OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 16, 2021

 शबरिगिरितीर्थाटनाय अद्य शुभारम्भः - अतिवृष्टिहेतुना तीर्थाटकानां नियन्त्रणम्। 

पत्तनंतिट्टा> 'तत्त्वमसी'ति उपनिषद्वाक्यस्य आशयं स्वांशीकृत्य दक्षिणभारतस्य शबरिगिरितीर्थाटनमद्य आरभते। शबरिगिरि श्रीधर्मशास्तृमन्दिरं आचारक्रममनुसृत्य ह्यः उद्घाटितम्। भक्तानाम् अद्य आरभ्य दर्शनं साध्यं भवति। कोविडनुशासनानि परिपाल्य ये  'वेर्च्वल् क्यू' द्वारा  दर्शनाय अनुज्ञापत्रं प्राप्तवन्तः तेभ्यः एव प्रवेशानुमतिः विहिता। 

  केरले गतदिनत्रयेण अनुवर्तमानया अतिवृष्ट्या भक्तानां संख्या नियन्त्रिता भवेत्। पम्पानद्यां जलोपप्लवः जातः इत्यतः  पम्पास्नानं निरुद्धं वर्तते। 

  अय्यप्पभक्तानां सुखतीर्थाटनाय अपेक्षिताः पदक्षेपाः सर्वे पूर्तीकृताः इति सर्वकार-देवस्वं बोर्ड् अधिकारिभिः निगदितम्।

Monday, November 15, 2021

 वायुमलिनीकरणं तीव्रं- पूर्णपिधानमालक्ष्य राजधानी।

  नवदिल्ली> वायुमलिनीकरणे अतितीव्रे जाते राष्ट्रराजधान्यां विपत्कालीनावस्था। दीपावल्याः अनन्तरं दिल्लीनगरान्तरिक्षस्य अवस्था अतिशोचनीया जाता। शनिवासरस्य प्रभाते वायुमलिनीकरणसूचिका ४७१ अङ्किता। सूचिकाङ्कनं ४०० - ५०० इति प्राप्यते चेत् अतितीव्रमन्तरिक्षमलिनीकरणं कल्प्यते। 

   अन्तरिक्षः धूमावृतः वर्तते। नगरवासिनः जनाः श्वासोच्छ्वासाय अतिक्लेशमनुभवन्ति। कर्कशानि नियन्त्रणानि नगरे दिल्लीमुख्यमन्त्रिणा अरविन्द केज्रिवालेन विहितानि। तदनुसृत्य सर्वकारकार्यालयेषु सप्ताहं यावत्  'गृहतः कर्म' [Work from Home] विहितम्। सोमवासरादारभ्य सप्ताहं यावत् विद्यालयाः पिहिताः भविष्यन्ति। निर्माणप्रवर्तनानि निरुद्धानि।

Sunday, November 14, 2021

 संस्कृतभाषायाः प्रथम ज्ञानपीठजेता डा. सत्यव्रतशास्त्री दिवङ्गतः।


संस्कृतभाषायाः प्रथम ज्ञानपीठ पुरस्कारजेता डा. सत्यव्रतशास्त्री दिवङगतः। कविः पण्डितश्च अयं त्रयः महाकाव्याः त्रयः खण्डकाव्याः एकः प्रबन्धकाव्याश्च रचिताः। 


 क्षररहिता संस्कृतभाषा, सा मातृवत् छात्राणाम् उन्नमनाय भवतीति राज्ञी अश्वति तिरुनाल् गौरी लक्ष्मी भाई तम्पुराट्टी


कालटी> केरलसंस्कृताध्यापकफेडरेषन् संघटनस्य दायित्वे राज्यस्तरीयवनितासङ्गमं मातृकम् 2021 इति नाम्ना अतिविपुलया रीत्या प्राचलत्। सर्वासां भाषाणां जननी क्षररहिता संस्कृतभाषा, सा मातृवत् छात्राणाम् उन्नमनाय भवतीति, तया भाषया मातृशक्तिरपि प्रचोदिता इति अस्य कार्यक्रमस्य उद्घाटिका श्रीमती अश्वति तिरुनाल् गौरी लक्ष्मी भाई तम्पुराट्टी अवदत्। केरलस्य तिरुवनन्तपुरं राजवंशस्य राज्ञी भवति एषा| अधुनातनकाले सङ्घटना नेतृत्वक्षेत्रेषु कार्यं कृतवतः सर्वान् प्रचोदयित्वा, स्वीयानुभवेन शैक्षणिकक्षेत्रं समूलम् आवाहयित्वा, तत्र विशिष्य संस्कृतशिक्षकाणां योगदानं कथं भवेदिति स्वीयवाग्चातुर्येण प्रकाशितवती गुरुवायूर् श्रीकृष्णा- कलालयस्य संस्कृतविभागस्य सहाचार्या डा.लक्ष्मी शङ्कर् महाभागा। केरलसंस्कृताध्यापक-फेडरेषन् संस्थायाः पूर्वतनसारथिरासीत् स्वर्गीयः श्रीमान् पी.जि अजित्प्रसाद् महाशयः। तस्य चरणपङ्कजेषु श्रद्धाञ्जलिं समर्प्य तस्यानुस्मरणं कृतवान्, केरलसंस्कृताध्यापकफेडरेषन् संस्थायाः राज्यस्तरीयकार्यदर्शी श्री. सी. पि. सनल्चन्द्रन् महाशयः। के.एस्.टि.एफ् संस्थायाः राज्यस्तरीयाध्यक्षः श्री टि के सन्तोष् कुमार् महाशयः, के.डी.एस्.टि.एफ् संघटनस्य राज्यस्तरीयाध्यक्षः श्री पि पद्मनाभन् महाशयः, के.एस्.टि.एफ् संघटनस्य भूतपूर्व उपाध्यक्षा श्रीमती रतिमहाभागा च आशंसाभाषणं कृतवन्तः। मातृकस्य मुख्यकार्यदर्शिनः श्रीमती षैलजा, श्रीमती विजयलक्ष्मी, श्रीमती कृष्णप्रिया, श्रीमती रेवती, श्रीमती सुगिषा, श्रीमती  स्मृति च स्वाभिमतान् प्रकटितवत्यः। अन्तर्जालद्वारा आसीत् राज्यस्थरीयम् इदं मेलनम्।

 महाराष्ट्रे २६ मावोवादिनः प्रतिद्वन्द्वे निहताः। 


मुम्बई> महाराष्ट्रस्य गड्चिरोलि जनपदस्थे वनमण्डले आरक्षकसेनया सह प्रवृत्ते भुशुण्डिप्रयोगे २६ मावोवादिनः निहताः। नागपुरात् २०० कि मी दूरे छत्तीसगढ सीम्नि वर्तमाने वनान्तर्भागे शनिवासरे प्रभाते आसीत् भुशुण्डिप्रयोगः प्रवृत्तः। सायं चतुर्वादनपर्यन्तं प्रतिद्वन्द्वः अभवत्। २६ मृतशरीराणि अधिगतानीति महाराष्ट्रस्य आरक्षकाधिकारिणा उक्तम्। 

  मावोवादिसंघं प्रतिरोद्धुं सविशेषपरिशीलनं लब्धवन्तः ४०० आरक्षकभटाः सेनायाः जनपदीयसहाधीशस्य सौम्य मुण्टे इत्यस्य नेतृत्वे प्रतिद्वन्द्वे भागं कृतवन्तः। दशाधिकाः मावोवादिनः चत्वार‌ः आरक्षकाश्च व्रणिताः।

 नवम्बर् मासस्य नवदशदिनाङ्के दृष्टिपथमायाति अपूर्वं चन्द्रग्रहणम्।


कोलकत्ता> ५४० संवत्सराभ्यन्तरे अतिदैर्घ्ययुक्तं भागिकं चन्द्रग्रहणं नवम्बर् मासे नवदश दिनाङ्के द्रक्ष्यति। पूर्वोत्तरराज्यस्य अरुणाचलप्रदेशस्य असमस्य च केषुचित् भागेषु एतत् अपूर्वं चन्द्रगहणं द्रष्टुं शक्यते इति एम् पि बिर्ल  प्लानिट्टोरियं रिसर्च आन्ट् अक्कादमिक संस्थायाः आयुक्तेन देबिप्रोसाद् दुरै महाभागेन प्रोक्तम्। नवम्बर् मासे नवदश दिनाङ्के मध्याह्ने १२.४८ वादने आरभ्य सायाह्ने ४.१७ वादने चन्द्रग्रहणमिदं परिसमाप्स्यते।

Saturday, November 13, 2021

अतिवृष्टिः - केरले २१६ कोटिरूप्यकाणां कृषिनाशः। 

कोच्ची> गतमासस्य १६,१७,१८ दिनाङ्केषु प्रवृत्तायाः अतिवृष्ट्याः दुष्प्रभावेण आराज्यं २१,९४१ हेक्टर् परिमितानां क्षेत्राणां कृषयः विनाशिताः। मानदण्डमनुसृत्य २१६.३कोटिरूप्यकाणां नाशः अभवदिति कृषिविभागस्य गणनेन सूच्यते। नष्टपरिहाराय अद्यावधि ६६,३२२ कृषकाः अर्थनापत्राणि समर्पितवन्तः।अर्थनापत्राणां समर्पणीयदिनाङ्कः नवंबर १५पर्यन्तं दीर्घितः अस्ति। 

  तृश्शिवपेरूर् जनपदे अधिकतरः कृषिनाशः अभवदिति सूच्यते। तत्र ६७७९ कृषकाणां ११,९६७ हेक्टरपरिमितस्य नाशः अभवत्। ततः कोट्टयं, आलप्पुष़ा, पालक्काट्, एरणाकुलं जनपदेषु एव अधिकाधिकः कृषिनाशः जातः। अन्येषु जनपदेषु अपि व्यापकरीत्या कृषिनाशः अभवत्।

 द्रुमकन्दपत्रेषु अर्बुदौषधम् अस्ति। संयुक्तगवेषणाय इस्रयेलः।

केरलम्> द्रुमकन्दपत्रेषु (Tapioca) अर्बुदरोगप्रतिरोधांशाः सन्ति इति सूचना। अनन्तपुरस्थे सि टि सि आर् ऐ (Central Tuber Cropes Research Institute) मुख्यवैज्ञानिकस्य सि ए जयप्रकाशस्य नेतृत्वे संपन्ने अनुसन्धाने भवति इदं प्रत्यभिज्ञानम्। द्रुमकन्दपत्रे विद्यमानः सयनोजन् नाम अंशः एव अर्बुदरोगप्रतिरोधकः। टोक्सिकोलजि नाम अन्ताराष्ट्रियगवेषणपत्रिकायां विषयमिदं प्रकाशितम् अस्ति।

Friday, November 12, 2021

 वंगसमुद्रे न्यूनमर्दावकाशः। केरलेषु आगामिनि पञ्चदिनपर्यन्तम् अतिवृष्टिः भविष्यति।

अनन्तपुरी> वंगसममुद्रे दक्षिण आन्ड्मान् समुद्रे शनिवासरे नूतनन्यूनमर्दस्य आविर्भावाय अवकाशः अस्ति इति केन्द्र-वातावरणमन्त्रालयेन आवेदितम्। ४८ होराभ्यन्तरे न्यूनमर्दः प्रबलः भविष्यति इत्यपि पूर्वसूचना दत्ता। केरलेषु आगामिनि पञ्चदिनं यावत् अतिवृष्टेः अवकाशः अस्ति इत्यपि पूर्वसूचना  प्रदत्ता।  पश्चिमवातस्य गतिः अपि शक्ता भविष्यति चेत् आगामिनि होरासु गिरिप्रदेशेषु अपि वृष्टेः अवकाशः अस्ति। अतः तीरप्रदेशेषु गिरिप्रदेशेषु च जाग्रता पालनीया।

 शीतीकरणसुविधां विना संरक्षितुं योग्यं  कोविड् वाक्सिनः आयाति। 

कोविडस्य नूतनप्रभेदान् च प्रतिरोद्धुं शक्तः नूतनः वाक्सिनः आयाति। उत्पादनं ललितं भवति। शीतीकरणसुविधा न आवश्यकी इति तस्य सविशेषता। प्रथिनम् (protein) आधारीकृत्य एव वाक्सिनः निर्मितः। यु एस् राष्ट्रे बोस्टने शिशूनाम् आतुरालयस्थाः गवेषणसङ्घाङ्गाः एव वाक्सिनस्याऽस्य निर्मातारः।

 एम् वि नटेशः रेल् विकास निगमस्य निदेशकरूपेण नियुक्तः। 


 कालटी> श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य व्याकरणविभागे प्राचार्यः डो एम् वि नटेशः केन्द्रसर्वकारस्य रेल् विकास् निगम लिमिटड् संस्थायाः निदेशकरूपेण नियुक्तः। प्रशस्तः प्रभाषकोऽयम् अमृतभारत्याः राज्याध्यक्षः संस्कृतभारत्याः उपाध्यक्षश्चास्ति। कालटी विश्वविद्यालयस्य अन्तर्देशीयाध्ययनकेन्द्रस्य सहनिदेशकश्चासीत्।

  तृश्शिवपेरूरस्थे कोलष़िनिवासी अयम् उपविंशतिसंख्याकान् ग्रन्थान् शताधिकान् गवेषणप्रबन्धान् च विरचितवान्।

Thursday, November 11, 2021

 मुल्लप्पेरियार् - वृक्षखण्डनादेशः निरस्तः; उन्नताधिकारिणे वृत्तिनिरोधः।

अनन्तपुरी> केरले मुल्लप्पेरियार् सेतोः 'बेबी डाम्' नामकबालसेतुं शक्तीकर्तुमुद्दिश्य तस्य समीपे वर्तमानान् १५ वृक्षान् खण्डयितुं तमिल्नाट् सर्वकाराय अनुज्ञां दीयमानः केरलवनंविभागस्य आदेशः केरलमन्त्रिमण्डलेन निरस्तः। 

   घोषणापत्रप्रख्यापकः वनविभागस्य मुख्यवनपालकः बेन्निच्चन् तोमस् इत्याख्यः सर्वकारेण वृत्तिनिरोधाय कल्पितः। केरलस्य राजनैतिकमण्डले साप्ताहिकं यावत् निरन्तरवादप्रतिवादाय कारणभूतस्यास्य प्रकरणस्य अन्तिममयं क्रियाविधिः अधिकारिणं बलिदानं कृत्वा सर्वकारस्य रक्षाप्रप्तिरिति आक्षेपः जातः अस्ति। 

  वृक्षखण्डनाय केन्द्रपरिस्थितिविभागस्य अनुज्ञा तथा अस्मिन् विषये केरलमन्त्रिमण्डलस्य च अनुज्ञा नाभवदिति कारणेनैव मुख्यवनपालकस्य घोषणापत्रं निरस्तम्।

 नौसेनायाः नूतनः अधिकारी।

नवदिल्ली> केरलीयः वैस् अड्मिरल् आर् हरिकुमारः भारतीयनौसेनाया‌ः नूतनः नायकः भविष्यति। अनन्तपुरं प्रदेशीयः अयं इदं स्थानं प्राप्यमाणः प्रथमो केरलीयो भवति। अद्यतनाधिकारी अड्मिरल् करंबीरसिंहः नवम्बर् ३० तमे विरम्यते। 

  पश्चिम 'नेवल् कमान्ड्'मध्ये फ्लाग् ओफीसर् कमान्डिंग् इति स्थानमलङंकुर्वन्नस्ति सः। प्रशंसार्हसेवायै विशिष्टसेवापुरस्कारः, अतिविशिष्ट - परमविशिष्ट सेवा पुरस्कारौ च अस्मै लब्धा‌ः सन्ति।

Wednesday, November 10, 2021

 चीनेन अत्याधुनिकयुद्धनौका पाकिस्थानाय प्रदत्ता।

बेय्जिंङ्> भारतमहासमुद्रे प्रतिरोधम् आलक्ष्य पाकिस्थानाय अत्याधुनिकयुद्धनौका चीनेन प्रदत्ता। "एन् एस् तुग्रिल्' नामिका नौका चीनस्य सर्वकारीय नौकानिर्माणायोगेन एव निर्मिता। चीनस्थे षाङ्हाय् देशे सोमवासरे प्रचलिते कार्यक्रमे नौका पाकिस्थानस्य नाविकसेनायै प्रदत्ता। स्थलात् स्थलेषु, स्थलात् आकाशेषु, जलान्तर्भागात् च आक्रमणं कर्तुं सक्षमा भवति नौका एषा।

 भारतमालक्ष्य चीनस्य नूतनकार्यक्षेपः - पाकिस्थानाय अत्याधुनिकी युद्धमहानौका दत्ता।

 बीजिङ्ग्> भारतमहासमुद्रे प्रतिरोधपदक्षेपं लक्ष्यीकृत्य पाकिस्थानाय अत्याधुनिकी युद्धमहानौका चीनेन दत्ता। 'पि एन् एस् तुग्रिल्' इति कृतनानधेया महानौका चीनसर्वकारस्य महानौकानिर्माणसंस्थया एव निर्मिता। 

  चीने षाङ्हायि स्थाने आयोजिते कार्यक्रमे आसीदियं दानक्रिया प्रवृत्ता। तिस्रः महानौकाः अपि देयाः इति सूच्यते।

 चिलिदेशे वस्त्राचलः। परिस्थितिमलिनीकरणस्य अपरं रूपम्।

चिलिदेशे अट्टक्काम मरुप्रदेशे परित्यक्तानि वस्त्राणि शैलाकारं प्राप्नोति। उपयोगरहितानि तथा विक्रयणरहितानि वस्त्राणि एव परित्यक्तानि। उपयोगरहितानां विक्रयणरहितानां वस्त्राणाम् आकारेण सम्पन्नः भवति चिलिदेशः। एतेषां वस्त्राणाम् अत्र उपभोक्तारः सन्ति। चीनेषु तथा बंग्लादेशेषु च निर्माय यूरोप्पेषु अमेरिक्केषु च भ्रमणं कृत्वा अन्ते चिलिदेशे आयाति। लाट्टिनमेरिक्कादेशेषु पुनः विक्रीयते। किन्तु विक्रयणरहितानि शिष्टानि ३९,००० टण् वस्त्राणि मरुप्रदेशे निक्षिपन्ते। एतानि वस्त्राणि भूमौ न लीयन्ते। वस्त्रेषु अन्तर्गतानि रासवस्तूनि अपि पारिस्थितिकां समस्यां जनयन्ति ।

 भारतीयवाक्सिनप्रमाणपत्रं ९६ राष्ट्रैः अङ्गीकृतम् इति स्वास्थ्यमन्त्रालयः।  

नवदिल्ली> कोविडस्य कारणेन यात्रानियन्त्रणान् अतिक्रमितुं ९६ राष्ट्रैः साकं परस्परावगमनं संप्राप्तम् इति केन्द्रस्वास्थ्यमन्त्रिणा मन्सुख् माण्डव्येन प्रोक्तम्। एतत् अन्यराष्ट्रेषु भारतीयानां यात्राः सुगमं कर्तुं प्रभवति  इति मन्त्रिणा निगदितम्। कोवि षील्ड् वाक्सिनः अपि विश्वस्वास्थ्यसंघटनेन अङ्गीकृताः अन्यवाक्सिनः च स्वीकृतानां प्रमाणपत्राणि च भारतेन अङ्गीकृताः इत्यपि केन्द्रस्वास्थ्यमन्त्रालयेन आवेदितम्। एतस्मात् राष्ट्रात् भारतम् आगतेगभ्यः जनेभ्यः कोविड्  मानकनियमेषु समाश्वासः वर्तते। कोविड् पोर्टल् द्वारा स्वीकृतस्य कोविड् प्रमाणपत्रमुपयुज्य एतेषु राष्ट्रेषु यात्रां कर्तुं शक्यते।

Tuesday, November 9, 2021

 हिमो नास्ति, हिमसंहतिः नास्ति। विषफेनेन प्लाविता यमुनानदी।

नवदिल्ली> मलिनीकरणकारणेन नवदिल्ल्यां कालिन्दीकुञ्जस्य समीपे यमुनानद्यां विषफेनः रूपीकृतः। यमुनानद्याः विविधभागाः विषफेनेन आवृताः भवन्।  'चाट्' पूजायां भागं स्वीकर्तुं बहवः भक्ताः  अत्र आगतवन्तः आसन्। नद्याम् अमोणियायाः तथा फोस्फेट् मिश्रितस्य च आधिक्यमेव विषफेनरूपीकरणस्य कारणम्। यन्त्राकारात् नद्यां रासमालिन्यानां  क्षेपणमेव जले अमोणियायाः तथा फोस्फरस् मिश्रितस्य च आधिक्यस्य कारणम् ।

दिनचतुष्टयं यावत् दीर्घितायां चाट्ट् पूजायां प्रधानतया सूर्यदेवमेव आराधयन्ति। बीहार् तथा जार्खण्डदेशीयाः एव मुख्यतया पूजायां भागं स्वीकुर्वन्ति। आराधना वेलायां भक्ताः नद्यां स्नानं कुर्वन्ति। नदी तु मालिन्यानाम् आधि क्येन उपयोक्तुं न शक्यते च।