OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 12, 2021

 यु एस् राष्ट्रे चक्रवातः। केन्टक्कि देशे पञ्चाशत् जनाः मरणमुपगताः। देशे आपत्कालीनावस्था प्रख्यापिता। 


वाषिङ्टण्> यु एस् राष्ट्रस्य दक्षिण पूर्वराज्ये केन्टक्कि देशे आपन्ने चक्रवाते पञ्चाशत् जनाः मारिताः इति राज्यपालेन आन्डि बेषियरेण आवेदितम्। केन्टक्कि देशे राज्यपालेन आपत्कालीनावस्था प्रख्यापिता। मरणं शतपर्यन्तं वर्धते इत्यपि सः अवोचत्। इल्लिनोय्डे आमसोण् पण्याधाने (ware house) शताधिकजनाः बहिरागन्तुम् अशक्ताः भूत्वा बन्धिताः इति प्रादेशिकैः वार्तामाध्यमैः प्रतिवेदितम्। मेय्फिल्डे अपि अतिविनाशः अभवत् इति प्रतिवेदनमस्ति। मेय्फील्डस्थे सिक्तवर्तिकायाः यन्त्राकारः भग्नमभवत्। बहवः जनाः तत्र बहिः गन्तुम् अशक्ताः सन्तः गृहे बन्धिताः इत्येव आशङ्क्यते।

Saturday, December 11, 2021

 उदग्रयानदुर्घटना - संयुक्तसेनासङ्घस्य अन्वीक्षणमारब्धम्। 

कुनूर् [तमिलनाट्]> भारतस्य संयुक्तसेनामुख्यः जनरल् बिपिन रावतः तस्य पत्नी चाभिव्याप्य १३ सैनिकाधिकारिणाम् अपमृत्योः कारणभूताम् उदग्रयानदुर्घटनामधिकृत्य संयुक्तसेनासंघस्य अन्वीक्षणं दुर्घटनास्थाने आरब्धम्। तमिलनाटे कुन्नूरप्रदेशे घट्टनेन भग्नस्य 'मि 17 वि 5 उदग्रयानस्य ब्लाक् बोक्स् नामकमुपकरणमुपलब्धम्। 

   वायुसेनायाः परिशीलकप्रमुखः एयर् मार्षल् मानवेन्द्रसिंहस्य नेतृत्वे एव अन्वेषणं सम्पद्यते इति रक्षामन्त्री राजनाथसिंहः संसदि प्रस्तुतवान्। ड्रोणयन्त्राणां साहाय्येन विपुला परिशोधना आरब्धा। वायुसेनाधिकारी एयर् चीफ् मार्षल् विवेकरामचौधरी भग्नस्य उदग्रयानस्य यन्त्रांशान् निरीक्षितवान्।

 विश्वविद्यालयेषु सर्वकारस्य हस्तक्षेपः - केरलराज्यपालेन विप्रतिपत्तिः प्रकाशिता। 

 अनन्तपुरी / केरलम्> केरलराज्यपालेन आरिफ् मुहम्मद् खानेन विश्वविद्यालयेषु सर्वकारस्य कौटिल्येषु हस्तक्षेपेषु विप्रतिपत्तिः प्रकाशिता। घटनां संबन्ध्य तेन केरलस्य मुख्यमन्त्री लेखः दत्तः। विश्वविद्यालयेषु राजनैतिकहस्तक्षेपः अनुवर्तते चेत् कुलपतिपदवीं त्यक्तुं  सन्नद्धः इति सः अवदत्। कुलपतेः उत्तरदायित्वं केरलस्य मुख्यमन्त्रिः स्वयं निर्वहतु इत्यपि तेन लेखद्वारा आवेदितमस्ति। कण्णूर्विश्वविद्यालये तथा कालटि श्री शङ्कराचार्य संस्कृतविश्वविद्याये च कुलपतिनियुक्तिविषये सर्वकारस्य हस्तक्षेपः एव एवं वक्तुं राज्यपालाय प्रेरकः अभवत्। विश्वविद्यालयेषु  राजनैतिकस्य अतिप्रसरं राज्यपालेन संसूचितम्।  विश्वविद्यालयेषु  ईदृशरीत्याः अनुवर्तनम् उचितं न भवति। एषा रीतिः भाविनि काले दूरव्यापकप्रत्याघातानि स्रक्ष्यन्ति इत्यपि सः व्यजिज्ञपत्।

Friday, December 10, 2021

 सेनानायकाय राष्ट्रस्य अन्त्याञ्जलिः। 

नवदिल्ली> गतदिने तमिल्नाट् मध्ये कुनूर् प्रदेशे उदग्रयानदुर्घटनेन मृतस्य संयुक्तसेनाधिपस्य जनरल् बिपिन् रावत् वर्यस्य भौतिकशरीरं  तथा तस्य पत्नी मधुलिका रावत् वर्यायाः मृतदेहेन  च  सम्पूर्णसैनिकादरैः अन्त्येष्टिविधेयमभवत्। दिल्ल्यां ब्रार् चत्वरे चतुर्वादने सहस्राणां सान्निध्ये तयोः पुत्र्यौ कृतिका तरुणी च अन्त्यकर्माणि निरवहताम्। 

  प्रभाते कामराजमार्गस्थे भवने सामान्यजनानां दर्शनाय तयोः भौतिकशरीरे प्रदर्शयितम्। तदनन्तरं सैनिकाधिकारिणाम् अन्त्योपचारसमर्पणं सम्पन्नम्। ततः त्रिवादने ब्रार् चत्वरं प्रति सहस्राणां जनानामनुगमनेन विलापयात्रा प्रवृत्ता। बहवः देशीयनेतारः जनरल् वर्याय अन्त्याञजलिं समर्पितवन्तः।

Thursday, December 9, 2021

 नीलगिरौ उदग्रयानं प्रभज्य संयुक्तसेनामुख्यः बिपिन् रावतः तस्यस्य पत्नी तथा अन्ये त्रयोदश सैनिकप्रमुखाः च आहताः।


कुनूर् तमिल्नाडु> नीलगिरौ उदग्रयानं प्रभज्य संयुक्तसेनामुख्यः बिपिन् रावतः तस्यस्य पत्नी तथा अन्ये त्रयोदश सैनिकप्रमुखाः च मृताः। कोयम्बत्तूर् देशे सुलूर् विमानपत्तनात् ऊट्टिदेशनिकटे वेल्लिङटण् शिबिरं (contonment) प्रति यात्रावेलायां नीलगिरौ कूनूरस्थे काट्टेरि प्रदेशे एव अपघातः संवृतः। मध्याह्ने १२.२० वादने आसीत् अपघातः। प्रतिवेदनेन घटनेयं सर्वकारः व्यज्ञिपत्।

 नीलमणि फूकः, दामोदरमौसो वर्याभ्यां ज्ञानपीठपुरस्कारः। 

नवदिल्ली> असमीयभाषायाः विख्यातकविः नीलमणि फूकः गतवर्षस्य ज्ञानपीठपुरस्कारेण समादृतः। तथा च सुविदितः गोवन् आख्यायिकाकारः दामोदरमौसोवर्यः अस्य वर्षस्य च ज्ञानपीठपुरस्कारेण सम्मानितः। ११ लक्षं रूप्यकाणि कांस्यनिर्मितः सरस्वतीदेव्याः शिल्पश्च पुरस्काररूपेण दीयते। 

  'सूर्यहेनु नमि अहे इयि नोदियेदि' [सूर्यः अस्मिन् नदीतटे अस्तमनाय प्राप्नोति], 'कोबिता' इत्येते फूकस्य प्रसिद्धे रचने स्तः। कोबितानामककाव्यसमाहारः १९८१ तमे वर्षे साहित्याक्कादमीपुरस्कारेण सम्मानितः आसीत्। १९९० तमे अस्मै पद्मश्रीपुरस्कारोSपि लब्धः। दामोदरमौसो महाभागस्तु कोङ्कणिभाषायां आख्यायिकाः लघुकथाः बालसाहित्यकृतयः इत्यादीनां रचनया सुप्रसिद्धः भवति। 'कार्मेलिन्' इत्याख्यिकया स‌ः १९८३ तमे वर्षे साहित्य अक्कागमीपुरस्कारेण आदृतः आसीत्।

Wednesday, December 8, 2021

 आकस्मिकदुरन्ते भारतीयाः स्तब्धाः।

 व्रणितस्य संयुक्तसेनामुख्यस्य बिपिन् रावतस्य अवस्था अतीव गुरुतरा। तं वेल्लिङ्टणस्थं सैनिक आतुरालयं प्राविशत्।

केन्द्रप्रतिरोधमन्त्री राजनाथसिंहः अपघातं सम्बन्ध्य प्रधानमन्त्रिणा नरेन्द्रमोदिना सह चर्चित्वानन्तरं वार्तामाध्यमेभ्यः विशदीकरिष्यति। पश्चात् सः नीलगीरिं गमिष्यति। वेल्लिङ्टण् कन्टोन्मेन्ट् मध्ये संगोष्ठ्यां भागं स्वीकर्तुम् एव सेनामुख्यः प्रस्थितः आसीत् इति प्रतिवेद्यते।

 नीलगिरौ सैनिकं उदग्रयानं भग्नमभवत्। संयुक्तसेनामुख्यः बिपिन् रावत् तथा अन्ये सेनामुख्याः च उदग्रयाने आसीत्।


तमिल्नाट्> कुनूर् देशे संयुक्तसेनामुख्येन बिपिन् रावतेन सह याने यात्रां कुर्वन्तः उन्नतसैनिकप्रमुखाः नीलगिरि सानुप्रदेशेकुन्नूर् प्रदेशे उदग्रयानस्य घट्टनेन भग्ने जाते अतिदारुणया रीत्या दग्धवन्तः अभवन्। तेष्वेकः क्याप्टन् वरुणसिंहः अत्यापदि व्रणितः अपि चिकित्सालये यथायथं चिकित्सां स्वीकृत्य अधुना च श्वसिति। सञ्चरितम् उदग्रयानं नीलगिरौ भग्नमभवत्। मध्याह्ने एकवादने एव घटना संवृत्ता। बिपिन् रावत्, तस्य अङ्गरक्षकाः तथा सहायिनः, कुटुम्बाङ्गाः  च उदग्रयाने आसीत् इति ए एन् ऐ वार्ता माध्यमेन प्रतिवेदितम्। बिपिन् रावत्, पत्नी मधुलिका रावत्, ब्रिगेडियर् एल् एस् रिड्डर्, लेफ्. केणल् हर्जीन्दर् सिंहः, ड एन् के गुर्सेवक् सिंहः, एन् के जितेन्द्रकुमारः, लान्स् नायिक् विवेककुमारः, लान्स् नायिक् बि साय् तेज, हवील्दार् सत्पाल् इत्यादयः उदग्रयाने आसन्। चत्वारि मृतशरीराणि उपलब्धानि इति ए एन् ऐ  वार्तादलेन प्रतिवेदितम्। व्योमसेनायाः ए ऐ १७ वि ५ उदग्रयानमेव अपघाते भग्नमभवत् इति व्योमसेनया ट्वीट्ट् कृतम्। अपघातस्य कारणम् अन्वेष्टुं व्योमसेनया निर्देशो दत्तः।

 कोविडं प्रतिरोद्धुं गवेषकैः चर्वणकं  संस्फुटीकृतम्।

वाषिङ्टण्> कोविडस्य व्यापनं निरोद्धुं सक्षमं चर्वणकं (chewing-gum) गवेषकैः संस्फुटी कृतम्। कोविड्वैराणुप्रतिरोधकः सस्यनिर्मितप्रथिनं योजयित्वा एव चर्वणकं निर्मितम्। एतत् मुखस्रावे अन्तर्गतानां वैराणूनां संख्या आकुञ्च्य रोगव्यापनं निरुध्यते। लालाग्रन्थौ (saliva gland) एव वैराणुः बहुलायते। वैराणुं मुखस्रावे निवीर्यं कर्तुं चर्वणकं प्रभवति। रोगव्यापनस्य मूलं निरुध्यमाना ललिता रीतिरेव स्फुटीकृता इति गवेषणाय नेतृत्वं दीयमानेन यु एस् राष्ट्रस्य पेन्सिल्वेनिया विश्वविद्यालयस्थेन हेन्रि डानियेलेन प्रोक्तम्।

Tuesday, December 7, 2021

 ओमिक्रोण् : - विदेशराष्ट्रात् मुम्बैः विमाननिलयं प्राप्तवतः   १०९ जनान् प्रत्यभिज्ञातुं न शक्यते।

मुम्बै> राष्ट्रं कोविड् ओमिक्रोण् वैराणुव्यापनं विरुद्ध्य जाग्रतायां स्थितायं सत्यां विदेशराष्ट्रतः मुम्बैराष्ट्रं प्रत्यागताः १०९ जनाः अप्रत्यक्षाः अभवन्। विदेशात् आगतानां दूरवाण्याम् समाहूते सति तान् न लभते। दूरवाण्यः सुप्तावस्थायाम् आसन्। तैः दत्ताः सङ्केताः व्याजाः आसन्।  'At Risk' राष्ट्रतः समागताः सप्त दिनं यावन् एकान्ते वासः करणीयः। अष्टमे दिने रोगाणुपरीक्षा करणीया च। तदनन्तरं रोगाणुबाधितः चेदपि सप्तदिनानि यावत् पुनरपि एकान्तवासं करणीयम् इत्यस्ति निर्देशः। मुबैयां द्वयोः ओमिक्रोण् दृढीकृतम् । एवं महाराष्ट्रे आहत्य दशघटनाः दृढीकृताः। 

 भारते इंदप्रथमतया 'आविश्वशिक्षा नगरम्' इति स्थानप्राप्तये केरल-कर्णाटकयोः नगराणि  परिगण्यन्ते।

नवदिल्ली> युनेस्को संस्थायाः आविश्वशिक्षानगर (global learning city) श्रृङ्खलायां केरलतः तृश्शूर्देशः निलम्पूर् देशः तथा कर्णाटकतः वारङ्गल् नगरं च सन्निवेशयितुं केन्द्रसर्वकारेण अनुकूलनिर्देशो दत्तः। अद्यावधि भारतात्  किमपि राज्यम् अस्यां पट्टिकायां न अन्तर्गतम्। जनुवरि/ फेब्रुवरि मासाभ्यन्तरे युनेस्को संस्था द्वारा औद्योगिकं विज्ञापनं भविष्यति। तत् पश्चात् बेयूजिङ् (चीनः), आतन्स् (ग्रीस्), डब्लिन् (अयर्लन्ड्), ग्लास्गो (यु के), हांबर्ग् (जर्मनि), ओक्कयाम (जापानम्), मेल्टण् (ओस्ट्रेलिया), सावो पौले (ब्रसीलः), इञ्चियोण् (दक्षिणकोरिया), सुरबाय । (इन्डोनेष्या), इत्यादीनि नगराणि अन्तर्गतायां आविश्वशिक्षानगरपट्टिकायां केरल कर्णाटकयोः नगराणि अपि अन्तर्भविष्यन्ति।

 भारते ओमिक्रोणबाधिताः २१; दिल्ली राजस्थाने च स्थिरीकृतः। 

नवदिल्ली> कर्णाटकं, महाराष्ट्रं, गुजरात् राज्यानि अनुगम्य दिल्ली राजस्थानराज्ययोरपि ओमिक्रोणः स्थिरीकृतः। १८ जनाः नूतनतया ओमिक्रोणबाधिताः जाताः।    आफ्रिक्कास्थात् टान्सानियाराष्ट्रात् दिल्लीं प्राप्तः कश्चन ३७ वयस्कः, महाराष्ट्रे ७  जनाः , राजस्थाने नव जनाश्च गतदिने रोगबाधिताः अभवन्।

Monday, December 6, 2021

युक्रैन् राष्ट्रस्य सीमनि पादोनद्विलक्षं सैनिकाः तथा दूरवेधिन्यः च रष्येण विन्यस्ताः।

वाषिङ्टण्> युक्रैन् सीमनि रष्यया पादोनद्विलक्षं सैनिकान् तथा दूरवेधिन्यः च विन्यस्य  अधिनिवेशाय सज्जीकरणानि करोति इति सूचना। जनुवरि मासे युक्रैन् राष्ट्रस्योपरि रष्यस्य सेनायाः आक्रमणं भविष्यति इति यु एस् गुप्तान्वेषणविभागस्य सूचना लब्धा इति वाषिङ्टण् पोस्ट् वार्ताहरैः प्रतिवेदितम्। सीमानिकटे रष्येण लक्षशः सैनिकाः विन्यस्ताः। आगामिनि मासे स्वराष्ट्रस्योपरि आक्रमणं भवेत् इति युक्रैन् प्रतिरोधमान्त्रिणा ओलेक्सिय् रेस्निकोवेन पूर्वम् सूचितमासीत्। नाट्टो सेनायां भागं स्वीकर्तु युक्रैनाय अनुमतिः न दातव्या इति रष्यस्य राष्ट्रपतिना व्लाडिमर् पुतिनेन यु एस् राष्ट्रपतये बैडनाय आदेशः अपि दत्तः आसीत्। तत्पश्चात् एव नूतनप्रतिवेदनम्।

Sunday, December 5, 2021

 ओमिक्रोणः ३८ राष्ट्रेषु, मरणं न विज्ञापितम्। 

जनीवा> कोविड्विषाणोः नूतनः प्रभेदः ओमिक्रोण् नामकः आविश्वं ३८ राष्ट्रेषु विज्ञापितः इति विश्वस्वास्थ्यसंघटनेन निगदितम्। मरणं एतावत्पर्यन्तं (कस्मादपि प्रदेशात्) न आवेदितम्।  यू एस् , आस्ट्रेलिया राष्ट्रयोः प्रादेशिकव्यापनं स्थिरीकृतम्। अमेरिक्कायां १० राज्येषु रोगः व्यापृतः।

 'जवाद्' चक्रवातः दुर्बलोऽभवत्; आशङ्का दूरीकरोति।

भुवनेश्वरं> ह्यः ओडीशा-आन्ध्रप्रदेशतीरं संप्राप्तः जवादचक्रवातः दुर्बलः अभवत्। रविवासरे यदा पुरीं सम्प्राप्नोति तदा न्यूनमर्दरूपेण परिवर्त्य वृष्टेः कारणं भविष्यति इति पर्यावरणविभागेन स्पष्टीकृतम्। 

  प्रतिहोरां ४ कि मी वेगेनैव इदानीं वातः सञ्चरति इत्यतः  आन्ध्रः, ओडीषा, पश्चिमवंगः इत्येतानि राज्यानि आश्वस्तानि वर्तन्ते।

 महाराष्ट्रेषु अपि ओमिक्रोण् वैराणुः दृढीकृतः। राष्ट्रे चतुर्थतमं प्रकरणं भवति एतत्।

 मुम्बै> कर्णाटकां गुजरात्तं च अतिरिच्य महाराष्ट्रेषु अपि कोविडस्य ओमिक्रोण् विभेदः (बि१.१.५२९) दृढीकृतः। मुम्बैनगरे कल्याण् डोंबिवालि नगरपालिका प्रदेशे दक्षिणाफ्रिक्कादेशात् आगते पुरुषे एव रोगः निर्णीतः। एवं राष्ट्रे ओमिक्रोण् विभेदं दृढीकृतानां संख्या चतस्रः अभवत्। त्रयस्त्रिंशत् वयस्कः एषः नवम्बर् मासस्य २३ तमे दिने एव दक्षिणाफ्रिक्कात् दुबाय् मार्गेण दिल्लीविमानपत्तनं प्राप्तः। तत्रतः विमानमार्गेण मुम्बै देशं प्राप्तः। तेन साकं यात्रां कृतवतां प्रत्यभिज्ञातुं परिश्रमः अनुवर्तते इति महाराष्ट्रस्य स्वास्थ्यविभागस्य निदेशिकया डो. अर्चना पाडील् महाभागया आवेदितम्।

Saturday, December 4, 2021

 वायुसेनायाः मिराष् युद्धविमानस्य चक्रं अपहृतम्। आरक्षकैः अन्वेषणं समारब्धम्।

लख्नौ> मिराष् युद्धविमानस्य चक्रेषु एकम् अपहृतम्। जोड्पूरस्थे वायुसेनापत्तनेषु प्रेषणाय लख्नौदेशस्य बक्षि तलाब् वायुसेनानिस्थानात् (Air base) भारवाहकयानद्वारा सैनिकोपकरणानि  प्रेषितानि आसन्। तस्मात् भारवाहकयानात् एव चक्रेषु एकं विनष्टम् अभवत्। स्कोर्पियो याने आगतः संघः एव चौर्यकर्म कृतम्। ते  अद्यावधि न प्रत्यभिज्ञाताः। लख्नौदेशमध्ये  गमनागमनसम्मर्दे यानगमनावसरे एव चौर्यं कृतम्। यानचालकः बहिः आगतः तथापि चोराः अप्रत्यक्षाः अभवन्। रात्रौ १२.३०-०१.०० मध्ये एव चोरणं कृतम् इति यानचालकेन आरक्षकं प्रति न्यवेदयत्।

Friday, December 3, 2021

 ओमिक्रोणः अतिशीघ्रं व्याप्यते; २४ राष्ट्रेषु वैराणुः स्थिरीकृतः।

जोहनास्बर्ग्> दक्षिणाफ्रिक्कराष्ट्रे ओमिक्रोणवैराणुः अतिशीघ्रं व्याप्यते। २४ होरासु रोगबाधितानां संख्या द्विगुणा अभवदिति अधिकृतैरुक्तम्। बुधवासरे ओमिक्रोणबाधिताः ४३०० जनाः आसन् । ह्यः ८५०० जनाः रोगबाधिताः अभवन्। 

   अद्यावधि २४ राष्ट्रेषु ओमिक्रोणः दृढीकृतः। अमेरिक्का, स्पेयिन्, भारतम् इत्यादीनि इत्यादीनी नूतनानि रोगस्थिरीकृतराष्ट्राणि भवन्ति।