अन्टार्ट्टिक्का प्रदेशे हिमस्तराः आगामिनि दशसंवत्सराभ्यन्तरे पूर्णतया द्रवीभविष्यति।
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Sunday, December 19, 2021
Saturday, December 18, 2021
उत्तर अयर्लण्डीयाः नद्यः मलिनीकृताः। राष्ट्रं पानजलदोर्लभ्यभीषायाम्।
डब्लिन्> अयर्लण्डीयाः नद्य: मलिनजलेन पूरितं वर्तते। ८० लक्षं टण् मलिनजलमेव उत्तरअयर्लण्डस्थेषु समुद्रेषु नदीषु च प्रतिसंवत्सरं प्रवहन्ति। राष्ट्रे जलाशयानां स्वच्छावस्था प्रतिदिनं न्यूनीभवति। उत्तर अयर्लण्डस्थेषु बेलफास्ट् मेट्रोपोलिट्टन् प्रदेशेषु ३० लक्षं टण् मितं मनुष्यमालिन्यानि बहिः क्षिपन्तः सन्ति। उत्तर-अयर्लण्डे प्रधानपानजलस्रोतांसि लोफ् नीगिलः द्विलक्षं टण् मलिनजलमेव प्रवहन्ति। एषा घटना आराष्ट्रं पानयोग्यजल-दौर्लभ्यस्य हेतुः भवति।
बङ्गलादेशस्य स्वतन्त्रतादिनोत्सवे भारतराष्ट्रपतिः मुख्यातिथिः।
धाक्का> बङ्गलादेशविमोचनयुद्धस्य सुवर्णप्रहर्षस्य अंशतया आयोजिते विजयदिनसंचलने भारतस्य राष्ट्रपतिः रामनाथकोविन्दः मुख्यातिथिरूपेण भागं स्वीकृतवान्। विमोचनयुद्धस्य ५० तमसंवत्सरीयोत्सवम् आघुष्यमाणस्य बङ्गलादेशस्य सैनिकशक्तिं प्रमाणीकृतं सैनिकसञ्चलनमासीत् धाक्कायां राष्ट्रियसंचलनभूमौ सम्पन्नम्।
बङ्गलादेशस्य राष्ट्रपतिः एम् अब्दुल् हमीदः प्रधानमन्त्रिणी षैक् हसीना अपरे मन्त्रिणः विशिष्टातिथयश्च रामनाथकोविन्देन सह संचलनं वीक्षितवन्तः। भारतात् १२२अङ्गयुक्तः सेनासंघ अपि संचलने भागं स्वीकृतवान्।
भूट्टान् सर्वकारस्य सर्वोच्चनागरिक-पुरस्कारः प्रधानमन्त्रिणे नरेन्द्रमोदीने प्रदातुं निर्णयः गृहीतः।
ओमिक्रोण् - यु एस् राष्ट्रे प्रतिदिनरोगिणां संख्या लक्षादतीता। मृत्युमानं वर्धेत इति अमेरिक्कस्यरा ष्ट्रपतिना जो बैडनेन निगदितम्।
वाषिङ्टण्> कोविड् वैराणोः ओमिक्रोण् विभेदस्य कारणेन अतिशीघ्रं रोगव्यापनं भविष्यति इति राष्ट्राय जो बैडणस्य पूर्वसूचना। रोगः अतिशीघ्रं व्याप्यते चेत् मरणसंख्या अपि वर्धेत इत्यपि तेन प्रोक्तम्। रोगव्यापनं निरोद्धुं वाक्सिनस्य संवर्धितमात्रा स्वीकरणीया। तथा अद्यावधि वाक्सिनीकरणे विमुखीकृताः भवन्ति । ते सर्वे प्रत्यभिमुखीकृताः भवेयुः। स्वयं सूचीवेधनप्रक्रियां स्वीकृत्य सुरक्षिताः भवेयुः इति आदेशो विज्ञापितः।
Friday, December 17, 2021
केरलेषु वर्षा इदानीमपि न समाप्ता
अनन्तपुरी> भारत-महासमुद्रे दक्षिण बंगाल अन्तर्समुद्रे विद्यमानस्य चक्रवातस्य दुष्प्रभावेन केरलेषु वर्षा पुनरपि भविष्यति इति केन्द्र वातावरणविभागेन पूर्वसूचना प्रदत्ता। पञ्चदिनानि यावत् वृष्टिः भविष्यति। अस्मिन् संवत्सरे वृष्टिमानम् अधिकं भवति। आगोलतापमाने जायमाना वर्धना एव वृष्टिवर्धनस्य हेतुः इति निरीक्ष्यते।
Thursday, December 16, 2021
आतङ्कवादस्य द्वारवत् वर्तमानस्य तब्लीग् जमा अत् संघट्टनस्य सौदिराष्ट्रे निरोधः।
रियाद्> तब्लीग् जमा अत्ताय सौदिराष्ट्रेण निरोधः ख्यापितः। आतङ्कवादस्य मुख्यद्वारवत् वर्तमानः तब्लीग् जमा अत् संघः राष्ट्राय आपत्करः भवति इति संसूच्यैव निरोधनं कल्पितम्। घटनां संबन्ध्य जनेभ्यः जाग्रतासूचनां दातुं शुक्रवासरे देवालयेषु प्रबोधनभाषणं समायोजनीयमिति सौदिराष्ट्रेण आदिष्टमस्ति। सौदिराष्ट्रस्य इस्लामिककार्य-मन्त्रालयेनैव कार्यमिदं स्वस्य औद्योगिक ट्विट्टर् लेखद्वारा आवेदितम्।
बालकेभ्यः कोविड्वाक्सिनं षण्मासाभ्यन्तरे।
नवदिल्ली> छात्राणां कृते सिरं इन्स्टिट्यूट् आफ् इन्डिया संस्थया आविष्क्रियमाणं कोविड्वाक्सिनं 'कोवोवाक्स्' नामकं षण्मासाभ्यन्तरे साक्षात्करिष्यतीति संस्थाप्रमुखः अदार् पूने वालः अवदत्। कोवोवाक्सिनं परीक्षणसोपाने वर्तमानमस्ति। त्रिवयस्केभ्यःआरभ्यमाणेभ्यः बालकेभ्यः वाक्सिनसंरक्षणं लप्स्यते इति तेन निगदितम्।
षट् चित्रोष्ट्राणां जडशरीराणि एकस्मिन् आबन्धे। अनावृष्टेः भयानकचित्रम्।
Wednesday, December 15, 2021
विवाहावसरे प्रदत्तानि पारितोषिकाणि स्त्रीधनं न - उच्च न्यायालयः।
कोच्चि> विवाहावसरे अन्यस्य प्रार्थनां विना पुत्र्याः क्षेमाय मातापितृजनैः दीयमानानि पारितोषिकाणि स्त्रीधनरूपेण न परिगण्यन्ते इति उच्चन्यायालयेन प्रोक्तम्। विवाहसन्दर्भे प्रलब्धानि स्वस्य आभरणानि भर्तृसकाशात् प्रतिलब्धुं युवत्या परिदेवनं प्रदत्तमासीत्। आभरणानि तस्यै प्रतिदातुं कोल्लं जिल्ला स्त्रीधननिरोधनाधिकारिणा आदेशोऽपि दत्तः। तं विरुध्य तोटियूर् स्वदेशिना प्रदत्ते परिदेवने एव न्यायाधिपायाः एम् आर् अनितायाः निरीक्षणम्।
अतिभीकरः अबु सरारः भारतसेनायाः गोलिकाप्रहारेण निहतः।
श्रीनगरम्> पाकिस्थानीयः अतिभीकरः अबुसरारः कश्मीरे भारतीयसेनायाः गोलिकास्त्रप्रयोगेण निहतः। कश्मीरे पुञ्च् प्रदेशे आपन्ने संघट्टने एव एषः निहतः इति सेनया वार्ताटिप्पण्या आवेदितम्। सैनिक -प्रक्रमाणां मध्ये जीवरक्षार्थं प्रयतमाने सन्दर्भे भीकराः सेनायाः उपरि गोलिकस्त्रप्रयोगं कृतमासीत्। पश्चात् संजाते प्रतिद्वन्दे एव भीकरः निहतः।
भारते ओमिक्रोणबाधिताः ५७ अभवन्।
नवदिल्ली> गतदिने महाराष्ट्रे ८, दिल्ल्यां ४ च जनाः नूतनतया ओमिक्रोणबाधिताः। अनेन राष्ट्रे आहत्य विषाणुबाधितानां संख्या ५७ जाता। इतःपर्यन्तं ६ राज्येषु २ केन्द्रशासनप्रदेशेषु च ओमिक्रोणबाधा दृष्टा।
अधिके रोगिणः महाराष्ट्रे वर्तन्ते - १८। दिल्ल्यां ६ जनाः ओमिक्रोणबाधिताः सन्ति।
Tuesday, December 14, 2021
पूर्वं कोविड्रोगबाधितेभ्यः ओमिक्रोण् विभेदात् दृढप्रतिरोधः लभते इति अध्ययनानि सूचयन्ति।
बेय्जिङ्> कोविड्वाक्सिनस्य मात्राद्वयं स्वीकृतेभ्यः तथा पूर्वं रोगबाधितेभ्यः ओमिक्रोण् विभेदात् दृढप्रतिरोधः लभते इति निरीक्षणेन दृढीकृतम्। परन्तु अन्येषां विभेदापेक्षया ओमिक्रोण् वैराणुः आपत्कारी भवति इति गवेषकैः परीक्षणनिरीक्षणेन दृढीकृतम्। चीनस्य अन्ताराष्ट्रियभक्षण -भेषज-नियन्त्रण-संस्थायाः ( National institute for food and drug controller) गवेषकैः एव अध्ययने भागं स्वीकृताः। एमर्जिङ् आन्ड् इन्फ़ेक्षन् जेणल् मध्ये एव अध्ययनफल-प्रतिवेदनम् प्रकाशितम्।
ओमिक्रोणः केरलं प्राप्तः।
अनन्तपुरी> कोरोणाविषाणोः प्रभेदः ओमिक्रोणः केरलराज्ये एकस्मिन् पुरुषे स्थिरीकृतः। यू के राष्ट्रात् अबुदाबीद्वारा डिसंबर् षष्ठे दिनाङ्के कोच्चीं प्राप्तः ३९ वयस्कः एरणाकुलं प्रदेशीयः पुरुषः एव ओमिक्रोणबाधितः जातः। प्रथमे दिने विमाननिलये कृतायां कोविड्शोधनायां फलम् अभावात्मकमासीत्। किन्तु तदनन्तरं रोगलक्षणे दृष्टे कृतायां परिशोधनायां भावात्मके जाते जनितकपरिशोधनायां ओमिक्रोणस्य सान्निध्यं प्रत्यभिज्ञातम्।
केरले ओमिक्रोणः सन्दृष्टः इत्यस्मात् कर्कशाः जाग्रत्ताप्रक्षेपाः स्वीकृताः इति स्वास्थ्यमन्त्रिण्या वीणा जोर्ज् इत्यनया उक्तम्।
Monday, December 13, 2021
प्रधानमन्त्री नरेन्द्रमोदी काशीधामसंपथः अद्य राष्ट्राय समर्पितवान्।
Sunday, December 12, 2021
यु एस् राष्ट्रे चक्रवातः। केन्टक्कि देशे पञ्चाशत् जनाः मरणमुपगताः। देशे आपत्कालीनावस्था प्रख्यापिता।
Saturday, December 11, 2021
उदग्रयानदुर्घटना - संयुक्तसेनासङ्घस्य अन्वीक्षणमारब्धम्।
कुनूर् [तमिलनाट्]> भारतस्य संयुक्तसेनामुख्यः जनरल् बिपिन रावतः तस्य पत्नी चाभिव्याप्य १३ सैनिकाधिकारिणाम् अपमृत्योः कारणभूताम् उदग्रयानदुर्घटनामधिकृत्य संयुक्तसेनासंघस्य अन्वीक्षणं दुर्घटनास्थाने आरब्धम्। तमिलनाटे कुन्नूरप्रदेशे घट्टनेन भग्नस्य 'मि 17 वि 5 उदग्रयानस्य ब्लाक् बोक्स् नामकमुपकरणमुपलब्धम्।
वायुसेनायाः परिशीलकप्रमुखः एयर् मार्षल् मानवेन्द्रसिंहस्य नेतृत्वे एव अन्वेषणं सम्पद्यते इति रक्षामन्त्री राजनाथसिंहः संसदि प्रस्तुतवान्। ड्रोणयन्त्राणां साहाय्येन विपुला परिशोधना आरब्धा। वायुसेनाधिकारी एयर् चीफ् मार्षल् विवेकरामचौधरी भग्नस्य उदग्रयानस्य यन्त्रांशान् निरीक्षितवान्।
विश्वविद्यालयेषु सर्वकारस्य हस्तक्षेपः - केरलराज्यपालेन विप्रतिपत्तिः प्रकाशिता।
अनन्तपुरी / केरलम्> केरलराज्यपालेन आरिफ् मुहम्मद् खानेन विश्वविद्यालयेषु सर्वकारस्य कौटिल्येषु हस्तक्षेपेषु विप्रतिपत्तिः प्रकाशिता। घटनां संबन्ध्य तेन केरलस्य मुख्यमन्त्री लेखः दत्तः। विश्वविद्यालयेषु राजनैतिकहस्तक्षेपः अनुवर्तते चेत् कुलपतिपदवीं त्यक्तुं सन्नद्धः इति सः अवदत्। कुलपतेः उत्तरदायित्वं केरलस्य मुख्यमन्त्रिः स्वयं निर्वहतु इत्यपि तेन लेखद्वारा आवेदितमस्ति। कण्णूर्विश्वविद्यालये तथा कालटि श्री शङ्कराचार्य संस्कृतविश्वविद्याये च कुलपतिनियुक्तिविषये सर्वकारस्य हस्तक्षेपः एव एवं वक्तुं राज्यपालाय प्रेरकः अभवत्। विश्वविद्यालयेषु राजनैतिकस्य अतिप्रसरं राज्यपालेन संसूचितम्। विश्वविद्यालयेषु ईदृशरीत्याः अनुवर्तनम् उचितं न भवति। एषा रीतिः भाविनि काले दूरव्यापकप्रत्याघातानि स्रक्ष्यन्ति इत्यपि सः व्यजिज्ञपत्।