OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 20, 2021

 पिच्छकन्दुकक्रीडायाः विश्ववीरस्पर्धायां भारताय रजतमुद्रा।

ह्युल्वा (स्पेयिन्)> स्पेयिन् राष्ट्रस्य ह्युल्वानगरे सम्पन्नायाः विश्वपिच्छकन्दुकस्पर्धायाः अन्तिमपादे भारतस्य किडम्बि श्रीकान्तः द्वितीयस्थानं प्राप्य रजतकीर्तिमुद्रामाप्तवान्। सिंहपुरस्य (सिङ्कप्पूर्) लो कीन् युः नामकः प्रथमस्थानं प्राप्तवान्। 

  विश्वचषकस्पर्धायां इदंप्रथमतया एव कश्चन भारतीयक्रीडकः अन्तिमपादं प्रविशति। भारतस्य लक्ष्य सेनः अस्यां स्पर्धायां कांस्यपदकं प्राप्तवान्।

 ८९ राष्ट्रेषु ओमिक्रोण् वैराणुविभेदः अतिशीघ्रं  व्याप्यते।विश्वस्वास्थ्यसंस्थायाः जाग्रतासूचना।

वियन्न> ओमिक्रोण् दृढीकृतेषु प्रदेशेषु सार्धैकदिनादारभ्य त्रिदिनाभ्यन्तरे रोगिणां संख्या द्विगुणिता इति विश्वस्वास्थ्यसंस्था सूचयति। अद्यावधि ८९ राष्ट्रेषु ओमिक्रोण् दृढीकृतम्। जनानां रोगप्रतिरोधक्षमतायुक्तेषु राष्ट्रेषु अपि अतिशीघ्रमेव रोगः व्याप्यते। ओमिक्रोणस्य तीव्रता तथा अपघातक्षमता च वाक्सिनस्य प्रतिरोधक्षमताम् अतिक्राम्यते वा इति निगमनाय अधिकाध्ययनफलानि आवश्यकानि। वर्तमानप्रतिरोधक्षमताम् अतिक्रमते इत्यतः अतिशीघ्रम् ओमिक्रोण् वैराणु: व्याप्यते इत्यस्मिन् विषये दृढीकरणं नास्ति इत्यपि विश्वस्वास्थ्यसंस्थया आवेदितम्।

Sunday, December 19, 2021

 रायि चक्रवातः-फिलिप्पीन्स् राष्ट्रे मृतानां संख्या शतमतीता। 


मनिला> फिलिप्पैन्स् राष्ट्रे आपन्ने चक्रवाते मृतानां संख्या शतमतीता। त्रिलक्षं जनाः सुरक्षितस्थानं नीतवन्तः। विद्युत् आशयविनिमय सुविधाः च भग्नाः। बोहोयि प्रदेशे ४९ जनाः मृताः १३ व्रणिताः १० अप्रत्यक्षाः च अभवन्। शुक्रवासरे रात्रौ आसीत् इयं दुर्घटना। १७५ कि . मी वेगेन एव इदानीं वातः वाति। चक्रवातस्य वेगः २७० कि.मी भविष्यति इति वातावरणविभागेन जाग्रतानिर्देशः ख्यापितः। लोके अधिकप्रकृतिक्षोभप्रदेशेषु अन्यतमः अयं फिलिप्पीन् देशः। प्रायः विंशतिवारं अत्र चक्रवातस्य बाधा जायते। 

 अन्टार्ट्टिक्का प्रदेशे हिमस्तराः आगामिनि दशसंवत्सराभ्यन्तरे पूर्णतया द्रवीभविष्यति।


अन्टार्ट्टिक्कायाम् अतिबृहत्तमेषु हिमानिषु आगामिनि दशसंवत्सराभ्यन्तरे परिवर्तनानि भविष्यन्ति इति अध्ययनफलम्। अन्टार्ट्टिक्कासु त्वय्ट्टस् हिमान्यः परिवर्तनाय निर्बन्धिता भविष्यति। प्रदेशे द्रवीकरणमानः प्रतिदिनं वर्धते। प्रतिवर्षं ५००० कोटि हिमः एव द्रवीभूय समुद्रं प्रति  प्रवहन् अस्ति। एतत् परिवर्तनानि आविश्वं समुद्रोपरितलस्य औन्नत्यवर्धनाय हेतुर्भवति। समुद्रजलस्य अतितापः हिमस्तरान् दुर्बलं करोति। अयं हिमस्य शीघ्रद्रवणाय कारणं च भविष्यति।

Saturday, December 18, 2021

 उत्तर अयर्लण्डीयाः नद्यः मलिनीकृताः। राष्ट्रं पानजलदोर्लभ्यभीषायाम्।  

डब्लिन्> अयर्लण्डीयाः नद्य: मलिनजलेन पूरितं वर्तते। ८० लक्षं टण् मलिनजलमेव उत्तरअयर्लण्डस्थेषु समुद्रेषु नदीषु च प्रतिसंवत्सरं प्रवहन्ति। राष्ट्रे जलाशयानां स्वच्छावस्था प्रतिदिनं न्यूनीभवति। उत्तर अयर्लण्डस्थेषु  बेलफास्ट् मेट्रोपोलिट्टन् प्रदेशेषु ३० लक्षं टण् मितं मनुष्यमालिन्यानि बहिः क्षिपन्तः सन्ति।  उत्तर-अयर्लण्डे प्रधानपानजलस्रोतांसि  लोफ् नीगिलः द्विलक्षं टण् मलिनजलमेव प्रवहन्ति। एषा घटना आराष्ट्रं  पानयोग्यजल-दौर्लभ्यस्य हेतुः भवति।

 बङ्गलादेशस्य स्वतन्त्रतादिनोत्सवे भारतराष्ट्रपतिः मुख्यातिथिः। 

धाक्का> बङ्गलादेशविमोचनयुद्धस्य सुवर्णप्रहर्षस्य अंशतया आयोजिते विजयदिनसंचलने भारतस्य राष्ट्रपतिः रामनाथकोविन्दः मुख्यातिथिरूपेण भागं स्वीकृतवान्। विमोचनयुद्धस्य ५० तमसंवत्सरीयोत्सवम् आघुष्यमाणस्य बङ्गलादेशस्य सैनिकशक्तिं प्रमाणीकृतं सैनिकसञ्चलनमासीत् धाक्कायां राष्ट्रियसंचलनभूमौ सम्पन्नम्। 

  बङ्गलादेशस्य राष्ट्रपतिः एम् अब्दुल् हमीदः प्रधानमन्त्रिणी षैक् हसीना अपरे मन्त्रिणः विशिष्टातिथयश्च रामनाथकोविन्देन सह संचलनं वीक्षितवन्तः। भारतात् १२२अङ्गयुक्तः सेनासंघ अपि संचलने भागं स्वीकृतवान्।

 भूट्टान् सर्वकारस्य सर्वोच्चनागरिक-पुरस्कारः प्रधानमन्त्रिणे नरेन्द्रमोदीने प्रदातुं निर्णयः गृहीतः। 


नवदिल्ली> भूट्टान् सर्वकारस्य 'ओर्डर् ओफ् दि ड्रक् ग्यालूपो' पुरस्कारः प्रधानमन्त्रिणे नरेन्द्रमोदिने दातुं निर्णयः गृहीतः। कोविड् महामारीसन्दर्भे भारतेन प्रदत्तं साहाय्यं पुरस्कृत्य धन्यवादमावेदयित्वा एव पुरस्कारः प्रदत्तः। भूट्टानस्य राजा जिग्मे खेसर् नांग्यल् वाङ्चूक् वर्येण एव पुरस्कारः प्रख्यापितः। भूट्टानस्य ११४ तम राष्ट्रियदिवसमहोत्सवे एव पुरस्कारप्रख्यापनम् कृतम्। भूट्टानस्य सर्वोच्चपुरस्कारबहुमतये स्वनामचयनं कृताय भूट्टान् महाराजाय नरेन्द्रमोदी धन्यवादं समार्पयत्। भूट्टान् राष्ट्रम् भारतस्य प्रियसुहृद्राष्ट्रम् भवति। उभयोः बन्धः सुदृढम् अनुवर्तिष्यते इति मोदिना उक्तम्। भूट्टानाय राष्ट्रियदिनाशंसा अपि मोदिना प्रकाशिता।

 ओमिक्रोण् - यु एस् राष्ट्रे प्रतिदिनरोगिणां संख्या लक्षादतीता। मृत्युमानं वर्धेत इति अमेरिक्कस्यरा ष्ट्रपतिना जो बैडनेन निगदितम्। 

वाषिङ्टण्> कोविड् वैराणोः ओमिक्रोण् विभेदस्य कारणेन अतिशीघ्रं रोगव्यापनं भविष्यति इति राष्ट्राय जो बैडणस्य पूर्वसूचना। रोगः अतिशीघ्रं व्याप्यते चेत् मरणसंख्या अपि वर्धेत इत्यपि तेन प्रोक्तम्। रोगव्यापनं निरोद्धुं वाक्सिनस्य संवर्धितमात्रा स्वीकरणीया। तथा अद्यावधि वाक्सिनीकरणे विमुखीकृताः  भवन्ति । ते सर्वे प्रत्यभिमुखीकृताः  भवेयुः। स्वयं सूचीवेधनप्रक्रियां स्वीकृत्य  सुरक्षिताः भवेयुः इति आदेशो विज्ञापितः।

Friday, December 17, 2021

 केरलेषु वर्षा इदानीमपि न समाप्ता

अनन्तपुरी> भारत-महासमुद्रे दक्षिण बंगाल अन्तर्समुद्रे विद्यमानस्य चक्रवातस्य दुष्प्रभावेन केरलेषु वर्षा पुनरपि भविष्यति इति केन्द्र वातावरणविभागेन पूर्वसूचना प्रदत्ता। पञ्चदिनानि यावत् वृष्टिः भविष्यति। अस्मिन् संवत्सरे वृष्टिमानम् अधिकं भवति। आगोलतापमाने जायमाना वर्धना एव वृष्टिवर्धनस्य हेतुः इति निरीक्ष्यते।

Thursday, December 16, 2021

 आतङ्कवादस्य द्वारवत् वर्तमानस्य तब्लीग् जमा अत् संघट्टनस्य सौदिराष्ट्रे निरोधः।

रियाद्> तब्लीग् जमा अत्ताय सौदिराष्ट्रेण निरोधः ख्यापितः। आतङ्कवादस्य मुख्यद्वारवत् वर्तमानः तब्लीग् जमा अत् संघः राष्ट्राय आपत्करः भवति इति संसूच्यैव निरोधनं कल्पितम्। घटनां संबन्ध्य जनेभ्यः जाग्रतासूचनां दातुं शुक्रवासरे देवालयेषु प्रबोधनभाषणं समायोजनीयमिति सौदिराष्ट्रेण आदिष्टमस्ति। सौदिराष्ट्रस्य इस्लामिककार्य-मन्त्रालयेनैव कार्यमिदं स्वस्य औद्योगिक ट्विट्टर् लेखद्वारा आवेदितम्।

 बालकेभ्यः कोविड्वाक्सिनं षण्मासाभ्यन्तरे।

नवदिल्ली> छात्राणां कृते सिरं इन्स्टिट्यूट् आफ् इन्डिया संस्थया आविष्क्रियमाणं कोविड्वाक्सिनं 'कोवोवाक्स्' नामकं षण्मासाभ्यन्तरे साक्षात्करिष्यतीति संस्थाप्रमुखः अदार् पूने वालः अवदत्। कोवोवाक्सिनं परीक्षणसोपाने वर्तमानमस्ति। त्रिवयस्केभ्यःआरभ्यमाणेभ्यः बालकेभ्यः वाक्सिनसंरक्षणं लप्स्यते इति तेन निगदितम्।

 षट् चित्रोष्ट्राणां जडशरीराणि एकस्मिन् आबन्धे। अनावृष्टेः भयानकचित्रम्।

नय्रोबि> परस्परसहकारेण मनुष्याः अनावृष्टिम् अत्येतुं प्रभवन्ति। किन्तु वन्यजन्तून् एव अनावृष्टिदोषः अधिकतया बाधते। अधुना केनिया देशे अनावृष्टेः दुष्प्रभावं प्रकाशयितुं सक्षमं चित्रमेकं बहिरागतमस्ति। इद् राम् नामकेन छायाचित्रपत्रकारेण (photo journalist) अनावृष्टेः दुरन्तमुखं आलिखितं चित्रं प्रकाशितम्। दिनानि यावत् अनावृष्टेः आघातेन मृतानां षण्णां चित्रोष्ट्राणां आकाशचित्रम् एव इद् रामस्य छायाग्राह्या आलेखितम्। साबुलि वन्यजीविसंरक्षणकेन्द्रस्थाः चित्रोष्ट्राः एव आहाराभावेन मृताः। अनावृष्टेः दुरन्तमुखम् एकस्मिन् एव आबन्धे द्रष्टुं शक्यते इत्येतत् एव चित्रस्य सविशेषता।

Wednesday, December 15, 2021

 विवाहावसरे प्रदत्तानि पारितोषिकाणि स्त्रीधनं न - उच्च न्यायालयः। 

कोच्चि> विवाहावसरे अन्यस्य प्रार्थनां विना पुत्र्याः क्षेमाय मातापितृजनैः दीयमानानि पारितोषिकाणि स्त्रीधनरूपेण न परिगण्यन्ते  इति उच्चन्यायालयेन प्रोक्तम्। विवाहसन्दर्भे प्रलब्धानि स्वस्य आभरणानि भर्तृसकाशात् प्रतिलब्धुं युवत्या परिदेवनं प्रदत्तमासीत्। आभरणानि तस्यै प्रतिदातुं कोल्लं जिल्ला स्त्रीधननिरोधनाधिकारिणा आदेशोऽपि दत्तः। तं विरुध्य तोटियूर् स्वदेशिना प्रदत्ते परिदेवने एव न्यायाधिपायाः एम् आर् अनितायाः निरीक्षणम्।

 अतिभीकरः अबु सरारः भारतसेनायाः गोलिकाप्रहारेण निहतः।

श्रीनगरम्> पाकिस्थानीयः अतिभीकरः अबुसरारः कश्मीरे भारतीयसेनायाः गोलिकास्त्रप्रयोगेण निहतः। कश्मीरे पुञ्च् प्रदेशे आपन्ने संघट्टने एव एषः निहतः इति सेनया वार्ताटिप्पण्या आवेदितम्। सैनिक -प्रक्रमाणां मध्ये जीवरक्षार्थं प्रयतमाने सन्दर्भे भीकराः सेनायाः उपरि गोलिकस्त्रप्रयोगं कृतमासीत्। पश्चात् संजाते प्रतिद्वन्दे एव भीकरः निहतः।

 भारते ओमिक्रोणबाधिताः ५७ अभवन्। 

नवदिल्ली> गतदिने महाराष्ट्रे ८, दिल्ल्यां ४ च जनाः नूतनतया ओमिक्रोणबाधिताः। अनेन राष्ट्रे आहत्य विषाणुबाधितानां संख्या ५७ जाता। इतःपर्यन्तं ६ राज्येषु २ केन्द्रशासनप्रदेशेषु च ओमिक्रोणबाधा दृष्टा। 

  अधिके रोगिणः महाराष्ट्रे वर्तन्ते - १८। दिल्ल्यां ६ जनाः ओमिक्रोणबाधिताः सन्ति।

Tuesday, December 14, 2021

 पूर्वं कोविड्रोगबाधितेभ्यः ओमिक्रोण् विभेदात् दृढप्रतिरोधः लभते इति अध्ययनानि सूचयन्ति।

बेय्जिङ्> कोविड्वाक्सिनस्य मात्राद्वयं स्वीकृतेभ्यः तथा पूर्वं रोगबाधितेभ्यः ओमिक्रोण् विभेदात् दृढप्रतिरोधः लभते इति निरीक्षणेन दृढीकृतम्। परन्तु अन्येषां विभेदापेक्षया ओमिक्रोण् वैराणुः आपत्कारी भवति इति गवेषकैः परीक्षणनिरीक्षणेन दृढीकृतम्। चीनस्य अन्ताराष्ट्रियभक्षण -भेषज-नियन्त्रण-संस्थायाः ( National institute for food and drug controller) गवेषकैः एव अध्ययने भागं स्वीकृताः। एमर्जिङ् आन्ड् इन्फ़ेक्षन् जेणल् मध्ये एव अध्ययनफल-प्रतिवेदनम् प्रकाशितम्।

 ओमिक्रोणः केरलं प्राप्तः। 

अनन्तपुरी> कोरोणाविषाणोः प्रभेदः ओमिक्रोणः केरलराज्ये एकस्मिन् पुरुषे स्थिरीकृतः। यू के राष्ट्रात् अबुदाबीद्वारा डिसंबर् षष्ठे दिनाङ्के कोच्चीं प्राप्तः ३९ वयस्कः एरणाकुलं प्रदेशीयः पुरुषः एव ओमिक्रोणबाधितः जातः।  प्रथमे दिने विमाननिलये कृतायां कोविड्शोधनायां फलम्  अभावात्मकमासीत्। किन्तु तदनन्तरं रोगलक्षणे दृष्टे कृतायां परिशोधनायां भावात्मके जाते जनितकपरिशोधनायां ओमिक्रोणस्य सान्निध्यं प्रत्यभिज्ञातम्। 

  केरले ओमिक्रोणः सन्दृष्टः इत्यस्मात् कर्कशाः जाग्रत्ताप्रक्षेपाः स्वीकृताः इति स्वास्थ्यमन्त्रिण्या वीणा जोर्ज् इत्यनया उक्तम्।

Monday, December 13, 2021

 प्रधानमन्त्री नरेन्द्रमोदी काशीधामसंपथः अद्य राष्ट्राय समर्पितवान्। 


नवदिल्ली> वाराणस्यां काशीविश्वनाथमन्दिरस्य तथा गङ्गानद्याः च संयोजनाय निर्मितस्य काशीधामसंपथस्य (corridor) उद्घाटनम् अद्य प्रधानमन्त्री नरेन्द्रमोदी कृतवान्। मध्याह्ने द्वादशवादने वाराणस्यां कालभैरवमन्दिरे दीपाराधनं दर्शितवान्। तदनन्तरं मध्याह्ने एकवादने काशीविश्वनाथदर्शनानन्तरं संपथस्य प्रथमतलस्य उद्घाटनकर्म अकरोत्। सायाह्ने षड्वादने गङ्गा आरतिषु च भागं स्वीकरिष्यति। काशीघामपरियोजनायाः कृते ८०० कोटिरूप्यकाणि एव केन्द्रसर्वकारेण प्रदत्तानि। श्वः सायंकाले ३.३० वादने वाराणस्यां स्वर्वेदमहामन्दिरदर्शनानन्तरं प्रधानमन्त्री नवदिल्ल्यां प्रस्थास्यति।