OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 30, 2021

 विश्वस्मिन् ओमिक्रोणव्यापनं वर्धते - अमेरिक्कायां ४.४ लक्षं प्रतिदिनरोगिणः।  

यूरोप् मध्ये अपि वर्धते। नववत्सरोत्सवाः परित्यक्ताः। 

वाषिङ्टण्> कोरोणा विषाणोः ओमिक्रोण् प्रभेदः लोके सर्वत्र वर्धमानः दृश्यते। यू एस् राष्ट्रे ओमिक्रोण् बाधितानां प्रतिदिनसंख्या ४.४ लक्षमभवदिति तद्राष्ट्रस्य व्याधिनियन्त्रणसंस्थया [C D C] निगदितम्। 

  यूरोप् राष्ट्रेष्वपि रोगिणः वर्धन्ते। मङ्गलवासरे फ्रान्स् राष्ट्रे १.७९ लक्षं जनाः कोविड्बाधिताः जाताः। इट्टलीमध्ये ७८,००० जनेषु नूतनतया रोगबााधा दृढीकृता। २०२ जनाः मृत्युवशं गताश्च। गतदिने पोर्चुगले १७,१७२ जनाः, ब्रिट्टने १,१७,०९३जनाः, ग्रीसे २१,६५७ जनाः च ओमिक्रोणबाधिताः अभवन्। 

  रोगव्यापनमतितीव्रमित्यतः पारीस्, लण्टन्, बर्लिन् नगरेषु नववत्सरोत्सवाः त्यक्ताः।

Wednesday, December 29, 2021

 लुधियाना स्फोटनम्; निरोधितस्य सिख् सघटनस्य प्रधानप्रवर्तकः संगृहीतः।

नवदिल्ली> पञ्चाबे लुधियाना न्यायालयसमुच्चयस्फोटनं संबन्ध्य भारते निरोधितस्य 'सिख् फोर् जस्ट्टिस् ' नाम भीकरसंघटनस्य प्रधान-प्रवर्तकेषु अन्यतमः जस्वीन्तर् सिंह् मुल्ट्टानः जर्मन्याम् एल्फर्टात् संगृहीतः इत्येव प्रतिवेदनम्। तं भारतमानेतुं आवश्यकाः उपक्रमाः   विलम्बं विना आरप्स्यन्ते। भारते बृहत् आक्रमणम् आयोजयितुं तन्त्राणि आविष्कुर्वन्ति इति सूचनाम् आधारीकृत्य एव जर्मन्याः आरक्षकैः मुल्ट्टानः संगृहीतः इति प्रतिवेदनानि व्यनक्ति।

 पारस्परिकनिधीनां प्रवर्तनस्य ताल्कालिकस्थगनाय निक्षेपकाणाम् अनुमतिः आवश्यकी।

पारस्परिकनिधीनां ( Mutual fund)प्रवर्तनं तात्कालिकतया स्थगयितुं(freezing) निक्षेपकाणाम् अनुमतिः आवश्यकी। येन केनापि कारणेन पारस्परिकनिधिसंस्था निधीनां प्रवर्तनं स्थगयितुं इच्छति चेत् योगाङ्गानां (unity owner)अनुमतिं विना न साध्यम्। २०२० संवत्सरे एप्रिल् मासे फ्राङ्किन् टेम्पिल्टण् आर् डेट्ट् निधीनां प्रवर्तनस्य स्थगनप्रक्रमाः अनुवर्तमाने सन्दर्भे एव सेबिना(SEBI) विषयेऽस्मिन् सामान्यनिर्णयः स्वीकृतः। फ्राङ्क्लिन् निधीनां प्रवर्तने स्थागिते निक्षेपकाः न्यायालयसमक्षं विषयमिदं  समर्पितमासीत्। सर्वोच्चनीतिपीठेन अनुकूलादेशोऽपि दत्तः अस्ति।

 ओमिक्रोण् बाधितानां संख्या वर्धते।  राष्ट्रे  ५८६ रोगिणः। अतिनियन्त्रणम् आवश्यकमिति केन्द्रसर्वकारः।

नवदिल्ली> राष्ट्रे ओमिक्रोण् वैराणुबाधा अतिशीघ्रं व्याप्यते। गतदिने १५६ जनानामपि ओमिक्रोण् रोगाणुबाधा दृढीकृता। एवं १९ राज्येषु ओमिक्रोण् बाधितानां संख्या ५७८ अभवत्। १५१ जनाः रोगात् मुक्तिं प्रापुः। नवदिल्ली (१४२), महाराष्ट्रा (१४१), केरलम्(५७), गुजरात् (४९), राजस्थान् (४३), तेलङ्कान(४१) प्रभृतिषु राज्येषु एव रोगबाधितानां संख्या अधिका इति प्रतिवेदिता।

Tuesday, December 28, 2021

 भवने प्रतिभेदनम्। तमिल्नाडुदेशे भवनसमुच्चयं भग्नमभवत्। 

चेन्नै> तमिल्नाडुदेशे चत्वाराट्टयुक्तं भवनसमुच्चयं भग्नमभवत्।  चतुर्विंशति भवनानि भवनसमुच्चये आसन्। अपघातेन न कोऽपि व्रणितः। उत्तर तमिल्नाडुदेशे तिरुविट्टियूरे एव घटना संवृत्ता। भवनसमुच्चये विशरणप्रायः इति दृष्टे सति रा तस्मिन्नेव क्षणे रात्रौ तत्र उषितान् सर्वान् अन्यत्र नीतवन्तः। प्रातःकाले सार्धदशवादने

भवनसमुच्चयः विदार्य पतितः। आरक्षकाणाम् अग्निशमनसेनायाः च नेतृत्वे भवनावशिष्टानि परिमार्जयन्तः सन्ति।

 तिरुवैराणिक्कुलं देवालयस्य आर्द्रा-महोत्सवः दिसंबरमासस्य ३०-दिनाङ्के सम्पूर्णः भविष्यति।

कोच्ची> माङ्गल्यदेवता इति प्रसिद्धायाः तिरुवैराणिक्कुलं  देशास्य श्रीपार्वतीदेव्याः आलयस्य संवत्सरीयः कवाटोद्घाटन-महोत्सवः दिसंबर् मासस्य ३० दिनाङ्के सम्पूर्णः भविष्यति। आर्द्रामहोत्सवस्य अनुबन्धतया भवति अयम् उत्सवः। आलुवानगरस्य तथा कालट्याः च मध्यभागे विद्यमानः प्रदेशः भवति अयम्। संवत्सरे केवलं एकवारं आलय-कवाटम् उद्‌घाट्य द्वादशदिन पर्यन्तं पिधानं नास्ति इति आस्य आलयस्य विशेषता। कन्यकानां यूनां च शीघ्रमाङ्गल्य-प्राप्तये अत्रत्याः देव्याः  उपसनम् उत्तममिति प्रथा अस्ति। 
अन्तर्जालसूत्रम् - https://www.thiruvairanikkulamtemple.org/

Monday, December 27, 2021

 भारत-दक्षिण अफ्रीका-दलयोः मध्ये क्रिकेट-निकष-शृङ्खलायाः प्रथमा स्पर्धा रविवासरे प्रारब्धा। 

 भारतेन पणकं विजित्य कन्दुकताडनात्मकं चितम्। प्रथमे दिने क्रीडावसानं यावत् भारतीयदलेन क्रीडकत्रयस्य हानौ द्विसप्तयुत्तरद्विशतं २७२ धावनाङ्काः समार्जिताः। भारताय के.एल.राहुलः १२२ द्वाविंशत्युत्तरैकशतम् अथ च अजिङ्क्‍य-रहाणे चत्वारिंशत् धावनाङ्कान् स्वपक्षे योजयित्वा क्रीडारतौ वर्तेते।

 सूत्रिकानिर्माणयन्त्रागारे स्फोटनम्। षट् जनाः मृताः। बहवः जनाः व्रणिताश्च।

पाट्ना> बीहारे मुसाफर्पुरे सूत्रिकानिर्माणयन्त्रागारे (Noodles factory ) जाते  स्फोटने षट् जनाः मृताः। बहवः जनाः व्रणिताश्च। यन्त्रागारस्थे बाष्पदं (boiler) प्रभज्य एव अपघातः सञ्जातः। स्फोटनस्य ध्वनिः पञ्चकिलोमीट्टर् अतिक्रम्य श्रुतमिति प्रदेशवासिनः अवदन्। मुसाफर्पुरे बेल इन्डस्ट्रियल् अङ्कणे एव यन्त्रागारः वर्तते। स्फोटनस्य आघातेन समीपस्थः पेषणयन्त्रागारः (Mill) अपि भञ्जितः अभवत्। पेषणयन्त्राकारे सुप्तौ द्वौ सेवकौ अपि व्रणितौ। अन्वेषणं समारब्धमिति जनपदस्य न्यायाधिपतिना  (Magistrate) प्रणवकुमारेण प्रोक्तम्।

Sunday, December 26, 2021

भारते पञ्चदशाधिकवयस्केभ्यः वाक्सिनं दातुं तथा स्वास्थ्यप्रवर्तकेभ्यः षष्ठ्युपरिवयस्केभ्यः रोगिभ्यः च वाक्सिनस्य संवर्धितमात्रां प्रदातुं च निश्चितः।

नवदिल्ली> राष्ट्रे १५ वयः आरभ्य१८ वयपर्यन्तं बालकेभ्यः जनुवरि तृतीयदिनादारभ्य सूचीप्रतिरोधवेध: प्रदास्यति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घोषितम्। ओमिक्रोण् व्यापनसन्दर्भेऽस्मिन् राष्ट्रं अभिसंबोधयित्वा भाषमाणः आसीत् सः। स्वास्थ्यप्रवर्तकेभ्यः षष्ठ्यधिकवयस्केभ्यः रोगिभ्यः च वाक्सिनस्य प्रतिरोधसंवर्धकमात्राम् दातुमपि निर्णयः कृतः। जनुवरि मासस्य दशमदिनादारभ्य संवर्धकमात्रां प्रदास्यति। षष्ठ्युपरिवयस्केभ्यः भिषग्वराणां निर्देशानुसारमेव संवर्धकमात्रां प्रदास्यति। भारतबयोटेक् संस्थया निर्मितं कोवाक्सिनं बालकेभ्यः दातुं डि सि जि ए संस्थया अङ्गीकारः प्रदत्तः आसीत्।

ओमिक्रोण्- विश्वस्मिन् द्विदिनाभ्यन्तरे ४५०० विमानानि निरस्तानि। 

न्यूयोर्क्> ओमिक्रोण् व्यापनाशङ्कां अनुवर्तमाने सन्दर्भेऽस्मिन् द्विदिनाभ्यन्तरे विश्वस्मिन् ४५०० यात्राविमानानि निरस्तानि। क्रिस्तुमस् वारान्त्ये यात्रार्थं सज्जानां सहस्रशः जनानां यात्राविघ्नमभवत्। वैमानिकानाम् अन्येषां कर्मकराणां च कोविड्बाधा तथा सम्पर्केण एकान्तवासः इत्यादि कारणेनैव प्रायेण विमानानि निरस्तानि इति प्रतिवेदनमस्ति।

 बालभारती पब्लिक् स्कूल्  द्वारा संस्कृतभाषासंवर्धनपरा अन्तर्जालीया  सङ्गोष्ठी समनुष्ठिता।

नवदिल्ल्या:  गंगाराम-चिकित्सालय-मार्गस्थितेन बालभारती पब्लिक स्कूल इत्याख्यस्य प्रशासनेतर विद्यालयस्य संस्कृतविभाग द्वारा दिसम्बर पञ्चविंश्यां छात्रान्  संस्कृताध्ययनम्  प्रति प्रेरणार्थं   मार्गदर्शनपर: अन्तर्जालीय: व्याख्यानकार्यक्रम:  भव्यतया समायोजित:। एष: कार्यक्रम: प्रधानाचार्यस्य श्री एल. वी. सहगलवर्यस्य नेतृत्वे, उपप्रधानाचार्याया: श्रीमत्या: मीनामल्होत्रायाश्च प्रेरणया छात्रेभ्य:  अभिभावकेभ्यश्च समायोजित:।  कार्यक्रमस्य प्रारम्भ: संगीतविषयस्य अध्यापकेन श्री सुमनझामहोदयेन  प्रस्तुत मंगलाचरणेन विहितः। विद्यालयस्य माध्यमिकविभागस्य मुख्याध्यापिका पूनम सौंधी वर्या  अभ्यागतानाम् अतिथिजनानां  वाचिकं स्वागतं  सत्कारं च कृतवती।


अस्मिन् अन्तर्जालीय-व्याख्या

Saturday, December 25, 2021

 बंग्लादेशे यात्रानौकायाम् अग्निबाधा। ३९ जनाः मृताः। शताधिकाः जनाः व्रणिताश्च।


दक्षिणबङ्गादेशे सुगन्धानद्यामेव घटना संवृत्ता। ५०० यात्रिकैः साकं धाक्कादेशात् बर्गुणदेशं प्रति प्रस्थितायाम् अट्टत्रययुक्तायां एम् वि अभिजन्१० नाम नौकायामेव अग्निबाधा सज्जाता। प्राणरक्षार्थं नद्यां कूर्दिताः बहवः जनाः अप्रत्यक्षाः जाताः। केचन जले निमज्ज्य मृताः इत्यपि प्रतिवेदनमस्ति। मरणसंख्या वर्धेत इति देशवासिनम् उद्धृत्य बि बि सि वार्तामाध्यमेन प्रतिवेदितम्।

रात्रिकाले निरोधाज्ञा । उत्सवानां नियन्त्रणानि। राष्ट्रम् आशङकायाम्।

नवदिल्ली> राष्ट्रे क्रिस्तुमस्-नूतन संवत्सरोत्सववेलायाम् ओमिक्रोण् भीषा अपि अतिशक्ता भवति। नवदिल्ल्याम् अन्येषु राज्येषु उत्सवानां नियन्त्रणानि आनीतानि।

बहूनि राज्याणि रात्रिकाले निरोधनाज्ञां दापयितुं प्रक्रमाः आनयति इति प्रतिवेदनमस्ति। ओमिक्रोण् बाधा राष्ट्रे वर्धते इत्येतत् केन्द्रसर्वकारेण गतदिने वार्तामेलने अपि सूचितम्। महाराष्ट्रा, ओडिसा, गुजरात् प्रभृतिषु राज्येषु रात्रिकालनिरोधाज्ञा पुनस्थापिता।

ओमिक्रोणं प्रतिरोद्घुं वस्त्रांशेन विशेषनिर्मितं मुखकवचम् अपर्याप्तम्। 

 


  लण्डण्> कोविडस्य नूतनविभेदस्य प्रतिरोधाय वस्त्रांशेन दर्शनसुभगतया निर्मितं मुखकवचम् अपर्याप्तम् इति पूर्व सूचना अस्ति। ओक्स्फोड् विश्वविद्यालयस्य प्रोफ. त्रिष् ग्रीन् हर्ग् इत्यनेन एवं पूर्व सूचना प्रदत्ता। पुनरुपयोगाय निर्मितं चित्रवर्णाङ्कितं दर्शनसुभगं मुखकवचं कोविडस्य नूतनं विभेदं प्रतिरोद्‌धुं सक्षमम् न भवति इति उच्यते। निर्माणाय उपयुज्यमानानां वस्त्रस्तराणां गुणमानमनुसृत्य भवति प्रतिरोधक्षमता इति तेनोक्तम्। 95% कणिकाम् अपि प्रतिरोध्तुं क्षमतायुक्तं मुखावरणम् उपयोक्तव्यम् इति तेन स्मारितम्॥

राज्यपालात् कुलाधिपतित्वं मुख्यमन्त्रि प्ये दातुं पर्यालोच्यते पश्चिमवंगदेशः।

कोलकत्ता> विश्वविद्यालयानां कुलाधिपतिस्थानात् राज्यपालं निष्कासयितुं पश्चिमवंगदेशः पर्यालोचयति। राज्ये सर्वेषां विश्वविद्यालयानां कुलाधिपतिस्थाने मुख्यमन्त्रिण्याः ममताबानर्जिवर्यायाः नाम निर्देष्टुं पर्यालोच्यते इति शिक्षामन्त्रिणा ब्रतु बसुना प्रोक्तम्।

राज्यपालेन जगदीप् धन्खरेण सह जायमानः तर्कवितर्काः एव शासकत्व-परिवर्तनस्य विचिन्तने कारणमिति सः अवोचत्। सर्वकारस्य राज्यपालस्य च मिथः सहकारिता नास्ति प्रत्युत वैरमेव अस्ति इत्यपि बसुना प्रोक्तम्। प्रशासननियमेषु परिवर्तनानि आनेतुं तत्संबन्धिनः नियमान् अपि अध्ययन् अस्मि इत्यपि तेन सूचितम् ।

Friday, December 24, 2021

 पञ्चाबदेशे न्यायालये आपन्ने स्फोटने द्वौ जनौ मृतिमुपागतौ। चत्वारः जनाः व्रणिताश्च।

चण्डीगढ्> पञ्चाबे लुधियाना जिल्लान्यायालये आपन्ने स्फोटने द्वौ मृतिमुपगतौ। चत्वारः जनाः व्रणिताश्च। सप्ताट्टयुक्तस्य न्यायालयभवनस्य द्वितीये अट्टे स्नानगृहे एव स्फोटनं जातम्। आरक्षकाः अग्निरक्षासेना च घटनास्थले समागताः। न्यायालयपरिसरात् जनाः सुरक्षास्थानं नीतवन्तः। स्फोटनस्य कारणम् अव्यक्तमस्ति। न्यायवादिनः प्रतिषेधसमरे आसीत् इत्यतः न्यायालये जनानां संख्या न्यूना आसीत्।

 विधानसभासदस्यः पि टि तोमसः दिवंगतः।

कोच्ची> केरलस्य ऊर्जस्वलः  विधानसभासामाजिकः पि टी  तोमसः [७१] वेल्लूर् [तमिल् नाट्] सि एम् सि मेडिकल् कोलज् चिकित्सालयात् दिवंगतः। अर्बुदरोगबाधया चिकित्सायामासीत्। 

  एरणाकुलं जनपदस्थस्य  तृक्काक्करा विधानसभामण्डलस्य २०१६ तमादारभ्य सदस्यः पि टि तोमसः कोण्ग्रस्दलस्य राज्यस्तरीयः प्रवृत्यमानाध्यक्षश्चासीत्। [Working President] विधानसभासामाजिकः इति स्थिते सामान्यप्रकरणेषु  राज्यस्य उत्कर्षाय हिताय च सः अत्यन्तं दृढमतिः आसीत्।

Thursday, December 23, 2021

 ओमिक्रोण् व्यापनम् - अवधानतया विश्वम्। नियन्त्रणानि पुनस्थापयन् यूरोप्पीयराष्ट्राणि। वाक्सिनस्य चतुर्थमात्रां प्रदातुं इस्रयेलः।

लण्डन्> कोविडस्य नूतनविभेदस्य ओमिक्रोणस्य व्यापनम् अनुवर्तमाने सन्दर्भे अस्मिन् यूरोपीयराष्ट्राणि नियन्त्रणानि पुनस्थापयन्तः वर्तन्ते। जर्मनि, पोर्चुगल्, यु के प्रभृतयः राष्ट्राणि नियन्त्रणानि दृढीकर्तुमारब्धानि। ओमिक्रोण् विभेदस्य व्यापनम् अनुवर्तमाने सन्दर्भे जनेभ्यः वाक्सिनस्य चतुर्थमात्रां प्रदास्यति इति प्रख्यापनमपि इस्रयेलेन कृतम्। भारते कोविडस्य साहचर्यं निर्णेतुं प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य उन्नततलमेलनम् आहूतम्। राष्ट्रे इदानीं २१३ ओमिक्रोण् वैराणुबाधिताः सन्ति। डेल्ट्टाविभेदापेक्षया ओमिक्रोण् विभेदः अतिवेगेनैव व्याप्यते। पूर्वं कोविड्रोगबाधितेषु तथा वाक्सिनं स्वीकृतेषु च ओमिक्रोण् वैराणुः व्याप्यते इति विश्वस्वास्थ्यसंस्थायाः जाग्रतासूचनां पुरस्कृत्यैव विश्वराष्ट्राणि पूर्वसज्जीकरणानि विधास्यन्ति।