OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, March 20, 2022

 मार्गभ्रंशहेतुना बालकौ पञ्चविंशतिदिनानि यावत् वने अभ्रमताम्।  वृष्टिजलं वन्यफलानि च अश्रित्य अतिजीवनम्। 

ब्रसीलिया> विश्वस्मिन् अतिबृहत्तमाः वनप्रदेशाः भवन्ति आमसोण् वृष्ट्यरण्यानि। घोरवनानि वन्यजीविनः च आमसोणं निगूढतायाः भयस्य च आवासस्थानं कारयन्ति। आमसोण् वनान्तरेषु मार्गात् भ्रष्टन्तौ  पञ्चविंशतिदिनानन्तरं प्रत्यागतयोः बालकयोः अतिजीवनं वार्तामाध्यमेषु त्वरितप्रसरितम् अभवत्। ब्रसीलियादेशीयाः 'मुर' नाम गोत्रविभागे अन्तर्गतौ तौ नववर्षीयः ग्येय्सणः सप्तवर्षीयः गैको नामकः बालकः च आमसोण् वनान्तरात् रक्षाप्रवर्तकैः संरक्षितौ। घोरवनेषु पञ्चत्रिंशत् कि मि वनान्तर्भागे एव बालकौ रक्षाप्रवर्तकैः सन्दृष्टौ। बालकौ पिपासया बुभुक्षया च पीडितौ सन्तौ अपि, तयोः अन्यानि शारीरीकास्वास्थ्यानि न आसन् । फेब्रवरि मासस्य अष्टादश दिनाङ्के एव बालकौ वने दृष्टौ।

Friday, March 18, 2022

 विद्यालयीयछात्राणां धिषणावृत्तिपरीक्षा।


अनन्तपुरी> केरलराज्यस्य विद्यालयीय-संस्कृतछात्राणां धिषणावृत्तिपरीक्षायाः  विजयिभ्यः धिषणावृत्तिराशिः अस्मिन् वर्षेऽपि विद्यालयस्य वित्तलेखद्वारा दीयते इति प्रतिवेदनमस्ति। वर्षेऽस्मिन् परीक्षायाः मूल्यनिर्णये विशेषता आसीत्। प्रतिजनपदेषु शैक्षिकनिर्देशकानां केन्द्रीकृतसमीक्षणेन आसीत् मूल्यनिर्णयम्। छात्राणां वित्तलेखद्वारा एव धिषणावृत्तिराशि: वितीर्यते इति पूर्वं सूचितमासीत्। किन्तु कतिपयदिनाभ्यन्तरे वित्तलेखस्य सम्पादनं न शक्यते। मार्च् मासस्य अन्तिमसप्ताहात् पूर्वं धनविनिमयं करणीयम् इत्यतः भवति अयं निश्चयः।

चीनम् अभिव्याप्य विदेशराष्ट्रेषु पुनरपि कोविड् व्याप्यते; भारते अपि जागरणनिर्देशः। 


नवदिल्ली> चीनम् अभिव्याप्य विविधेषु विदेशराष्ट्रेषु कोविड्रोगव्यापनं पुनरपि संवर्धते इत्यतः भारते अपि जागरूकता अनुवर्तनीया इति केन्द्रसर्वकारेण राज्यानि अभ्यर्थितानि। कोविडस्य अवस्थां परिनिर्णेतुं स्वास्थ्यमन्त्रिणः मनसुखमाणडव्यस्य आध्यक्षे समायोजिते उच्चस्तरीयोपवेशने आसीदयं निर्देशः। 

   चीनः, दक्षिणकोरिया, सिंहपुरं इत्यादिषु राष्ट्रेषु कोविड्प्रकरणानि उद्गच्छन्ति। चीने गतदिने ५००० कोविड्प्रकरणानि नूतनानि जातानि। ओमिक्रोणस्य उपप्रभेद एव व्याप्यते इति सूच्यते।

Thursday, March 17, 2022

 युद्धप्रशमनाय शुभाप्तिविश्वासं प्राकट्य रष्या युक्रेनश्च। 

कीव्> सप्ताहत्रयं यावत् अनुवर्तमानस्य रषिया-युक्रेनसंघर्षस्य चर्चया परिसमाप्तिं कर्तुं शुभाप्तिविश्वासमस्तीति उभे राष्ट्रे विश्वासं प्राकटयताम्। उभयोः राष्ट्रयोः मिथः चर्चा अनायासेन न भविष्यतीत्यपि सन्धिमार्गं प्राप्तुं प्रतीक्षा वर्तते इति रषियायाः विदेशकार्यमन्त्रिणा सेर्गय् लावरोवेन प्रस्तुतम्। फलप्रदा चर्चा प्रतीक्षते इति युक्रेनस्य राष्ट्रपतिः व्लादिमिर् सेलन्स्किः च उक्तवान्। 

   उभयोः राष्ट्रयोः प्रतिनिधयः ओण् लैन् द्वारा चर्चां कृतवन्तः आसन्। ततःपश्चादासीत् राष्ट्रनेत्रोः अभिमतप्रकाशनम्।

 सैनिकप्रक्रमान् स्तगयितुम् अन्ताराष्ट्र न्यायालयेन आदिष्टः । 

कीव्> युक्रेनस्योपरि अधिनिवेशप्रक्रमान् आरभ्य २१ दिनानि अतीतानि।  सन्दर्भेऽस्मिन् युद्धस्तंभनस्य समयः समागतः इत्यस्ति नूतनं प्रतिवेदनम्। युक्रेनस्य उपरि रष्येण अनुवर्तमानान्  सैनिकप्रक्रमान् स्तगयितुम् अन्ताराष्ट्रन्यायालयेन आदिष्टः।  युद्धस्य स्तगनमुद्दिश्य १५ विभिन्ननियमक्रमान् समादिष्टवन्तः सन्ति। युक्रेनः नाट्टोमध्ये अङ्गत्वं कदापि न स्वीकरिष्ये इत्यपि आसूत्रणे संसूचितम् ।

Wednesday, March 16, 2022

काश्मीरे वर्षद्वयाभ्यन्तरे १०४ सुरक्षाभटाः निहताः।

नवदिल्ली> गतवर्षद्वये काश्मीरप्रदेशे विविधेषु प्रतिद्वन्द्वेषु भारतस्य १०४ सुरक्षासैनिकाः विनष्टप्राणाः सन्तीति केन्द्रसर्वकारेणोक्तम्। प्रतिद्वन्द्वेषु ३४ भीकराः अपि निहताः। राष्ट्रस्य गृहसहमन्त्रिणा नित्यानन्दराय् वर्येण लोकसभायां । 

  अन्ताराष्ट्रसीमाद्वारा १७६ निर्गलनोद्यमाः अभवन्। २०२० तममपेक्ष्य २०२१ तमे निर्गलनोद्यमाः न्यूनाः आसन्निति मन्त्रिणा उक्तम्।

 नवदिल्ली देववाणी परिषदा कवि विंध्येश्वरीप्रसादमिश्रः समादृतः

वार्ताहरः - देशराज शर्मा-

साहित्याकादमी-पुरस्कारसम्मानितस्य (२०२१) संस्कृतकवेः डा. विंध्येश्वरीप्रसादमिश्र "विनय" -महाभागस्याभिनन्दनं "देववाणी परिषद्, दिल्ली" -पक्षतो नवदिल्ल्यां वाणीविहारे रमालये ११.३.२०२१ तमे दिनाङ्के अक्रियत। आचार्यमिश्रेण "सृजति शङ्खनादं किल कविता" इत्यस्मात् पुरस्कृतात् काव्यसङ्ग्रहात्कविता अपि श्राविता:।

 पंडित: सत्यनारायणपांडेय: मङ्गलाचरणमकरोत्। वरद:, रम्या, शुभांगी (सुरुचि:) शिवांगी च श्लोकान् अश्रावयन्।  परिषदुपाध्यक्ष: प्रोफेसरसुधीकान्तभारद्वाजोऽ

Tuesday, March 15, 2022

 भारते १२ - १४ वयस्केभ्यः कोविड्वाक्सिनम्। 

नवदिल्ली> १२ - १४ वयस्केभ्यः बालेभ्यः बुधवासरादारभ्य कोविड्प्रत्यौषधं दास्यतीति भारतस्य स्वास्थ्यमन्त्री मन्सुखमाण्डव्यः प्रास्तूयत। Biological - E नामकसंस्थायाः 'कोर्बे वाक्स्' नामकं सूच्यौषधमेव दीयते। 

   तथा च षष्ठ्यब्दपूर्णेभ्यः सर्वेभ्यः बुधवासरादारभ्य तृतीयमात्रामपि दातुं निर्णयः कृतः। २०२१ जनुवरि १६ तमे दिनाङ्के आसीत् राष्ट्रे वाक्सिनवितरणमारब्धम्। इतःपर्यन्तं १८० कोटि मात्राः वाक्सिनीनि वितरीतानि।

Sunday, March 13, 2022

 युक्रेन युद्धं - कीव् लक्ष्यीकृत्य रष्या। 

कीव्> युक्रेनाधिनिवेशस्य १७ तमे दिने रषीयसेना युक्रेनराजधानीभूतस्य कीव् नगरस्य २५ कि मी समीपं प्राप्ता इति ब्रिट्टनस्य गुप्तचरविभागेन निगदितम्। कीव् नगरं विनाशयितुं रूसराष्ट्रेण महदाक्रमणमासूत्रयिष्यतीति बिट्टनेन पूर्वसूचना दत्ता। 

  युक्रेनस्य युद्धकौशलप्रमुखाः प्रदेशाः रषीयसेनया वलयिताः इति युक्रेनमाध्यमैः निवेदितम्। हार्कीव्, मिकोलेव्, सुमी इत्येतेषु नगरेषु अग्निशस्त्राक्रमणं तीव्रमस्ति। विद्युज्जलभोज्याभावेन नागरिकाः अतिक्लेशमनुभवन्ति।

 केरळेषु पाठपुस्तकमुद्रीकरणं सम्पूर्णम्। 

अनन्तपुरी> केरळे आगामिने अध्ययनसंवत्सराय प्रथमकक्ष्यातः दशमकक्ष्यापर्यन्तं पाठपुस्तकानां मुद्रीकरणं सम्पूर्णतां प्राप्तमिति राज्यस्य शिक्षामन्त्री वि शिवन्कुट्टिः न्यवेदयत्। 

  प्रथमकक्ष्यातः नवमकक्ष्यापर्यन्तं वार्षिकमूल्यनिर्णयपरीक्षाः मार्च् २३ दिनाङ्कतः आरप्स्यन्ते। दशकक्ष्याछात्राणां एस् एस् एल् सि परीक्षाः मार्च् ३१ तः एप्रिल् २९ पर्यन्तं विधास्यन्ति। मेय् मासे अध्यापकानां परिशीलनं पूर्तीकृत्य जूण् प्रथमदिनाङ्के एव आगामी अध्ययनवर्षमारप्स्यते इति च मन्त्रिणा उक्तम्।

Saturday, March 12, 2022

 युक्रेनतः २५ लक्षं नागरिकाः पलायिताः। 

न्यूयोर्क्> रष्या राष्ट्रस्य युक्रेनाधिनिवेशं प्रारभ्य इतःपर्यन्तं तद्राष्ट्रात् पलायितानां नागरिकाणां संख्या २५ लक्षमतीतेति यू एन् संस्थायाः अभयार्थिविभागस्य नेता निगदितवान्। पलायितेषु दशलक्षं बालकाः अन्तर्भवन्ति। ५० लक्षं अभयार्थिनः स्वीकर्तुं सिद्धाः भवेयुरिति यूरोपियन् यूणियन् संघेन पूर्वमेव सूचना दत्ता आसीत्।

 'ओपरेषन् गङ्गा' परिसमाप्ता; युक्रेनात् सर्वे भारतीयाः स्वदेशं प्राप्ताः। 

नवदिल्ली > आशङ्कायाः भीत्याश्च दुरितपर्वणमतीत्य युक्रेनस्य सुमि युद्धमुखात् अन्तिमः भारतीयसंघश्च स्वराष्ट्रं प्राप्ताः। छात्रान् अभिव्याप्य विंशतिसहस्रं जनाः केन्द्रसर्वकारस्य नयतन्त्रपटुत्वस्य अश्रान्तपरिश्रमस्य च साफल्येन भारतं प्रत्यागताः। 

  युद्धस्थानात् भारतीयान् अपसर्तुं साह्यं कृतमित्यनेन रषिया,युक्रेनः,रोमानिया, हङ्गरी, पोलण्ट्, स्लोवाकिया, मोल्डोवा इत्येतेभ्यः राष्ट्रेभ्यः भारतं कृतज्ञतां समार्पयत्।

 कोविडस्य व्यापनम् - चीनेषु नवति लक्षं जनसंख्यायुक्ते नगरे कीलनं ख्यापितम्। 

बेय्जिङ्> दीर्घकालं यावत् कोविड्रोगस्य उपशमनानन्तरं पुनरपि कोविडस्य व्यापनहेतुना चीनेषु नवति लक्षं जनसंख्यायुक्तनगरे कीलनं ख्यापितम्। चीनस्य पूर्वोत्तरनगर्यां चाङ्चुन्याम् एव कीलनं ख्यापितम्। नगरेषु वाहनानां गमनागमनमपि निरोधितम्। गृहात् बहिः न कोऽपि  गन्तव्यः। बहिर्गमनात्पूर्वं त्रिवारं कोविड्निर्णयपरिशोधनाविधेयः भवितव्यः इति अधिकारिणा निर्दिष्टः। अनिवार्यरहितानि आपणानि कीलनीयानि।

Friday, March 11, 2022

 भारतस्य तीरसेनायाः उदग्रयानं काश्मीरे भग्नमभवत्। वैमानिकः निहतः। सहवैमानिकः व्रणितश्च।


नवदिल्ली> भारतस्य तीरसेनायाः 'चीट्टा' उदग्रयानं जम्मूकश्मीरे गुरेस् मण्डले हिमावृतप्रदेशे भग्नमभवत्। अपघाते मुख्य वैमानिकः निहतः सहवैमानिकः व्रणितश्च इति अधिकारिभिः आवेदितम्। गुरेस् अधित्यकायां गुजरान्नल्ला मण्डले एव अपघातः आम्पन्नः। अपघाते आपन्ने क्षणे एव रक्षाप्रवर्तनानि समारब्धानि। सहवैमानिकः सैनिकातुरालये चिकित्सायां वर्तते इत्यपि अधिकारिभिः आवेदितम्।

 केरलस्य संस्कृताध्यापक-संघटनयोः राज्यस्तरीय संवत्सरीयोपवेशनं समारब्धम्। 


षोर्णूर्> केरलस्य संस्कृताध्यापक-संघटनयोः राज्यस्तरीयं संवत्सरीयोपवेशनं षोर्णूर् नगरे सामारब्धम्। संघटनस्य पूर्वाध्यक्षेण वेणु चोव्वलूर् महोदयेन समारोहस्य प्रतिनिधिमेलनस्य उद्घाटनं कृतम्। राज्यस्य विविधभागेभ्यः चिताः अध्यापकाः भागं स्वीकृताः। संघटनयोः अध्यक्षः टि के सन्तोष् कुमारः, गुरुवायूर् पद्मनाभः कार्यदर्शिनौ सी पी सनल् चन्द्रः ,  टि अजयकुमारः च भागं स्वीकृतवन्तः। संघटनस्य पूर्वप्रवर्तकः आर् नारायणाचार्यः मेलने समादृतवान् ।

 विधानसभानिर्वाचनानि - पञ्चसु चतुर्षु भाजपादलाय प्रशासनाधिकारः , एकस्मिन् 'आप्'दलाय।

नवदिल्ली> फेब्रुवरि १० तमादारभ्य मार्च् ७तमदिनाङ्कपर्यन्तं दीर्घितानां विधानसभानिर्वाचनानां फले समागते भा ज पा दलस्य उज्वलविजयः। उत्तरप्रदेशः, उत्तरखण्डः, मणिप्पुरं, गोवा इत्येतेषु राज्येषु भा ज पा दलेन प्रशासनपदं प्राप्तम्। पञ्चाबराज्ये तु इदंप्रथमतया अरविन्द केज्रिवालस्य आम् आद्मी पार्टी [आप्] इत्यनेन प्रशासनपदमारोहितम्। 

  उत्तरप्रदेशे योगि आदित्यनाथस्य शासनानुवर्तनं भवति। आहत्य ४०३ स्थानेषु २७३ स्थानेषु विजयीभूय एव भाजपादलं द्वितीयवारं राज्याधिकारं जग्राह। उत्तराखण्डे सप्ततिषु ४७ पदानि भाजपादलेन प्राप्तानि। मणिप्पुरे ६० स्थानेषु ३२ स्थानानि सम्प्राप्य भाजपादलेन शासनं पुनः दृढीकृतम्। गोवायां तु ४० तः २० स्थानानि प्राप्तानि। स्वतन्त्रसदस्यानां साहाय्येन तत्र प्रशासनानुवर्तनं करिष्यतीति निश्चितम्। 

  पञ्चाबे तु प्रशासनपदमुपस्थितं कोण्ग्रस् दलम् उन्मूलनं कृत्वा एव अरविन्द केज्रिवालस्य नेतृत्वे विद्यमानं आप् दलं प्रप्रथमतया शासनाधिकारं प्राप। तत्र मुख्यमन्त्रिपदे भगवन्त् मनु वर्यः भविष्यति।

Wednesday, March 9, 2022

 युक्तैनतः पलायितानां संख्या २० लक्षम् ।


लविव्> रष्यस्य अधिनिवेशनेन युक्तैनतः पलायितानां संख्या २० लक्षम् इति संयुक्तराष्ट्रसमित्या संसूचितम्। एतस्मात् अर्धधिकाः जनाः पोलण्ड् राष्ट्रे अभयं प्राप्ताः। अस्मिन् लक्षाधिकं जनाः वैदेशिकाः भवन्ति । कुजवासरपर्यन्तं लभ्यमाना गणनानुसारं १२ लक्षं जनैः १३ दिनाभ्यन्तरे पोलण्डस्य सीमा अतिक्रान्ताः । १.९ लक्षं जनाः हङ्गरी देशेन स्वीकृताः १.४ लक्षं जनाः स्लोवाक्यया च स्वीकृताः । रष्येन ९९३०० लक्षं, मोल्डोवेन ८२oo लक्षं रोमानियेन ८२oo लक्षं इति क्रमेण जनाः स्वीकृताः ।

Tuesday, March 8, 2022

 युक्रैन् - रष्ययोः मिथः तृतीयतल शान्तिचर्चा बेलारूसे समारब्धा।

 कीव्> युक्रैने रष्यस्य आक्रमणम् अनुवर्तिते अस्मिन् सन्दर्भे उभयोः राष्ट्रयो: मिथ: तीयतलशान्तिचर्चा बेलारूसे समारब्धा। रष्यस्य महासंघेन सह अद्य समारप्स्यमाणे सति, चर्चार्थं आयोजिते प्रतिनिधिसंघे परिवर्तनानि नास्ति इति युक्रैनस्य राष्ट्रपतिना व्लादिमिर् सेलन्स्किवर्यस्य उपदेशकेन मिखायिलो पोडोलियाकेन ट्वीट्ट् कृतम्। अनस्यूतं द्वादशतमदिने परस्परं युद्धम् अनुवर्तमाने सन्दर्भे एव इयं चर्चा प्रचलति।