OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 16, 2022

 भञ्जकैः प्रतिज्ञा दत्तं धनं न दत्तम्। आदित्य बिर्ला फाषन् संस्थायाः५४ लक्षं जनानां दत्तांशः अपहृतः।

भारते अतिबृहत्तमेषु नव्यभूषाव्यष्टिविक्रयणसंस्थासु  (fashion retail company) अन्यतमः आदित्या बिर्ला फाषन् आन्ड् रीटेयिल् लिमिट्टड् (A B F R L) इति संस्था अतिविपुलतया दत्तांशापहरणस्य पात्रमभवत् इति प्रतिवेदनम्। आदित्या बिर्ला गणस्य स्वाधीनाश्रयात् प्रयशः ५४ लक्षाधिकानि ई-सन्देश-सङ्केतविवरणानि एव अपहरणानन्तरम् अन्तर्जालमाध्यमेषु संयुक्तप्रसरः अभवत्। मेसेज् -डैजस्ट् ५ अत्गोरितं ५ (MDS) हाष् रूपेण दत्तांशाश्रये (Database) पालितानि नामानि, दूरवाणीसंख्याः, सङ्केताः, जन्मदिनाङ्का:, आदिष्टानां वस्तूनां पञ्चीकरणविवरणानि, समाकलनपत्रविवरणानि (credit Card), गूढपदानि (password), इत्यादीनि सुप्रधानानि व्यक्तिगत- उपभोक्तृविवरणानि च अस्मिन् अन्तर्भवन्ति।

Saturday, January 15, 2022

 जनसंसदः आयव्य मेलनं जनु ३१ - एप्रिल् ८।

नवदिल्ली> भारतस्य आगामि संवत्सरस्य आयव्ययात्मकस्य आर्थिकसंकल्पस्य अङ्गीकारार्थं संसदः मेलनम् अस्य मासस्य ३१तमदिनाङ्कादारभ्य एप्रिल् ८ पर्यन्तं पादद्वयेन विधास्यति। प्रथमपादमेलनं फेब्रुवरि ११पर्यन्तं भविष्यति। मार्च् १४तमे पुनः सम्मिल्य एप्रिल् ८ दिनाङ्के सभाद्वयस्यापि मेलनं समापयिष्यति। 

   फेब्रु १दिनाङ्के राष्ट्रस्य आयव्ययपत्रमवतारयिष्यति। तस्मिन्दिने एव आर्थिकान्वीक्षणावेदनपत्रमपि संसदि समर्पयिष्यति। 

  कोविडनुशासनानि परिपाल्य एव आवश्यकानि क्रमीकरणानि विधास्य एव सम्मेलनं भविष्यति। राज्यसभासम्मेलनं प्रभाते लोकसभामेलनं मध्यह्नानन्तरं च पृथक् पृथक् वेलायामेव भविष्यति।

 मकरज्योतिं दृष्ट्वा आनन्दतुन्दिलाः भूत्वा भक्ताः। शबरिगिरिः भक्तिसान्द्रम्।

शबरिमला> गिरिम् अतिक्रम्य आगतानां लक्षशः भक्तजनानां मनस्सु भक्तिं संवर्धयन् पोन्नम्पलाद्रौ मकरज्योतिः ज्वलितम्। कलियुगवरदस्य स्वामि अय्यप्पस्य श्रीसन्निधौ पुष्पवने च शरणमन्त्रेण सह प्रतीक्षया स्थितानां भक्तानाम् आत्मसायुज्यस्य अनर्घनिमेषः अभवत्। उच्चैः शरणमन्त्राणि उद्घुष्य ते मकरज्योतिषः पुण्यं स्वीकृतवन्तः।

Friday, January 14, 2022

 पश्चिमबंगदेशे रेल्यानापघाते पञ्च जनाः मारिताः। बहवः जनाः व्रणिताः। 


कोलकत्ता> पश्चिमबंगदेशे रेल्यानं  लोहमार्गात् स्खलितो भूत्वा पञ्च जनाः मृताः। अनेके जनाः व्रणिताश्च। बिक्कानीर् - गुवहाट्टि एक्स्प्रस् नाम रेल्यानमेव यानपदात् स्खलितः। पाट्ट्नातः गुवहाट्टीं प्रति गच्छत् आसीत् रेल्यानम्। रेल्यानस्य चतस्रः कक्षाः एव स्खलिताः। लोहमार्ग विभागस्य आरक्षकाः तथा दुरन्तनिवारणसेना च आगत्य रक्षाप्रवर्तनानि समारब्घानि।

Wednesday, January 12, 2022

 डो. एस् सोमनाथः भारतीय - बहिराकाश - अनुसन्धान - सङ्घटनस्य (Indian space research organisation) सभापतिः।

 एस् सोमनाथः भारतीय - बहिराकाश -अनुसन्धान संघटनस्य सभापतिरूपेण नियुक्तः। इदानीं सः तिरुवनन्तपुरं विक्रं साराभाई बहिराकाशकेन्द्रस्य निदेशकः भवति। केरले आलप्पुषा तुरवूर् देशीयः डो. सोमनाथः पूर्वं  द्रवेन्धनयन्त्रप्रवर्तनकेन्द्रस्य (liquid propellison system centre) अध्यक्षः आसीत्। सेवानिवृत्तस्य डो. के शिवस्य स्थाने एव डो. सोमनाथः नियुक्तः। एम् जि के मेनोन्, के कस्तूरी रङ्गन्, माधवन् नायर्, राधाकृष्णः इत्यादयः केरलीयाः पूर्वं एतां पदवीं अलङ्कृतेषु प्रमुखाः भवन्ति। अग्निबाणप्रौद्योगिकविद्यायां रूपरचनायां च अग्निबाणेन्धनस्फुटीकरणविषये तस्य योगदानं पुरस्कृत्य भवति तस्य सभापतिस्थाने नियुक्तिः।

 ओमिक्रोणस्य अनेके उपविभेदाः। प्रकरणानि अतिशीघ्रं वर्धिष्यन्ते इति डो. अरोरा।

नवदिल्ली> कोविड्विभेदस्य ओमिक्रोणस्य उपविभेदाः दृढीकृताः। आगामिनि दिनेषु कोविड् प्रकरणानि क्रमातीतरूपेण वर्धिष्यन्ते इति राष्ट्रिय-प्रौद्योगिक-समित्याः (एन्  टि ए पि ए) अध्यक्षेण डो. एन् के अरोरा इत्यनेन प्रोक्तम्। प्रभेदेषु भेदाः सन्ति तथापि रोगस्य स्वभावेषु लक्षणेषु च भेदः नास्ति इति सः उक्तवान्। बि ए१, बि ए२, बि ए ३ इति त्रयः भेदाः एव राष्ट्रे प्रतिवेदितः।

बि ए १ दृढीकृताः सर्वे विदेशसन्दर्शनानन्तरं प्रत्यागताः। डेल्टाविभेदापेक्षया अतिशीघ्रं व्यापयन् अस्ति एषः विभेदः। एस् - जीन् रहितः एषः 'आर् टि पि सि आर्'  निरीक्षणेन दृढीकर्तुं शक्यते।

Tuesday, January 11, 2022

 डो एम् पि उण्णिकृष्णः डो पि के शङ्करनारायणश्च विश्वसंस्कृतप्रतिष्ठानस्य पुरस्कारेण समादृतौ। 


पत्तनंतिट्टा /केरळम्> विश्वसंस्कृतप्रतिष्ठानेन (संस्कृतभारती) दीयमानः अस्य संवत्सरस्य पण्डितरत्नपुरस्कारः डो एम् पि उण्णिकृष्णाय, श्रेष्ठाध्यापकाय दीयमानः शर्माजी पुरस्कारः डो पि के शङ्करनारायणाय च अलभत। गतदिने पन्तलं 'लयण्स् क्लब्' सभागृहे आयोजिते कार्यक्रमे पुरस्कारदानं कृतम्। 
  डो एम् पि उण्णिकृष्णः पन्तलस्थे एन् एस् एस् कलालये अध्यापकः आसीत्। बहुकालं विश्वसंस्कृतप्रतिष्ठानस्य राज्याध्यक्षश्चासीत्। संस्कृतप्रचाराय तस्य योगदानं निस्तुलमेवेति पुरस्कारनिर्णयसमित्या निरीक्षितम्। 


 केरलस्य सामाजिकप्रतिबद्धतायुक्तेभ्यः निस्वार्थेभ्यः संस्कृतसेवानिरतेभ्यः शिक्षकश्रेष्ठेभ्यः दीयमानः पुरस्कारो भवति 'शर्माजीपुरस्कारः'। पुरस्कारार्हः डो पि के शङ्करनारायणः एरणाकुलं जनपदे श्रीमूलनगरं प्रदेशस्थे 'अकवूर् उच्चविद्यालये' अध्यापकः अस्ति। आकाशवाणीद्वारा सुभाषितप्रवचनेन प्रसिद्धः सः विश्वसंस्कृतप्रतिष्ठानस्य प्रकाशनविभागाध्यक्षरूपेणापि सेवां करोति। संस्कृतसम्बन्धिषु विविधमण्डलेषु कृतहस्ततां प्रकाशि

Monday, January 10, 2022

 जीवनचरितं रतनटाट्टमहोदयस्य,

लेखकः तोमस् मान्यु ऐ ए स्,

प्रकाशकैः जीवनचरिताय द्विकोटिरूप्यकाणि शुल्कत्वेन अदात्।

रतनटाट्टेन साकं शतवारं सक्षात्कारं, टाट्टमहोदयस्य अमेरिक्कास्वदेशिन्या प्रणयिन्या, अन्ये १४० जनैः साकं साक्षात्कारम् आयोज्य विश्वप्रसिद्धस्य टाट्ट महोदयस्य जीवनचरितं रचयितुं केरलीयेन डो. तोमस् मात्युना सार्ध  त्रिसंवत्सरः एव यापितः। अन्ते भारते ग्रन्थप्रकाशनरङ्गे इंदप्रथमतया अधिकमूल्यं रेखाङ्कनं कृत्वा 'हार्पर् कोलिन्सेन्' ग्रन्थः स्वायत्तीकृतः। द्विकोटिरूप्यकाणि एव टाट्टस्य जीवनचरिताय हार्पर् कोलिन्सेन मूल्यत्वेन दत्तानि। तोमस् मात्योः टाट्टेन साकं त्रिदशकं दीर्धीतं सुदृढं बन्धमस्ति। स्वस्य व्यक्तिजीवनस्य वाणिज्यस्य च दत्तांशसञ्चिकाः (file), वार्ताः, स्मरणाः, विज्ञानानि, बन्धानि सर्वाणि तोमस् मात्योः समक्षं टाट्टेन समर्पितमासीत्। रत्तन् एन् राट्टा इति नामकं जीवनचरितं अस्मिन् संवत्सरे नवम्बर् मासाभ्यन्तरे बहिरागमिष्यति।

Sunday, January 9, 2022

 पञ्चसु राज्येषु विधानसभानिर्वाचनमूद्घुष्टम्।

फेब्रुवरी १० आरभ्य मार्च् ७पर्यन्तम्। 

नवदिल्ली> उत्तरप्रदेशः, पञ्चाबः,उत्तराखण्डः,गोवा, मणिप्पुरम् इत्येतेषु राज्येषु विधानसभानिर्वाचनम् उद्घुष्टम्। फेब्रुवरी १० दिनाङ्कादारभ्य मार्च् ७ दिनाङ्कपर्यन्तम् विविधैः सोपानैः निर्वाचनं विधास्यतीति केन्द्रनिर्वाचनायोगस्य मुख्यायोगेन सुशीलचन्द्रेण वार्ताहरसम्मेलने निगदितम्। 

   उत्तरप्रदेशे सप्तसोपानैः निर्वाचनं विधास्यति - फेब्रु १०, १४, २०, २३, २७, मार्च् ३, ७ दिनाङ्केषु। मणिप्पुरे फेब्रु २७,मार्च्३ दिनाङ्कयोः सोपानद्वयेन भविष्यति। गोवा पञ्चाब उत्तराखण्ड राज्येषु फेब्रु १४तमे सोपानेनैकेन निर्वाचनं भविष्यति। 

  कोविड्व्यापनस्य आधारे जनु १५ पर्यन्तं सर्वत्र पथसञ्चलनानि, निर्वाचनमेलनानि, वीथीदृश्यमित्येतेषां निरोधः विहितः। पञ्चसु राज्येष्वपि निर्वाचनसम्बन्धा व्यवहारव्यवस्था विधत्ता।

मेघस्य समीपे मेघव्याघ्रः। नागालाण्डे पर्वतश्रेण्यां अत्यपूर्वं दृश्यम्।


नागालाण्डे अत्यपूर्वं जन्तुविशेषं मेघव्याघ्रं अपश्यत्। भारत-म्यान्मर् सीमायां वने ३७०० मीट्टर् उपरि एव मेघव्याघ्रम् अपश्यत्। राष्ट्रे अद्यावधि प्रतिवेदितेषु मेघव्याघ्रेषु एतादृशे अत्युन्नतप्रदेशे प्रथमतया एव व्याघ्रः दृष्टः। वृक्षारोहणदक्षम् एतं व्याघ्रं नित्यहरितवृष्टिवने एव साधारणतया द्रष्टुं शक्यते। अन्ताराष्ट्र-प्रकृतिसंरक्षण-संघटनस्य (union for conservation  Nature) वंशनाशभीषाम् अभिमुखीक्रियमाणे विभागे अन्तर्भवति एषः जन्तुविभागः इति ऐक्यराष्ट्रसंस्थायाः निर्णयः।

Saturday, January 8, 2022

भारते कोविड् मरणानि प्रतिवेदितात् सप्तगुणितम् अधिकमिति अध्ययनानि सूचयन्ति। 

नवदिल्ली> भारते कोविड्वैराणुबाधया मृतानां संख्या ३२ लक्षाधिका भवेत् इति अध्ययनानि सूचयन्ति। औद्योगिकतया प्रतिवेदितात् षट् वा सप्त वा गुणितानि मरणमुपगतानि भवेत् इति सर्वकारः तथा स्वतन्त्रवृत्तानि च उद्धृत्य अध्ययनानि सूचयन्ति। अस्य विशदं प्रतिवेदनं सयन्स् जेर्णल् मध्ये प्रकाशितम् अस्ति। कानडेषु टोरान्टो विश्वविद्यालयस्य प्राध्यापकस्य प्रभात् झा इत्यस्य नेतृत्वे अन्ताराष्ट्रगवेषकसंघैः एव अध्ययनं कृतम्।२०२० मार्च् मासादारभ्य २०२१ जूलाय् मासपर्यन्तं भारते सर्वेषु राज्येषु केन्द्रशासनप्रदेशेषु च कृताध्ययने १,३७,२८९ जनाः भागं स्वीकृताः। पूर्वसूचितकालाभ्यन्तरे ३२ लक्षं मरणानि अभवन्। तेषु २७ लक्षं मरणानि गते एप्रिल्-मेय् मासाभ्यन्तरे एव अभवन्।

 इट्टली देशात् अमृतसरं प्रति विमानमार्गेण आगतानां १७३  यात्रिकाणां कोविड् रोगाणुबाधा दृढीकृता। 

नवदिल्ली> इट्टलीराष्ट्रस्य रोमादेशात् अमृतसरं प्रति विमानमार्गेण आगतानां १७३ यात्रिकाणां कोविड्रोगबाधा दृढीकृता विमाने २८५ यात्रिकाः आसन्। पूर्वं इट्टलीदेशात् विमानमार्गेण आगतेषु १७९ यात्रिकेषु १२५ यात्रिकाः रोगबाधिताः आसन्।

Friday, January 7, 2022

पञ्चाबे सुरक्षाच्युतिः - भारतसर्वकारः कठिनप्रक्रमाय सज्जते।

नवदिल्ली> पञ्चाबे फिरोस्पुरे प्रधानमन्त्रिणः मोदिनः यात्रासन्दर्भे जाते सुरक्षाच्युतिमधिकृत्य अन्वेषणं समारब्धम्। अङ्गद्वयसहितस्य उन्नततलसमितेः नेतृत्वे अन्वेषणस्य प्रारम्भः अभवत् । कठिनप्रक्रमाः भविष्यन्ति इति केन्द्रसर्वकारेण प्रोक्तम्। प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रपतिं रामनाथकोविन्दं समेत्य घटनामिमां विशदीचकार। गुरुतमसुरक्षाच्युतौ राष्ट्रपतिना आशङका प्रकाशिता। घटनायां केन्द्रसर्वकारेण स्वयमेव प्रक्रमाः स्वीकर्तुं साध्यता अस्ति इति आप्तैः प्रतिवेदितम्। च्युतेः कारणभूतान् आरक्षकान् नवदिल्ल्याम् आहूय एस् पि जि नियमानुसारं प्रक्रमाः स्वीकरिष्यन्ति। अन्वेषणाय पञ्चाबसर्वकारेण समितिः नियोजिता इति राज्यसर्वकारवक्त्रा चण्डीगढे प्रतिवेदितम्।

 भारते कोविडस्य तृतीयतरङ्गः ; रोगिणां प्रतिदिनसंख्या लक्षमुपगच्छति। 

नवदिल्ली> भारते कोविड्महामार्याः तृतीयतरङ्गः आरब्धः इति सूचना प्रबला वर्तते। सर्वेष्वपि राष्ट्रेषु कोविड्बाधितानां प्रतिदिनसंख्यायां महद्वर्धनमनुभवति। गुरुवासरे समाप्ते २४ होराकाले ९०,९२८ जनाः रोगबाधिताः अभवन्। ३२५ मरणानि प्रस्तुतानि। ओमिक्रोणप्रभेदः २,६३० जनेषु दृढीकृतः। गतदिने ४९५ नूतनरोगिणः जाताः।

  दिल्ल्यां गुरुवासरे १५,०९७ जनेषु कोविड् रोगः स्थिरीकृतः। भावात्मकतामानं १५ प्रतिशतमिति वर्धितम्। ६ मरणानि अभवन्। शनि-रविवासरेषु दिल्ल्यां सम्पूर्णं 'कर्फ्यू'नामकनिरोधनं विहितम्। तमिल नाट्, पञ्चाब्,ओडीषा, यू पि, बिहार, उत्तराखण्डः, मिसोराम् इत्यादीनि राज्यानि कोविड्परिशोधनां वर्धयितुमादिष्टानि।

Thursday, January 6, 2022

 "आणवयुद्धः केनापि जेतुं न शक्यते" - पञ्चराष्ट्राणां संयुक्तप्रस्तावः। 

वाषिङ्टणः> आणवयुद्धम् अण्वायुधस्पर्धां च निरोद्धुमादेशं कृत्वा प्रप्रथमतः पञ्च राष्ट्राणि प्रस्तावमकुर्वन्। चीनः फ्रान्स्, रूस्, ब्रिट्टन्,अमेरिक्का इत्येतेषां राष्ट्राणां नेतारः एव सम्भूय प्रस्तावं प्रकाशितवन्तः। 

  "आणवायुधानि परस्परं वा अन्यराष्ट्रान् विरुध्य वा अप्रयोक्तुम् उत्तरदायित्वं राष्ट्रेषु वर्तते। "दीर्घकालप्रत्याघातकारणभूताः आणवयुद्धाः येन केनापि कदापि जेतुं न शक्यन्ते। युद्धः कदापि न भवितुमर्हति।" इति प्रस्तावे स्पष्टीकृतम्। यू एन् संस्थायां स्थिराङ्गत्वेन वर्तमानान्येव एतानि राष्ट्राणि।

 इट्टली - अमृतसर् विमाने आगतेषु १२५ यात्रिकेषु कोविड्रोणाणुबाधा दृढीकृता।


नवदिल्ली> इट्टलीराष्ट्रात् पञ्चाबराज्ये अमृतसरेषु विमानमार्गेण आगतेषु १२५ यात्रिकेषु कोविड्रोगाणुबाधा दृढीकृता। अमृतसरे वि के सेत्त् विमानपत्तनप्रवेशानन्तरं कृतायां परिशोधनायाम् एव विमानमार्गेण आगताः यात्रिकाः रोगबाधिताः इति दृढीकृताः। आहत्य १७९ यात्रिकाः एव विमाने आसीत्। सन्दर्भेऽस्मिन् राष्ट्रे सर्वत्र रोगबाधितानां संख्या वर्धते। ह्यः राष्ट्रे रोगबाधितानां संख्या ९००० इति रेखाङ्किता अस्ति।

Wednesday, January 5, 2022

 भारतस्य प्रधानमन्त्रिण: पञ्चाबदेशसन्दर्शनवेलायां बृहत् सुरक्षाच्युतिः। वाहनव्यूहः २० निमेषं यावत् उपरिपथे स्थगितः।

नवदिल्ली> प्रधानमन्त्रिणः नरेन्द्रमोदिनः पञ्चाबदेशसन्दर्शनवेलायां बृहत् सुरक्षाच्युतिः अभवत्। प्रधानमन्त्रिणः वाहनव्यूहः२० निमेषं यावत् उपरिपथे (fly over) स्थगितः। अतः अद्य फिरोस्पुरे समायोजितः मेलनकार्यक्रमः परित्यक्तः। यात्रां परित्यज्य प्रधानमन्त्री प्रतिनिवृत्तः च। हुसैनिवालस्थे राष्टियस्मृतिगृहे पुष्पचक्रमर्पयितुं गमनावसरे विरोधकैः (protesters) मार्गविघ्नः कृतः इति कारणेनैव उपरिपथे वाहनव्यूहः स्थगितः इत्येव प्रतिवेदनम्। 

उदग्रयाने हुसैनिवालेषु गन्तुमेव प्रथमं निश्चितम्। किन्तु प्रतिकूलवातावरणहेतुना यानमार्गेण यात्रा समायोजिता। हुसैनिवालात् ३० किलोमीटर् दूरे वाहनव्यूहे प्राप्ते विरोधकाः मार्गविध्नमकरोत्। यानमार्गयात्रायाः पूर्वम् आरक्षकैः साकम् आमन्त्रणं कृत्वा सुरक्षितयात्रां दृढीकृत्य तदनन्तरमेव यात्रा समारब्धा। तदभ्यन्तरे एव विरोधकाः मार्गविघ्नमकुरुत। एस् एन् जि संघः प्रधानमन्त्रिणं बत्तिन्ड विमानपत्तनं प्रति नीतवन्तः। पञ्चाबसर्वकारस्य सकाशात् कृत्यविलोपः जातः इति केन्द्र आभ्ययन्तरमन्त्रालयेन निगदितम् ।

Tuesday, January 4, 2022

 १२,००० । किलो भारयुक्तं लोकयानं केशैः आकृष्य भारतीयवनितया गिन्नस् अभिलेखः विरचितः। 

 गिन्नस् अभिलेखेषु स्थानं प्राप्तानां विभिन्नक्षमतायुक्तानां वार्ताः सर्वसाधारण एव। एकहोराभ्यन्तरे सहस्रशः हस्तेषु अलक्तकेन वर्णचित्राणि विरच्य गिन्नस् अभिलेखेषु स्थानं प्राप्ता  भारतीयवनिता आदित्या समीपकाले वार्तामाध्यमद्वारा सर्वेषां प्रशंसाभाजनमभवत्। इदानीं  लोकयानं स्वकेशैः आकृष्य गिन्नस् अभिलेखे स्थानं प्राप्तायाः वनितायाः चलनचित्रखण्डं सर्वेषां श्रद्धां आकर्षति। आशाराणी नाम भारतीयवनिता एव स्वकेशैः लोकयानं आकृष्यति। उभयतः ग्रथितस्य केशस्य अग्रे स्थूलं  सूत्रमुपयुज्य निबध्य लोकयानेन सह योजयित्वा आकृष्यमाणं चित्रमेव चलनचित्रखण्डे मुद्रितम् वर्तते। गिन्नस् अभिलेखः एव अयम् इति विज्ञाय नेत्राभ्यां आनन्दाश्रूणि धारयन्तं रूपमपि चलनचित्रखण्डे द्रष्टुं शक्यते।