OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 16, 2021

 बालकेभ्यः कोविड्वाक्सिनं षण्मासाभ्यन्तरे।

नवदिल्ली> छात्राणां कृते सिरं इन्स्टिट्यूट् आफ् इन्डिया संस्थया आविष्क्रियमाणं कोविड्वाक्सिनं 'कोवोवाक्स्' नामकं षण्मासाभ्यन्तरे साक्षात्करिष्यतीति संस्थाप्रमुखः अदार् पूने वालः अवदत्। कोवोवाक्सिनं परीक्षणसोपाने वर्तमानमस्ति। त्रिवयस्केभ्यःआरभ्यमाणेभ्यः बालकेभ्यः वाक्सिनसंरक्षणं लप्स्यते इति तेन निगदितम्।

 षट् चित्रोष्ट्राणां जडशरीराणि एकस्मिन् आबन्धे। अनावृष्टेः भयानकचित्रम्।

नय्रोबि> परस्परसहकारेण मनुष्याः अनावृष्टिम् अत्येतुं प्रभवन्ति। किन्तु वन्यजन्तून् एव अनावृष्टिदोषः अधिकतया बाधते। अधुना केनिया देशे अनावृष्टेः दुष्प्रभावं प्रकाशयितुं सक्षमं चित्रमेकं बहिरागतमस्ति। इद् राम् नामकेन छायाचित्रपत्रकारेण (photo journalist) अनावृष्टेः दुरन्तमुखं आलिखितं चित्रं प्रकाशितम्। दिनानि यावत् अनावृष्टेः आघातेन मृतानां षण्णां चित्रोष्ट्राणां आकाशचित्रम् एव इद् रामस्य छायाग्राह्या आलेखितम्। साबुलि वन्यजीविसंरक्षणकेन्द्रस्थाः चित्रोष्ट्राः एव आहाराभावेन मृताः। अनावृष्टेः दुरन्तमुखम् एकस्मिन् एव आबन्धे द्रष्टुं शक्यते इत्येतत् एव चित्रस्य सविशेषता।

Wednesday, December 15, 2021

 विवाहावसरे प्रदत्तानि पारितोषिकाणि स्त्रीधनं न - उच्च न्यायालयः। 

कोच्चि> विवाहावसरे अन्यस्य प्रार्थनां विना पुत्र्याः क्षेमाय मातापितृजनैः दीयमानानि पारितोषिकाणि स्त्रीधनरूपेण न परिगण्यन्ते  इति उच्चन्यायालयेन प्रोक्तम्। विवाहसन्दर्भे प्रलब्धानि स्वस्य आभरणानि भर्तृसकाशात् प्रतिलब्धुं युवत्या परिदेवनं प्रदत्तमासीत्। आभरणानि तस्यै प्रतिदातुं कोल्लं जिल्ला स्त्रीधननिरोधनाधिकारिणा आदेशोऽपि दत्तः। तं विरुध्य तोटियूर् स्वदेशिना प्रदत्ते परिदेवने एव न्यायाधिपायाः एम् आर् अनितायाः निरीक्षणम्।

 अतिभीकरः अबु सरारः भारतसेनायाः गोलिकाप्रहारेण निहतः।

श्रीनगरम्> पाकिस्थानीयः अतिभीकरः अबुसरारः कश्मीरे भारतीयसेनायाः गोलिकास्त्रप्रयोगेण निहतः। कश्मीरे पुञ्च् प्रदेशे आपन्ने संघट्टने एव एषः निहतः इति सेनया वार्ताटिप्पण्या आवेदितम्। सैनिक -प्रक्रमाणां मध्ये जीवरक्षार्थं प्रयतमाने सन्दर्भे भीकराः सेनायाः उपरि गोलिकस्त्रप्रयोगं कृतमासीत्। पश्चात् संजाते प्रतिद्वन्दे एव भीकरः निहतः।

 भारते ओमिक्रोणबाधिताः ५७ अभवन्। 

नवदिल्ली> गतदिने महाराष्ट्रे ८, दिल्ल्यां ४ च जनाः नूतनतया ओमिक्रोणबाधिताः। अनेन राष्ट्रे आहत्य विषाणुबाधितानां संख्या ५७ जाता। इतःपर्यन्तं ६ राज्येषु २ केन्द्रशासनप्रदेशेषु च ओमिक्रोणबाधा दृष्टा। 

  अधिके रोगिणः महाराष्ट्रे वर्तन्ते - १८। दिल्ल्यां ६ जनाः ओमिक्रोणबाधिताः सन्ति।

Tuesday, December 14, 2021

 पूर्वं कोविड्रोगबाधितेभ्यः ओमिक्रोण् विभेदात् दृढप्रतिरोधः लभते इति अध्ययनानि सूचयन्ति।

बेय्जिङ्> कोविड्वाक्सिनस्य मात्राद्वयं स्वीकृतेभ्यः तथा पूर्वं रोगबाधितेभ्यः ओमिक्रोण् विभेदात् दृढप्रतिरोधः लभते इति निरीक्षणेन दृढीकृतम्। परन्तु अन्येषां विभेदापेक्षया ओमिक्रोण् वैराणुः आपत्कारी भवति इति गवेषकैः परीक्षणनिरीक्षणेन दृढीकृतम्। चीनस्य अन्ताराष्ट्रियभक्षण -भेषज-नियन्त्रण-संस्थायाः ( National institute for food and drug controller) गवेषकैः एव अध्ययने भागं स्वीकृताः। एमर्जिङ् आन्ड् इन्फ़ेक्षन् जेणल् मध्ये एव अध्ययनफल-प्रतिवेदनम् प्रकाशितम्।

 ओमिक्रोणः केरलं प्राप्तः। 

अनन्तपुरी> कोरोणाविषाणोः प्रभेदः ओमिक्रोणः केरलराज्ये एकस्मिन् पुरुषे स्थिरीकृतः। यू के राष्ट्रात् अबुदाबीद्वारा डिसंबर् षष्ठे दिनाङ्के कोच्चीं प्राप्तः ३९ वयस्कः एरणाकुलं प्रदेशीयः पुरुषः एव ओमिक्रोणबाधितः जातः।  प्रथमे दिने विमाननिलये कृतायां कोविड्शोधनायां फलम्  अभावात्मकमासीत्। किन्तु तदनन्तरं रोगलक्षणे दृष्टे कृतायां परिशोधनायां भावात्मके जाते जनितकपरिशोधनायां ओमिक्रोणस्य सान्निध्यं प्रत्यभिज्ञातम्। 

  केरले ओमिक्रोणः सन्दृष्टः इत्यस्मात् कर्कशाः जाग्रत्ताप्रक्षेपाः स्वीकृताः इति स्वास्थ्यमन्त्रिण्या वीणा जोर्ज् इत्यनया उक्तम्।

Monday, December 13, 2021

 प्रधानमन्त्री नरेन्द्रमोदी काशीधामसंपथः अद्य राष्ट्राय समर्पितवान्। 


नवदिल्ली> वाराणस्यां काशीविश्वनाथमन्दिरस्य तथा गङ्गानद्याः च संयोजनाय निर्मितस्य काशीधामसंपथस्य (corridor) उद्घाटनम् अद्य प्रधानमन्त्री नरेन्द्रमोदी कृतवान्। मध्याह्ने द्वादशवादने वाराणस्यां कालभैरवमन्दिरे दीपाराधनं दर्शितवान्। तदनन्तरं मध्याह्ने एकवादने काशीविश्वनाथदर्शनानन्तरं संपथस्य प्रथमतलस्य उद्घाटनकर्म अकरोत्। सायाह्ने षड्वादने गङ्गा आरतिषु च भागं स्वीकरिष्यति। काशीघामपरियोजनायाः कृते ८०० कोटिरूप्यकाणि एव केन्द्रसर्वकारेण प्रदत्तानि। श्वः सायंकाले ३.३० वादने वाराणस्यां स्वर्वेदमहामन्दिरदर्शनानन्तरं प्रधानमन्त्री नवदिल्ल्यां प्रस्थास्यति।

Sunday, December 12, 2021

 यु एस् राष्ट्रे चक्रवातः। केन्टक्कि देशे पञ्चाशत् जनाः मरणमुपगताः। देशे आपत्कालीनावस्था प्रख्यापिता। 


वाषिङ्टण्> यु एस् राष्ट्रस्य दक्षिण पूर्वराज्ये केन्टक्कि देशे आपन्ने चक्रवाते पञ्चाशत् जनाः मारिताः इति राज्यपालेन आन्डि बेषियरेण आवेदितम्। केन्टक्कि देशे राज्यपालेन आपत्कालीनावस्था प्रख्यापिता। मरणं शतपर्यन्तं वर्धते इत्यपि सः अवोचत्। इल्लिनोय्डे आमसोण् पण्याधाने (ware house) शताधिकजनाः बहिरागन्तुम् अशक्ताः भूत्वा बन्धिताः इति प्रादेशिकैः वार्तामाध्यमैः प्रतिवेदितम्। मेय्फिल्डे अपि अतिविनाशः अभवत् इति प्रतिवेदनमस्ति। मेय्फील्डस्थे सिक्तवर्तिकायाः यन्त्राकारः भग्नमभवत्। बहवः जनाः तत्र बहिः गन्तुम् अशक्ताः सन्तः गृहे बन्धिताः इत्येव आशङ्क्यते।

Saturday, December 11, 2021

 उदग्रयानदुर्घटना - संयुक्तसेनासङ्घस्य अन्वीक्षणमारब्धम्। 

कुनूर् [तमिलनाट्]> भारतस्य संयुक्तसेनामुख्यः जनरल् बिपिन रावतः तस्य पत्नी चाभिव्याप्य १३ सैनिकाधिकारिणाम् अपमृत्योः कारणभूताम् उदग्रयानदुर्घटनामधिकृत्य संयुक्तसेनासंघस्य अन्वीक्षणं दुर्घटनास्थाने आरब्धम्। तमिलनाटे कुन्नूरप्रदेशे घट्टनेन भग्नस्य 'मि 17 वि 5 उदग्रयानस्य ब्लाक् बोक्स् नामकमुपकरणमुपलब्धम्। 

   वायुसेनायाः परिशीलकप्रमुखः एयर् मार्षल् मानवेन्द्रसिंहस्य नेतृत्वे एव अन्वेषणं सम्पद्यते इति रक्षामन्त्री राजनाथसिंहः संसदि प्रस्तुतवान्। ड्रोणयन्त्राणां साहाय्येन विपुला परिशोधना आरब्धा। वायुसेनाधिकारी एयर् चीफ् मार्षल् विवेकरामचौधरी भग्नस्य उदग्रयानस्य यन्त्रांशान् निरीक्षितवान्।

 विश्वविद्यालयेषु सर्वकारस्य हस्तक्षेपः - केरलराज्यपालेन विप्रतिपत्तिः प्रकाशिता। 

 अनन्तपुरी / केरलम्> केरलराज्यपालेन आरिफ् मुहम्मद् खानेन विश्वविद्यालयेषु सर्वकारस्य कौटिल्येषु हस्तक्षेपेषु विप्रतिपत्तिः प्रकाशिता। घटनां संबन्ध्य तेन केरलस्य मुख्यमन्त्री लेखः दत्तः। विश्वविद्यालयेषु राजनैतिकहस्तक्षेपः अनुवर्तते चेत् कुलपतिपदवीं त्यक्तुं  सन्नद्धः इति सः अवदत्। कुलपतेः उत्तरदायित्वं केरलस्य मुख्यमन्त्रिः स्वयं निर्वहतु इत्यपि तेन लेखद्वारा आवेदितमस्ति। कण्णूर्विश्वविद्यालये तथा कालटि श्री शङ्कराचार्य संस्कृतविश्वविद्याये च कुलपतिनियुक्तिविषये सर्वकारस्य हस्तक्षेपः एव एवं वक्तुं राज्यपालाय प्रेरकः अभवत्। विश्वविद्यालयेषु  राजनैतिकस्य अतिप्रसरं राज्यपालेन संसूचितम्।  विश्वविद्यालयेषु  ईदृशरीत्याः अनुवर्तनम् उचितं न भवति। एषा रीतिः भाविनि काले दूरव्यापकप्रत्याघातानि स्रक्ष्यन्ति इत्यपि सः व्यजिज्ञपत्।

Friday, December 10, 2021

 सेनानायकाय राष्ट्रस्य अन्त्याञ्जलिः। 

नवदिल्ली> गतदिने तमिल्नाट् मध्ये कुनूर् प्रदेशे उदग्रयानदुर्घटनेन मृतस्य संयुक्तसेनाधिपस्य जनरल् बिपिन् रावत् वर्यस्य भौतिकशरीरं  तथा तस्य पत्नी मधुलिका रावत् वर्यायाः मृतदेहेन  च  सम्पूर्णसैनिकादरैः अन्त्येष्टिविधेयमभवत्। दिल्ल्यां ब्रार् चत्वरे चतुर्वादने सहस्राणां सान्निध्ये तयोः पुत्र्यौ कृतिका तरुणी च अन्त्यकर्माणि निरवहताम्। 

  प्रभाते कामराजमार्गस्थे भवने सामान्यजनानां दर्शनाय तयोः भौतिकशरीरे प्रदर्शयितम्। तदनन्तरं सैनिकाधिकारिणाम् अन्त्योपचारसमर्पणं सम्पन्नम्। ततः त्रिवादने ब्रार् चत्वरं प्रति सहस्राणां जनानामनुगमनेन विलापयात्रा प्रवृत्ता। बहवः देशीयनेतारः जनरल् वर्याय अन्त्याञजलिं समर्पितवन्तः।

Thursday, December 9, 2021

 नीलगिरौ उदग्रयानं प्रभज्य संयुक्तसेनामुख्यः बिपिन् रावतः तस्यस्य पत्नी तथा अन्ये त्रयोदश सैनिकप्रमुखाः च आहताः।


कुनूर् तमिल्नाडु> नीलगिरौ उदग्रयानं प्रभज्य संयुक्तसेनामुख्यः बिपिन् रावतः तस्यस्य पत्नी तथा अन्ये त्रयोदश सैनिकप्रमुखाः च मृताः। कोयम्बत्तूर् देशे सुलूर् विमानपत्तनात् ऊट्टिदेशनिकटे वेल्लिङटण् शिबिरं (contonment) प्रति यात्रावेलायां नीलगिरौ कूनूरस्थे काट्टेरि प्रदेशे एव अपघातः संवृतः। मध्याह्ने १२.२० वादने आसीत् अपघातः। प्रतिवेदनेन घटनेयं सर्वकारः व्यज्ञिपत्।

 नीलमणि फूकः, दामोदरमौसो वर्याभ्यां ज्ञानपीठपुरस्कारः। 

नवदिल्ली> असमीयभाषायाः विख्यातकविः नीलमणि फूकः गतवर्षस्य ज्ञानपीठपुरस्कारेण समादृतः। तथा च सुविदितः गोवन् आख्यायिकाकारः दामोदरमौसोवर्यः अस्य वर्षस्य च ज्ञानपीठपुरस्कारेण सम्मानितः। ११ लक्षं रूप्यकाणि कांस्यनिर्मितः सरस्वतीदेव्याः शिल्पश्च पुरस्काररूपेण दीयते। 

  'सूर्यहेनु नमि अहे इयि नोदियेदि' [सूर्यः अस्मिन् नदीतटे अस्तमनाय प्राप्नोति], 'कोबिता' इत्येते फूकस्य प्रसिद्धे रचने स्तः। कोबितानामककाव्यसमाहारः १९८१ तमे वर्षे साहित्याक्कादमीपुरस्कारेण सम्मानितः आसीत्। १९९० तमे अस्मै पद्मश्रीपुरस्कारोSपि लब्धः। दामोदरमौसो महाभागस्तु कोङ्कणिभाषायां आख्यायिकाः लघुकथाः बालसाहित्यकृतयः इत्यादीनां रचनया सुप्रसिद्धः भवति। 'कार्मेलिन्' इत्याख्यिकया स‌ः १९८३ तमे वर्षे साहित्य अक्कागमीपुरस्कारेण आदृतः आसीत्।

Wednesday, December 8, 2021

 आकस्मिकदुरन्ते भारतीयाः स्तब्धाः।

 व्रणितस्य संयुक्तसेनामुख्यस्य बिपिन् रावतस्य अवस्था अतीव गुरुतरा। तं वेल्लिङ्टणस्थं सैनिक आतुरालयं प्राविशत्।

केन्द्रप्रतिरोधमन्त्री राजनाथसिंहः अपघातं सम्बन्ध्य प्रधानमन्त्रिणा नरेन्द्रमोदिना सह चर्चित्वानन्तरं वार्तामाध्यमेभ्यः विशदीकरिष्यति। पश्चात् सः नीलगीरिं गमिष्यति। वेल्लिङ्टण् कन्टोन्मेन्ट् मध्ये संगोष्ठ्यां भागं स्वीकर्तुम् एव सेनामुख्यः प्रस्थितः आसीत् इति प्रतिवेद्यते।

 नीलगिरौ सैनिकं उदग्रयानं भग्नमभवत्। संयुक्तसेनामुख्यः बिपिन् रावत् तथा अन्ये सेनामुख्याः च उदग्रयाने आसीत्।


तमिल्नाट्> कुनूर् देशे संयुक्तसेनामुख्येन बिपिन् रावतेन सह याने यात्रां कुर्वन्तः उन्नतसैनिकप्रमुखाः नीलगिरि सानुप्रदेशेकुन्नूर् प्रदेशे उदग्रयानस्य घट्टनेन भग्ने जाते अतिदारुणया रीत्या दग्धवन्तः अभवन्। तेष्वेकः क्याप्टन् वरुणसिंहः अत्यापदि व्रणितः अपि चिकित्सालये यथायथं चिकित्सां स्वीकृत्य अधुना च श्वसिति। सञ्चरितम् उदग्रयानं नीलगिरौ भग्नमभवत्। मध्याह्ने एकवादने एव घटना संवृत्ता। बिपिन् रावत्, तस्य अङ्गरक्षकाः तथा सहायिनः, कुटुम्बाङ्गाः  च उदग्रयाने आसीत् इति ए एन् ऐ वार्ता माध्यमेन प्रतिवेदितम्। बिपिन् रावत्, पत्नी मधुलिका रावत्, ब्रिगेडियर् एल् एस् रिड्डर्, लेफ्. केणल् हर्जीन्दर् सिंहः, ड एन् के गुर्सेवक् सिंहः, एन् के जितेन्द्रकुमारः, लान्स् नायिक् विवेककुमारः, लान्स् नायिक् बि साय् तेज, हवील्दार् सत्पाल् इत्यादयः उदग्रयाने आसन्। चत्वारि मृतशरीराणि उपलब्धानि इति ए एन् ऐ  वार्तादलेन प्रतिवेदितम्। व्योमसेनायाः ए ऐ १७ वि ५ उदग्रयानमेव अपघाते भग्नमभवत् इति व्योमसेनया ट्वीट्ट् कृतम्। अपघातस्य कारणम् अन्वेष्टुं व्योमसेनया निर्देशो दत्तः।

 कोविडं प्रतिरोद्धुं गवेषकैः चर्वणकं  संस्फुटीकृतम्।

वाषिङ्टण्> कोविडस्य व्यापनं निरोद्धुं सक्षमं चर्वणकं (chewing-gum) गवेषकैः संस्फुटी कृतम्। कोविड्वैराणुप्रतिरोधकः सस्यनिर्मितप्रथिनं योजयित्वा एव चर्वणकं निर्मितम्। एतत् मुखस्रावे अन्तर्गतानां वैराणूनां संख्या आकुञ्च्य रोगव्यापनं निरुध्यते। लालाग्रन्थौ (saliva gland) एव वैराणुः बहुलायते। वैराणुं मुखस्रावे निवीर्यं कर्तुं चर्वणकं प्रभवति। रोगव्यापनस्य मूलं निरुध्यमाना ललिता रीतिरेव स्फुटीकृता इति गवेषणाय नेतृत्वं दीयमानेन यु एस् राष्ट्रस्य पेन्सिल्वेनिया विश्वविद्यालयस्थेन हेन्रि डानियेलेन प्रोक्तम्।

Tuesday, December 7, 2021

 ओमिक्रोण् : - विदेशराष्ट्रात् मुम्बैः विमाननिलयं प्राप्तवतः   १०९ जनान् प्रत्यभिज्ञातुं न शक्यते।

मुम्बै> राष्ट्रं कोविड् ओमिक्रोण् वैराणुव्यापनं विरुद्ध्य जाग्रतायां स्थितायं सत्यां विदेशराष्ट्रतः मुम्बैराष्ट्रं प्रत्यागताः १०९ जनाः अप्रत्यक्षाः अभवन्। विदेशात् आगतानां दूरवाण्याम् समाहूते सति तान् न लभते। दूरवाण्यः सुप्तावस्थायाम् आसन्। तैः दत्ताः सङ्केताः व्याजाः आसन्।  'At Risk' राष्ट्रतः समागताः सप्त दिनं यावन् एकान्ते वासः करणीयः। अष्टमे दिने रोगाणुपरीक्षा करणीया च। तदनन्तरं रोगाणुबाधितः चेदपि सप्तदिनानि यावत् पुनरपि एकान्तवासं करणीयम् इत्यस्ति निर्देशः। मुबैयां द्वयोः ओमिक्रोण् दृढीकृतम् । एवं महाराष्ट्रे आहत्य दशघटनाः दृढीकृताः।