OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 23, 2021

 'मेडिसेप्' अङ्गीकृतम्'; जनवरी प्रथमदिनाङ्कतः प्राबल्ये। 

अनन्तपुरी> केरले सर्वकारसेवकानां  सेवानिवृत्तानां च रोगचिकित्सार्थम् आयोज्यमाना मेडिसेप् नामिका इन्षुरन्स् परियोजना केरलमन्त्रिमण्डलेन अङ्गीकृता। २०२२ जनवरी प्रथमदिनाङ्कादारभ्य योजना आरप्स्यते। 

  योजनायां अङ्गभूतानां सर्वेषां वर्तमानरोगान् अभिव्याप्य योजनायां निश्चतानां रोगाणां चिकित्सा धनं विना कर्तुं शक्यते। चिकित्सायाः आधारपरिरक्षा लक्षत्रयं रूप्यकाणां भविष्यति। अङ्गेभ्यः प्रतिमासं ५०० रूप्यकाणि प्रिमीयरूपेण दातव्यानि ।

Wednesday, December 22, 2021

 डेल्ट्टाविभेदापेक्षया ओमिक्रोणस्य त्रिगुणिता व्यापनक्षमता। प्रतिराज्यं सज्जीकरणानि कर्तुं प्रधानमन्त्रिणा राज्येभ्यः निर्देशो दत्तः। 

नवदिल्ली> कोविड्वैराणोः डेल्ट्टाविभेदापेक्षया ओमिक्रोणस्य रोगव्यापनक्षमता त्रिगुणिताधिका इति केन्द्रसर्वकारः। रोगप्रतिरोधप्रक्रमान् शाक्तीकर्तुं रुग्णकक्षाः (war rooms) सज्जीकर्तुं प्रतिराज्येभ्यः केन्द्रसर्वकारेण निर्देशो दत्तः। अत्यापत्कररूपेण विषयाः परिवर्तन्ते चेत्, अत्येतुं दीर्घवीक्षणेन अवधानेन च सज्जीकर्तुं केन्द्रस्वास्थ्यकार्यदर्शिना राजेष् भूषणेन प्रेषिते सन्देशे व्यनक्ति। प्रादेशिकस्तरे जिल्लास्तरे च सज्जीकरणानि क्रमीकर्तुमेव निर्देशः।

 भारतविरुद्धप्रचारणानि तथा व्याजवार्तां च प्रसारयन्त्यः विंशति यु - नालिका प्रणाल्यः भारतसर्वकारेण निरोधिताः।

नवदिल्ली> भारतविरुद्धतां व्याज वार्तां च निर्मीय प्रसारयन्त्याः विंशति यु- नालिकाप्रणाल्यः, द्वौ वार्ताजालप्रतलौ (web site) च केन्द्रसर्वकारेण निरोधितः। पाकिस्थानं केन्द्रीकृत्य प्रवर्तमानाः यु - नालिका प्रणाल्यः एव केन्द्र-वार्ताविनिमय-मन्त्रालयेन निरोधिताः। कश्मीरः, भारतीय सेना, राष्ट्रे न्यूनदलसमूहः, राममन्दिरं, उदग्रयानापघाते मृतिमुपगतः भारतस्य संयुक्तसेनाध्यक्षः बिपिन् रावत्तः इत्यादीन् विषयान् अधिकृत्य व्याजवार्तां एतस्यां यु नालिकायां अन्येषु वार्ताजालप्रतलेषु अपि  प्रचारयन् आसीत् । बह्वीनां यू-प्रणालिकानां श्रृङ्खलाभिः युक्तां 'नया पाकिस्तान्' नाम संघस्य प्रणाल्यः च पट्टिकायाम् अन्तर्भवन्ति।

Tuesday, December 21, 2021

 प्रदीपकुमाररावतः चीने भारतस्य राजदूतः।

नवदिल्ली> चीनराष्ट्रे नूतनः राजदूतरूपेण वरिष्ठः  नयतन्त्रज्ञः प्रदीपकुमाररावतः नियुक्तः। १९९० तमसंवत्सरीयगणस्य ऐ एफ् एस् अधिकारी रावतः इदानीं नेतर्लान्टे भारतस्य स्थानपतिः अस्ति। पूर्वं होङ्कोङ् बेय्जिङ् इत्यादिस्थानेष्वपि सः सेवां कृतवान्।

 राष्ट्रपतिः अद्य केरलराज्यम् आगच्छति । 

अनन्तपुरी> भारतस्य राष्ट्रपतिः रामनाथकोविन्दः अद्य दिनत्रयस्य कार्यक्रमाय केरलराज्यं प्राप्नोति। मध्याह्ने १२. ३० वादने सः वायुसेनायाः सविशेषविमाने कण्णूर् प्राप्य ३. ३० वादने पेरियास्थाने केन्द्रविश्वविद्यालयस्य बिरुददानकार्यक्रमे भागं करिष्यति। तदनन्तरं कोच्ची नाविकास्थानं प्राप्स्यति। 

    बुधवासरे प्रभाते ९. ५० वादने दक्षिणमण्डलनाविककमान्डन्ट् इत्यस्य कार्यक्रमे भागं करिष्यति। ततः विक्रान्त् महानौकां संद्रक्ष्यति। 

  गुरुवासरे १०. २०वादने अनन्तपुरीं प्रस्थास्यमाणः राष्ट्रपतिः तत्र पि एन् पणिक्कर् महोदयस्य कांस्यप्रतिमाया‌ अनाच्छादनं करिष्यति। शुक्रवासरे सः दिल्लीं प्रतिनिवर्तयिष्यति।

 समुद्रेषु अम्लांशः वर्धते। महाशुक्तिः वंशनाशभीषायाम्।

इन्तो - पसफिक् वातावरण परिवर्तनानि ओस्ट्रेलियस्य प्रधानजैववैविध्येषु अन्यतमस्य महाशुक्तिकायाः सन्धारणम् असाध्यं कुर्वन्ति इति अध्ययनानि सूचयन्ति। भूमौ बृहत्तमा महाशुक्तिः इति विख्यातस्य एतस्याः महाशुक्तिकायाः २५० किलो भारः तथा एकमीट्टर् मितं आयतं च विद्यते। अस्याः कवचस्य मांसस्य च आवश्यकतया एषा अपि वंशनाशभीषा अभिमुखीकरोति।

 ओमिक्रोण् बाधा वर्धते। अभिमुखीकर्तुं  सुसज्जाः भवितव्या: इति एयिंस् अध्यक्षस्य जाग्रतासूचना।

नवदिल्ली> राष्ट्रे कोविड्वैराणोः ओमिक्रोण् नामके नूतनविभेदे वर्धमाने सन्दर्भेऽस्मिन् प्रतिरोधाय  एयिंस् अध्यक्षेण रणदीप् गुलेरियावर्येण जाग्रतासूचना प्रदत्ता।कोविडस्य तृतीयतरङ्गसाध्यतां निराकर्तुम् अशक्ये सन्दर्भे यत्किमपि तत् अभिमुखीकर्तुं सुसज्जाः भवितव्याः इति तेन प्रोक्तम्। भारते अधुना ओमिक्रोण् वैराणुबाधितानां संख्या १७० इति  वर्द्धिता । तथाऽपि इयं घटना यूरोप्प् राष्ट्रवत् अतिकठिनं न भविष्यति इति प्रतीक्ष्यामहे इत्यपि सः उक्तवान् ।

 गुजरातराज्ये उन्मादकवस्तूनः बृहत् सञ्चयः निगृहीतः। नौकायानात् ४०० कोटिरूप्यकाणां हेरोयिन् उन्मादकं संगृहीतम्।

अहम्मदाबाद्> गुजरात्तस्य तीरे उन्मादकवस्तुनः सञ्चयः निगृहीतः। नौकायानात् ४०० कोटि रुप्यकाणां हेरोयिन् नामकं उन्मादकवस्तु एव निगृहीतम्। भारतस्य तीरसंरक्षणसेनायाः गुजरात्तस्य भीकरवादविरुद्धसैन्यदलस्य च संयुक्तपरिशोधनायामेव ७७ किलोमितं हेरोयिन् निगृहीतम्। घटनायां षट् जनाः निगृहीताः। पाकिस्थानीये अल् हुसैन् नामके नौकायाने एव उन्मादकवस्तु आनीतम् इति प्रतिवेदनमपि अस्ति।

Monday, December 20, 2021

 पिच्छकन्दुकक्रीडायाः विश्ववीरस्पर्धायां भारताय रजतमुद्रा।

ह्युल्वा (स्पेयिन्)> स्पेयिन् राष्ट्रस्य ह्युल्वानगरे सम्पन्नायाः विश्वपिच्छकन्दुकस्पर्धायाः अन्तिमपादे भारतस्य किडम्बि श्रीकान्तः द्वितीयस्थानं प्राप्य रजतकीर्तिमुद्रामाप्तवान्। सिंहपुरस्य (सिङ्कप्पूर्) लो कीन् युः नामकः प्रथमस्थानं प्राप्तवान्। 

  विश्वचषकस्पर्धायां इदंप्रथमतया एव कश्चन भारतीयक्रीडकः अन्तिमपादं प्रविशति। भारतस्य लक्ष्य सेनः अस्यां स्पर्धायां कांस्यपदकं प्राप्तवान्।

 ८९ राष्ट्रेषु ओमिक्रोण् वैराणुविभेदः अतिशीघ्रं  व्याप्यते।विश्वस्वास्थ्यसंस्थायाः जाग्रतासूचना।

वियन्न> ओमिक्रोण् दृढीकृतेषु प्रदेशेषु सार्धैकदिनादारभ्य त्रिदिनाभ्यन्तरे रोगिणां संख्या द्विगुणिता इति विश्वस्वास्थ्यसंस्था सूचयति। अद्यावधि ८९ राष्ट्रेषु ओमिक्रोण् दृढीकृतम्। जनानां रोगप्रतिरोधक्षमतायुक्तेषु राष्ट्रेषु अपि अतिशीघ्रमेव रोगः व्याप्यते। ओमिक्रोणस्य तीव्रता तथा अपघातक्षमता च वाक्सिनस्य प्रतिरोधक्षमताम् अतिक्राम्यते वा इति निगमनाय अधिकाध्ययनफलानि आवश्यकानि। वर्तमानप्रतिरोधक्षमताम् अतिक्रमते इत्यतः अतिशीघ्रम् ओमिक्रोण् वैराणु: व्याप्यते इत्यस्मिन् विषये दृढीकरणं नास्ति इत्यपि विश्वस्वास्थ्यसंस्थया आवेदितम्।

Sunday, December 19, 2021

 रायि चक्रवातः-फिलिप्पीन्स् राष्ट्रे मृतानां संख्या शतमतीता। 


मनिला> फिलिप्पैन्स् राष्ट्रे आपन्ने चक्रवाते मृतानां संख्या शतमतीता। त्रिलक्षं जनाः सुरक्षितस्थानं नीतवन्तः। विद्युत् आशयविनिमय सुविधाः च भग्नाः। बोहोयि प्रदेशे ४९ जनाः मृताः १३ व्रणिताः १० अप्रत्यक्षाः च अभवन्। शुक्रवासरे रात्रौ आसीत् इयं दुर्घटना। १७५ कि . मी वेगेन एव इदानीं वातः वाति। चक्रवातस्य वेगः २७० कि.मी भविष्यति इति वातावरणविभागेन जाग्रतानिर्देशः ख्यापितः। लोके अधिकप्रकृतिक्षोभप्रदेशेषु अन्यतमः अयं फिलिप्पीन् देशः। प्रायः विंशतिवारं अत्र चक्रवातस्य बाधा जायते। 

 अन्टार्ट्टिक्का प्रदेशे हिमस्तराः आगामिनि दशसंवत्सराभ्यन्तरे पूर्णतया द्रवीभविष्यति।


अन्टार्ट्टिक्कायाम् अतिबृहत्तमेषु हिमानिषु आगामिनि दशसंवत्सराभ्यन्तरे परिवर्तनानि भविष्यन्ति इति अध्ययनफलम्। अन्टार्ट्टिक्कासु त्वय्ट्टस् हिमान्यः परिवर्तनाय निर्बन्धिता भविष्यति। प्रदेशे द्रवीकरणमानः प्रतिदिनं वर्धते। प्रतिवर्षं ५००० कोटि हिमः एव द्रवीभूय समुद्रं प्रति  प्रवहन् अस्ति। एतत् परिवर्तनानि आविश्वं समुद्रोपरितलस्य औन्नत्यवर्धनाय हेतुर्भवति। समुद्रजलस्य अतितापः हिमस्तरान् दुर्बलं करोति। अयं हिमस्य शीघ्रद्रवणाय कारणं च भविष्यति।

Saturday, December 18, 2021

 उत्तर अयर्लण्डीयाः नद्यः मलिनीकृताः। राष्ट्रं पानजलदोर्लभ्यभीषायाम्।  

डब्लिन्> अयर्लण्डीयाः नद्य: मलिनजलेन पूरितं वर्तते। ८० लक्षं टण् मलिनजलमेव उत्तरअयर्लण्डस्थेषु समुद्रेषु नदीषु च प्रतिसंवत्सरं प्रवहन्ति। राष्ट्रे जलाशयानां स्वच्छावस्था प्रतिदिनं न्यूनीभवति। उत्तर अयर्लण्डस्थेषु  बेलफास्ट् मेट्रोपोलिट्टन् प्रदेशेषु ३० लक्षं टण् मितं मनुष्यमालिन्यानि बहिः क्षिपन्तः सन्ति।  उत्तर-अयर्लण्डे प्रधानपानजलस्रोतांसि  लोफ् नीगिलः द्विलक्षं टण् मलिनजलमेव प्रवहन्ति। एषा घटना आराष्ट्रं  पानयोग्यजल-दौर्लभ्यस्य हेतुः भवति।

 बङ्गलादेशस्य स्वतन्त्रतादिनोत्सवे भारतराष्ट्रपतिः मुख्यातिथिः। 

धाक्का> बङ्गलादेशविमोचनयुद्धस्य सुवर्णप्रहर्षस्य अंशतया आयोजिते विजयदिनसंचलने भारतस्य राष्ट्रपतिः रामनाथकोविन्दः मुख्यातिथिरूपेण भागं स्वीकृतवान्। विमोचनयुद्धस्य ५० तमसंवत्सरीयोत्सवम् आघुष्यमाणस्य बङ्गलादेशस्य सैनिकशक्तिं प्रमाणीकृतं सैनिकसञ्चलनमासीत् धाक्कायां राष्ट्रियसंचलनभूमौ सम्पन्नम्। 

  बङ्गलादेशस्य राष्ट्रपतिः एम् अब्दुल् हमीदः प्रधानमन्त्रिणी षैक् हसीना अपरे मन्त्रिणः विशिष्टातिथयश्च रामनाथकोविन्देन सह संचलनं वीक्षितवन्तः। भारतात् १२२अङ्गयुक्तः सेनासंघ अपि संचलने भागं स्वीकृतवान्।

 भूट्टान् सर्वकारस्य सर्वोच्चनागरिक-पुरस्कारः प्रधानमन्त्रिणे नरेन्द्रमोदीने प्रदातुं निर्णयः गृहीतः। 


नवदिल्ली> भूट्टान् सर्वकारस्य 'ओर्डर् ओफ् दि ड्रक् ग्यालूपो' पुरस्कारः प्रधानमन्त्रिणे नरेन्द्रमोदिने दातुं निर्णयः गृहीतः। कोविड् महामारीसन्दर्भे भारतेन प्रदत्तं साहाय्यं पुरस्कृत्य धन्यवादमावेदयित्वा एव पुरस्कारः प्रदत्तः। भूट्टानस्य राजा जिग्मे खेसर् नांग्यल् वाङ्चूक् वर्येण एव पुरस्कारः प्रख्यापितः। भूट्टानस्य ११४ तम राष्ट्रियदिवसमहोत्सवे एव पुरस्कारप्रख्यापनम् कृतम्। भूट्टानस्य सर्वोच्चपुरस्कारबहुमतये स्वनामचयनं कृताय भूट्टान् महाराजाय नरेन्द्रमोदी धन्यवादं समार्पयत्। भूट्टान् राष्ट्रम् भारतस्य प्रियसुहृद्राष्ट्रम् भवति। उभयोः बन्धः सुदृढम् अनुवर्तिष्यते इति मोदिना उक्तम्। भूट्टानाय राष्ट्रियदिनाशंसा अपि मोदिना प्रकाशिता।

 ओमिक्रोण् - यु एस् राष्ट्रे प्रतिदिनरोगिणां संख्या लक्षादतीता। मृत्युमानं वर्धेत इति अमेरिक्कस्यरा ष्ट्रपतिना जो बैडनेन निगदितम्। 

वाषिङ्टण्> कोविड् वैराणोः ओमिक्रोण् विभेदस्य कारणेन अतिशीघ्रं रोगव्यापनं भविष्यति इति राष्ट्राय जो बैडणस्य पूर्वसूचना। रोगः अतिशीघ्रं व्याप्यते चेत् मरणसंख्या अपि वर्धेत इत्यपि तेन प्रोक्तम्। रोगव्यापनं निरोद्धुं वाक्सिनस्य संवर्धितमात्रा स्वीकरणीया। तथा अद्यावधि वाक्सिनीकरणे विमुखीकृताः  भवन्ति । ते सर्वे प्रत्यभिमुखीकृताः  भवेयुः। स्वयं सूचीवेधनप्रक्रियां स्वीकृत्य  सुरक्षिताः भवेयुः इति आदेशो विज्ञापितः।

Friday, December 17, 2021

 केरलेषु वर्षा इदानीमपि न समाप्ता

अनन्तपुरी> भारत-महासमुद्रे दक्षिण बंगाल अन्तर्समुद्रे विद्यमानस्य चक्रवातस्य दुष्प्रभावेन केरलेषु वर्षा पुनरपि भविष्यति इति केन्द्र वातावरणविभागेन पूर्वसूचना प्रदत्ता। पञ्चदिनानि यावत् वृष्टिः भविष्यति। अस्मिन् संवत्सरे वृष्टिमानम् अधिकं भवति। आगोलतापमाने जायमाना वर्धना एव वृष्टिवर्धनस्य हेतुः इति निरीक्ष्यते।

Thursday, December 16, 2021

 आतङ्कवादस्य द्वारवत् वर्तमानस्य तब्लीग् जमा अत् संघट्टनस्य सौदिराष्ट्रे निरोधः।

रियाद्> तब्लीग् जमा अत्ताय सौदिराष्ट्रेण निरोधः ख्यापितः। आतङ्कवादस्य मुख्यद्वारवत् वर्तमानः तब्लीग् जमा अत् संघः राष्ट्राय आपत्करः भवति इति संसूच्यैव निरोधनं कल्पितम्। घटनां संबन्ध्य जनेभ्यः जाग्रतासूचनां दातुं शुक्रवासरे देवालयेषु प्रबोधनभाषणं समायोजनीयमिति सौदिराष्ट्रेण आदिष्टमस्ति। सौदिराष्ट्रस्य इस्लामिककार्य-मन्त्रालयेनैव कार्यमिदं स्वस्य औद्योगिक ट्विट्टर् लेखद्वारा आवेदितम्।