OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 23, 2022

बेंङ्गूरे विद्यालयीय छात्राः व्यब्ज - उपग्रहविक्षेपणाय सज्जन्ते।


बेंगलूरु> बेंगलूरे सर्वकारीय-विद्यालयीयछात्राः भारतीय -बहिराकाश -अनुसन्धान- संघटनस्य सहकारितया व्यब्ज - (Nano) उपग्रहविक्षेपणाय सज्जन्ते। मल्लेश्वरस्थां विद्यालयीयछात्राणां कृते अभियोजनाय सर्वकारेण अङ्गीकारो दत्तः। उपग्रहस्य सज्जीकरणाय विक्षेपणाय च १.९ कोटि रूप्यकाणां अभियोजनायाः एव अङ्गीकारः दत्तः। कर्णाटका वैज्ञानिक तथा प्रौद्योगिक पदोन्नति समाजद्वारा (के एस् टि इ पि एस्- Karnataka Science and Technological Promotion Society) एव अभियोजनेयं प्रवृत्तिपथमानेष्यति। भारतीय - महासभा - सङ्घस्यापि (Indian Technology Congress Association) सहकारिता अस्ति। छात्रेषु शास्त्रविज्ञानपोषणं तथा प्रौद्योगिकविज्ञानपोषणम् एव अभियोजनायाः उद्देश्यः।

चीनाय अमेरिक्कायाः प्रतिवचनम्। ४४ यात्राविमानानि तात्कालिकतया निरस्तानि।

वाषिङ्टण्> कोविड् रोगनियन्त्रणानां भागतया चीनस्य ४४ यात्राविमानानि अमेरिक्काराष्ट्रेण तात्कालिकतया निरस्तानि। एयर् चैना, चैना इस्टेण् एयर्लैन्स्, चैना सतेण् एयर्लैन्स्, सियामेन् एयर्लैन्स् इत्यादि संस्थायाः अधीने वर्तमानानि विमानानि एव तात्कालिकतया निरस्तानि। पूर्वं परिपथभेदकनयमुपयुज्य (circuit breaker - विमानेषु अधिकतया कोविड् रोगप्रकरणानि प्रतिवेदयति चेत् तस्मिन् वायुपथे (air route) विमाननिरस्तननयम्।) अमेरिक्काराष्ट्रस्य विमानानि चीनेन निरस्तानि आसीत्। अमेरिक्का देशात् चीनं प्रति प्रस्थिताः कोविड् रोगरहिताः यात्रिकाः चीने प्राप्ते कोविड् भावात्मकः भविष्यन्ति इति संसूच्य एव चीनेन विमानानि निरस्तानि। तस्य प्रतिवचनमेव अमेरिक्केन चीनाय दत्तम् इति राष्ट्रियवार्तामाध्यमैः प्रतिवेदितम्।

Saturday, January 22, 2022

 हिमपातेन अमेरिक्कराष्ट्रं दुरिते निपतितम्। 

विर्जीनिय> अतिहिमपातेन अमेरिक्कस्य दक्षिणपश्चिम भागेषु जनानां जीवनं दुरितपूर्णम् अभवत्। उत्तर-करोलीन प्रदेशतः दक्षिणकरोलीन प्रदेशपर्यन्तम् हिमस्य उन्नताकारावस्था भविष्यति इति पूर्वसूचना अस्ति। विर्जीनिय तथा उत्तर-दक्षिण-करोलिन राज्येषु राज्यपालैः आपत्कालीना स्थितिः प्रख्यापिता। उत्तर-पश्चिमभागेषु मार्गेषु हिमखण्डानि जायेरन्। दिने ३०° तापमानः चेदपि सूर्यास्तमयानन्तरं तापमानं विंशति डिग्री इत्यतः अधः भविष्यति इति वातावरण विभागेन पूर्वसूचना प्रदत्ता अस्ति।

Friday, January 21, 2022

 कोविडतिव्यापनं - केरले नियन्त्रणं कर्कशं कारयति। 

अनन्तपुरी> केरले कोविड् रोगस्य अतिव्यापने रूक्षे जाते २३,३० दिनाङ्कयोः सम्पूर्णपिधानवत् आचरिष्यति। केवलमवश्यसेवाभ्यः एव अनुज्ञा भविष्यति। 

  जनपदानि ए ,बी, सी इति विभागत्रयं कृत्वा एव नियन्त्रणानि विधास्यन्ति। तदर्थं जनपदाधिकारिणः आदिष्टाः सन्ति। विद्यालयेषु १०,११,१२ कक्ष्याः कलालयकक्ष्याश्च साधारणरीत्या प्रवर्तिष्यन्ति। प्रथमतः नवमकक्ष्यापर्यन्तं ओण्लेन् कक्ष्याः प्रचलिष्यन्ति। 

  गते अहोरात्रे केरले ४१,६६८ जनाः नूतनतया रोगबाधिताः जाता। टि पि आर् मानं ४३. ७६% अभवत्।

Thursday, January 20, 2022

छत्तीसगढे पञ्च मावोवादिनः हताः।

सुक्मा> छत्तीसगढस्य सुक्माप्रदेशे तथा च तेलुङ्कानस्य सीमायां च जातेषु प्रतिद्वन्द्वेषु ५ मावोवादिनः निहताः। तेषु द्वे महिले भवतः। तयोरेका ५ लक्षं रूप्यकाणि शिरोमूल्यत्वेन प्रख्यापिता मुन्नीनामिका वनितानेता भवतीति सूच्यते। 

  सुक्मा, दन्तेवाड़ा, बस्तर प्रदेशानां जनपदीय सुरक्षाभटाः मावोवादिनश्च मिथः सुक्मायां प्रतिद्वन्द्वः प्राचलत्। तेलुङ्कानसीमायां बिजापुरं, मुलुगु जनपदीयकाननप्रदेशे तेलुङ्कानस्य आरक्षकदलेन कृते अन्वीक्षणे एव अन्ये प्रतिरोधिनः अभवन्।

केरले विद्यालयेषु वाक्सिनीकरणं समारब्धम्। 

अनन्तपुरी> केरले १५ - १८ वयस्कानां कृते वाक्सिनीकरणाय विद्यालयेषु व्यवस्था आविष्कृता। ह्यः आरभ्य विद्यालयेषु सज्जीकृतेषु वाक्सिनीकरणकेन्द्रेषु कोवाक्सिन् नामकं कोविड्प्रत्यौषधम् दातुमारभत। 

  २००७ तमे ततः पूर्वं वा जनिताः छात्राः वाक्सिनीकरणाय अर्हन्ति। ५००अधिकाः छात्राः यत्र अध्ययनं कुर्वन्ति । तत्तादृशेषु ९६७ विद्यालयेषु एव वाक्सिनीकरणकेन्द्राणि भविष्यन्ति। 

  अन्तर्जालसुविधया सह पञ्जीकरणप्रकोष्ठः, छात्राणां प्रतीक्षाप्रकोष्ठः, निरीक्षणप्रकोष्ठः, वाक्सिनीकरणस्थानमित्यादीनि सज्जीकरिष्यन्ति। 

  सर्वकारस्य चिकित्सकाधिकारिणां नेतृत्वे स्वास्थ्यप्रवर्तकाः एव वाक्सिनीकरणं विधास्यन्ति। आम्बुलन्स् यानमभिव्याप्य वाहनसुविधाः अपि सज्जीकरिष्यन्ति।

Wednesday, January 19, 2022

 विख्यातः कथक् नर्तनाचार्यः बिर्जु महाराजः दिवंगतः। 


नवदिल्ली> उत्तरप्रदेशस्य परम्परागतनृत्तरूपं कथक् नामकं विश्वप्रसिद्धं कर्तुं कृतप्रयत्नः विख्यातनर्तकः पण्डितः बिर्जु महाराजः स्मरणावशेषः अभवत्। फेब्रुवरि ४दिनाङ्के ८४ तमजन्मदिनम् अघुष्यमाणः सः रविवासरस्य अर्धरात्रे झटिति जातेन देहास्वास्थ्येन दिवंगतः। 

  पद्मविभूषणं, संगीतनाटकअक्कादमीपुरस्कारः,कालिदाससम्मानं, राजीवगान्धी सद्भावनापुरस्कारः, सोवियट् लान्ट् नेह्रूपुरस्कारः इत्यादिभिः बहुभिः पुरस्कारैः समादृतः आसीत्। गायकः तालवाद्यवादकः चायं हिन्दुस्थानिसंगीते अगाधज्ञानी चासीत्।

 अङ्गसंख्यानियन्त्रणाय इत्युक्त्वा यूरोपीयराष्ट्रेषु शुनकान् घ्नन्ति। 

अङ्गसंख्यानियन्त्रणाय शुनकानां हननोद्यमे स्वीडनेन सह नोर्वे, फिन्लान्डः च भागं स्वीकृतन्तौ। एतत् क्रूरकृत्यं विरुध्य प्रक्रमाः स्वीकरणीयाः इति यूरोप्पीयराष्ट्राणां संयुक्तसमितिं प्रति परिस्थिति स्नेहिनः संप्रार्थितवन्तः। नोर्वेराष्ट्रेण स्वदेशस्थाः प्रतिशतं ६० शुनकाः ध्वंसिताः। राष्ट्रे प्रत्युत्पादन युुुगलाः  शुनकाः त्रयः इति संगृहीते स्थाने स्वीडने फिन्लान्डे च षट्यमकाः इति रूपेण संगृहीतः। जीविवर्गाणां रक्षितारः इति प्रथितस्य यूरोपीयराष्ट्राणां संयुक्तसमितेः नियमानुसारम् एतत् विरुद्धप्रक्रमाः इति परिस्थितिस्नेहिनः अभिप्रयन्ति।

Tuesday, January 18, 2022

 अफ्गानिस्थाने क्लेशपर्व - अपत्यान्यपि विक्रीय उपजीवन्ति जनाः। 

काबूल्> अफ्गानिस्थाने युद्धानन्तरं सर्वं विनष्टीभूय अनाथीकृताः जनाः स्वावयवान् अपत्यानि अपि विक्रीय उपजीवनं कुर्वन्तीति वृत्तान्तः। दुर्भिक्षायां क्लेशमनुभूयमानस्य राष्ट्रस्य आर्थिकावस्थां तिलमात्रमपि उन्नेतुं तालिबानप्रशासनेन नाशक्यत इत्यस्य दृष्टान्तः इयं दुरवस्था। 

  भूतपूर्वसर्वकारसेना तथा तालिबानीयभटाश्च परस्परयुद्धं यत्र यत्र  तीव्रभूतमभवत् बल्ख्, सरे पुल् , पर्याब्, जोस्जान् इत्यादिभ्यः स्थानेभ्यः पलायिताः एव ईदृशं क्लेशमनुभवन्तीति 'टोलो न्यूस्' पत्रिकया आवेदितमस्ति। अपत्यानां कृते ७०,००० आरभ्य लक्षपर्यन्तमेव  विक्रयणावसरे मूल्यं निश्चितम्। दारिद्र्यनिमित्तेन वयं सर्वे एतदर्थं निर्बन्धिताः इति मसारी षरीफ् प्रदेशमधिवसन्तः परिवारः अवदत्।

Monday, January 17, 2022

 अबुदाबिदेशे स्फोटनम् - विमानपत्तनेषु अपि अग्निबाधा। तैलेन्धनसम्भरिण्यः महाशब्देन विदारिताः।


अबुदाबि> अबुदाबिदेशे त्रिषु तैलेन्धनसम्भरणिषु स्फोटनम् अभवत्। दूरनियन्त्रितम् उदग्रयन्त्रम् इव किंचित् पतित्वा एव स्फोटनम् आपन्नमिति सन्दिह्यते इति अबुदाबि आरक्षकैः दृढीकृतम्। स्फोटने त्रयः जनाः मृतिमुपगतवन्तः। षट्जनाः व्रणिताश्च। यु ए इ राष्ट्रस्य बृहत्तमतैलसंस्थायाः अड्नोक् इत्यस्य मूसफदेशस्थस्य सम्भरणकेन्द्रस्य समीपे प्रथमस्फोटनम् अभवत्। तिस्रः तैलेन्धनसम्भरण्यः स्फोटने विदारिताः। अबुदाबि विमानपत्तनस्य समीपे निर्माणप्रवर्तनस्थलेषु अपि स्फोटनमभवत्। स्थलद्वयेषु अपि स्कोटनात् पूर्वम् उदग्रयन्त्रं निपतितम्  इति अबुदाबी आरक्षकैः दृढीकृतम्। अवस्था नियन्त्रणविधेया इत्यपि आरक्षकैः उक्तम्।

Sunday, January 16, 2022

 भञ्जकैः प्रतिज्ञा दत्तं धनं न दत्तम्। आदित्य बिर्ला फाषन् संस्थायाः५४ लक्षं जनानां दत्तांशः अपहृतः।

भारते अतिबृहत्तमेषु नव्यभूषाव्यष्टिविक्रयणसंस्थासु  (fashion retail company) अन्यतमः आदित्या बिर्ला फाषन् आन्ड् रीटेयिल् लिमिट्टड् (A B F R L) इति संस्था अतिविपुलतया दत्तांशापहरणस्य पात्रमभवत् इति प्रतिवेदनम्। आदित्या बिर्ला गणस्य स्वाधीनाश्रयात् प्रयशः ५४ लक्षाधिकानि ई-सन्देश-सङ्केतविवरणानि एव अपहरणानन्तरम् अन्तर्जालमाध्यमेषु संयुक्तप्रसरः अभवत्। मेसेज् -डैजस्ट् ५ अत्गोरितं ५ (MDS) हाष् रूपेण दत्तांशाश्रये (Database) पालितानि नामानि, दूरवाणीसंख्याः, सङ्केताः, जन्मदिनाङ्का:, आदिष्टानां वस्तूनां पञ्चीकरणविवरणानि, समाकलनपत्रविवरणानि (credit Card), गूढपदानि (password), इत्यादीनि सुप्रधानानि व्यक्तिगत- उपभोक्तृविवरणानि च अस्मिन् अन्तर्भवन्ति।

Saturday, January 15, 2022

 जनसंसदः आयव्य मेलनं जनु ३१ - एप्रिल् ८।

नवदिल्ली> भारतस्य आगामि संवत्सरस्य आयव्ययात्मकस्य आर्थिकसंकल्पस्य अङ्गीकारार्थं संसदः मेलनम् अस्य मासस्य ३१तमदिनाङ्कादारभ्य एप्रिल् ८ पर्यन्तं पादद्वयेन विधास्यति। प्रथमपादमेलनं फेब्रुवरि ११पर्यन्तं भविष्यति। मार्च् १४तमे पुनः सम्मिल्य एप्रिल् ८ दिनाङ्के सभाद्वयस्यापि मेलनं समापयिष्यति। 

   फेब्रु १दिनाङ्के राष्ट्रस्य आयव्ययपत्रमवतारयिष्यति। तस्मिन्दिने एव आर्थिकान्वीक्षणावेदनपत्रमपि संसदि समर्पयिष्यति। 

  कोविडनुशासनानि परिपाल्य एव आवश्यकानि क्रमीकरणानि विधास्य एव सम्मेलनं भविष्यति। राज्यसभासम्मेलनं प्रभाते लोकसभामेलनं मध्यह्नानन्तरं च पृथक् पृथक् वेलायामेव भविष्यति।

 मकरज्योतिं दृष्ट्वा आनन्दतुन्दिलाः भूत्वा भक्ताः। शबरिगिरिः भक्तिसान्द्रम्।

शबरिमला> गिरिम् अतिक्रम्य आगतानां लक्षशः भक्तजनानां मनस्सु भक्तिं संवर्धयन् पोन्नम्पलाद्रौ मकरज्योतिः ज्वलितम्। कलियुगवरदस्य स्वामि अय्यप्पस्य श्रीसन्निधौ पुष्पवने च शरणमन्त्रेण सह प्रतीक्षया स्थितानां भक्तानाम् आत्मसायुज्यस्य अनर्घनिमेषः अभवत्। उच्चैः शरणमन्त्राणि उद्घुष्य ते मकरज्योतिषः पुण्यं स्वीकृतवन्तः।

Friday, January 14, 2022

 पश्चिमबंगदेशे रेल्यानापघाते पञ्च जनाः मारिताः। बहवः जनाः व्रणिताः। 


कोलकत्ता> पश्चिमबंगदेशे रेल्यानं  लोहमार्गात् स्खलितो भूत्वा पञ्च जनाः मृताः। अनेके जनाः व्रणिताश्च। बिक्कानीर् - गुवहाट्टि एक्स्प्रस् नाम रेल्यानमेव यानपदात् स्खलितः। पाट्ट्नातः गुवहाट्टीं प्रति गच्छत् आसीत् रेल्यानम्। रेल्यानस्य चतस्रः कक्षाः एव स्खलिताः। लोहमार्ग विभागस्य आरक्षकाः तथा दुरन्तनिवारणसेना च आगत्य रक्षाप्रवर्तनानि समारब्घानि।

Wednesday, January 12, 2022

 डो. एस् सोमनाथः भारतीय - बहिराकाश - अनुसन्धान - सङ्घटनस्य (Indian space research organisation) सभापतिः।

 एस् सोमनाथः भारतीय - बहिराकाश -अनुसन्धान संघटनस्य सभापतिरूपेण नियुक्तः। इदानीं सः तिरुवनन्तपुरं विक्रं साराभाई बहिराकाशकेन्द्रस्य निदेशकः भवति। केरले आलप्पुषा तुरवूर् देशीयः डो. सोमनाथः पूर्वं  द्रवेन्धनयन्त्रप्रवर्तनकेन्द्रस्य (liquid propellison system centre) अध्यक्षः आसीत्। सेवानिवृत्तस्य डो. के शिवस्य स्थाने एव डो. सोमनाथः नियुक्तः। एम् जि के मेनोन्, के कस्तूरी रङ्गन्, माधवन् नायर्, राधाकृष्णः इत्यादयः केरलीयाः पूर्वं एतां पदवीं अलङ्कृतेषु प्रमुखाः भवन्ति। अग्निबाणप्रौद्योगिकविद्यायां रूपरचनायां च अग्निबाणेन्धनस्फुटीकरणविषये तस्य योगदानं पुरस्कृत्य भवति तस्य सभापतिस्थाने नियुक्तिः।

 ओमिक्रोणस्य अनेके उपविभेदाः। प्रकरणानि अतिशीघ्रं वर्धिष्यन्ते इति डो. अरोरा।

नवदिल्ली> कोविड्विभेदस्य ओमिक्रोणस्य उपविभेदाः दृढीकृताः। आगामिनि दिनेषु कोविड् प्रकरणानि क्रमातीतरूपेण वर्धिष्यन्ते इति राष्ट्रिय-प्रौद्योगिक-समित्याः (एन्  टि ए पि ए) अध्यक्षेण डो. एन् के अरोरा इत्यनेन प्रोक्तम्। प्रभेदेषु भेदाः सन्ति तथापि रोगस्य स्वभावेषु लक्षणेषु च भेदः नास्ति इति सः उक्तवान्। बि ए१, बि ए२, बि ए ३ इति त्रयः भेदाः एव राष्ट्रे प्रतिवेदितः।

बि ए १ दृढीकृताः सर्वे विदेशसन्दर्शनानन्तरं प्रत्यागताः। डेल्टाविभेदापेक्षया अतिशीघ्रं व्यापयन् अस्ति एषः विभेदः। एस् - जीन् रहितः एषः 'आर् टि पि सि आर्'  निरीक्षणेन दृढीकर्तुं शक्यते।

Tuesday, January 11, 2022

 डो एम् पि उण्णिकृष्णः डो पि के शङ्करनारायणश्च विश्वसंस्कृतप्रतिष्ठानस्य पुरस्कारेण समादृतौ। 


पत्तनंतिट्टा /केरळम्> विश्वसंस्कृतप्रतिष्ठानेन (संस्कृतभारती) दीयमानः अस्य संवत्सरस्य पण्डितरत्नपुरस्कारः डो एम् पि उण्णिकृष्णाय, श्रेष्ठाध्यापकाय दीयमानः शर्माजी पुरस्कारः डो पि के शङ्करनारायणाय च अलभत। गतदिने पन्तलं 'लयण्स् क्लब्' सभागृहे आयोजिते कार्यक्रमे पुरस्कारदानं कृतम्। 
  डो एम् पि उण्णिकृष्णः पन्तलस्थे एन् एस् एस् कलालये अध्यापकः आसीत्। बहुकालं विश्वसंस्कृतप्रतिष्ठानस्य राज्याध्यक्षश्चासीत्। संस्कृतप्रचाराय तस्य योगदानं निस्तुलमेवेति पुरस्कारनिर्णयसमित्या निरीक्षितम्। 


 केरलस्य सामाजिकप्रतिबद्धतायुक्तेभ्यः निस्वार्थेभ्यः संस्कृतसेवानिरतेभ्यः शिक्षकश्रेष्ठेभ्यः दीयमानः पुरस्कारो भवति 'शर्माजीपुरस्कारः'। पुरस्कारार्हः डो पि के शङ्करनारायणः एरणाकुलं जनपदे श्रीमूलनगरं प्रदेशस्थे 'अकवूर् उच्चविद्यालये' अध्यापकः अस्ति। आकाशवाणीद्वारा सुभाषितप्रवचनेन प्रसिद्धः सः विश्वसंस्कृतप्रतिष्ठानस्य प्रकाशनविभागाध्यक्षरूपेणापि सेवां करोति। संस्कृतसम्बन्धिषु विविधमण्डलेषु कृतहस्ततां प्रकाशि

Monday, January 10, 2022

 जीवनचरितं रतनटाट्टमहोदयस्य,

लेखकः तोमस् मान्यु ऐ ए स्,

प्रकाशकैः जीवनचरिताय द्विकोटिरूप्यकाणि शुल्कत्वेन अदात्।

रतनटाट्टेन साकं शतवारं सक्षात्कारं, टाट्टमहोदयस्य अमेरिक्कास्वदेशिन्या प्रणयिन्या, अन्ये १४० जनैः साकं साक्षात्कारम् आयोज्य विश्वप्रसिद्धस्य टाट्ट महोदयस्य जीवनचरितं रचयितुं केरलीयेन डो. तोमस् मात्युना सार्ध  त्रिसंवत्सरः एव यापितः। अन्ते भारते ग्रन्थप्रकाशनरङ्गे इंदप्रथमतया अधिकमूल्यं रेखाङ्कनं कृत्वा 'हार्पर् कोलिन्सेन्' ग्रन्थः स्वायत्तीकृतः। द्विकोटिरूप्यकाणि एव टाट्टस्य जीवनचरिताय हार्पर् कोलिन्सेन मूल्यत्वेन दत्तानि। तोमस् मात्योः टाट्टेन साकं त्रिदशकं दीर्धीतं सुदृढं बन्धमस्ति। स्वस्य व्यक्तिजीवनस्य वाणिज्यस्य च दत्तांशसञ्चिकाः (file), वार्ताः, स्मरणाः, विज्ञानानि, बन्धानि सर्वाणि तोमस् मात्योः समक्षं टाट्टेन समर्पितमासीत्। रत्तन् एन् राट्टा इति नामकं जीवनचरितं अस्मिन् संवत्सरे नवम्बर् मासाभ्यन्तरे बहिरागमिष्यति।