OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 25, 2021

ओमिक्रोणं प्रतिरोद्घुं वस्त्रांशेन विशेषनिर्मितं मुखकवचम् अपर्याप्तम्। 

 


  लण्डण्> कोविडस्य नूतनविभेदस्य प्रतिरोधाय वस्त्रांशेन दर्शनसुभगतया निर्मितं मुखकवचम् अपर्याप्तम् इति पूर्व सूचना अस्ति। ओक्स्फोड् विश्वविद्यालयस्य प्रोफ. त्रिष् ग्रीन् हर्ग् इत्यनेन एवं पूर्व सूचना प्रदत्ता। पुनरुपयोगाय निर्मितं चित्रवर्णाङ्कितं दर्शनसुभगं मुखकवचं कोविडस्य नूतनं विभेदं प्रतिरोद्‌धुं सक्षमम् न भवति इति उच्यते। निर्माणाय उपयुज्यमानानां वस्त्रस्तराणां गुणमानमनुसृत्य भवति प्रतिरोधक्षमता इति तेनोक्तम्। 95% कणिकाम् अपि प्रतिरोध्तुं क्षमतायुक्तं मुखावरणम् उपयोक्तव्यम् इति तेन स्मारितम्॥

राज्यपालात् कुलाधिपतित्वं मुख्यमन्त्रि प्ये दातुं पर्यालोच्यते पश्चिमवंगदेशः।

कोलकत्ता> विश्वविद्यालयानां कुलाधिपतिस्थानात् राज्यपालं निष्कासयितुं पश्चिमवंगदेशः पर्यालोचयति। राज्ये सर्वेषां विश्वविद्यालयानां कुलाधिपतिस्थाने मुख्यमन्त्रिण्याः ममताबानर्जिवर्यायाः नाम निर्देष्टुं पर्यालोच्यते इति शिक्षामन्त्रिणा ब्रतु बसुना प्रोक्तम्।

राज्यपालेन जगदीप् धन्खरेण सह जायमानः तर्कवितर्काः एव शासकत्व-परिवर्तनस्य विचिन्तने कारणमिति सः अवोचत्। सर्वकारस्य राज्यपालस्य च मिथः सहकारिता नास्ति प्रत्युत वैरमेव अस्ति इत्यपि बसुना प्रोक्तम्। प्रशासननियमेषु परिवर्तनानि आनेतुं तत्संबन्धिनः नियमान् अपि अध्ययन् अस्मि इत्यपि तेन सूचितम् ।

Friday, December 24, 2021

 पञ्चाबदेशे न्यायालये आपन्ने स्फोटने द्वौ जनौ मृतिमुपागतौ। चत्वारः जनाः व्रणिताश्च।

चण्डीगढ्> पञ्चाबे लुधियाना जिल्लान्यायालये आपन्ने स्फोटने द्वौ मृतिमुपगतौ। चत्वारः जनाः व्रणिताश्च। सप्ताट्टयुक्तस्य न्यायालयभवनस्य द्वितीये अट्टे स्नानगृहे एव स्फोटनं जातम्। आरक्षकाः अग्निरक्षासेना च घटनास्थले समागताः। न्यायालयपरिसरात् जनाः सुरक्षास्थानं नीतवन्तः। स्फोटनस्य कारणम् अव्यक्तमस्ति। न्यायवादिनः प्रतिषेधसमरे आसीत् इत्यतः न्यायालये जनानां संख्या न्यूना आसीत्।

 विधानसभासदस्यः पि टि तोमसः दिवंगतः।

कोच्ची> केरलस्य ऊर्जस्वलः  विधानसभासामाजिकः पि टी  तोमसः [७१] वेल्लूर् [तमिल् नाट्] सि एम् सि मेडिकल् कोलज् चिकित्सालयात् दिवंगतः। अर्बुदरोगबाधया चिकित्सायामासीत्। 

  एरणाकुलं जनपदस्थस्य  तृक्काक्करा विधानसभामण्डलस्य २०१६ तमादारभ्य सदस्यः पि टि तोमसः कोण्ग्रस्दलस्य राज्यस्तरीयः प्रवृत्यमानाध्यक्षश्चासीत्। [Working President] विधानसभासामाजिकः इति स्थिते सामान्यप्रकरणेषु  राज्यस्य उत्कर्षाय हिताय च सः अत्यन्तं दृढमतिः आसीत्।

Thursday, December 23, 2021

 ओमिक्रोण् व्यापनम् - अवधानतया विश्वम्। नियन्त्रणानि पुनस्थापयन् यूरोप्पीयराष्ट्राणि। वाक्सिनस्य चतुर्थमात्रां प्रदातुं इस्रयेलः।

लण्डन्> कोविडस्य नूतनविभेदस्य ओमिक्रोणस्य व्यापनम् अनुवर्तमाने सन्दर्भे अस्मिन् यूरोपीयराष्ट्राणि नियन्त्रणानि पुनस्थापयन्तः वर्तन्ते। जर्मनि, पोर्चुगल्, यु के प्रभृतयः राष्ट्राणि नियन्त्रणानि दृढीकर्तुमारब्धानि। ओमिक्रोण् विभेदस्य व्यापनम् अनुवर्तमाने सन्दर्भे जनेभ्यः वाक्सिनस्य चतुर्थमात्रां प्रदास्यति इति प्रख्यापनमपि इस्रयेलेन कृतम्। भारते कोविडस्य साहचर्यं निर्णेतुं प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य उन्नततलमेलनम् आहूतम्। राष्ट्रे इदानीं २१३ ओमिक्रोण् वैराणुबाधिताः सन्ति। डेल्ट्टाविभेदापेक्षया ओमिक्रोण् विभेदः अतिवेगेनैव व्याप्यते। पूर्वं कोविड्रोगबाधितेषु तथा वाक्सिनं स्वीकृतेषु च ओमिक्रोण् वैराणुः व्याप्यते इति विश्वस्वास्थ्यसंस्थायाः जाग्रतासूचनां पुरस्कृत्यैव विश्वराष्ट्राणि पूर्वसज्जीकरणानि विधास्यन्ति।

 'मेडिसेप्' अङ्गीकृतम्'; जनवरी प्रथमदिनाङ्कतः प्राबल्ये। 

अनन्तपुरी> केरले सर्वकारसेवकानां  सेवानिवृत्तानां च रोगचिकित्सार्थम् आयोज्यमाना मेडिसेप् नामिका इन्षुरन्स् परियोजना केरलमन्त्रिमण्डलेन अङ्गीकृता। २०२२ जनवरी प्रथमदिनाङ्कादारभ्य योजना आरप्स्यते। 

  योजनायां अङ्गभूतानां सर्वेषां वर्तमानरोगान् अभिव्याप्य योजनायां निश्चतानां रोगाणां चिकित्सा धनं विना कर्तुं शक्यते। चिकित्सायाः आधारपरिरक्षा लक्षत्रयं रूप्यकाणां भविष्यति। अङ्गेभ्यः प्रतिमासं ५०० रूप्यकाणि प्रिमीयरूपेण दातव्यानि ।

Wednesday, December 22, 2021

 डेल्ट्टाविभेदापेक्षया ओमिक्रोणस्य त्रिगुणिता व्यापनक्षमता। प्रतिराज्यं सज्जीकरणानि कर्तुं प्रधानमन्त्रिणा राज्येभ्यः निर्देशो दत्तः। 

नवदिल्ली> कोविड्वैराणोः डेल्ट्टाविभेदापेक्षया ओमिक्रोणस्य रोगव्यापनक्षमता त्रिगुणिताधिका इति केन्द्रसर्वकारः। रोगप्रतिरोधप्रक्रमान् शाक्तीकर्तुं रुग्णकक्षाः (war rooms) सज्जीकर्तुं प्रतिराज्येभ्यः केन्द्रसर्वकारेण निर्देशो दत्तः। अत्यापत्कररूपेण विषयाः परिवर्तन्ते चेत्, अत्येतुं दीर्घवीक्षणेन अवधानेन च सज्जीकर्तुं केन्द्रस्वास्थ्यकार्यदर्शिना राजेष् भूषणेन प्रेषिते सन्देशे व्यनक्ति। प्रादेशिकस्तरे जिल्लास्तरे च सज्जीकरणानि क्रमीकर्तुमेव निर्देशः।

 भारतविरुद्धप्रचारणानि तथा व्याजवार्तां च प्रसारयन्त्यः विंशति यु - नालिका प्रणाल्यः भारतसर्वकारेण निरोधिताः।

नवदिल्ली> भारतविरुद्धतां व्याज वार्तां च निर्मीय प्रसारयन्त्याः विंशति यु- नालिकाप्रणाल्यः, द्वौ वार्ताजालप्रतलौ (web site) च केन्द्रसर्वकारेण निरोधितः। पाकिस्थानं केन्द्रीकृत्य प्रवर्तमानाः यु - नालिका प्रणाल्यः एव केन्द्र-वार्ताविनिमय-मन्त्रालयेन निरोधिताः। कश्मीरः, भारतीय सेना, राष्ट्रे न्यूनदलसमूहः, राममन्दिरं, उदग्रयानापघाते मृतिमुपगतः भारतस्य संयुक्तसेनाध्यक्षः बिपिन् रावत्तः इत्यादीन् विषयान् अधिकृत्य व्याजवार्तां एतस्यां यु नालिकायां अन्येषु वार्ताजालप्रतलेषु अपि  प्रचारयन् आसीत् । बह्वीनां यू-प्रणालिकानां श्रृङ्खलाभिः युक्तां 'नया पाकिस्तान्' नाम संघस्य प्रणाल्यः च पट्टिकायाम् अन्तर्भवन्ति।

Tuesday, December 21, 2021

 प्रदीपकुमाररावतः चीने भारतस्य राजदूतः।

नवदिल्ली> चीनराष्ट्रे नूतनः राजदूतरूपेण वरिष्ठः  नयतन्त्रज्ञः प्रदीपकुमाररावतः नियुक्तः। १९९० तमसंवत्सरीयगणस्य ऐ एफ् एस् अधिकारी रावतः इदानीं नेतर्लान्टे भारतस्य स्थानपतिः अस्ति। पूर्वं होङ्कोङ् बेय्जिङ् इत्यादिस्थानेष्वपि सः सेवां कृतवान्।

 राष्ट्रपतिः अद्य केरलराज्यम् आगच्छति । 

अनन्तपुरी> भारतस्य राष्ट्रपतिः रामनाथकोविन्दः अद्य दिनत्रयस्य कार्यक्रमाय केरलराज्यं प्राप्नोति। मध्याह्ने १२. ३० वादने सः वायुसेनायाः सविशेषविमाने कण्णूर् प्राप्य ३. ३० वादने पेरियास्थाने केन्द्रविश्वविद्यालयस्य बिरुददानकार्यक्रमे भागं करिष्यति। तदनन्तरं कोच्ची नाविकास्थानं प्राप्स्यति। 

    बुधवासरे प्रभाते ९. ५० वादने दक्षिणमण्डलनाविककमान्डन्ट् इत्यस्य कार्यक्रमे भागं करिष्यति। ततः विक्रान्त् महानौकां संद्रक्ष्यति। 

  गुरुवासरे १०. २०वादने अनन्तपुरीं प्रस्थास्यमाणः राष्ट्रपतिः तत्र पि एन् पणिक्कर् महोदयस्य कांस्यप्रतिमाया‌ अनाच्छादनं करिष्यति। शुक्रवासरे सः दिल्लीं प्रतिनिवर्तयिष्यति।

 समुद्रेषु अम्लांशः वर्धते। महाशुक्तिः वंशनाशभीषायाम्।

इन्तो - पसफिक् वातावरण परिवर्तनानि ओस्ट्रेलियस्य प्रधानजैववैविध्येषु अन्यतमस्य महाशुक्तिकायाः सन्धारणम् असाध्यं कुर्वन्ति इति अध्ययनानि सूचयन्ति। भूमौ बृहत्तमा महाशुक्तिः इति विख्यातस्य एतस्याः महाशुक्तिकायाः २५० किलो भारः तथा एकमीट्टर् मितं आयतं च विद्यते। अस्याः कवचस्य मांसस्य च आवश्यकतया एषा अपि वंशनाशभीषा अभिमुखीकरोति।

 ओमिक्रोण् बाधा वर्धते। अभिमुखीकर्तुं  सुसज्जाः भवितव्या: इति एयिंस् अध्यक्षस्य जाग्रतासूचना।

नवदिल्ली> राष्ट्रे कोविड्वैराणोः ओमिक्रोण् नामके नूतनविभेदे वर्धमाने सन्दर्भेऽस्मिन् प्रतिरोधाय  एयिंस् अध्यक्षेण रणदीप् गुलेरियावर्येण जाग्रतासूचना प्रदत्ता।कोविडस्य तृतीयतरङ्गसाध्यतां निराकर्तुम् अशक्ये सन्दर्भे यत्किमपि तत् अभिमुखीकर्तुं सुसज्जाः भवितव्याः इति तेन प्रोक्तम्। भारते अधुना ओमिक्रोण् वैराणुबाधितानां संख्या १७० इति  वर्द्धिता । तथाऽपि इयं घटना यूरोप्प् राष्ट्रवत् अतिकठिनं न भविष्यति इति प्रतीक्ष्यामहे इत्यपि सः उक्तवान् ।

 गुजरातराज्ये उन्मादकवस्तूनः बृहत् सञ्चयः निगृहीतः। नौकायानात् ४०० कोटिरूप्यकाणां हेरोयिन् उन्मादकं संगृहीतम्।

अहम्मदाबाद्> गुजरात्तस्य तीरे उन्मादकवस्तुनः सञ्चयः निगृहीतः। नौकायानात् ४०० कोटि रुप्यकाणां हेरोयिन् नामकं उन्मादकवस्तु एव निगृहीतम्। भारतस्य तीरसंरक्षणसेनायाः गुजरात्तस्य भीकरवादविरुद्धसैन्यदलस्य च संयुक्तपरिशोधनायामेव ७७ किलोमितं हेरोयिन् निगृहीतम्। घटनायां षट् जनाः निगृहीताः। पाकिस्थानीये अल् हुसैन् नामके नौकायाने एव उन्मादकवस्तु आनीतम् इति प्रतिवेदनमपि अस्ति।

Monday, December 20, 2021

 पिच्छकन्दुकक्रीडायाः विश्ववीरस्पर्धायां भारताय रजतमुद्रा।

ह्युल्वा (स्पेयिन्)> स्पेयिन् राष्ट्रस्य ह्युल्वानगरे सम्पन्नायाः विश्वपिच्छकन्दुकस्पर्धायाः अन्तिमपादे भारतस्य किडम्बि श्रीकान्तः द्वितीयस्थानं प्राप्य रजतकीर्तिमुद्रामाप्तवान्। सिंहपुरस्य (सिङ्कप्पूर्) लो कीन् युः नामकः प्रथमस्थानं प्राप्तवान्। 

  विश्वचषकस्पर्धायां इदंप्रथमतया एव कश्चन भारतीयक्रीडकः अन्तिमपादं प्रविशति। भारतस्य लक्ष्य सेनः अस्यां स्पर्धायां कांस्यपदकं प्राप्तवान्।

 ८९ राष्ट्रेषु ओमिक्रोण् वैराणुविभेदः अतिशीघ्रं  व्याप्यते।विश्वस्वास्थ्यसंस्थायाः जाग्रतासूचना।

वियन्न> ओमिक्रोण् दृढीकृतेषु प्रदेशेषु सार्धैकदिनादारभ्य त्रिदिनाभ्यन्तरे रोगिणां संख्या द्विगुणिता इति विश्वस्वास्थ्यसंस्था सूचयति। अद्यावधि ८९ राष्ट्रेषु ओमिक्रोण् दृढीकृतम्। जनानां रोगप्रतिरोधक्षमतायुक्तेषु राष्ट्रेषु अपि अतिशीघ्रमेव रोगः व्याप्यते। ओमिक्रोणस्य तीव्रता तथा अपघातक्षमता च वाक्सिनस्य प्रतिरोधक्षमताम् अतिक्राम्यते वा इति निगमनाय अधिकाध्ययनफलानि आवश्यकानि। वर्तमानप्रतिरोधक्षमताम् अतिक्रमते इत्यतः अतिशीघ्रम् ओमिक्रोण् वैराणु: व्याप्यते इत्यस्मिन् विषये दृढीकरणं नास्ति इत्यपि विश्वस्वास्थ्यसंस्थया आवेदितम्।

Sunday, December 19, 2021

 रायि चक्रवातः-फिलिप्पीन्स् राष्ट्रे मृतानां संख्या शतमतीता। 


मनिला> फिलिप्पैन्स् राष्ट्रे आपन्ने चक्रवाते मृतानां संख्या शतमतीता। त्रिलक्षं जनाः सुरक्षितस्थानं नीतवन्तः। विद्युत् आशयविनिमय सुविधाः च भग्नाः। बोहोयि प्रदेशे ४९ जनाः मृताः १३ व्रणिताः १० अप्रत्यक्षाः च अभवन्। शुक्रवासरे रात्रौ आसीत् इयं दुर्घटना। १७५ कि . मी वेगेन एव इदानीं वातः वाति। चक्रवातस्य वेगः २७० कि.मी भविष्यति इति वातावरणविभागेन जाग्रतानिर्देशः ख्यापितः। लोके अधिकप्रकृतिक्षोभप्रदेशेषु अन्यतमः अयं फिलिप्पीन् देशः। प्रायः विंशतिवारं अत्र चक्रवातस्य बाधा जायते। 

 अन्टार्ट्टिक्का प्रदेशे हिमस्तराः आगामिनि दशसंवत्सराभ्यन्तरे पूर्णतया द्रवीभविष्यति।


अन्टार्ट्टिक्कायाम् अतिबृहत्तमेषु हिमानिषु आगामिनि दशसंवत्सराभ्यन्तरे परिवर्तनानि भविष्यन्ति इति अध्ययनफलम्। अन्टार्ट्टिक्कासु त्वय्ट्टस् हिमान्यः परिवर्तनाय निर्बन्धिता भविष्यति। प्रदेशे द्रवीकरणमानः प्रतिदिनं वर्धते। प्रतिवर्षं ५००० कोटि हिमः एव द्रवीभूय समुद्रं प्रति  प्रवहन् अस्ति। एतत् परिवर्तनानि आविश्वं समुद्रोपरितलस्य औन्नत्यवर्धनाय हेतुर्भवति। समुद्रजलस्य अतितापः हिमस्तरान् दुर्बलं करोति। अयं हिमस्य शीघ्रद्रवणाय कारणं च भविष्यति।

Saturday, December 18, 2021

 उत्तर अयर्लण्डीयाः नद्यः मलिनीकृताः। राष्ट्रं पानजलदोर्लभ्यभीषायाम्।  

डब्लिन्> अयर्लण्डीयाः नद्य: मलिनजलेन पूरितं वर्तते। ८० लक्षं टण् मलिनजलमेव उत्तरअयर्लण्डस्थेषु समुद्रेषु नदीषु च प्रतिसंवत्सरं प्रवहन्ति। राष्ट्रे जलाशयानां स्वच्छावस्था प्रतिदिनं न्यूनीभवति। उत्तर अयर्लण्डस्थेषु  बेलफास्ट् मेट्रोपोलिट्टन् प्रदेशेषु ३० लक्षं टण् मितं मनुष्यमालिन्यानि बहिः क्षिपन्तः सन्ति।  उत्तर-अयर्लण्डे प्रधानपानजलस्रोतांसि  लोफ् नीगिलः द्विलक्षं टण् मलिनजलमेव प्रवहन्ति। एषा घटना आराष्ट्रं  पानयोग्यजल-दौर्लभ्यस्य हेतुः भवति।