वानम्।

कीव्> रष्येण सह सर्वान् वाणिज्यबन्धान् समापयितुं युक्रैन् राष्ट्रपतिना वोलेदिमर् सेलेन्स्किना यूरोपीयनेतृभ्यः आह्वानं दत्तम्। बाल्टिक्राष्ट्राणि आहत्य यूरोपीय - ऐक्यान्तर्गतानि बहूनि राष्ट्राणि रष्यस्य तैलवातकस्य रष्यात् आयापनाय (import) उपरोधं दापयितुं निश्चिते सन्दर्भे एव सेलेन्स्केः अभ्यर्थना । 


 भारते नूतनाः १५४९ कोविड्रोगिणः।

नवदिल्ली> सोमवासरे समाप्तासु २४ होरासु १,५४९ जना अपि कोविड्बाधिताः अभवन्। ३१ जनाः गतदिने मृताः। ०. ४३ प्रतिशतमिति प्रतिदिन रोगस्थिरीकरणमानम्।

 १८ वयःपूर्णेभ्यः 'अवेक्षणमात्रा' परिगण्यते। 

नवदिल्ली> भारते ये जनाः १८ वयःपूर्णाः तेभ्यः सर्वेभ्यः कोविड्प्रतिरोधसूच्यौषधस्य तृतीयमात्रां परिरक्षणमात्रारूपेण दातुं केन्द्रसर्वकारेण पर्यालोच्यते। चीनं अपि अन्तर्भाव्य बहुषु राष्ट्रेषु कोविड्प्रकरणानि संवर्धन्ते इत्यत एवायं निर्णयः।   कोविड्प्रतिरोधे अग्रेसराः प्रवर्तकाः तथा ६० वयः प्राप्ताः ये वर्तन्ते, तेऽपि सम्प्रति तृतीयमात्रामर्हन्ति।

Monday, March 21, 2022

पाकिस्थाने इम्रान् खानस्य स्थानत्यागं भविष्यति? 

इस्लामाबादः> पाकिस्थाने विपक्षदलैः समर्पिते अविश्वासप्रमेये मतदानप्रक्रियायाम् आसन्नायां प्रधानमन्त्रिणं इम्रान् खानं प्रति त्यागपत्रं समर्पयितुं सेनामुख्यः खमर जावेद् बज्वः निरदिशदिति तद्देशीयवार्तामाध्यमैः सूच्यते। इस्लामिकराष्ट्राणां संघस्य 'ओ ऐ सि' नामकस्य विदेशकार्यमन्त्रिणामुपवेशनानन्तरं त्यागपत्रं समर्पणीयमिति निर्दिष्टम्। 

  राष्ट्रे वर्तमानस्य आर्थिकप्रतिसन्धेः द्रव्यमूल्यातिवर्धनस्य च हेतुः इम्रानसर्वकारः इत्यारोप्य विपक्षदलीयैः सर्वकारस्य विमतसदस्यैः च अविश्वासपत्रं समर्पितमासीत्। मार्च् २८तमे दिनाङ्के मतदानप्रक्रिया भवेत्।

 जप्पानः ३.२ लक्षं कोटिः रूप्यकाणि भारते निक्षिप्स्यति। प्रख्यापनं नरेन्द्रमोदिनः फ्यूमियोः अभिमुखभाषणस्य पश्चात्।

जप्पान्> आगमिनि पञ्च संवत्सराभ्यन्तरे जप्पानः भारते ३.२० कोटि रूप्यकाणां निक्षेपः करिष्यति इति प्रधानमन्त्री नरेन्द्रमोदी। जप्पानस्य प्रधानमन्त्रिणा फुमियो किषिदेन साकं साक्षात्कारानन्तरम् आसीत् ख्यापनम्।

Sunday, March 20, 2022

 मार्गभ्रंशहेतुना बालकौ पञ्चविंशतिदिनानि यावत् वने अभ्रमताम्।  वृष्टिजलं वन्यफलानि च अश्रित्य अतिजीवनम्। 

ब्रसीलिया> विश्वस्मिन् अतिबृहत्तमाः वनप्रदेशाः भवन्ति आमसोण् वृष्ट्यरण्यानि। घोरवनानि वन्यजीविनः च आमसोणं निगूढतायाः भयस्य च आवासस्थानं कारयन्ति। आमसोण् वनान्तरेषु मार्गात् भ्रष्टन्तौ  पञ्चविंशतिदिनानन्तरं प्रत्यागतयोः बालकयोः अतिजीवनं वार्तामाध्यमेषु त्वरितप्रसरितम् अभवत्। ब्रसीलियादेशीयाः 'मुर' नाम गोत्रविभागे अन्तर्गतौ तौ नववर्षीयः ग्येय्सणः सप्तवर्षीयः गैको नामकः बालकः च आमसोण् वनान्तरात् रक्षाप्रवर्तकैः संरक्षितौ। घोरवनेषु पञ्चत्रिंशत् कि मि वनान्तर्भागे एव बालकौ रक्षाप्रवर्तकैः सन्दृष्टौ। बालकौ पिपासया बुभुक्षया च पीडितौ सन्तौ अपि, तयोः अन्यानि शारीरीकास्वास्थ्यानि न आसन् । फेब्रवरि मासस्य अष्टादश दिनाङ्के एव बालकौ वने दृष्टौ।

Friday, March 18, 2022

 विद्यालयीयछात्राणां धिषणावृत्तिपरीक्षा।


अनन्तपुरी> केरलराज्यस्य विद्यालयीय-संस्कृतछात्राणां धिषणावृत्तिपरीक्षायाः  विजयिभ्यः धिषणावृत्तिराशिः अस्मिन् वर्षेऽपि विद्यालयस्य वित्तलेखद्वारा दीयते इति प्रतिवेदनमस्ति। वर्षेऽस्मिन् परीक्षायाः मूल्यनिर्णये विशेषता आसीत्। प्रतिजनपदेषु शैक्षिकनिर्देशकानां केन्द्रीकृतसमीक्षणेन आसीत् मूल्यनिर्णयम्। छात्राणां वित्तलेखद्वारा एव धिषणावृत्तिराशि: वितीर्यते इति पूर्वं सूचितमासीत्। किन्तु कतिपयदिनाभ्यन्तरे वित्तलेखस्य सम्पादनं न शक्यते। मार्च् मासस्य अन्तिमसप्ताहात् पूर्वं धनविनिमयं करणीयम् इत्यतः भवति अयं निश्चयः।

चीनम् अभिव्याप्य विदेशराष्ट्रेषु पुनरपि कोविड् व्याप्यते; भारते अपि जागरणनिर्देशः। 


नवदिल्ली> चीनम् अभिव्याप्य विविधेषु विदेशराष्ट्रेषु कोविड्रोगव्यापनं पुनरपि संवर्धते इत्यतः भारते अपि जागरूकता अनुवर्तनीया इति केन्द्रसर्वकारेण राज्यानि अभ्यर्थितानि। कोविडस्य अवस्थां परिनिर्णेतुं स्वास्थ्यमन्त्रिणः मनसुखमाणडव्यस्य आध्यक्षे समायोजिते उच्चस्तरीयोपवेशने आसीदयं निर्देशः। 

   चीनः, दक्षिणकोरिया, सिंहपुरं इत्यादिषु राष्ट्रेषु कोविड्प्रकरणानि उद्गच्छन्ति। चीने गतदिने ५००० कोविड्प्रकरणानि नूतनानि जातानि। ओमिक्रोणस्य उपप्रभेद एव व्याप्यते इति सूच्यते।

Thursday, March 17, 2022

 युद्धप्रशमनाय शुभाप्तिविश्वासं प्राकट्य रष्या युक्रेनश्च। 

कीव्> सप्ताहत्रयं यावत् अनुवर्तमानस्य रषिया-युक्रेनसंघर्षस्य चर्चया परिसमाप्तिं कर्तुं शुभाप्तिविश्वासमस्तीति उभे राष्ट्रे विश्वासं प्राकटयताम्। उभयोः राष्ट्रयोः मिथः चर्चा अनायासेन न भविष्यतीत्यपि सन्धिमार्गं प्राप्तुं प्रतीक्षा वर्तते इति रषियायाः विदेशकार्यमन्त्रिणा सेर्गय् लावरोवेन प्रस्तुतम्। फलप्रदा चर्चा प्रतीक्षते इति युक्रेनस्य राष्ट्रपतिः व्लादिमिर् सेलन्स्किः च उक्तवान्। 

   उभयोः राष्ट्रयोः प्रतिनिधयः ओण् लैन् द्वारा चर्चां कृतवन्तः आसन्। ततःपश्चादासीत् राष्ट्रनेत्रोः अभिमतप्रकाशनम्।

 सैनिकप्रक्रमान् स्तगयितुम् अन्ताराष्ट्र न्यायालयेन आदिष्टः । 

कीव्> युक्रेनस्योपरि अधिनिवेशप्रक्रमान् आरभ्य २१ दिनानि अतीतानि।  सन्दर्भेऽस्मिन् युद्धस्तंभनस्य समयः समागतः इत्यस्ति नूतनं प्रतिवेदनम्। युक्रेनस्य उपरि रष्येण अनुवर्तमानान्  सैनिकप्रक्रमान् स्तगयितुम् अन्ताराष्ट्रन्यायालयेन आदिष्टः।  युद्धस्य स्तगनमुद्दिश्य १५ विभिन्ननियमक्रमान् समादिष्टवन्तः सन्ति। युक्रेनः नाट्टोमध्ये अङ्गत्वं कदापि न स्वीकरिष्ये इत्यपि आसूत्रणे संसूचितम् ।

Wednesday, March 16, 2022

काश्मीरे वर्षद्वयाभ्यन्तरे १०४ सुरक्षाभटाः निहताः।

नवदिल्ली> गतवर्षद्वये काश्मीरप्रदेशे विविधेषु प्रतिद्वन्द्वेषु भारतस्य १०४ सुरक्षासैनिकाः विनष्टप्राणाः सन्तीति केन्द्रसर्वकारेणोक्तम्। प्रतिद्वन्द्वेषु ३४ भीकराः अपि निहताः। राष्ट्रस्य गृहसहमन्त्रिणा नित्यानन्दराय् वर्येण लोकसभायां । 

  अन्ताराष्ट्रसीमाद्वारा १७६ निर्गलनोद्यमाः अभवन्। २०२० तममपेक्ष्य २०२१ तमे निर्गलनोद्यमाः न्यूनाः आसन्निति मन्त्रिणा उक्तम्।

 नवदिल्ली देववाणी परिषदा कवि विंध्येश्वरीप्रसादमिश्रः समादृतः

वार्ताहरः - देशराज शर्मा-

साहित्याकादमी-पुरस्कारसम्मानितस्य (२०२१) संस्कृतकवेः डा. विंध्येश्वरीप्रसादमिश्र "विनय" -महाभागस्याभिनन्दनं "देववाणी परिषद्, दिल्ली" -पक्षतो नवदिल्ल्यां वाणीविहारे रमालये ११.३.२०२१ तमे दिनाङ्के अक्रियत। आचार्यमिश्रेण "सृजति शङ्खनादं किल कविता" इत्यस्मात् पुरस्कृतात् काव्यसङ्ग्रहात्कविता अपि श्राविता:।

 पंडित: सत्यनारायणपांडेय: मङ्गलाचरणमकरोत्। वरद:, रम्या, शुभांगी (सुरुचि:) शिवांगी च श्लोकान् अश्रावयन्।  परिषदुपाध्यक्ष: प्रोफेसरसुधीकान्तभारद्वाजोऽ

Tuesday, March 15, 2022

 भारते १२ - १४ वयस्केभ्यः कोविड्वाक्सिनम्। 

नवदिल्ली> १२ - १४ वयस्केभ्यः बालेभ्यः बुधवासरादारभ्य कोविड्प्रत्यौषधं दास्यतीति भारतस्य स्वास्थ्यमन्त्री मन्सुखमाण्डव्यः प्रास्तूयत। Biological - E नामकसंस्थायाः 'कोर्बे वाक्स्' नामकं सूच्यौषधमेव दीयते। 

   तथा च षष्ठ्यब्दपूर्णेभ्यः सर्वेभ्यः बुधवासरादारभ्य तृतीयमात्रामपि दातुं निर्णयः कृतः। २०२१ जनुवरि १६ तमे दिनाङ्के आसीत् राष्ट्रे वाक्सिनवितरणमारब्धम्। इतःपर्यन्तं १८० कोटि मात्राः वाक्सिनीनि वितरीतानि।

Sunday, March 13, 2022

 युक्रेन युद्धं - कीव् लक्ष्यीकृत्य रष्या। 

कीव्> युक्रेनाधिनिवेशस्य १७ तमे दिने रषीयसेना युक्रेनराजधानीभूतस्य कीव् नगरस्य २५ कि मी समीपं प्राप्ता इति ब्रिट्टनस्य गुप्तचरविभागेन निगदितम्। कीव् नगरं विनाशयितुं रूसराष्ट्रेण महदाक्रमणमासूत्रयिष्यतीति बिट्टनेन पूर्वसूचना दत्ता। 

  युक्रेनस्य युद्धकौशलप्रमुखाः प्रदेशाः रषीयसेनया वलयिताः इति युक्रेनमाध्यमैः निवेदितम्। हार्कीव्, मिकोलेव्, सुमी इत्येतेषु नगरेषु अग्निशस्त्राक्रमणं तीव्रमस्ति। विद्युज्जलभोज्याभावेन नागरिकाः अतिक्लेशमनुभवन्ति।

 केरळेषु पाठपुस्तकमुद्रीकरणं सम्पूर्णम्। 

अनन्तपुरी> केरळे आगामिने अध्ययनसंवत्सराय प्रथमकक्ष्यातः दशमकक्ष्यापर्यन्तं पाठपुस्तकानां मुद्रीकरणं सम्पूर्णतां प्राप्तमिति राज्यस्य शिक्षामन्त्री वि शिवन्कुट्टिः न्यवेदयत्। 

  प्रथमकक्ष्यातः नवमकक्ष्यापर्यन्तं वार्षिकमूल्यनिर्णयपरीक्षाः मार्च् २३ दिनाङ्कतः आरप्स्यन्ते। दशकक्ष्याछात्राणां एस् एस् एल् सि परीक्षाः मार्च् ३१ तः एप्रिल् २९ पर्यन्तं विधास्यन्ति। मेय् मासे अध्यापकानां परिशीलनं पूर्तीकृत्य जूण् प्रथमदिनाङ्के एव आगामी अध्ययनवर्षमारप्स्यते इति च मन्त्रिणा उक्तम्।

Saturday, March 12, 2022

 युक्रेनतः २५ लक्षं नागरिकाः पलायिताः। 

न्यूयोर्क्> रष्या राष्ट्रस्य युक्रेनाधिनिवेशं प्रारभ्य इतःपर्यन्तं तद्राष्ट्रात् पलायितानां नागरिकाणां संख्या २५ लक्षमतीतेति यू एन् संस्थायाः अभयार्थिविभागस्य नेता निगदितवान्। पलायितेषु दशलक्षं बालकाः अन्तर्भवन्ति। ५० लक्षं अभयार्थिनः स्वीकर्तुं सिद्धाः भवेयुरिति यूरोपियन् यूणियन् संघेन पूर्वमेव सूचना दत्ता आसीत्।

 'ओपरेषन् गङ्गा' परिसमाप्ता; युक्रेनात् सर्वे भारतीयाः स्वदेशं प्राप्ताः। 

नवदिल्ली > आशङ्कायाः भीत्याश्च दुरितपर्वणमतीत्य युक्रेनस्य सुमि युद्धमुखात् अन्तिमः भारतीयसंघश्च स्वराष्ट्रं प्राप्ताः। छात्रान् अभिव्याप्य विंशतिसहस्रं जनाः केन्द्रसर्वकारस्य नयतन्त्रपटुत्वस्य अश्रान्तपरिश्रमस्य च साफल्येन भारतं प्रत्यागताः। 

  युद्धस्थानात् भारतीयान् अपसर्तुं साह्यं कृतमित्यनेन रषिया,युक्रेनः,रोमानिया, हङ्गरी, पोलण्ट्, स्लोवाकिया, मोल्डोवा इत्येतेभ्यः राष्ट्रेभ्यः भारतं कृतज्ञतां समार्पयत्।

 कोविडस्य व्यापनम् - चीनेषु नवति लक्षं जनसंख्यायुक्ते नगरे कीलनं ख्यापितम्। 

बेय्जिङ्> दीर्घकालं यावत् कोविड्रोगस्य उपशमनानन्तरं पुनरपि कोविडस्य व्यापनहेतुना चीनेषु नवति लक्षं जनसंख्यायुक्तनगरे कीलनं ख्यापितम्। चीनस्य पूर्वोत्तरनगर्यां चाङ्चुन्याम् एव कीलनं ख्यापितम्। नगरेषु वाहनानां गमनागमनमपि निरोधितम्। गृहात् बहिः न कोऽपि  गन्तव्यः। बहिर्गमनात्पूर्वं त्रिवारं कोविड्निर्णयपरिशोधनाविधेयः भवितव्यः इति अधिकारिणा निर्दिष्टः। अनिवार्यरहितानि आपणानि कीलनीयानि।