OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 15, 2022

 भारते १२ - १४ वयस्केभ्यः कोविड्वाक्सिनम्। 

नवदिल्ली> १२ - १४ वयस्केभ्यः बालेभ्यः बुधवासरादारभ्य कोविड्प्रत्यौषधं दास्यतीति भारतस्य स्वास्थ्यमन्त्री मन्सुखमाण्डव्यः प्रास्तूयत। Biological - E नामकसंस्थायाः 'कोर्बे वाक्स्' नामकं सूच्यौषधमेव दीयते। 

   तथा च षष्ठ्यब्दपूर्णेभ्यः सर्वेभ्यः बुधवासरादारभ्य तृतीयमात्रामपि दातुं निर्णयः कृतः। २०२१ जनुवरि १६ तमे दिनाङ्के आसीत् राष्ट्रे वाक्सिनवितरणमारब्धम्। इतःपर्यन्तं १८० कोटि मात्राः वाक्सिनीनि वितरीतानि।

Sunday, March 13, 2022

 युक्रेन युद्धं - कीव् लक्ष्यीकृत्य रष्या। 

कीव्> युक्रेनाधिनिवेशस्य १७ तमे दिने रषीयसेना युक्रेनराजधानीभूतस्य कीव् नगरस्य २५ कि मी समीपं प्राप्ता इति ब्रिट्टनस्य गुप्तचरविभागेन निगदितम्। कीव् नगरं विनाशयितुं रूसराष्ट्रेण महदाक्रमणमासूत्रयिष्यतीति बिट्टनेन पूर्वसूचना दत्ता। 

  युक्रेनस्य युद्धकौशलप्रमुखाः प्रदेशाः रषीयसेनया वलयिताः इति युक्रेनमाध्यमैः निवेदितम्। हार्कीव्, मिकोलेव्, सुमी इत्येतेषु नगरेषु अग्निशस्त्राक्रमणं तीव्रमस्ति। विद्युज्जलभोज्याभावेन नागरिकाः अतिक्लेशमनुभवन्ति।

 केरळेषु पाठपुस्तकमुद्रीकरणं सम्पूर्णम्। 

अनन्तपुरी> केरळे आगामिने अध्ययनसंवत्सराय प्रथमकक्ष्यातः दशमकक्ष्यापर्यन्तं पाठपुस्तकानां मुद्रीकरणं सम्पूर्णतां प्राप्तमिति राज्यस्य शिक्षामन्त्री वि शिवन्कुट्टिः न्यवेदयत्। 

  प्रथमकक्ष्यातः नवमकक्ष्यापर्यन्तं वार्षिकमूल्यनिर्णयपरीक्षाः मार्च् २३ दिनाङ्कतः आरप्स्यन्ते। दशकक्ष्याछात्राणां एस् एस् एल् सि परीक्षाः मार्च् ३१ तः एप्रिल् २९ पर्यन्तं विधास्यन्ति। मेय् मासे अध्यापकानां परिशीलनं पूर्तीकृत्य जूण् प्रथमदिनाङ्के एव आगामी अध्ययनवर्षमारप्स्यते इति च मन्त्रिणा उक्तम्।

Saturday, March 12, 2022

 युक्रेनतः २५ लक्षं नागरिकाः पलायिताः। 

न्यूयोर्क्> रष्या राष्ट्रस्य युक्रेनाधिनिवेशं प्रारभ्य इतःपर्यन्तं तद्राष्ट्रात् पलायितानां नागरिकाणां संख्या २५ लक्षमतीतेति यू एन् संस्थायाः अभयार्थिविभागस्य नेता निगदितवान्। पलायितेषु दशलक्षं बालकाः अन्तर्भवन्ति। ५० लक्षं अभयार्थिनः स्वीकर्तुं सिद्धाः भवेयुरिति यूरोपियन् यूणियन् संघेन पूर्वमेव सूचना दत्ता आसीत्।

 'ओपरेषन् गङ्गा' परिसमाप्ता; युक्रेनात् सर्वे भारतीयाः स्वदेशं प्राप्ताः। 

नवदिल्ली > आशङ्कायाः भीत्याश्च दुरितपर्वणमतीत्य युक्रेनस्य सुमि युद्धमुखात् अन्तिमः भारतीयसंघश्च स्वराष्ट्रं प्राप्ताः। छात्रान् अभिव्याप्य विंशतिसहस्रं जनाः केन्द्रसर्वकारस्य नयतन्त्रपटुत्वस्य अश्रान्तपरिश्रमस्य च साफल्येन भारतं प्रत्यागताः। 

  युद्धस्थानात् भारतीयान् अपसर्तुं साह्यं कृतमित्यनेन रषिया,युक्रेनः,रोमानिया, हङ्गरी, पोलण्ट्, स्लोवाकिया, मोल्डोवा इत्येतेभ्यः राष्ट्रेभ्यः भारतं कृतज्ञतां समार्पयत्।

 कोविडस्य व्यापनम् - चीनेषु नवति लक्षं जनसंख्यायुक्ते नगरे कीलनं ख्यापितम्। 

बेय्जिङ्> दीर्घकालं यावत् कोविड्रोगस्य उपशमनानन्तरं पुनरपि कोविडस्य व्यापनहेतुना चीनेषु नवति लक्षं जनसंख्यायुक्तनगरे कीलनं ख्यापितम्। चीनस्य पूर्वोत्तरनगर्यां चाङ्चुन्याम् एव कीलनं ख्यापितम्। नगरेषु वाहनानां गमनागमनमपि निरोधितम्। गृहात् बहिः न कोऽपि  गन्तव्यः। बहिर्गमनात्पूर्वं त्रिवारं कोविड्निर्णयपरिशोधनाविधेयः भवितव्यः इति अधिकारिणा निर्दिष्टः। अनिवार्यरहितानि आपणानि कीलनीयानि।

Friday, March 11, 2022

 भारतस्य तीरसेनायाः उदग्रयानं काश्मीरे भग्नमभवत्। वैमानिकः निहतः। सहवैमानिकः व्रणितश्च।


नवदिल्ली> भारतस्य तीरसेनायाः 'चीट्टा' उदग्रयानं जम्मूकश्मीरे गुरेस् मण्डले हिमावृतप्रदेशे भग्नमभवत्। अपघाते मुख्य वैमानिकः निहतः सहवैमानिकः व्रणितश्च इति अधिकारिभिः आवेदितम्। गुरेस् अधित्यकायां गुजरान्नल्ला मण्डले एव अपघातः आम्पन्नः। अपघाते आपन्ने क्षणे एव रक्षाप्रवर्तनानि समारब्धानि। सहवैमानिकः सैनिकातुरालये चिकित्सायां वर्तते इत्यपि अधिकारिभिः आवेदितम्।

 केरलस्य संस्कृताध्यापक-संघटनयोः राज्यस्तरीय संवत्सरीयोपवेशनं समारब्धम्। 


षोर्णूर्> केरलस्य संस्कृताध्यापक-संघटनयोः राज्यस्तरीयं संवत्सरीयोपवेशनं षोर्णूर् नगरे सामारब्धम्। संघटनस्य पूर्वाध्यक्षेण वेणु चोव्वलूर् महोदयेन समारोहस्य प्रतिनिधिमेलनस्य उद्घाटनं कृतम्। राज्यस्य विविधभागेभ्यः चिताः अध्यापकाः भागं स्वीकृताः। संघटनयोः अध्यक्षः टि के सन्तोष् कुमारः, गुरुवायूर् पद्मनाभः कार्यदर्शिनौ सी पी सनल् चन्द्रः ,  टि अजयकुमारः च भागं स्वीकृतवन्तः। संघटनस्य पूर्वप्रवर्तकः आर् नारायणाचार्यः मेलने समादृतवान् ।

 विधानसभानिर्वाचनानि - पञ्चसु चतुर्षु भाजपादलाय प्रशासनाधिकारः , एकस्मिन् 'आप्'दलाय।

नवदिल्ली> फेब्रुवरि १० तमादारभ्य मार्च् ७तमदिनाङ्कपर्यन्तं दीर्घितानां विधानसभानिर्वाचनानां फले समागते भा ज पा दलस्य उज्वलविजयः। उत्तरप्रदेशः, उत्तरखण्डः, मणिप्पुरं, गोवा इत्येतेषु राज्येषु भा ज पा दलेन प्रशासनपदं प्राप्तम्। पञ्चाबराज्ये तु इदंप्रथमतया अरविन्द केज्रिवालस्य आम् आद्मी पार्टी [आप्] इत्यनेन प्रशासनपदमारोहितम्। 

  उत्तरप्रदेशे योगि आदित्यनाथस्य शासनानुवर्तनं भवति। आहत्य ४०३ स्थानेषु २७३ स्थानेषु विजयीभूय एव भाजपादलं द्वितीयवारं राज्याधिकारं जग्राह। उत्तराखण्डे सप्ततिषु ४७ पदानि भाजपादलेन प्राप्तानि। मणिप्पुरे ६० स्थानेषु ३२ स्थानानि सम्प्राप्य भाजपादलेन शासनं पुनः दृढीकृतम्। गोवायां तु ४० तः २० स्थानानि प्राप्तानि। स्वतन्त्रसदस्यानां साहाय्येन तत्र प्रशासनानुवर्तनं करिष्यतीति निश्चितम्। 

  पञ्चाबे तु प्रशासनपदमुपस्थितं कोण्ग्रस् दलम् उन्मूलनं कृत्वा एव अरविन्द केज्रिवालस्य नेतृत्वे विद्यमानं आप् दलं प्रप्रथमतया शासनाधिकारं प्राप। तत्र मुख्यमन्त्रिपदे भगवन्त् मनु वर्यः भविष्यति।

Wednesday, March 9, 2022

 युक्तैनतः पलायितानां संख्या २० लक्षम् ।


लविव्> रष्यस्य अधिनिवेशनेन युक्तैनतः पलायितानां संख्या २० लक्षम् इति संयुक्तराष्ट्रसमित्या संसूचितम्। एतस्मात् अर्धधिकाः जनाः पोलण्ड् राष्ट्रे अभयं प्राप्ताः। अस्मिन् लक्षाधिकं जनाः वैदेशिकाः भवन्ति । कुजवासरपर्यन्तं लभ्यमाना गणनानुसारं १२ लक्षं जनैः १३ दिनाभ्यन्तरे पोलण्डस्य सीमा अतिक्रान्ताः । १.९ लक्षं जनाः हङ्गरी देशेन स्वीकृताः १.४ लक्षं जनाः स्लोवाक्यया च स्वीकृताः । रष्येन ९९३०० लक्षं, मोल्डोवेन ८२oo लक्षं रोमानियेन ८२oo लक्षं इति क्रमेण जनाः स्वीकृताः ।

Tuesday, March 8, 2022

 युक्रैन् - रष्ययोः मिथः तृतीयतल शान्तिचर्चा बेलारूसे समारब्धा।

 कीव्> युक्रैने रष्यस्य आक्रमणम् अनुवर्तिते अस्मिन् सन्दर्भे उभयोः राष्ट्रयो: मिथ: तीयतलशान्तिचर्चा बेलारूसे समारब्धा। रष्यस्य महासंघेन सह अद्य समारप्स्यमाणे सति, चर्चार्थं आयोजिते प्रतिनिधिसंघे परिवर्तनानि नास्ति इति युक्रैनस्य राष्ट्रपतिना व्लादिमिर् सेलन्स्किवर्यस्य उपदेशकेन मिखायिलो पोडोलियाकेन ट्वीट्ट् कृतम्। अनस्यूतं द्वादशतमदिने परस्परं युद्धम् अनुवर्तमाने सन्दर्भे एव इयं चर्चा प्रचलति।

Monday, March 7, 2022

 युक्रैन् - द्वितीयं युद्धरोधनमपि निष्फलम्। 

कीव्> युक्रैने रविवासरे प्रख्यापितं युद्धरोधनमपि निष्फलं जातम्। रूससमयमनुसृत्य प्रभाते १० वादनतः रात्रौ ९ वादनपर्यन्तमासीत् मरियुपोल्, वोल्नोवाखः इत्येतयोः प्रदेशयोः  युद्धविरामः प्रख्यापितः। किन्तु तत्रापि रूसेन अग्निशस्त्राक्रमणमनुवर्तितम्। तदा जनानामपसारणं स्थगितमिति युक्रेनसर्वकारेण निगदितम्। 

  द्विलक्षाधिकं जनाः मरियुपोले निबद्धाः सन्ति। शनिवासरेSपि अपसारणं नाभवत्।

Sunday, March 6, 2022

 हैदरलि तङ्ङल् दिवंगतः।

केरले मुस्लिंलीग् नामकस्य राजनैतिकदलस्य राज्याध्यक्षः पाणक्काट् हैदरलि शिहाब् तङ्ङल् वर्यः अद्य मध्याह्ने दिवंगतः। अर्बुदरोगबाधितः सः अङ्कमाल्यां कस्मिन्नपि निजीयातुरालये परिचर्यायां आसीत्। यू डि एफ् इति केरलस्य विपक्षदलसंघस्य नेतृषु प्रमुखः अयं मुस्लिमलीगस्य उन्नताधिकारसमित्यङ्गः राजनैतिककार्यसमित्याः अध्यक्षश्चासीत्। 

  सर्वदा धर्ममैत्र्यर्थं प्रवर्तमानः हैदरलिमहोदयः सर्वस्वीकार्यः आसीत्। मुख्यमन्त्री पिणरायि विजयः, विपक्षनेता वि डि सतीशः, भूतपूर्वमुख्यमन्त्रिणौ ए के आन्टणि, उम्मन् चाण्टिः कोण्ग्रस् दलस्य देशीयाध्यक्षा सोणियागान्धी ,राहुलगान्धी इत्यादयः बहवः राजनैतिकदलनेतारः तस्य निर्याणे श्रद्धाञ्जलिं प्रकाशितवन्तः। तस्य मृतदेहसंस्कारः प्रभाते ९ वादने पाणक्काटस्थे जुमा मस्जिदाराधनालये खबर्स्थाने विधत्तः।

Saturday, March 5, 2022

 षेन् वोण् निर्यातः। 

बाङ्कोक्> क्रिकट् इतिहासः इति विख्यातः आस्त्रिलियायाः 'स्पिन्' ऐन्द्रजालिकः षेन् वोण् [५२] शुक्रवासरे दिवंगतः। ताय्लान्ट् मध्ये हो समूयि प्रदेशस्थे स्वभवने मृतरूपेण दृष्ट आसीत्। हृदयस्तम्भनमेव कारणमिति  प्राथमिकनिर्णयः। 

  क्रिक्कट् मण्डले सम्भूतेषु वरिष्ठतमेषु क्रीडकेषु अन्यतम षेन् वोणः निकषस्पर्धायां अधिकतमविक्कट् लब्धेषु द्वितीयस्थानमर्हति। १५ संवत्सराणां दीर्घिते तस्य क्रीडाजीवने ७०८ द्वारकाः [Wickets]तेन लब्धाः।

 मणिप्पुरे द्वितीयचरणमतदानम् अद्य। 

इम्फाल्> मणिप्पुरराज्यस्य विधानसभानिर्वाचनस्य द्वितीयचरणम् अद्य सम्पद्यते। ६ जनपदानां २२ मण्डलेषु द्वे महिले समेत्य ९२ स्थानाशिनः स्पर्धन्ते। ८.३ लक्षं मतदायकाः सन्ति। 

  भूूतपूर्वमुख्यमन्त्री तथा च वरिष्ठः कोण्ग्रस् नेता ओक्रम् इबोबी सिंहः, भूूतपूर्वः उपमुख्यमन्त्री गय्खान गामः, इदानीन्तनमन्त्रिणौ लेप्टावो हावोकिप्, लोसि डिखो इत्यादयः प्रतिद्वन्दिषु प्रमुखाः सन्ति।

Friday, March 4, 2022

 चर्चा अनुवर्तते; युद्धं च। 

कीव्> रूस-युक्रैनयोः युद्धे साप्ताहिके अतीते युद्धरोधनाय उभयोः राष्ट्रयोः द्वितीयचरणचर्चा समारब्धा। बलारस् राष्ट्रस्य ब्रस्ट् मण्डलस्थथे पुष्चा नामक स्थाने एव चर्चावेदिका। 

    किन्तु प्रतिद्वन्द्वे लाघवं न भविष्यतीति रूसस्य राष्ट्रपतिः व्लादिमिर् पुतिनेन निगदितम्। सैनिकसाहाय्यं न लभते चेत् युक्रैनस्य पतनमासन्नमिति युक्रैनस्य राष्ट्रपतिः व्लादिमिर् सेलन्स्किना उक्तम्। रूसस्य ४९८ स्वकीयाः सैनिकाः आहवे मृता इति रूसेन दृढीकृतम्। १६०० भटाः व्रणिताः, २८९० युक्रेनीयसैनिकान् अमारयदिति च रूसस्य वक्ता अवदत्।

Thursday, March 3, 2022

 मिसैल् पक्षी - वेगः ३०० कि.मि - षहीन् फालकन् रामक्कल्मेड् प्रदेशे।


रामक्कल्मेड्> विश्वस्मिन् अतिवेगेन डयमानः षहील् फाल्कन् नामकः पक्षी रामक्कल्मेट् प्रदेशे समागतः।  होरायां ३०० कि.मि भवति अस्य वेगः।  केरल-तमिल्नाट् सीमनि विद्यमाने रामकल्मेट् प्रदेशस्य पर्वतेषु अयं प्रत्यभिज्ञातः। मिसैल् पक्षी इत्यपि अस्य नामान्तरमस्ति। आकाशे डयमानवेलायामपि अन्यान् जन्तून् सङ्ग्रहीतुं समर्थः भवति एषः। साधारणतया एष्याभूखण्डे एव एनम् अधिकतया द्रष्टुं शक्यते।

Wednesday, March 2, 2022

रष्यस्य अग्निबाणप्रहारेण युक्रैनस्य प्रशासनकार्यालयः अग्निगोलमभवत्।

युक्रैने अधिनिवेशस्य पश्चात् विभिन्नमण्डलेभ्यः कठिनः उपरोधः बहिष्करणं च रष्येण अभिमुखीक्रियमाणः अस्ति। किन्तु अधुना भवनसमुच्चयाः प्रशासनकार्यालयाः च लक्ष्यीकृत्यैव रष्यस्य आक्रमणं प्रचलति। प्रधाननगरौ कीविं खर्कीविं च लक्ष्यीकृत्यैव रष्यः आक्रमणं करोति। राष्ट्रे द्वितीयं प्रधाननगरमिति ख्यातस्य खर्किविनगरस्य प्रशासनकार्यालयः रष्यस्य अग्निबाणप्रहारेण भञ्जितमभवत्। घटनायाः अस्याः चलनचित्रखण्डदृश्यं युक्रैनस्य विदेशकार्यमन्त्रालयेन ट्विट्टर् माध्ये प्रकाशितम् ।

अन्ताराष्ट्रिय-मनुष्याधिकारनियमान् उल्लङ्घ्य एव रष्यः युद्धं करोति। सामान्यजनान् निहन्ति। सैनिकेतर - वस्तूनि नाशयन्ति। बृहन्नगराण्येव रष्यः लक्ष्यीकरोति। रष्यः अधुना तत्र अग्निबाणेन प्रहरति इति युक्रैनस्य विदेशकार्यमन्त्रालयेन ट्विट्टर् मध्ये सूचितम।