पारीस्> विश्वशान्त्यर्थम् अक्षीणं कृतप्रयत्नः तत्त्वचिन्तकः कविः वियट्नामीयः बुद्धसन्यासी च तिच् नाट् हानः इहलोकवासं त्यक्तवान्। मनःपूर्णताचिन्ताधारायाः [Mindfulness] उपज्ञाता आसीत्। वियट्नामस्थे तुहियू मन्दिरे आसीत् तस्यान्त्यमिति तस्य सेन् संघटनेन 'प्लं विल्लेज्' इत्यनेन निगदितम्।
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Monday, January 24, 2022
Sunday, January 23, 2022
रेल्यानेषु रात्रौ उच्चैः भाषणं, सङ्गीतश्रवणं च निरोधते। अन्यथा धनदण्डः दापयिष्यति।
नवदिल्ली> रात्रौ दशवादनानन्तरं रेल्यानेषु दूरवाण्याम् उच्चैः सङ्गीतश्रवणम्, उच्चैः भाषणं च भारतीय रेल्यमार्गसंस्थया ( Indian railway) निरुध्यते। एतत् संबन्धीनि बहूनि परिदेवनानि लब्धे सन्दर्भे एव नूतननियन्त्रणानि आनीतानि इति रेल्मार्गसंस्थया सूचिता। रेल्यानयात्रां सुकरं कर्तुमेव नियन्त्रणानि आनीतानि। रात्रौ दशवादनानन्तरं संमिल्य उच्चैःभाषणं न करणीयम्। दीपः दशवादनानन्तरं निर्वापयितव्यः इति निर्देशः अपि अस्ति। अन्ययात्रिकेभ्यः लभ्यते चेत् दृढप्रक्रमाः स्वीकरिष्यन्ति इति रेल्यमार्गसंस्था व्यनक्ति।
बेंङ्गूरे विद्यालयीय छात्राः व्यब्ज - उपग्रहविक्षेपणाय सज्जन्ते।
चीनाय अमेरिक्कायाः प्रतिवचनम्। ४४ यात्राविमानानि तात्कालिकतया निरस्तानि।
Saturday, January 22, 2022
हिमपातेन अमेरिक्कराष्ट्रं दुरिते निपतितम्।
विर्जीनिय> अतिहिमपातेन अमेरिक्कस्य दक्षिणपश्चिम भागेषु जनानां जीवनं दुरितपूर्णम् अभवत्। उत्तर-करोलीन प्रदेशतः दक्षिणकरोलीन प्रदेशपर्यन्तम् हिमस्य उन्नताकारावस्था भविष्यति इति पूर्वसूचना अस्ति। विर्जीनिय तथा उत्तर-दक्षिण-करोलिन राज्येषु राज्यपालैः आपत्कालीना स्थितिः प्रख्यापिता। उत्तर-पश्चिमभागेषु मार्गेषु हिमखण्डानि जायेरन्। दिने ३०° तापमानः चेदपि सूर्यास्तमयानन्तरं तापमानं विंशति डिग्री इत्यतः अधः भविष्यति इति वातावरण विभागेन पूर्वसूचना प्रदत्ता अस्ति।
Friday, January 21, 2022
कोविडतिव्यापनं - केरले नियन्त्रणं कर्कशं कारयति।
अनन्तपुरी> केरले कोविड् रोगस्य अतिव्यापने रूक्षे जाते २३,३० दिनाङ्कयोः सम्पूर्णपिधानवत् आचरिष्यति। केवलमवश्यसेवाभ्यः एव अनुज्ञा भविष्यति।
जनपदानि ए ,बी, सी इति विभागत्रयं कृत्वा एव नियन्त्रणानि विधास्यन्ति। तदर्थं जनपदाधिकारिणः आदिष्टाः सन्ति। विद्यालयेषु १०,११,१२ कक्ष्याः कलालयकक्ष्याश्च साधारणरीत्या प्रवर्तिष्यन्ति। प्रथमतः नवमकक्ष्यापर्यन्तं ओण्लेन् कक्ष्याः प्रचलिष्यन्ति।
गते अहोरात्रे केरले ४१,६६८ जनाः नूतनतया रोगबाधिताः जाता। टि पि आर् मानं ४३. ७६% अभवत्।
Thursday, January 20, 2022
छत्तीसगढे पञ्च मावोवादिनः हताः।
सुक्मा> छत्तीसगढस्य सुक्माप्रदेशे तथा च तेलुङ्कानस्य सीमायां च जातेषु प्रतिद्वन्द्वेषु ५ मावोवादिनः निहताः। तेषु द्वे महिले भवतः। तयोरेका ५ लक्षं रूप्यकाणि शिरोमूल्यत्वेन प्रख्यापिता मुन्नीनामिका वनितानेता भवतीति सूच्यते।
सुक्मा, दन्तेवाड़ा, बस्तर प्रदेशानां जनपदीय सुरक्षाभटाः मावोवादिनश्च मिथः सुक्मायां प्रतिद्वन्द्वः प्राचलत्। तेलुङ्कानसीमायां बिजापुरं, मुलुगु जनपदीयकाननप्रदेशे तेलुङ्कानस्य आरक्षकदलेन कृते अन्वीक्षणे एव अन्ये प्रतिरोधिनः अभवन्।
केरले विद्यालयेषु वाक्सिनीकरणं समारब्धम्।
अनन्तपुरी> केरले १५ - १८ वयस्कानां कृते वाक्सिनीकरणाय विद्यालयेषु व्यवस्था आविष्कृता। ह्यः आरभ्य विद्यालयेषु सज्जीकृतेषु वाक्सिनीकरणकेन्द्रेषु कोवाक्सिन् नामकं कोविड्प्रत्यौषधम् दातुमारभत।
२००७ तमे ततः पूर्वं वा जनिताः छात्राः वाक्सिनीकरणाय अर्हन्ति। ५००अधिकाः छात्राः यत्र अध्ययनं कुर्वन्ति । तत्तादृशेषु ९६७ विद्यालयेषु एव वाक्सिनीकरणकेन्द्राणि भविष्यन्ति।
अन्तर्जालसुविधया सह पञ्जीकरणप्रकोष्ठः, छात्राणां प्रतीक्षाप्रकोष्ठः, निरीक्षणप्रकोष्ठः, वाक्सिनीकरणस्थानमित्यादीनि सज्जीकरिष्यन्ति।
सर्वकारस्य चिकित्सकाधिकारिणां नेतृत्वे स्वास्थ्यप्रवर्तकाः एव वाक्सिनीकरणं विधास्यन्ति। आम्बुलन्स् यानमभिव्याप्य वाहनसुविधाः अपि सज्जीकरिष्यन्ति।
Wednesday, January 19, 2022
विख्यातः कथक् नर्तनाचार्यः बिर्जु महाराजः दिवंगतः।
नवदिल्ली> उत्तरप्रदेशस्य परम्परागतनृत्तरूपं कथक् नामकं विश्वप्रसिद्धं कर्तुं कृतप्रयत्नः विख्यातनर्तकः पण्डितः बिर्जु महाराजः स्मरणावशेषः अभवत्। फेब्रुवरि ४दिनाङ्के ८४ तमजन्मदिनम् अघुष्यमाणः सः रविवासरस्य अर्धरात्रे झटिति जातेन देहास्वास्थ्येन दिवंगतः।
पद्मविभूषणं, संगीतनाटकअक्कादमीपुरस्कारः,कालिदाससम्मानं, राजीवगान्धी सद्भावनापुरस्कारः, सोवियट् लान्ट् नेह्रूपुरस्कारः इत्यादिभिः बहुभिः पुरस्कारैः समादृतः आसीत्। गायकः तालवाद्यवादकः चायं हिन्दुस्थानिसंगीते अगाधज्ञानी चासीत्।
अङ्गसंख्यानियन्त्रणाय इत्युक्त्वा यूरोपीयराष्ट्रेषु शुनकान् घ्नन्ति।
अङ्गसंख्यानियन्त्रणाय शुनकानां हननोद्यमे स्वीडनेन सह नोर्वे, फिन्लान्डः च भागं स्वीकृतन्तौ। एतत् क्रूरकृत्यं विरुध्य प्रक्रमाः स्वीकरणीयाः इति यूरोप्पीयराष्ट्राणां संयुक्तसमितिं प्रति परिस्थिति स्नेहिनः संप्रार्थितवन्तः। नोर्वेराष्ट्रेण स्वदेशस्थाः प्रतिशतं ६० शुनकाः ध्वंसिताः। राष्ट्रे प्रत्युत्पादन युुुगलाः शुनकाः त्रयः इति संगृहीते स्थाने स्वीडने फिन्लान्डे च षट्यमकाः इति रूपेण संगृहीतः। जीविवर्गाणां रक्षितारः इति प्रथितस्य यूरोपीयराष्ट्राणां संयुक्तसमितेः नियमानुसारम् एतत् विरुद्धप्रक्रमाः इति परिस्थितिस्नेहिनः अभिप्रयन्ति।
Tuesday, January 18, 2022
अफ्गानिस्थाने क्लेशपर्व - अपत्यान्यपि विक्रीय उपजीवन्ति जनाः।
काबूल्> अफ्गानिस्थाने युद्धानन्तरं सर्वं विनष्टीभूय अनाथीकृताः जनाः स्वावयवान् अपत्यानि अपि विक्रीय उपजीवनं कुर्वन्तीति वृत्तान्तः। दुर्भिक्षायां क्लेशमनुभूयमानस्य राष्ट्रस्य आर्थिकावस्थां तिलमात्रमपि उन्नेतुं तालिबानप्रशासनेन नाशक्यत इत्यस्य दृष्टान्तः इयं दुरवस्था।
भूतपूर्वसर्वकारसेना तथा तालिबानीयभटाश्च परस्परयुद्धं यत्र यत्र तीव्रभूतमभवत् बल्ख्, सरे पुल् , पर्याब्, जोस्जान् इत्यादिभ्यः स्थानेभ्यः पलायिताः एव ईदृशं क्लेशमनुभवन्तीति 'टोलो न्यूस्' पत्रिकया आवेदितमस्ति। अपत्यानां कृते ७०,००० आरभ्य लक्षपर्यन्तमेव विक्रयणावसरे मूल्यं निश्चितम्। दारिद्र्यनिमित्तेन वयं सर्वे एतदर्थं निर्बन्धिताः इति मसारी षरीफ् प्रदेशमधिवसन्तः परिवारः अवदत्।
Monday, January 17, 2022
अबुदाबिदेशे स्फोटनम् - विमानपत्तनेषु अपि अग्निबाधा। तैलेन्धनसम्भरिण्यः महाशब्देन विदारिताः।
Sunday, January 16, 2022
भञ्जकैः प्रतिज्ञा दत्तं धनं न दत्तम्। आदित्य बिर्ला फाषन् संस्थायाः५४ लक्षं जनानां दत्तांशः अपहृतः।
भारते अतिबृहत्तमेषु नव्यभूषाव्यष्टिविक्रयणसंस्थासु (fashion retail company) अन्यतमः आदित्या बिर्ला फाषन् आन्ड् रीटेयिल् लिमिट्टड् (A B F R L) इति संस्था अतिविपुलतया दत्तांशापहरणस्य पात्रमभवत् इति प्रतिवेदनम्। आदित्या बिर्ला गणस्य स्वाधीनाश्रयात् प्रयशः ५४ लक्षाधिकानि ई-सन्देश-सङ्केतविवरणानि एव अपहरणानन्तरम् अन्तर्जालमाध्यमेषु संयुक्तप्रसरः अभवत्। मेसेज् -डैजस्ट् ५ अत्गोरितं ५ (MDS) हाष् रूपेण दत्तांशाश्रये (Database) पालितानि नामानि, दूरवाणीसंख्याः, सङ्केताः, जन्मदिनाङ्का:, आदिष्टानां वस्तूनां पञ्चीकरणविवरणानि, समाकलनपत्रविवरणानि (credit Card), गूढपदानि (password), इत्यादीनि सुप्रधानानि व्यक्तिगत- उपभोक्तृविवरणानि च अस्मिन् अन्तर्भवन्ति।
Saturday, January 15, 2022
जनसंसदः आयव्य मेलनं जनु ३१ - एप्रिल् ८।
नवदिल्ली> भारतस्य आगामि संवत्सरस्य आयव्ययात्मकस्य आर्थिकसंकल्पस्य अङ्गीकारार्थं संसदः मेलनम् अस्य मासस्य ३१तमदिनाङ्कादारभ्य एप्रिल् ८ पर्यन्तं पादद्वयेन विधास्यति। प्रथमपादमेलनं फेब्रुवरि ११पर्यन्तं भविष्यति। मार्च् १४तमे पुनः सम्मिल्य एप्रिल् ८ दिनाङ्के सभाद्वयस्यापि मेलनं समापयिष्यति।
फेब्रु १दिनाङ्के राष्ट्रस्य आयव्ययपत्रमवतारयिष्यति। तस्मिन्दिने एव आर्थिकान्वीक्षणावेदनपत्रमपि संसदि समर्पयिष्यति।
कोविडनुशासनानि परिपाल्य एव आवश्यकानि क्रमीकरणानि विधास्य एव सम्मेलनं भविष्यति। राज्यसभासम्मेलनं प्रभाते लोकसभामेलनं मध्यह्नानन्तरं च पृथक् पृथक् वेलायामेव भविष्यति।
मकरज्योतिं दृष्ट्वा आनन्दतुन्दिलाः भूत्वा भक्ताः। शबरिगिरिः भक्तिसान्द्रम्।
Friday, January 14, 2022
पश्चिमबंगदेशे रेल्यानापघाते पञ्च जनाः मारिताः। बहवः जनाः व्रणिताः।
कोलकत्ता> पश्चिमबंगदेशे रेल्यानं लोहमार्गात् स्खलितो भूत्वा पञ्च जनाः मृताः। अनेके जनाः व्रणिताश्च। बिक्कानीर् - गुवहाट्टि एक्स्प्रस् नाम रेल्यानमेव यानपदात् स्खलितः। पाट्ट्नातः गुवहाट्टीं प्रति गच्छत् आसीत् रेल्यानम्। रेल्यानस्य चतस्रः कक्षाः एव स्खलिताः। लोहमार्ग विभागस्य आरक्षकाः तथा दुरन्तनिवारणसेना च आगत्य रक्षाप्रवर्तनानि समारब्घानि।
Wednesday, January 12, 2022
डो. एस् सोमनाथः भारतीय - बहिराकाश - अनुसन्धान - सङ्घटनस्य (Indian space research organisation) सभापतिः।
एस् सोमनाथः भारतीय - बहिराकाश -अनुसन्धान संघटनस्य सभापतिरूपेण नियुक्तः। इदानीं सः तिरुवनन्तपुरं विक्रं साराभाई बहिराकाशकेन्द्रस्य निदेशकः भवति। केरले आलप्पुषा तुरवूर् देशीयः डो. सोमनाथः पूर्वं द्रवेन्धनयन्त्रप्रवर्तनकेन्द्रस्य (liquid propellison system centre) अध्यक्षः आसीत्। सेवानिवृत्तस्य डो. के शिवस्य स्थाने एव डो. सोमनाथः नियुक्तः। एम् जि के मेनोन्, के कस्तूरी रङ्गन्, माधवन् नायर्, राधाकृष्णः इत्यादयः केरलीयाः पूर्वं एतां पदवीं अलङ्कृतेषु प्रमुखाः भवन्ति। अग्निबाणप्रौद्योगिकविद्यायां रूपरचनायां च अग्निबाणेन्धनस्फुटीकरणविषये तस्य योगदानं पुरस्कृत्य भवति तस्य सभापतिस्थाने नियुक्तिः।
ओमिक्रोणस्य अनेके उपविभेदाः। प्रकरणानि अतिशीघ्रं वर्धिष्यन्ते इति डो. अरोरा।
नवदिल्ली> कोविड्विभेदस्य ओमिक्रोणस्य उपविभेदाः दृढीकृताः। आगामिनि दिनेषु कोविड् प्रकरणानि क्रमातीतरूपेण वर्धिष्यन्ते इति राष्ट्रिय-प्रौद्योगिक-समित्याः (एन् टि ए पि ए) अध्यक्षेण डो. एन् के अरोरा इत्यनेन प्रोक्तम्। प्रभेदेषु भेदाः सन्ति तथापि रोगस्य स्वभावेषु लक्षणेषु च भेदः नास्ति इति सः उक्तवान्। बि ए१, बि ए२, बि ए ३ इति त्रयः भेदाः एव राष्ट्रे प्रतिवेदितः।
बि ए १ दृढीकृताः सर्वे विदेशसन्दर्शनानन्तरं प्रत्यागताः। डेल्टाविभेदापेक्षया अतिशीघ्रं व्यापयन् अस्ति एषः विभेदः। एस् - जीन् रहितः एषः 'आर् टि पि सि आर्' निरीक्षणेन दृढीकर्तुं शक्यते।