OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 20, 2021

 ओस्ट्रेलियेषु कुलीराणां कृते पिधानम्।

मेल्बण्> पञ्चकोटि अरुणभीमकुलीराः प्रतिसंवत्सरं नवंबर् मासे वर्षानन्तरं यूथीभूय वनात् बहिरागच्छन्ति। यानमार्गाणि तरणं कृत्वा प्रजननाय समुद्रं प्रति यात्राम् अनुवर्तन्ते। एतेषां कुलिराणां सुरक्षितयात्रां दृढीकर्तुं पश्चिमओस्ट्रेलियस्य क्रिस्मस् द्विपः कुलीराणां सुरक्षितयात्रायै कृते पिधानं प्रख्यापितम्। एते अरुणवर्णविशेषकुलीराः भारतमहासमुद्रस्थे अस्मिन् लघुद्वीपे एव द्रष्टुं शक्यते। प्रजननार्थं पुरुषकुलीराः एव प्रथमं समुद्रतीरं प्राप्स्यन्ति। ततः पश्चात् स्त्रीकुलीराः अपि समुद्रतीरं प्राप्नुवन्ति। जीविनां मध्ये अतिबृहत्तमं देशान्तरगमनं भवति एतत् इति विशेषज्ञाः वदन्ति।

 विद्यालयस्य अध्यापकेभ्यः क्षमतानुसारं निष्कृतिः स्थानोन्नतिश्च ।

नवदिल्ली> केवलं छात्रेभ्यः न विद्यालयाध्यापकेभ्यः अपि अङ्कः भविष्यति। राष्ट्रस्य विद्यालयाध्यापकेभ्यः अपि तेषां प्रवर्तनक्षमताम् अनुसृत्य मूल्यनिर्णयाय सुविधा सज्जायते। एतस्याः कृते राष्ट्रिय शिक्षकशिक्षापरिषदेन (NCTE) राष्ट्रिय शिक्षानयस्य अधारेण राष्ट्रिय उद्योगमानकस्य (NPST) प्राथमिक रूपं सङ्कल्पितम्। अध्यापकानां निष्कृतिवर्धनं स्थानोन्नतिः च नूतनमानकस्य आधारेण भविष्यति। इदानीम् अध्यापकेषु केचन शैक्षिकक्षमतायुक्ताः न इति प्रत्यभिज्ञाय भवति नूतनं विचिन्तनम्।

Friday, November 19, 2021

 अरुणाचले पुनरपि चीनेन भवनानि निर्मितानि।


नवदिल्ली> अरुणाचले पुनरपि चीनेन भवनानि निर्मितानि। ५० संख्याकानि भवनानि निर्मितानि इति नूतनोपग्रहचित्राणि संसूचयन्ति। २०१९ तमे संवत्सरे एतादृशानि भवनानि न आसन्। किन्तु नूतनतया प्रकाशितेषु उपग्रहचित्रेषु  चीनेन  निर्मितानां भवनानां चित्राणि द्रष्टुं शक्यन्ते।  चीनेन निर्मितानि इमानि भवनानि अधिकृत्य जनुवरि मासे एन् डि टि वि प्रतिवेदितमासीत्। पश्चात् पेन्टगणेन घटना एषा दृढीकृता च। तदनन्तरमेव पुनरपि चीनेन ६० अधिकानि भवनानि अपि अरुणाचले एवं निर्मितानि इति प्रतिवेदनमपि बहिरागतम् ।

अपरराष्ट्रस्य भूमेः स्वायत्तीकरणं भारतस्य स्वभावः न। येन केनापि राष्ट्रेण वा भवतु भारतं नाशयितुं विरुद्धतया सीमातिक्रमो वा गूढतन्त्रेण अन्येन वा प्रवर्त्येत तेषां उचितां प्रतिक्रियां लभ्येत, नैवात्र संशयः।  भारतभूमिं संरक्षितुं अस्माकं धीराः सैनिकाःशक्ताः सज्जाः च इति प्रतिरोधमन्त्रिणा राजनाथसिंहेन निगदितम्।

Thursday, November 18, 2021

 निजीय आतुरालयेषु संभृताः २.४० लक्षं मात्रामितस्य कोविड् वाक्सिनस्य  नाशः भविष्यति ?।

अनन्तपुरी> राज्ये निजीयआतुरालयेषु संभृताः२.४० लक्षं कोविड् वाक्सिनमात्राः  उपयोगशून्याः भविष्यन्ति इति आशङ्क्यते। केरलराज्य-सर्वकारेण मेडिक्कल् सर्वीसस् संस्था द्वारा वितीरितः वाक्सिनः अपि अस्मिन् अन्तर्भवति। वाक्सिनं प्रत्याहर्तुं संप्रार्थितोऽपि राज्यसर्वकारेण तथा सीरम् इन्स्टिट् ट्यूट् ओफ् इन्ड्यया च प्रक्रमाः न स्वीकृताः। षण्मासपर्यन्तमेव भवति कोविषील्डस्य क्षीयकालपरिधिः इत्यतः नाशसाध्यता अस्ति। कोवाक्सिनः अपि आतुरालये संभृतः वर्तते। राज्यसर्वकारस्य सकाशे अपि पर्याप्तं वाक्सिनसञ्जयम् अस्ति।

 अधिजालकक्रीडाद्वारा द्वयोः बालकयोः प्राणाः विनष्टाः। 

कोच्ची> कौमारवयस्कानाम् अधिजालकदास्यं द्वयोः प्राणानपाहरत्। केरले इरिङ्ङालक्कुटा प्रदेशे आकाशनामकः कश्चन १४ वयस्कः ओण्लैन् क्रीडया नष्टद्रव्यः इति पितृभ्यां ज्ञातमिति प्रत्यभिज्ञाने समीपस्थां वापीमुत्प्लुत्य प्राणानत्यजत्। इरिङ्ङालक्कुटा नाषणल् विद्यालये नवमकक्ष्याछात्रः आसीत्। 

    तिरुवनन्तपुरं जनपदस्थे चिरयिन्कीष़् निवासी साबित् मुहम्मदनामकः अन्यः १४ वयस्कोSपि एतादृशकारणेन नष्टप्राणः अभवत्। कून्तल्लूर् प्रेम्नसीर् स्मारकसर्वकारीयविद्यालये नवमीकक्ष्याछात्रः नवम्बर् ८तमदिनाङ्के उद्बन्धनेन मृतः आसीत्। तस्य अधिजालकपठनार्थं दत्तायां चलद्दूरवाण्यां निगूढसंख्यामुपयुज्य संरक्षितानि बहूनि क्रीडानिवेशनानि [Game Apps] दृष्टानि। अतः तस्य मरणमपि ओण् लैन् क्रीडायाः कारणेनेति सूच्यते।

 पोच्चम्पल्लि ग्रामाय ऐक्यराष्ट्र सभायाः अङ्गीकारः लब्धः।


 तेलङ्काना> तेलङ्कानस्थः पोच्चम्पल्लि ग्रामः उत्तम पर्यटनयोग्य-ग्रामत्वेन यु एन् डब्लियु टि  संस्थया (united nations World tourism Organization) अङ्गीकृतः। दिसंबर् मासस्य द्वितीये दिनाङ्के स्पेयिन् राष्ट्रे माड्रिडिल् जनपदे प्रचाल्यमाने २४ तम पर्यटनसङ्घटनस्य सामान्य जनसभायां (tourism organization general assembly) पुरस्कारः दास्यति। पश्चिमोत्तरमण्डलस्य केन्द्र-सांस्कृतिक-पर्यटनविभागस्य मन्त्री जि किषन् रेड्डी पोच्चम्पल्ली देशजनान् अभ्यनन्तयत्। भारतस्य प्रधानमन्त्रिणः आत्मनिर्भरभारतस्य  'वोक्कल् फोर् लोक्कल्' योजना द्वारा पोच्चम्पल्लि ग्रामस्य  स्वकीय-पट्टाम्बर-वयनरीतये सविशेषपरिगणना लब्धा इति सः अवदत्।

Wednesday, November 17, 2021

 विश्वस्मिन् धनिकराष्ट्रं चीनः। 

बीजिंग्> विश्वस्मिन् धनिकतमं राष्ट्रमिति पदम् अमेरिक्कामतिक्रम्य चीनेन स्वायत्तीकृतम्। सूरिच् आस्थानत्वेन वर्तमानस्य Makkincy Global Institute इत्यस्य आवेदनपत्रे एव एतद्वृत्तान्तः प्रकाशितः। आगोलार्थिकद्रव्यं गतदशकद्वये त्रियुगलं वर्धितमिति सूच्यते। 

   २०२० तमे आविश्वं समग्रं आर्थिकद्रव्यं ५१४ लक्षं कोटि डोलर् इति गणना कृता। तत्र १२० लक्षं कोटि डोलर् चीनस्य अधीशत्वे अस्ति। अमेरिक्कायाः अधीशत्वं ९० लक्षं कोटि डोलर् परिमितं भवति।

Tuesday, November 16, 2021

 शबरिगिरितीर्थाटनाय अद्य शुभारम्भः - अतिवृष्टिहेतुना तीर्थाटकानां नियन्त्रणम्। 

पत्तनंतिट्टा> 'तत्त्वमसी'ति उपनिषद्वाक्यस्य आशयं स्वांशीकृत्य दक्षिणभारतस्य शबरिगिरितीर्थाटनमद्य आरभते। शबरिगिरि श्रीधर्मशास्तृमन्दिरं आचारक्रममनुसृत्य ह्यः उद्घाटितम्। भक्तानाम् अद्य आरभ्य दर्शनं साध्यं भवति। कोविडनुशासनानि परिपाल्य ये  'वेर्च्वल् क्यू' द्वारा  दर्शनाय अनुज्ञापत्रं प्राप्तवन्तः तेभ्यः एव प्रवेशानुमतिः विहिता। 

  केरले गतदिनत्रयेण अनुवर्तमानया अतिवृष्ट्या भक्तानां संख्या नियन्त्रिता भवेत्। पम्पानद्यां जलोपप्लवः जातः इत्यतः  पम्पास्नानं निरुद्धं वर्तते। 

  अय्यप्पभक्तानां सुखतीर्थाटनाय अपेक्षिताः पदक्षेपाः सर्वे पूर्तीकृताः इति सर्वकार-देवस्वं बोर्ड् अधिकारिभिः निगदितम्।

Monday, November 15, 2021

 वायुमलिनीकरणं तीव्रं- पूर्णपिधानमालक्ष्य राजधानी।

  नवदिल्ली> वायुमलिनीकरणे अतितीव्रे जाते राष्ट्रराजधान्यां विपत्कालीनावस्था। दीपावल्याः अनन्तरं दिल्लीनगरान्तरिक्षस्य अवस्था अतिशोचनीया जाता। शनिवासरस्य प्रभाते वायुमलिनीकरणसूचिका ४७१ अङ्किता। सूचिकाङ्कनं ४०० - ५०० इति प्राप्यते चेत् अतितीव्रमन्तरिक्षमलिनीकरणं कल्प्यते। 

   अन्तरिक्षः धूमावृतः वर्तते। नगरवासिनः जनाः श्वासोच्छ्वासाय अतिक्लेशमनुभवन्ति। कर्कशानि नियन्त्रणानि नगरे दिल्लीमुख्यमन्त्रिणा अरविन्द केज्रिवालेन विहितानि। तदनुसृत्य सर्वकारकार्यालयेषु सप्ताहं यावत्  'गृहतः कर्म' [Work from Home] विहितम्। सोमवासरादारभ्य सप्ताहं यावत् विद्यालयाः पिहिताः भविष्यन्ति। निर्माणप्रवर्तनानि निरुद्धानि।

Sunday, November 14, 2021

 संस्कृतभाषायाः प्रथम ज्ञानपीठजेता डा. सत्यव्रतशास्त्री दिवङ्गतः।


संस्कृतभाषायाः प्रथम ज्ञानपीठ पुरस्कारजेता डा. सत्यव्रतशास्त्री दिवङगतः। कविः पण्डितश्च अयं त्रयः महाकाव्याः त्रयः खण्डकाव्याः एकः प्रबन्धकाव्याश्च रचिताः। 


 क्षररहिता संस्कृतभाषा, सा मातृवत् छात्राणाम् उन्नमनाय भवतीति राज्ञी अश्वति तिरुनाल् गौरी लक्ष्मी भाई तम्पुराट्टी


कालटी> केरलसंस्कृताध्यापकफेडरेषन् संघटनस्य दायित्वे राज्यस्तरीयवनितासङ्गमं मातृकम् 2021 इति नाम्ना अतिविपुलया रीत्या प्राचलत्। सर्वासां भाषाणां जननी क्षररहिता संस्कृतभाषा, सा मातृवत् छात्राणाम् उन्नमनाय भवतीति, तया भाषया मातृशक्तिरपि प्रचोदिता इति अस्य कार्यक्रमस्य उद्घाटिका श्रीमती अश्वति तिरुनाल् गौरी लक्ष्मी भाई तम्पुराट्टी अवदत्। केरलस्य तिरुवनन्तपुरं राजवंशस्य राज्ञी भवति एषा| अधुनातनकाले सङ्घटना नेतृत्वक्षेत्रेषु कार्यं कृतवतः सर्वान् प्रचोदयित्वा, स्वीयानुभवेन शैक्षणिकक्षेत्रं समूलम् आवाहयित्वा, तत्र विशिष्य संस्कृतशिक्षकाणां योगदानं कथं भवेदिति स्वीयवाग्चातुर्येण प्रकाशितवती गुरुवायूर् श्रीकृष्णा- कलालयस्य संस्कृतविभागस्य सहाचार्या डा.लक्ष्मी शङ्कर् महाभागा। केरलसंस्कृताध्यापक-फेडरेषन् संस्थायाः पूर्वतनसारथिरासीत् स्वर्गीयः श्रीमान् पी.जि अजित्प्रसाद् महाशयः। तस्य चरणपङ्कजेषु श्रद्धाञ्जलिं समर्प्य तस्यानुस्मरणं कृतवान्, केरलसंस्कृताध्यापकफेडरेषन् संस्थायाः राज्यस्तरीयकार्यदर्शी श्री. सी. पि. सनल्चन्द्रन् महाशयः। के.एस्.टि.एफ् संस्थायाः राज्यस्तरीयाध्यक्षः श्री टि के सन्तोष् कुमार् महाशयः, के.डी.एस्.टि.एफ् संघटनस्य राज्यस्तरीयाध्यक्षः श्री पि पद्मनाभन् महाशयः, के.एस्.टि.एफ् संघटनस्य भूतपूर्व उपाध्यक्षा श्रीमती रतिमहाभागा च आशंसाभाषणं कृतवन्तः। मातृकस्य मुख्यकार्यदर्शिनः श्रीमती षैलजा, श्रीमती विजयलक्ष्मी, श्रीमती कृष्णप्रिया, श्रीमती रेवती, श्रीमती सुगिषा, श्रीमती  स्मृति च स्वाभिमतान् प्रकटितवत्यः। अन्तर्जालद्वारा आसीत् राज्यस्थरीयम् इदं मेलनम्।

 महाराष्ट्रे २६ मावोवादिनः प्रतिद्वन्द्वे निहताः। 


मुम्बई> महाराष्ट्रस्य गड्चिरोलि जनपदस्थे वनमण्डले आरक्षकसेनया सह प्रवृत्ते भुशुण्डिप्रयोगे २६ मावोवादिनः निहताः। नागपुरात् २०० कि मी दूरे छत्तीसगढ सीम्नि वर्तमाने वनान्तर्भागे शनिवासरे प्रभाते आसीत् भुशुण्डिप्रयोगः प्रवृत्तः। सायं चतुर्वादनपर्यन्तं प्रतिद्वन्द्वः अभवत्। २६ मृतशरीराणि अधिगतानीति महाराष्ट्रस्य आरक्षकाधिकारिणा उक्तम्। 

  मावोवादिसंघं प्रतिरोद्धुं सविशेषपरिशीलनं लब्धवन्तः ४०० आरक्षकभटाः सेनायाः जनपदीयसहाधीशस्य सौम्य मुण्टे इत्यस्य नेतृत्वे प्रतिद्वन्द्वे भागं कृतवन्तः। दशाधिकाः मावोवादिनः चत्वार‌ः आरक्षकाश्च व्रणिताः।

 नवम्बर् मासस्य नवदशदिनाङ्के दृष्टिपथमायाति अपूर्वं चन्द्रग्रहणम्।


कोलकत्ता> ५४० संवत्सराभ्यन्तरे अतिदैर्घ्ययुक्तं भागिकं चन्द्रग्रहणं नवम्बर् मासे नवदश दिनाङ्के द्रक्ष्यति। पूर्वोत्तरराज्यस्य अरुणाचलप्रदेशस्य असमस्य च केषुचित् भागेषु एतत् अपूर्वं चन्द्रगहणं द्रष्टुं शक्यते इति एम् पि बिर्ल  प्लानिट्टोरियं रिसर्च आन्ट् अक्कादमिक संस्थायाः आयुक्तेन देबिप्रोसाद् दुरै महाभागेन प्रोक्तम्। नवम्बर् मासे नवदश दिनाङ्के मध्याह्ने १२.४८ वादने आरभ्य सायाह्ने ४.१७ वादने चन्द्रग्रहणमिदं परिसमाप्स्यते।

Saturday, November 13, 2021

अतिवृष्टिः - केरले २१६ कोटिरूप्यकाणां कृषिनाशः। 

कोच्ची> गतमासस्य १६,१७,१८ दिनाङ्केषु प्रवृत्तायाः अतिवृष्ट्याः दुष्प्रभावेण आराज्यं २१,९४१ हेक्टर् परिमितानां क्षेत्राणां कृषयः विनाशिताः। मानदण्डमनुसृत्य २१६.३कोटिरूप्यकाणां नाशः अभवदिति कृषिविभागस्य गणनेन सूच्यते। नष्टपरिहाराय अद्यावधि ६६,३२२ कृषकाः अर्थनापत्राणि समर्पितवन्तः।अर्थनापत्राणां समर्पणीयदिनाङ्कः नवंबर १५पर्यन्तं दीर्घितः अस्ति। 

  तृश्शिवपेरूर् जनपदे अधिकतरः कृषिनाशः अभवदिति सूच्यते। तत्र ६७७९ कृषकाणां ११,९६७ हेक्टरपरिमितस्य नाशः अभवत्। ततः कोट्टयं, आलप्पुष़ा, पालक्काट्, एरणाकुलं जनपदेषु एव अधिकाधिकः कृषिनाशः जातः। अन्येषु जनपदेषु अपि व्यापकरीत्या कृषिनाशः अभवत्।

 द्रुमकन्दपत्रेषु अर्बुदौषधम् अस्ति। संयुक्तगवेषणाय इस्रयेलः।

केरलम्> द्रुमकन्दपत्रेषु (Tapioca) अर्बुदरोगप्रतिरोधांशाः सन्ति इति सूचना। अनन्तपुरस्थे सि टि सि आर् ऐ (Central Tuber Cropes Research Institute) मुख्यवैज्ञानिकस्य सि ए जयप्रकाशस्य नेतृत्वे संपन्ने अनुसन्धाने भवति इदं प्रत्यभिज्ञानम्। द्रुमकन्दपत्रे विद्यमानः सयनोजन् नाम अंशः एव अर्बुदरोगप्रतिरोधकः। टोक्सिकोलजि नाम अन्ताराष्ट्रियगवेषणपत्रिकायां विषयमिदं प्रकाशितम् अस्ति।

Friday, November 12, 2021

 वंगसमुद्रे न्यूनमर्दावकाशः। केरलेषु आगामिनि पञ्चदिनपर्यन्तम् अतिवृष्टिः भविष्यति।

अनन्तपुरी> वंगसममुद्रे दक्षिण आन्ड्मान् समुद्रे शनिवासरे नूतनन्यूनमर्दस्य आविर्भावाय अवकाशः अस्ति इति केन्द्र-वातावरणमन्त्रालयेन आवेदितम्। ४८ होराभ्यन्तरे न्यूनमर्दः प्रबलः भविष्यति इत्यपि पूर्वसूचना दत्ता। केरलेषु आगामिनि पञ्चदिनं यावत् अतिवृष्टेः अवकाशः अस्ति इत्यपि पूर्वसूचना  प्रदत्ता।  पश्चिमवातस्य गतिः अपि शक्ता भविष्यति चेत् आगामिनि होरासु गिरिप्रदेशेषु अपि वृष्टेः अवकाशः अस्ति। अतः तीरप्रदेशेषु गिरिप्रदेशेषु च जाग्रता पालनीया।

 शीतीकरणसुविधां विना संरक्षितुं योग्यं  कोविड् वाक्सिनः आयाति। 

कोविडस्य नूतनप्रभेदान् च प्रतिरोद्धुं शक्तः नूतनः वाक्सिनः आयाति। उत्पादनं ललितं भवति। शीतीकरणसुविधा न आवश्यकी इति तस्य सविशेषता। प्रथिनम् (protein) आधारीकृत्य एव वाक्सिनः निर्मितः। यु एस् राष्ट्रे बोस्टने शिशूनाम् आतुरालयस्थाः गवेषणसङ्घाङ्गाः एव वाक्सिनस्याऽस्य निर्मातारः।

 एम् वि नटेशः रेल् विकास निगमस्य निदेशकरूपेण नियुक्तः। 


 कालटी> श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य व्याकरणविभागे प्राचार्यः डो एम् वि नटेशः केन्द्रसर्वकारस्य रेल् विकास् निगम लिमिटड् संस्थायाः निदेशकरूपेण नियुक्तः। प्रशस्तः प्रभाषकोऽयम् अमृतभारत्याः राज्याध्यक्षः संस्कृतभारत्याः उपाध्यक्षश्चास्ति। कालटी विश्वविद्यालयस्य अन्तर्देशीयाध्ययनकेन्द्रस्य सहनिदेशकश्चासीत्।

  तृश्शिवपेरूरस्थे कोलष़िनिवासी अयम् उपविंशतिसंख्याकान् ग्रन्थान् शताधिकान् गवेषणप्रबन्धान् च विरचितवान्।