OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 2, 2022

 कोविडस्य चतुर्थतरङ्गः जूण्मासे इत्यनुशीलनफलम्। 

नवदिल्ली> भारते जूण् मासादारभ्य कोविड्महामार्याः चतुर्थः तरङ्गः भविष्यतीति काण्पूरस्थायाः ऐ ऐ टि संस्थायाः अनुशीलनफलम्। तेषामावेदनमनुसृत्य ओक्टोबर् मासपर्यन्तं चतुर्थतरङ्गस्य कालः भवेत्। 

  वाक्सिनस्य लभ्यतां विषाणुप्रभेदस्य स्वभावं चानुसृत्य रोगतीव्रता कियतीति वक्तुं शक्येत। विविधानि राष्ट्राणि एतदाभ्यन्तरे चतुर्थतरङ्गस्य प्रभावमनुभवन्ति स्म।

 युक्रैने कवचितस्फोटकाक्रमणेन भारतीयविद्यार्थी निहतः।

कीव्> युक्रेने कवचितस्फोटकाक्रमणेन (shell attack) भारतीयविद्यार्थी निहतः। कर्णाटकादेशीयः नवीन् एस् जि एव हतः। मरणवृत्तान्तः विदेशकार्यमन्त्रालयेन स्पष्टीकृतः च अस्ति। अद्य प्रभाते एव बार्कीवे आक्रमणं आपन्नम्। बार्किव् वैद्यकीयविश्वविद्यालये चतुर्थसंवत्सरीयः वैद्यकीयछात्रः आसीत् नवीनः। युक्रैन् सेनया निर्दिष्टे समये भक्ष्यवस्तूनि क्रेतुं पङ्क्त्यां स्थितः आसीत्। तस्मिन्नवसरे एव आक्रमणं समजनि इति प्रतिवेदनानि सन्ति।

Tuesday, March 1, 2022

 रष्यस्य अग्निबाणप्रहारेण युक्रैनस्य प्रशासनकार्यालयः अग्निगोलः अभवत्।

युक्रैने अधिनिवेशप्रयत्नस्य पश्चात् विभिन्नमण्डलेभ्यः कठिनः उपरोधः बहिष्करणं च रष्येण अभिमुखीक्रियमाणः अस्ति। किन्तु अधुना भवनसमुच्चयाः प्रशासनकार्यालयाः च लक्ष्यीकृत्यैव रष्यस्य आक्रमणं प्रचलति। प्रधाननगरौ कीविं खर्कीविं च लक्ष्यीकृत्यैव रष्यः आक्रमणं करोति। राष्ट्रे द्वितीयं प्रधाननगरमिति ख्यातस्य खर्किविनगरस्य प्रशासनकार्यालयः रष्यस्य अग्निबाणप्रहारेण भग्नमभवत्। दुर्धघटनायाः अस्याः दृश्यखण्डं युक्रैनस्य विदेशकार्यमन्त्रालयेन ट्विट्टर् माध्ये प्रकाशितम्। अन्ताराष्ट्रिय-मानविक-व्यक्तिनियमान् उल्लङ्घ्य एव रष्यः युद्धं करोति। सामान्यजनान् निहन्ति। सैनिकेतर - वस्तूनि नाशयन्ति। बृहन्नगराण्येव रष्यः लक्ष्यीकरोति। रष्यः अधुना तत्र अग्निबाणेन प्रहरति इति युक्रैनस्य विदेशकार्यमन्त्रालयेन ट्विट्टर् मध्ये सूचितम।

रूस - युक्रेणचर्चा अनुवर्तिष्यते - आविश्वम् आकांक्षायाम्। 

गोमिल्> पञ्चदिनात्मकं यावत् अनुवर्तमानं युद्धं समापयितुं रूस - युक्रेणयोः मिथः संवृत्तायां चर्चायां अनन्तरचर्चां कर्तुं निर्णयोSभवत्। प्रकरणपरिहाराय काश्चन रूपरेखाः कृताः, तासां प्रवृत्तिपथप्राप्त्यर्थं पुनरपि चर्चाः भविष्यन्तीति युक्रेनस्य राष्ट्रपतेः व्लादिमिर् सेलन्स्कीवर्यस्य उपदेष्टा उक्तवान्। 

  प्रातिवेशिकराष्ट्रस्य बलूरसस्य सीमाप्रान्ते विद्यमानायाः प्रिप्यात् नद्याः तीरे आसीत् चर्चावेदिका। प्रथमा चर्चा ५ होरापर्यन्तं दीर्घिता।

भारतीयानां प्रतिनिवर्तनं - चत्वारः केन्द्रमन्त्रिणः यूक्रेनसीमासु। 

नवदिल्ली> युक्रेनात् भारतीयान् प्रतिनिवर्तयितुमुद्दिष्टानां प्रवर्तनानां नेतृत्वं वोढुं चत्वारः केन्द्रमन्त्रिणः प्रधानमन्त्रिणा नरेन्द्रमोदिना नियुक्ताः। जनरल् वि के सिंहः, ज्योतिरादित्य सिन्ध्यः, हरदीपसिंहपुरी, किरण रिरिजुः इत्येते मन्त्रिणः 'ओपरेषन् गङ्गा' इति कृतनामधेयस्य रक्षादौत्यस्य प्रतिनिधिरूपेण युक्रेनेन सह सीमान्ते विद्यमानानि पञ्चराष्ट्राणि गन्तुं नियुक्ताः। 

  प्रवर्तनानां संयोजनं, एतदर्थं प्रादेशिकशासनैः सह चर्चा, केन्द्रसर्वकारेण सह सम्बन्ध्य प्रक्रियाः शीघ्रं कारयेयुः इत्येते अधिकाराः तेषु निक्षिप्ताः सन्ति। 

   ८००० भारतीयाः एतदाभ्यन्तरे प्रतिनिवृत्ताः इति विदेशकार्यवक्ता अरिन्दं बाग्चीवर्यः अवोचत्। युक्रैने १२,००० भारतीयाः अपि अवशिष्यन्ते, तानपि स्वदेशमानेतुं सर्वकारः प्रतिज्ञाबद्ध इति तेनोक्तम्।

Monday, February 28, 2022

रष्येण युद्धं तीव्रं कृतम्। वातकनालिकाश्रृङ्खला भग्नायिता।  धूमः व्याप्स्यति। खार्किविले जाग्रतानिर्देशः।  

कीव्> रष्यस्य अग्निबाणप्रहरेण युक्रैने खार्किवि देशे वातकनालिकाश्रृङ्गला भग्नायिता। रविवासरे प्रातःकाले आसीत् युक्रैन् राष्ट्रे द्वितीयं वृहत्तमं नगरं इति ख्याते खार्किविदेशस्थस्य वातकनालिका-श्रृङ्खलायाः उपरि आक्रमणम् इति युक्रैन् राष्ट्रपतेः कार्यालयात् आवेदितम्। स्फोटनानन्तरं प्रदेशं सर्वत्र व्याप्तः धूमः पारिस्थितिकदुरन्तस्य कारणं भवेत् इति अधिकारिभिः पूर्वसूचना दत्ता।

 युक्रैनात् ६७० भारतीयाः प्रतिनिवृत्ताः। 

नवदिल्ली> आकाङ्क्षायाः आशङ्कायाश्च होराः अतीत्य युक्रैनात् ६७० भारतीयाः स्वदेशम् आनीतवन्तः। हंगरी, रुमानिया देशाभ्यां त्रीणि विमानानि रविवासरे दिल्लीं प्राप्तानि। सर्वे यात्रिकाः युक्रैने चिकित्साशास्त्रछात्राः सन्ति। उत्तरप्रदेश‌ः, हरियानं, केरलं, तेलुङ्कानम् इत्यादिभ्यः विविधेभ्यः राज्येभ्यः अध्येतारः एव ह्यः आगतवन्तः।

उत्तरप्रदेशे ५३. ९३% मतदानम्। 

लख्नौ> उत्तरप्रदेशे ६१ विधानसभामण्डलेषु ह्यः सम्पन्ने पञ्चमचरणविधानसभानिर्वाचने ५३. ९३% मतदानम् अङ्कितम्। मतदानप्रक्रिया सामान्यतया शान्तिपूर्णमासीत्। 

  निर्वाचनस्य अन्तिमं चरणद्वयं मार्च् ३, ४ दिनाङ्कयोः भविष्यति। फलप्रख्यापनं दशमदिनाङ्के भविष्यति।

Sunday, February 27, 2022

 युक्रैने युद्धः तीव्रः - आत्मसमर्पणविमुखतया राजधानी । 

कीव्> दिनत्रयं यावत् युक्रैने रूसेन अनुवर्तमानः युद्धः तीव्रः अभवत्। रूससेनया कृते अग्निक्षेपण्याक्रमणे बहूनि भवनयूथानि विशीर्णानि। १९८ नागरिकाः हता‌ः। ३३ बालकान् समेत्य १,११५ जनाः व्रणिताः। 

   कीव् नामिकां राजनगरीम् अभिभावयितुं रष्येण यावच्छक्यं प्रायतत तथापि स्वयं र ष्याधिपत्यम् अङ्गीकर्तुं युक्रैनः इतः एतावत्पर्यन्तं न सन्नद्धः भवति। ते यावच्छक्यं प्रतिरोधं कुर्वन्ति। 

  जनाः गुप्तिषु ('बङ्कर्')  अन्तर्भौमस्थानेषु अभयं प्राप्ताः सन्ति। किन्तु कीव् नगरात् सपादलक्षं जनाः पलायिताः इति वार्ताहरैः सूचितम्।

 उत्तरप्रदेशे अद्य पञ्चमचरणं निर्वाचनम्।

लख्नौ> उत्तरप्रदेशे विधानसभानिर्वाचनस्य पञ्चमसोपानम् आरब्धम्। १२ जनपदानां ६१ विधानसभा स्थानेभ्यः ६९२ स्थानाशिनः स्पर्धन्ते। २. २४ मतदायकाः सन्ति। 

  कौशाम्बी जनपदस्थे सिरात्तुमण्डले उपमुख्यमन्त्री केशवप्रसादमौर्यः, अलहबादे सिद्धार्थनाथसिंहः, प्रतापगढे राजेन्द्रसिंहः, मङ्कापुरे रमापतिशास्त्री इत्येते चरणेSस्मिन् जनहिताकांक्षिणः प्रमुखाः भवन्ति। 

  परं सोपानद्वयमवशिष्यते। तत् मार्च् ३, ७ दिनाङ्कयोः विधास्यति।

Saturday, February 26, 2022

 युक्रैन् राष्ट्रस्योपरि रष्येण आरब्धान् आक्रमणान्  अपलपितुं प्रकाशितं यु एन् अभिमतपत्रं रष्येण निरोधाधिकारेण निराकृतम्। भारतं चीनः च अभिमतपत्रस्य प्रकाशनात् निस्सङ्गतया प्रतिनिवृत्तौ।

युनैट्टड् नेषन्स्> युक्रैन् राष्ट्रस्योपरि रष्येण आरब्धान् आक्रमणान् अपलपितुं तथा युद्धस्थगनं प्रवर्तयितुं यु एन् रक्षासमित्यां प्रकाशितम् अभिमतपत्रं रष्येण निरोधाधिकारेण (veto) निराकृतम्। भारतेन चीनेन च निसङ्गता अवलम्बिता। युक्रैन् राष्ट्रस्य आक्रमणान् शक्तियुक्तम् अपलपितुं तथा रष्यस्य सेनाम् आपत्कालीनतया प्रतिनिवर्तयितुं च आह्वानमेव अभिमतपत्रे उद्घोषितम्।

वर्षासमेतं करकवर्षः। नवदिल्ल्यां जनमनासु कौतुकमावहत् मनोहरदृश्यम्।

नवदिल्ली> दिल्लीनगरे सर्वत्र वर्षासमेतं  करकपातः कौतुकमजनयत्। शुक्रवासरे रात्रौ एव नगरे सर्वत्र अतिवृष्ट्या सह बृहद्रूपेण करकपातः अपि सञ्जातः। वातावरणमन्त्रालयस्य प्रतिवेदनमनुसृत्य नवदिल्ल्यां शुक्रवासरे उन्नततापमानम्२७.९°c आसीत्। न्यूनतापमानं१२.५°c इति रेखाङ्कितम्।

संयुक्तराष्ट्रसभायां भारतस्य आश्रयं प्रतीक्षते इति रष्यः। सैनिकप्रक्रमाः चीनेन अनुकूलिताः।

युक्रैन्> रष्यस्य सैनिकप्रक्रमेषु संयुक्तराष्ट्रसभायां निर्णायकम् अभिमतपत्रम् अवतारयितुम् भारतेन सन्नद्धे सति रक्षासमित्यां भारतस्य सहकारित्वं प्रतिक्षते इति रष्येण निगदितम्। युक्रैने अधुनातनासु अवस्थासु नीतान् कारणान् अधिकृत्य भारतस्य अतिदृढा धारणा अस्ति तथा राष्ट्रद्वयोः मध्ये प्रत्येकं नयतन्त्रपरं बन्धं पुरस्कृत्य भारतस्य पूर्णसहकारित्वं प्रतीक्षते इति रष्यस्य प्रतिनिधिस्थाने वर्तमानेन रोमन् बाबुष्कीनेन प्रोक्तम्।

Thursday, February 24, 2022

 युक्रैने रूसस्य आक्रमणमारब्धम्; शताधिकाः हता‌ः। 


मोस्को> युक्रैन-रूससंघर्षः तस्य परमकाष्ठां प्राप्तवान्। युक्रेनस्योपरि रूसराष्ट्रेण व्योमाक्रमणमारब्धम्। सैनिकाः स्थलमार्गेण चेर्णोबिल् नगरमुपयाति। युद्धापनयनाय अमेरिका, ब्रिट्टनादिभिः राष्ट्रैः कृताः सर्वे प्रयत्नाः विफलाः जाताः। 

  गुरुवासरस्य प्रभाते एव युद्धः आरब्धः। इतःपर्यन्तं शताधिकाः जनाः हताः। तेषु ४० युक्रेनसैनिकाः उपविंशति नागरिकाश्च अन्तर्भवन्ति। ५० रूस् सैनिकाः अपि व्यापादिताः इति युक्रनेन च निगदितम्। २०३ आक्रमणानि स्वेन कृतानीति रूसेन निगदितम्।

Tuesday, February 22, 2022

 के पि ए सी ललिता दिवंगता। 

कोच्चि> विख्याता मलयालचलच्चित्राभिनेत्री के पि ए सी ललिता ह्यः रात्रौ तृप्पूणित्तुरायां दिवंगता। ७४ वयस्का केरल संगीतनाटक अक्कादमी संस्थायाः अध्यक्षपदं अलङ्कुवर्वन्ती आसीत्। 

  १९६९ तमे संवत्सरे मलयालचलनचित्रमण्डलं प्रविष्टा सा ५२ संवत्सरान्तरेषु विविधासु भाषासु ५०० अधिकेषु चलच्चित्रेषु स्वाभिनयपाटवं प्रदर्शितवती। ततः पूर्वं केरलेषु विविधासु नाटकसमितिषु प्रवर्तितवती सा तत्रापि नाट्यप्रतिभां प्रदर्शितवती।  द्विवारं राष्ट्रियपुरस्कारेण समादृता। कैरल्याः निदेशकवरिष्ठः भरतः आसीत् तस्याः भर्ता। चलच्चित्रनिदेशकः नटश्च सिद्धार्थभरतः पुत्रः भवति। श्रीक्कुट्टी नामिका पुत्री अपि विद्यते।

 केरलेषु विद्यालयाः पूर्णतया उद्घाटिताः। 

कोच्ची> केरले विद्यालयेषु प्रथमकक्ष्यातः आरभ्य सर्वासु कक्ष्यासु सायं यावत् सोमवासरादारभ्य पूर्णोपस्थितित्वेन अध्ययनं विहितम्। पूर्वं १०,११,१२ इत्येताभ्यः कयक्ष्याभ्यः मात्रम आसीत् अपराह्णीयम् अध्ययनम्। १ आरभ्य ९ पर्यन्तं कक्ष्यासु मध्याह्नं यावत् विभागशः कक्ष्याः संवृत्ताः आसन्। 

  ह्यः ८२. ७७% छात्राणामुपस्थिति आसीदिति शिक्षामन्त्रालयेनोक्तम्। राज्यसर्वकारस्य कोविडनुशासनं परिपाल्य एव कक्ष्याः अनुवर्तन्ते।

 उत्तरप्रदेशे चतुर्थचरणनिर्वाचनं श्वः। 

नवदिल्ली> उत्तरप्रदेशे विधानसभानिर्वाचनस्य चतुर्थचरणं बुधवासरे सम्पत्स्यति। सघोषप्रचारणं सोमवासरे समाप्तम्। 

  ९ जनपदेषु ५९ स्थानेभ्यः ६२४ स्थानाशिनः स्पर्धावेदिकायां सन्ति। कृषकाणां प्रक्षोभवेलायां केन्द्रमन्त्रिणः अजय मिश्रस्य पुत्रस्य कार् यानघट्टनेन चत्वारः कृषकाः हताः इत्यनेन प्रकरणेन  सर्वदेशश्रद्धां प्राप्तं लखिंपुरमण्डलम् अपि श्वस्तनीये निर्वाचनमण्डले अन्तर्भवति।

Monday, February 21, 2022

 विधानसभानिर्वाचनं - उत्तरप्रदेशे ६१. ०२%, पञ्चाबे ७०% ।

नवदिल्ली> राष्ट्रे अनुवर्तमानायाः विधानसभानिर्वाचनपरम्परायाः तृतीयचरणे ह्यः उत्तरप्रदेशे ६१. ०२% मतदायकाः स्वाभिमतमङ्कितवन्तः। उत्तरप्रदेशनिर्वाचनस्य तृतीयचरणत्वेन १६ जनपदेषु ५९ मण्डलेष्वेव ह्यः निर्वाचनं सम्पन्नम्। २. १६ कोटि जनैः मतदानं विनियुक्तम्। 

  पञ्चाबराज्ये आहत्य विद्यमानेषु ११७ मण्डलेषु एकेनैव चरणेन सम्पन्ने निर्वाचने ७०% जनाः स्वाभिमतमङ्कितवन्तः।