OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, February 3, 2022

 ३७० अनुच्छेदस्य निरासानन्तरं जम्मूकश्मीरे ४३९ भीकराः हताः इति केन्द्रसर्वकारः।

नवदिल्ली> ३७० अनुच्छेदस्य निरासानन्तरं जम्मूकश्मीरे अद्यावधि ४३९ भीकराः निहताः तथा केन्द्रप्रशासनप्रदेशे भीकरप्रवर्तनसम्बन्धिनः ५४१ घटनाः पञ्चीकृताः इत्यपि आभ्यन्तरसहमन्त्रिणा नित्यानन्दरायेन राष्ट्रसभायां आवेदितम्। ३७० अनुच्छेदस्य निरासानन्तरं९८ सामान्यजनानां जीवनाशः अभवत्।१०९ सैनिकाः वीरमृत्युं प्राप्ताः इति आभ्यन्तरसहमन्त्रिणा प्रोक्तम्।

 कोविड् चिकित्सामालिन्यानि परिस्थितिभीषां जनयति इति विश्वस्थास्थ्यसंस्था।

कोविड् चिकित्सालयात् बहिः व्यापृतानि चिकित्सामालिन्यानि मानवाय परिस्थितेः च भीषाः भविष्यन्ति इति विश्वस्वास्थ्यसंस्थायाः पूर्वसूचना । मालिन्यसंस्करणसुविधायाः पुनःशोधनमधिकृत्य विश्वस्वास्थ्यसंस्थायाः नूतनावेदने इयं पूर्वसूचना प्रकाशिता। अयुताधिकं टण् मितानि चिकित्सकीयमालिन्यानि एव कोविड् महामारिकारणेन जातानि। एतानि आविश्वं स्वास्थ्यसुविधायै भीषां जनयन्ति।

Wednesday, February 2, 2022

 तमिल्नाटे शैक्षिकसंस्थाः उद्घाटिताः। 

चेन्नई> तमिल्नाटुराज्ये कोविड्व्यापनेन पिहिताः विद्यालयाः कलालयाश्च पुनरुद्घाटिताः। पिधाने लाघवानि प्रख्यापितानि इत्यतः प्रथमकक्ष्यायाः आरभ्य +२ पर्यन्तासु कक्ष्यासु ह्यः आरभ्य सम्मुखाध्ययनमारब्धम्। १००% छात्रेभ्यः विद्यालयान् प्रति आगमनाय अनुज्ञा दत्ता। 

  कोविडमाधारीकृत्य अनुशासनानि पालनीयानीति राज्यस्य स्वास्थ्यमन्त्रिणा एम् सुब्रह्मण्येन निगदितम्। आराज्यं १.१० कोटि छात्राः अध्ययनं कुर्वन्ति।

 विश्वक्रीडापुरस्कारः श्रीजेषाय। 

लोसान्> गतवर्षस्य श्रेष्ठः विश्वक्रीडक‌ः [World games athlete of the year] इति पुरस्काराय भारतस्य यष्टिक्रीडादलस्य लक्ष्यस्थानपालक‌ः आर् श्रीजेषः चितः। विविधराष्ट्रेभ्यः चितेभ्यः २४ क्रीडकान् मतदानप्रक्रियया पृष्ठतः अपसृत्य एव केरलीयोऽयम् अनेन अन्ताराष्ट्रपुरस्कारेण समादृतः। 

  अनेन पुरस्कारेण समाद्रियमाणः द्वितीयः भारतीयक्रीडको भवति श्रीजेषः। टोक्यो ओलिम्पिक्स् मध्ये भारताय कांस्यपतकं प्राप्तवान्। भारतस्य ध्यान्चन्द् खेल्रत्नपुरस्कारोऽपि अनेन लब्धः आसीत्।

 ई- पारपंत्रं, ५ जि, अङ्कीयरूप्यकं च अस्मिन् संवत्सरे- आयव्ययसंकल्पप्रख्यापनम्।


राष्ट्रे ई - पारपत्रसौविध्यं विलम्बं विना प्रवृत्तिपथमानेष्यति इति वित्तमन्त्रिण्या निर्मलासीतारामेण प्रोक्तम्। २०२२-२३ आर्थिकसंवत्सरे ई पारपत्रसौविध्यं पौरजनेभ्यः लप्स्यते। पारपत्रस्य बाह्यपुटे ई-शकलं, सुरक्षासंबन्धिविवरणानि च आलेखयिष्यन्ति। अधिकसुरक्षासुविधया सम्पन्नं भविष्यति ई- पारपत्रम्।

५जि (पञ्चम-जनरेषन्) इत्यस्य शीघ्रवार्ताविनिमयोपाधेः उपयोगार्थं अनुमतिः अस्मिन् संवत्सरे एव चालयिष्यति इति मन्त्रिण्या आयव्ययसंकल्पभाषणे आवेदितम्।२०२२-२३ आर्थिकसंवत्सरे एव ५जि सेवाः राष्ट्रे लप्स्यते।


 अङ्कीयरूप्यकम्।

नवदिल्ली> २०२२-२३ संवत्सरे अङ्कीयरूप्यकं प्रकाशयिष्यति इति आयव्ययसंकल्पे ख्यापितम्। गुप्तव्यवस्थाशृङ्खला (block chain), अन्यानि प्रौद्योगिकविज्ञानानि च उपयुज्य अङ्कीयरूप्यकाणि भारतीय रिज़र्व वित्तकोशः प्रकाशयिष्यन्ति। एतानि आर्थिकक्षेत्रे प्रचोदकानि भविष्यन्ति इति वित्तमन्त्रिण्या प्रोक्तम्।

Tuesday, February 1, 2022

राष्ट्रं ८.८५% अभिवृद्धिं प्राप्स्यति इति आर्थिकसर्वेक्षणम्

नवदिल्ली> आगामिनि आर्थिकसंवत्सरे राष्ट्रं ८.८५% अभिवृद्धिं प्राप्स्यति इति आर्थिकसर्वेक्षणफलं सूचयति। आयव्यय-सङ्कल्पं पुरस्कृत्य वित्तमन्त्रिण्या निर्मला सीतारामेण संसदे समर्पिते आर्थिकसर्वेक्षणे एव अभिवृद्धिः भविष्यति इति सूचना। भूरिजनैः कोविड्प्रतिरोधवाक्सिनं स्वीकृतम् इत्यतः आर्थिकस्वरूपस्य प्रत्यागमने शीघ्रता भविष्यति इत्यपि सर्वेक्षणं ज्ञापयति।

Monday, January 31, 2022

 नवदिल्ल्याम् आकाशे विस्मयान् विरच्य उदग्रयन्त्रप्रकाशप्रदर्शिनी। 

नवदिल्ली> राजधानीनगर्याः आकाशे सहस्रशः उदग्रयन्त्राणां साहाय्येन आयोजिता प्रकाशप्रदर्शिनी दिल्लीनिवासिनां सर्वेषां नूतनं दृश्यानुभवम् अभवत्। गणतन्त्रदिनस्य समापनात्मकसमारोहे 'बीट्टिङ् रिट्ट्रीट्' इत्यस्य भागतया भारते इदंप्रथमतया एव उदग्रयन्त्रप्रकाशप्रदर्शिनी समायोजिता। नवदिल्ल्यां विजयचौक्के शनिवासरे सायाह्ने आसीत् प्रकाशप्रदर्शिनी। दशनिमेषपर्यन्तं दीर्धिते कार्यक्रमे राष्ट्रेण स्वदेशेनिर्मितान उदग्रयन्त्राणि एव उपयुक्तानि। मनोहरसङ्गीतस्य पाश्चातले राष्ट्रस्य आलेख्यपत्रं, त्रिवर्णपताका, महात्मागान्धिनः चित्रं, सिंहमुद्रा इत्यादीनि उदग्रयन्त्रद्वारा आकाशे प्रकाशितानि।

 भारते  कोविड्रोगिणः वर्धन्ते। 

नवदिल्ली> शनिवासरे समाप्ते अहोरात्रे राष्ट्रे आहत्य २,३५,५३२ जनेषु कोविड्रोगः दृढीकृतः। ह्यः ८७१जनाः मृत्युभूताः। राष्ट्रे मासेSस्मिन् मृत्युमानं वर्धते इति अवलोकने स्पष्टीकृतम्। 

   आहत्य ४.०८कोटि जना‌ः रोगबाधिताः अभवन्। १६५.०४ कोटि प्रत्यौषधानि वितरीतानि।

Sunday, January 30, 2022

कनडा राजधानीं वलयित्वा फ्रीडं कोण्वोय्। ट्रूडो रहस्यकेन्द्रे इति सूचना।


ओट्टाव> कनडदेशस्य प्रधानमन्त्री जस्टिन् ट्रूडो, तस्य कुटुम्बाङ्गाः च औद्योगिकवासस्थानात् रहस्यकेन्द्रं नीताः इति सूचना। कनडेषु कोविड्वाक्सिनस्य निर्बन्धस्वीकारं विरुध्य लोकसभामन्दिरस्य पुरतः प्रचलितस्य प्रचलितस्य प्रतिषेधस्य सन्दर्भे सुरक्षां परिगणय्य प्रधानमन्त्रिणं ट्रूडं सुरक्षाकेन्द्रं नीतः इति विदेशवार्तामाध्यमैः प्रतिवेदितम्। निर्बन्धवाक्सिनीकरणं विरुध्य 'फ्रीडं कोण्वोय्' नामकस्य सहस्रशः भारवाहकयानचालकानां संधैः कृताय अपूर्वप्रतिषेधाय कानडाराष्ट्रं साक्ष्यमावहत् अस्ति। कानडेषु प्रतिशतं ९० जनाः वाक्सिनं न स्वीकृताः। अतः अमेरिक्कायाः कानडस्य च मिथः यात्रां कुर्वन्तः भारवाहकयानचालकाः निर्बन्धतया वाक्सिनं स्वीकरणीयः इति कनेडियस्य प्रधानमन्त्रिणः जस्टिन् ट्रूडोवर्यस्य आदेशं विरुध्य यानचालकाः अन्ये प्रतिषेधकारकाः च इदानीं यानव्यूहसहितं कनडम् आलक्ष्य चलन्तः सन्ति। राष्ट्रस्य विविधप्रदेशात् भारवाहकयानानि वान्कूर् नाम देशे आनीय जनुवरि मासस्य २३ तमे दिनाङ्के एव प्रतिषेधयात्रा समारब्धा।

 सोमवासरादारभ्य संसत्। आयव्ययपत्रं मङ्गलवासरे।सम्मेलनाय अधिवेशनद्वयम्।

नवदिल्ली> अधिनिवेशद्वयात्मकं संसदीयसम्मेलनं राष्ट्रपतेः अभिसम्बुद्ध्या श्व आरभ्यतेे। राष्ट्रस्य आर्थिकस्थितिं विशदीक्रियमाणम् आर्थिकान्वीक्षणपत्रं सोमवासरे सामान्यायव्ययपत्रं मङ्गलवासरे च अवतारयिष्यते। 

  फेब्रुवरी प्रथमदिने ११ वादने वित्तमन्त्रिणी निर्मला सीतारामः लोकसभायामायव्ययपत्रमवतारयिष्यति। कोविडनुशासनपूर्वकं विधास्यमानस्य सम्मेलनस्य प्रथममधिवेशनं फेब्रुवरि ११ दिनाङ्के समाप्स्यति। द्वितीयमधिवेशनं मार्च् १४ तमे आरभ्य एप्रिल् ८ तमे समाप्तिमेष्यति।

Saturday, January 29, 2022

फेब्रुवरी प्रथमपादे विद्यालयेषु साक्षादध्ययनमारब्धुं केन्द्रसर्वकारः। 

नवदिल्ली> फेब्रुवरिमासस्य प्रथमपादादारभ्य राष्ट्रे कोविड्महामार्याः तृतीयतरङ्गः दुर्बलः भविष्यतीति विश्वस्वास्थ्यसंघटनस्य पारिभाषिकोपदेशसमित्याः अध्यक्षः डो अनुराग अगर्वालः उक्तवान्। तादृश्यामवस्थायां विद्यालयेषु साक्षादध्ययनाय प्रथमपरिगणना दातव्या इति तेनोक्तम्।

   'ओण् लेन् कक्ष्याणां स्थाने ओफ् लैन् कक्ष्याः आरम्भणीयाः इत्येतत् छात्राणां भविष्यविषये अत्यन्तापेक्षितमस्ति। छात्रान् विद्यालयेभ्यः विदूरं नयति इत्यतः तेषां मानसिकशारीरिकादीनां स्वस्थताविषये तद्दोषाय भवेत्। अतः विद्यालयाः उद्घाटयितव्याः' अगर्वालेनोक्तम्। 

  वाक्सिनीकरणमाने तद्वारा आर्जिते रोगप्रतिरोधे च भारतं बहु अग्रे वर्तते। इतरराष्ट्राणि अपेक्ष्य मृत्युमानं रोगव्यापनमानं च तुच्छमिति विद्यालयोद्घाटनमालक्ष्य तेन निगदितम्।

 राष्ट्रे अतिसम्पन्नं राजनैतिकदलं भवति भा ज दलम्। तेषां परिसम्पत्तिः ४६४७ कोटिः भवति।

नवदिल्ली> राष्ट्रे २०१९-२०२० संवत्सरीयेषु अतिसम्पन्नेषु राजनैतिकदलेषु प्रथमस्थानमावहति भा ज दलम् इति प्रतिवेदनम्। अस्मिन् कालावधौ ४८४७.७८ कोटि रूप्यकाणां परिसम्पत्तिः भ ज दलाय अस्ति इतिअसोसियेषन् ओफ् डेमोक्राट्टिक् रीफोंस् (ए डि आर्) नाम निर्वाचननिरीक्षणसंघेन प्रकाशितायां गणनायां संसूचितम्। परिसम्पत्तौ द्वितीयस्थाने बि एस् पि एव। ६९८.३३ एव तेषां परिसम्पत्तिः। तृतीयस्थानीयस्य कोण्ग्रस् दलस्य ६८८.१६ कोटि

परिसम्पत्तिरेव अस्ति। अस्मिन् कालावधौ राष्ट्रे सप्त राष्ट्रियदलानां तथा४४ प्रादेशिकदलानां च यथाक्रमं६९८८.५७ कोटि रूप्यकाणां२१२९.३८ कोटि रूप्यकाणां च आहत्य परिसम्पत्तिः अस्ति इत्येव ए डि आर् संस्थायाः प्रतिवेदनम्। सप्त राष्ट्रियदलानां आहत्य परिसम्पत्तिषु प्रतिशतं६९.३७ भविष्यति भा ज दलस्य परिसम्पत्तिः।

Friday, January 28, 2022

 ओमिक्रोण् उपविभेदस्य बि ए २ इत्यस्य व्यापनक्षमता अधिका। 

नवदिल्ली> राष्ट्रे कोविडस्य तृतीयतरङ्गहेतुभूतस्य ओमिक्रोण् विभेदस्य डेल्टा विभेदापेक्षया व्यापनक्षमतामानः अधिकः इति प्रतिवेदनम्।  बहिरागतानि प्रतिवेदनानि अनुसृत्य ओमिक्रोणापेक्षया तस्य उपभेदस्य बि ए२ इत्यस्य अतिव्यापनक्षमता अस्ति। उपभेदः मन्दं सर्वत्र प्रसरति इति स्वास्थ्यमन्त्रालयेन पूर्वसूचना दत्ता। राष्ट्रिय- रोगनियन्त्रणकेन्द्रस्य निदेशकेन सुजीत् सिंहेन  वार्तेयं आवेदिता। सन्दर्भेऽस्मिन् बि ए २ उपभेदः अद्यावधि भारते न दृढीकृतः इत्यपि तेन प्रोक्तम्। डेल्टा विभेदस्य भीषा न समाप्ता इति च तेन निगदितम्।

 डेन्मार्क् राष्ट्रं विश्वस्मिन् प्रथमपुनरुत्पादक -ऊर्जद्वीप-निर्माणाय सज्जते।

डेन्मार्क् राष्ट्रं विश्वस्मिन् प्रथम-ऊर्जद्वीपनिर्माणाय सज्जते।अस्वाभाविकतया निर्मितस्य द्वीपद्वारा पुनरुत्पादक-ऊर्जं उपयुज्य वैद्युतिम् उत्पादयिष्यति। २०३० संवत्सराभ्यन्तरे पश्चिमतटात् दूरस्थद्वीपात् वायुचाल्यचक्रस्य (wind mill) साहाय्येन प्रथमं त्रिदशलक्षं गृहेषु पश्चात् दश दशलक्षं गृहेषु च वैद्युतिं दातुमेव लक्ष्यम्। भूमेः परिस्थितेः च विनाशहेतोः वातावरणपरिवर्तनेन सञ्जातान् दुरन्तान् निरोद्धुम् उपकारिणी भवति एषा योजना।

Thursday, January 27, 2022

विराट् सेवनात् व्यरमत्। राष्ट्रपतिना प्रधानमन्त्रिणा च यात्रामङ्गलम् अर्पितम्।

नवदिल्ली> राष्ट्रपतेः अङ्गरक्षकसंघेषु विश्वस्तः विराट् नाम अश्वः सेवनात् व्यरमत्। नवदश संवत्सरेभ्यः सेवनानन्तरमेव विराट् नाम कृष्णवर्णाश्वः प्रतिनिवृत्तः। त्रिसप्ततितमस्य गणतन्त्रदिनोत्सवस्य परिसमाप्त्यनन्तरमेव विराटस्य सेवानिवृत्तिः। पदसञ्चलनस्य (parade) पश्चात् राष्ट्रपतिः रामनाथकोविन्दः, प्रधानमन्त्री नरेन्द्रमोदी, प्रतिरोधमन्त्री राजनाथसिंह: च विराटस्य शिरसि करेण परिमृज्य यात्रामङगलम् अर्पितवन्तः।

Wednesday, January 26, 2022

नूतनैः सविशेषकार्यक्रमैः भारतेन ७३तमं गणतन्त्रदिनमाघुष्टम्।

नवदिल्ली> बहुभिः नूतनैः सविशेषकार्यक्रमैः भारतमद्य ७३तमं गणतन्त्रदिनमाघुष्टम्।  कोविडस्य कारणेन विदेशराष्ट्रनेतारः यः कोSपि मुख्यातिथिरूपेण न भागं स्वीकुर्वन्ति स्म। 

  सर्वसैन्याधिपः राष्ट्रपतिः सैनिकानां पथसञ्चलने अभिवाद्यं स्वीकृतवान्। प्रधानमन्त्री नरेन्द्रमोदी बलिदानिनां कृते आदराञ्जलिं समार्पयत्। 

  केवलं १४,००० जनेभ्यः एव गणतन्त्रदिनोत्सवकार्यक्रमान् अभिवीक्षितुमवसरः अस्ति। तेषु कोविडं विरुद्धप्रवर्तकेषु अग्रस्थाः, त्रिचक्रिकाचालकाः, स्वच्छताकर्मकारिण‌ः, निर्माणकर्मकराः इत्येषां कृते वेदिकायामासनानि सज्जीकृतानि सन्ति।

केरले प्रतिदिनकोविड्रोगिणः अर्धलक्षमतीताः। 

अनन्तपुरी> केरलराज्ये कोविड्व्यापनम् अनुदिनम् वर्धते। गतदिने ५५,४७५ नूतनाः कोविड्बाधिताः अभवन्। रोगस्थिरीकरणमानं ४९. ४% जातम्। 

  ७० मरणानि कोविडस्य हेतोः इति स्पष्टीकृतम्। ३०,२२६ जनाः रोगमुक्ताः जाताः। 

  जनपदीयगणनामनुसृत्य एरणाकुलं जनपदे अधिकतमाः रोगिणः विद्यन्ते - दशसहस्राधिकाः। तदनन्तरं तिरुवनन्तपुरं जनपदमस्ति। तत्र ९०००अधिकाः जनाः रोगबाधिताः अभवन्।

जनरल् बिपिन् रावतः कल्याणसिंहः च पद्मविभूषणपुरस्काराय चितौ ।

नवदिल्ली> संवत्सरीयस्य अस्य पद्मपुरस्कारः ख्यापितः। जनरल् बिपिन् रावतः, राधेश्यां खेंक , कल्याणसिंहः, प्रभा आत्रे प्रभृतिभ्यः पद्मविभूषणपुरस्काराः लभ्यन्ते। कोण्ग्रस् नेता गुलां नबि आसादः, पश्चिमबंगदेशस्य पूर्वमुख्यमन्त्री सि पि एम् नेता बुद्धदेवभट्टाचार्यः, लेखिका प्रतिभा राय्, सीरं इन्स्टिट्यूट् प्रबन्ध - निदेशकः सैरस् पूनवालः, अणु तन्त्रांशस्य (micro - soft ) सि इ ओ सुन्दर पिच्चै प्रभृतिभ्यः सप्तदश प्रमुखेभ्यः अपि पद्मभूषणपुरस्कारः लप्स्यते।१०७ प्रमुखाः जनाः पद्मश्री पुरस्काराय अपि चिताः।