OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, January 25, 2022

प्रक्रमाः अन्तिमपादे। जनुवरि२७ तमे दिने एयर् इन्ड्या संस्था टाटा संघाय अनुदास्यति।

नवदिल्ली> सर्वकाराधीना एयर् इन्ड्या संस्था प्रक्रमान् पूर्तीकृत्य जनवरि२७ दिनाङ्काभ्यन्तरे टाटा संघाय अनुदास्यति। प्रक्रमपूर्तीकरणाय जनुवरि२० तमदिनस्य समापन - आयव्ययविवरणपत्रं (closing balance sheet ) टाटाय प्रदत्तं आसीत्। पत्रस्य सूक्ष्मावलोकानन्तरम् अन्तिमप्रक्रमान् प्रति गमिष्यति। एतत्कार्यं विशदीकृत्य एयर्लैन् संस्थायाः आर्थिकनिदेशकेन विनोद् हेज्मादिना कर्मकरेभ्यः इ- सन्देशः प्रेषितः।

 हिमपातः - अफ्गानिस्थाने ४२ मरणानि। 

काबुल्> अफ्गानिस्थाने २० दिनानि यावत् अनुवर्तमाने हिमपाते ४२ जनाः मृत्युवशं प्राप्ताः। ७६ जनाः आहताश्च। १५ प्रदेशेषु एव मरणानि सम्भूतानि। द्विसहस्राधिकानि गृहाणि विशीर्णानीति सर्वकारेण निगदितम्। 

  तालिबानप्रशासने जनाः दुर्भिक्षमनशनादिकं च अनुभूयन्तः सन्ति। रक्षाप्रवर्तनानि प्रचलन्तीति सर्वकारस्य दुरन्तनिवारणविभागेन निगदितम्।

स्मृती मन्थाना श्रेष्ठा क्रिक्कट् क्रीडिका। 

दुबाय्> अन्ताराष्ट्र क्रिक्कट् समित्या [I C C] दीयमानाय  विगतवर्षस्य श्रेष्ठा क्रिक्कट् क्रीडिका इति पुरस्काराय भारतदलस्य प्रारम्भका स्मृती मन्थाना चिता। २०१८ संवत्सरे अपि स्मृत्या अनेन पुरस्कारेण समादृता आसीत्। 

  २२ अन्ताराष्ट्रीयस्पर्धासु आहत्य ८५५ धावनाङ्कान् प्राप्तवती। एषु एकं शतकं ५ अर्धशतकानि च अन्तर्भवन्ति। निकषस्पर्धायां आस्ट्रेलियां प्रति एकस्मिन् क्रीडाचक्रे [Innings] १२७ धावनाङ्कान् प्राप्तवती च।

Monday, January 24, 2022

 भारते ओमिक्रोण् विभेदः सामाजिकव्यापनतलेषु प्राप्तः। नगरेषु वैराणोः सान्निध्यम् सुशक्तम्।

नवदिल्ली> कोविडस्य ओमिक्रोण्

विभेदः भारते सामाजिकव्यापनतलेषु प्राप्तः। मेट्रो नगरेषु एषः प्रभेद: प्रबलः इति इन्साकोगस्य अतिनूतनविवरणिकायां (bulletin) सूचितः अस्ति। विविधराज्येभ्यः  सञ्चित्य तेषां जनितकप्रवर्तनानि अधिकृत्य अध्येतुं रूपीकृतानां दश परीक्षणशालानां संगमः भवति इन्साकोग् ( INSCOG-Indian Sarc Covi-2 Consortium Of Genomics) l ओमिक्रोणस्य सांक्रमिक - उपभेदः BA 2 लैनेज् राष्ट्रे अधिकतया दृढीकृतः इत्यपि विवरणिकायां सूचितमस्ति।

अरुणाचलात् अप्रत्यक्षः कुमारः चीने सन्दृष्टः। 

नवदिल्ली> अरुणाचलप्रदेशात् अप्रत्यक्षः १७ वयस्कः मिरं टरोण् नामकः सन्दृष्टः इति चीनस्य 'पीपिल् लिबरेषन् आर्मी' [P L A] भारतीयसेनां न्यगादीत्। टरोणं यावच्छीघ्रं भारतमानेतुं पदक्षेपाः प्रारब्धाः इति रक्षामन्त्रालयस्य पि आर् ओ लफ्टनन्ट् केणल् हर्षवर्धन पाण्डेन उक्तम्। 

  अप्पर् सियाङ् जनपदस्थे सिडो ग्रामात् बुधवासरे टारोणः तस्य मित्रं जोणि यायिङः च नियन्त्रणरेखासमीपं वने मृगयार्थं गतौ। टरोणः पि एल् ए सैन्येन अपहृत इति वृत्तान्तः प्रसरितः। नियमानुसृतं अधिगम्य प्रत्यानेतुं भारतेन पि एल् ए सैन्यस्य साहाय्यमभ्यर्थितम्। 

  ततः रविवासरे कुमारः सन्दृष्ट इति चीनेन स्थिरीकृतम्। कुमारमचिरेण भारताय प्रतिदास्यतीति पि एल् ए सैन्येन निगदितम्।

 बेंङ्गलूरे  विद्यालयीयछात्राः नानो - उपग्रहविक्षेपणाय सज्जन्ते।

बेंगलूरु> बेंगलूरे सर्वकारीय-विद्यालयीयछात्राः भारतीय -बहिराकाश -अनुसन्धान- संघटनस्य सहकारितया नानो टेक्नोलजी इत्यनया प्रक्रियया उपग्रहविक्षेपणाय सज्जीक्रियमाणाः वर्तन्ते। मल्लेश्वरस्थां विद्यालयीयछात्राणां कृते अभियोजनाय सर्वकारेण अङ्गीकारो दत्तः।  उपग्रहस्य सज्जीकरणाय विक्षेपणाय च १.९ कोटि रूप्यकाणां अभियोजनायाः एव अङ्गीकारः दत्तः। कर्णाटका वैज्ञानिक तथा प्रौद्योगिक पदोन्नति समाजद्वारा (के एस् टि इ पि एस्- Karnataka Science and Technological Promotion Society) एव अभियोजनेयं प्रवृत्तिपथमानेष्यति। भारतीय - महासभा - सङ्घस्यापि  (Indian Technology Congress Association) सहकारिता अस्ति। छात्रेषु शास्त्रविज्ञानपोषणं तथा प्रौद्योगिकविज्ञानपोषणम् एव अभियोजनायाः उद्देश्यः।

 विश्वशान्तिप्रवर्तकः बुद्धसन्यासी 'तिच् नाट् हान्' निर्वाणं प्राप्तवान्। 

पारीस्> विश्वशान्त्यर्थम् अक्षीणं कृतप्रयत्नः तत्त्वचिन्तकः कविः वियट्नामीयः बुद्धसन्यासी च तिच् नाट् हानः इहलोकवासं त्यक्तवान्। मनःपूर्णताचिन्ताधारायाः [Mindfulness] उपज्ञाता आसीत्। वियट्नामस्थे तुहियू मन्दिरे आसीत् तस्यान्त्यमिति तस्य सेन् संघटनेन 'प्लं विल्लेज्' इत्यनेन निगदितम्।

Sunday, January 23, 2022

 रेल्यानेषु रात्रौ उच्चैः भाषणं, सङ्गीतश्रवणं च निरोधते। अन्यथा धनदण्डः दापयिष्यति।

नवदिल्ली> रात्रौ दशवादनानन्तरं रेल्यानेषु दूरवाण्याम् उच्चैः सङ्गीतश्रवणम्, उच्चैः भाषणं च भारतीय रेल्यमार्गसंस्थया ( Indian railway) निरुध्यते। एतत् संबन्धीनि बहूनि परिदेवनानि लब्धे सन्दर्भे एव नूतननियन्त्रणानि आनीतानि इति रेल्मार्गसंस्थया सूचिता। रेल्यानयात्रां सुकरं कर्तुमेव नियन्त्रणानि आनीतानि। रात्रौ दशवादनानन्तरं संमिल्य उच्चैःभाषणं न करणीयम्। दीपः दशवादनानन्तरं निर्वापयितव्यः इति निर्देशः अपि अस्ति। अन्ययात्रिकेभ्यः लभ्यते चेत् दृढप्रक्रमाः स्वीकरिष्यन्ति इति रेल्यमार्गसंस्था व्यनक्ति।

बेंङ्गूरे विद्यालयीय छात्राः व्यब्ज - उपग्रहविक्षेपणाय सज्जन्ते।


बेंगलूरु> बेंगलूरे सर्वकारीय-विद्यालयीयछात्राः भारतीय -बहिराकाश -अनुसन्धान- संघटनस्य सहकारितया व्यब्ज - (Nano) उपग्रहविक्षेपणाय सज्जन्ते। मल्लेश्वरस्थां विद्यालयीयछात्राणां कृते अभियोजनाय सर्वकारेण अङ्गीकारो दत्तः। उपग्रहस्य सज्जीकरणाय विक्षेपणाय च १.९ कोटि रूप्यकाणां अभियोजनायाः एव अङ्गीकारः दत्तः। कर्णाटका वैज्ञानिक तथा प्रौद्योगिक पदोन्नति समाजद्वारा (के एस् टि इ पि एस्- Karnataka Science and Technological Promotion Society) एव अभियोजनेयं प्रवृत्तिपथमानेष्यति। भारतीय - महासभा - सङ्घस्यापि (Indian Technology Congress Association) सहकारिता अस्ति। छात्रेषु शास्त्रविज्ञानपोषणं तथा प्रौद्योगिकविज्ञानपोषणम् एव अभियोजनायाः उद्देश्यः।

चीनाय अमेरिक्कायाः प्रतिवचनम्। ४४ यात्राविमानानि तात्कालिकतया निरस्तानि।

वाषिङ्टण्> कोविड् रोगनियन्त्रणानां भागतया चीनस्य ४४ यात्राविमानानि अमेरिक्काराष्ट्रेण तात्कालिकतया निरस्तानि। एयर् चैना, चैना इस्टेण् एयर्लैन्स्, चैना सतेण् एयर्लैन्स्, सियामेन् एयर्लैन्स् इत्यादि संस्थायाः अधीने वर्तमानानि विमानानि एव तात्कालिकतया निरस्तानि। पूर्वं परिपथभेदकनयमुपयुज्य (circuit breaker - विमानेषु अधिकतया कोविड् रोगप्रकरणानि प्रतिवेदयति चेत् तस्मिन् वायुपथे (air route) विमाननिरस्तननयम्।) अमेरिक्काराष्ट्रस्य विमानानि चीनेन निरस्तानि आसीत्। अमेरिक्का देशात् चीनं प्रति प्रस्थिताः कोविड् रोगरहिताः यात्रिकाः चीने प्राप्ते कोविड् भावात्मकः भविष्यन्ति इति संसूच्य एव चीनेन विमानानि निरस्तानि। तस्य प्रतिवचनमेव अमेरिक्केन चीनाय दत्तम् इति राष्ट्रियवार्तामाध्यमैः प्रतिवेदितम्।

Saturday, January 22, 2022

 हिमपातेन अमेरिक्कराष्ट्रं दुरिते निपतितम्। 

विर्जीनिय> अतिहिमपातेन अमेरिक्कस्य दक्षिणपश्चिम भागेषु जनानां जीवनं दुरितपूर्णम् अभवत्। उत्तर-करोलीन प्रदेशतः दक्षिणकरोलीन प्रदेशपर्यन्तम् हिमस्य उन्नताकारावस्था भविष्यति इति पूर्वसूचना अस्ति। विर्जीनिय तथा उत्तर-दक्षिण-करोलिन राज्येषु राज्यपालैः आपत्कालीना स्थितिः प्रख्यापिता। उत्तर-पश्चिमभागेषु मार्गेषु हिमखण्डानि जायेरन्। दिने ३०° तापमानः चेदपि सूर्यास्तमयानन्तरं तापमानं विंशति डिग्री इत्यतः अधः भविष्यति इति वातावरण विभागेन पूर्वसूचना प्रदत्ता अस्ति।

Friday, January 21, 2022

 कोविडतिव्यापनं - केरले नियन्त्रणं कर्कशं कारयति। 

अनन्तपुरी> केरले कोविड् रोगस्य अतिव्यापने रूक्षे जाते २३,३० दिनाङ्कयोः सम्पूर्णपिधानवत् आचरिष्यति। केवलमवश्यसेवाभ्यः एव अनुज्ञा भविष्यति। 

  जनपदानि ए ,बी, सी इति विभागत्रयं कृत्वा एव नियन्त्रणानि विधास्यन्ति। तदर्थं जनपदाधिकारिणः आदिष्टाः सन्ति। विद्यालयेषु १०,११,१२ कक्ष्याः कलालयकक्ष्याश्च साधारणरीत्या प्रवर्तिष्यन्ति। प्रथमतः नवमकक्ष्यापर्यन्तं ओण्लेन् कक्ष्याः प्रचलिष्यन्ति। 

  गते अहोरात्रे केरले ४१,६६८ जनाः नूतनतया रोगबाधिताः जाता। टि पि आर् मानं ४३. ७६% अभवत्।

Thursday, January 20, 2022

छत्तीसगढे पञ्च मावोवादिनः हताः।

सुक्मा> छत्तीसगढस्य सुक्माप्रदेशे तथा च तेलुङ्कानस्य सीमायां च जातेषु प्रतिद्वन्द्वेषु ५ मावोवादिनः निहताः। तेषु द्वे महिले भवतः। तयोरेका ५ लक्षं रूप्यकाणि शिरोमूल्यत्वेन प्रख्यापिता मुन्नीनामिका वनितानेता भवतीति सूच्यते। 

  सुक्मा, दन्तेवाड़ा, बस्तर प्रदेशानां जनपदीय सुरक्षाभटाः मावोवादिनश्च मिथः सुक्मायां प्रतिद्वन्द्वः प्राचलत्। तेलुङ्कानसीमायां बिजापुरं, मुलुगु जनपदीयकाननप्रदेशे तेलुङ्कानस्य आरक्षकदलेन कृते अन्वीक्षणे एव अन्ये प्रतिरोधिनः अभवन्।

केरले विद्यालयेषु वाक्सिनीकरणं समारब्धम्। 

अनन्तपुरी> केरले १५ - १८ वयस्कानां कृते वाक्सिनीकरणाय विद्यालयेषु व्यवस्था आविष्कृता। ह्यः आरभ्य विद्यालयेषु सज्जीकृतेषु वाक्सिनीकरणकेन्द्रेषु कोवाक्सिन् नामकं कोविड्प्रत्यौषधम् दातुमारभत। 

  २००७ तमे ततः पूर्वं वा जनिताः छात्राः वाक्सिनीकरणाय अर्हन्ति। ५००अधिकाः छात्राः यत्र अध्ययनं कुर्वन्ति । तत्तादृशेषु ९६७ विद्यालयेषु एव वाक्सिनीकरणकेन्द्राणि भविष्यन्ति। 

  अन्तर्जालसुविधया सह पञ्जीकरणप्रकोष्ठः, छात्राणां प्रतीक्षाप्रकोष्ठः, निरीक्षणप्रकोष्ठः, वाक्सिनीकरणस्थानमित्यादीनि सज्जीकरिष्यन्ति। 

  सर्वकारस्य चिकित्सकाधिकारिणां नेतृत्वे स्वास्थ्यप्रवर्तकाः एव वाक्सिनीकरणं विधास्यन्ति। आम्बुलन्स् यानमभिव्याप्य वाहनसुविधाः अपि सज्जीकरिष्यन्ति।

Wednesday, January 19, 2022

 विख्यातः कथक् नर्तनाचार्यः बिर्जु महाराजः दिवंगतः। 


नवदिल्ली> उत्तरप्रदेशस्य परम्परागतनृत्तरूपं कथक् नामकं विश्वप्रसिद्धं कर्तुं कृतप्रयत्नः विख्यातनर्तकः पण्डितः बिर्जु महाराजः स्मरणावशेषः अभवत्। फेब्रुवरि ४दिनाङ्के ८४ तमजन्मदिनम् अघुष्यमाणः सः रविवासरस्य अर्धरात्रे झटिति जातेन देहास्वास्थ्येन दिवंगतः। 

  पद्मविभूषणं, संगीतनाटकअक्कादमीपुरस्कारः,कालिदाससम्मानं, राजीवगान्धी सद्भावनापुरस्कारः, सोवियट् लान्ट् नेह्रूपुरस्कारः इत्यादिभिः बहुभिः पुरस्कारैः समादृतः आसीत्। गायकः तालवाद्यवादकः चायं हिन्दुस्थानिसंगीते अगाधज्ञानी चासीत्।

 अङ्गसंख्यानियन्त्रणाय इत्युक्त्वा यूरोपीयराष्ट्रेषु शुनकान् घ्नन्ति। 

अङ्गसंख्यानियन्त्रणाय शुनकानां हननोद्यमे स्वीडनेन सह नोर्वे, फिन्लान्डः च भागं स्वीकृतन्तौ। एतत् क्रूरकृत्यं विरुध्य प्रक्रमाः स्वीकरणीयाः इति यूरोप्पीयराष्ट्राणां संयुक्तसमितिं प्रति परिस्थिति स्नेहिनः संप्रार्थितवन्तः। नोर्वेराष्ट्रेण स्वदेशस्थाः प्रतिशतं ६० शुनकाः ध्वंसिताः। राष्ट्रे प्रत्युत्पादन युुुगलाः  शुनकाः त्रयः इति संगृहीते स्थाने स्वीडने फिन्लान्डे च षट्यमकाः इति रूपेण संगृहीतः। जीविवर्गाणां रक्षितारः इति प्रथितस्य यूरोपीयराष्ट्राणां संयुक्तसमितेः नियमानुसारम् एतत् विरुद्धप्रक्रमाः इति परिस्थितिस्नेहिनः अभिप्रयन्ति।

Tuesday, January 18, 2022

 अफ्गानिस्थाने क्लेशपर्व - अपत्यान्यपि विक्रीय उपजीवन्ति जनाः। 

काबूल्> अफ्गानिस्थाने युद्धानन्तरं सर्वं विनष्टीभूय अनाथीकृताः जनाः स्वावयवान् अपत्यानि अपि विक्रीय उपजीवनं कुर्वन्तीति वृत्तान्तः। दुर्भिक्षायां क्लेशमनुभूयमानस्य राष्ट्रस्य आर्थिकावस्थां तिलमात्रमपि उन्नेतुं तालिबानप्रशासनेन नाशक्यत इत्यस्य दृष्टान्तः इयं दुरवस्था। 

  भूतपूर्वसर्वकारसेना तथा तालिबानीयभटाश्च परस्परयुद्धं यत्र यत्र  तीव्रभूतमभवत् बल्ख्, सरे पुल् , पर्याब्, जोस्जान् इत्यादिभ्यः स्थानेभ्यः पलायिताः एव ईदृशं क्लेशमनुभवन्तीति 'टोलो न्यूस्' पत्रिकया आवेदितमस्ति। अपत्यानां कृते ७०,००० आरभ्य लक्षपर्यन्तमेव  विक्रयणावसरे मूल्यं निश्चितम्। दारिद्र्यनिमित्तेन वयं सर्वे एतदर्थं निर्बन्धिताः इति मसारी षरीफ् प्रदेशमधिवसन्तः परिवारः अवदत्।

Monday, January 17, 2022

 अबुदाबिदेशे स्फोटनम् - विमानपत्तनेषु अपि अग्निबाधा। तैलेन्धनसम्भरिण्यः महाशब्देन विदारिताः।


अबुदाबि> अबुदाबिदेशे त्रिषु तैलेन्धनसम्भरणिषु स्फोटनम् अभवत्। दूरनियन्त्रितम् उदग्रयन्त्रम् इव किंचित् पतित्वा एव स्फोटनम् आपन्नमिति सन्दिह्यते इति अबुदाबि आरक्षकैः दृढीकृतम्। स्फोटने त्रयः जनाः मृतिमुपगतवन्तः। षट्जनाः व्रणिताश्च। यु ए इ राष्ट्रस्य बृहत्तमतैलसंस्थायाः अड्नोक् इत्यस्य मूसफदेशस्थस्य सम्भरणकेन्द्रस्य समीपे प्रथमस्फोटनम् अभवत्। तिस्रः तैलेन्धनसम्भरण्यः स्फोटने विदारिताः। अबुदाबि विमानपत्तनस्य समीपे निर्माणप्रवर्तनस्थलेषु अपि स्फोटनमभवत्। स्थलद्वयेषु अपि स्कोटनात् पूर्वम् उदग्रयन्त्रं निपतितम्  इति अबुदाबी आरक्षकैः दृढीकृतम्। अवस्था नियन्त्रणविधेया इत्यपि आरक्षकैः उक्तम्।