OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 14, 2021

 महाराष्ट्रे २६ मावोवादिनः प्रतिद्वन्द्वे निहताः। 


मुम्बई> महाराष्ट्रस्य गड्चिरोलि जनपदस्थे वनमण्डले आरक्षकसेनया सह प्रवृत्ते भुशुण्डिप्रयोगे २६ मावोवादिनः निहताः। नागपुरात् २०० कि मी दूरे छत्तीसगढ सीम्नि वर्तमाने वनान्तर्भागे शनिवासरे प्रभाते आसीत् भुशुण्डिप्रयोगः प्रवृत्तः। सायं चतुर्वादनपर्यन्तं प्रतिद्वन्द्वः अभवत्। २६ मृतशरीराणि अधिगतानीति महाराष्ट्रस्य आरक्षकाधिकारिणा उक्तम्। 

  मावोवादिसंघं प्रतिरोद्धुं सविशेषपरिशीलनं लब्धवन्तः ४०० आरक्षकभटाः सेनायाः जनपदीयसहाधीशस्य सौम्य मुण्टे इत्यस्य नेतृत्वे प्रतिद्वन्द्वे भागं कृतवन्तः। दशाधिकाः मावोवादिनः चत्वार‌ः आरक्षकाश्च व्रणिताः।

 नवम्बर् मासस्य नवदशदिनाङ्के दृष्टिपथमायाति अपूर्वं चन्द्रग्रहणम्।


कोलकत्ता> ५४० संवत्सराभ्यन्तरे अतिदैर्घ्ययुक्तं भागिकं चन्द्रग्रहणं नवम्बर् मासे नवदश दिनाङ्के द्रक्ष्यति। पूर्वोत्तरराज्यस्य अरुणाचलप्रदेशस्य असमस्य च केषुचित् भागेषु एतत् अपूर्वं चन्द्रगहणं द्रष्टुं शक्यते इति एम् पि बिर्ल  प्लानिट्टोरियं रिसर्च आन्ट् अक्कादमिक संस्थायाः आयुक्तेन देबिप्रोसाद् दुरै महाभागेन प्रोक्तम्। नवम्बर् मासे नवदश दिनाङ्के मध्याह्ने १२.४८ वादने आरभ्य सायाह्ने ४.१७ वादने चन्द्रग्रहणमिदं परिसमाप्स्यते।

Saturday, November 13, 2021

अतिवृष्टिः - केरले २१६ कोटिरूप्यकाणां कृषिनाशः। 

कोच्ची> गतमासस्य १६,१७,१८ दिनाङ्केषु प्रवृत्तायाः अतिवृष्ट्याः दुष्प्रभावेण आराज्यं २१,९४१ हेक्टर् परिमितानां क्षेत्राणां कृषयः विनाशिताः। मानदण्डमनुसृत्य २१६.३कोटिरूप्यकाणां नाशः अभवदिति कृषिविभागस्य गणनेन सूच्यते। नष्टपरिहाराय अद्यावधि ६६,३२२ कृषकाः अर्थनापत्राणि समर्पितवन्तः।अर्थनापत्राणां समर्पणीयदिनाङ्कः नवंबर १५पर्यन्तं दीर्घितः अस्ति। 

  तृश्शिवपेरूर् जनपदे अधिकतरः कृषिनाशः अभवदिति सूच्यते। तत्र ६७७९ कृषकाणां ११,९६७ हेक्टरपरिमितस्य नाशः अभवत्। ततः कोट्टयं, आलप्पुष़ा, पालक्काट्, एरणाकुलं जनपदेषु एव अधिकाधिकः कृषिनाशः जातः। अन्येषु जनपदेषु अपि व्यापकरीत्या कृषिनाशः अभवत्।

 द्रुमकन्दपत्रेषु अर्बुदौषधम् अस्ति। संयुक्तगवेषणाय इस्रयेलः।

केरलम्> द्रुमकन्दपत्रेषु (Tapioca) अर्बुदरोगप्रतिरोधांशाः सन्ति इति सूचना। अनन्तपुरस्थे सि टि सि आर् ऐ (Central Tuber Cropes Research Institute) मुख्यवैज्ञानिकस्य सि ए जयप्रकाशस्य नेतृत्वे संपन्ने अनुसन्धाने भवति इदं प्रत्यभिज्ञानम्। द्रुमकन्दपत्रे विद्यमानः सयनोजन् नाम अंशः एव अर्बुदरोगप्रतिरोधकः। टोक्सिकोलजि नाम अन्ताराष्ट्रियगवेषणपत्रिकायां विषयमिदं प्रकाशितम् अस्ति।

Friday, November 12, 2021

 वंगसमुद्रे न्यूनमर्दावकाशः। केरलेषु आगामिनि पञ्चदिनपर्यन्तम् अतिवृष्टिः भविष्यति।

अनन्तपुरी> वंगसममुद्रे दक्षिण आन्ड्मान् समुद्रे शनिवासरे नूतनन्यूनमर्दस्य आविर्भावाय अवकाशः अस्ति इति केन्द्र-वातावरणमन्त्रालयेन आवेदितम्। ४८ होराभ्यन्तरे न्यूनमर्दः प्रबलः भविष्यति इत्यपि पूर्वसूचना दत्ता। केरलेषु आगामिनि पञ्चदिनं यावत् अतिवृष्टेः अवकाशः अस्ति इत्यपि पूर्वसूचना  प्रदत्ता।  पश्चिमवातस्य गतिः अपि शक्ता भविष्यति चेत् आगामिनि होरासु गिरिप्रदेशेषु अपि वृष्टेः अवकाशः अस्ति। अतः तीरप्रदेशेषु गिरिप्रदेशेषु च जाग्रता पालनीया।

 शीतीकरणसुविधां विना संरक्षितुं योग्यं  कोविड् वाक्सिनः आयाति। 

कोविडस्य नूतनप्रभेदान् च प्रतिरोद्धुं शक्तः नूतनः वाक्सिनः आयाति। उत्पादनं ललितं भवति। शीतीकरणसुविधा न आवश्यकी इति तस्य सविशेषता। प्रथिनम् (protein) आधारीकृत्य एव वाक्सिनः निर्मितः। यु एस् राष्ट्रे बोस्टने शिशूनाम् आतुरालयस्थाः गवेषणसङ्घाङ्गाः एव वाक्सिनस्याऽस्य निर्मातारः।

 एम् वि नटेशः रेल् विकास निगमस्य निदेशकरूपेण नियुक्तः। 


 कालटी> श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य व्याकरणविभागे प्राचार्यः डो एम् वि नटेशः केन्द्रसर्वकारस्य रेल् विकास् निगम लिमिटड् संस्थायाः निदेशकरूपेण नियुक्तः। प्रशस्तः प्रभाषकोऽयम् अमृतभारत्याः राज्याध्यक्षः संस्कृतभारत्याः उपाध्यक्षश्चास्ति। कालटी विश्वविद्यालयस्य अन्तर्देशीयाध्ययनकेन्द्रस्य सहनिदेशकश्चासीत्।

  तृश्शिवपेरूरस्थे कोलष़िनिवासी अयम् उपविंशतिसंख्याकान् ग्रन्थान् शताधिकान् गवेषणप्रबन्धान् च विरचितवान्।

Thursday, November 11, 2021

 मुल्लप्पेरियार् - वृक्षखण्डनादेशः निरस्तः; उन्नताधिकारिणे वृत्तिनिरोधः।

अनन्तपुरी> केरले मुल्लप्पेरियार् सेतोः 'बेबी डाम्' नामकबालसेतुं शक्तीकर्तुमुद्दिश्य तस्य समीपे वर्तमानान् १५ वृक्षान् खण्डयितुं तमिल्नाट् सर्वकाराय अनुज्ञां दीयमानः केरलवनंविभागस्य आदेशः केरलमन्त्रिमण्डलेन निरस्तः। 

   घोषणापत्रप्रख्यापकः वनविभागस्य मुख्यवनपालकः बेन्निच्चन् तोमस् इत्याख्यः सर्वकारेण वृत्तिनिरोधाय कल्पितः। केरलस्य राजनैतिकमण्डले साप्ताहिकं यावत् निरन्तरवादप्रतिवादाय कारणभूतस्यास्य प्रकरणस्य अन्तिममयं क्रियाविधिः अधिकारिणं बलिदानं कृत्वा सर्वकारस्य रक्षाप्रप्तिरिति आक्षेपः जातः अस्ति। 

  वृक्षखण्डनाय केन्द्रपरिस्थितिविभागस्य अनुज्ञा तथा अस्मिन् विषये केरलमन्त्रिमण्डलस्य च अनुज्ञा नाभवदिति कारणेनैव मुख्यवनपालकस्य घोषणापत्रं निरस्तम्।

 नौसेनायाः नूतनः अधिकारी।

नवदिल्ली> केरलीयः वैस् अड्मिरल् आर् हरिकुमारः भारतीयनौसेनाया‌ः नूतनः नायकः भविष्यति। अनन्तपुरं प्रदेशीयः अयं इदं स्थानं प्राप्यमाणः प्रथमो केरलीयो भवति। अद्यतनाधिकारी अड्मिरल् करंबीरसिंहः नवम्बर् ३० तमे विरम्यते। 

  पश्चिम 'नेवल् कमान्ड्'मध्ये फ्लाग् ओफीसर् कमान्डिंग् इति स्थानमलङंकुर्वन्नस्ति सः। प्रशंसार्हसेवायै विशिष्टसेवापुरस्कारः, अतिविशिष्ट - परमविशिष्ट सेवा पुरस्कारौ च अस्मै लब्धा‌ः सन्ति।

Wednesday, November 10, 2021

 चीनेन अत्याधुनिकयुद्धनौका पाकिस्थानाय प्रदत्ता।

बेय्जिंङ्> भारतमहासमुद्रे प्रतिरोधम् आलक्ष्य पाकिस्थानाय अत्याधुनिकयुद्धनौका चीनेन प्रदत्ता। "एन् एस् तुग्रिल्' नामिका नौका चीनस्य सर्वकारीय नौकानिर्माणायोगेन एव निर्मिता। चीनस्थे षाङ्हाय् देशे सोमवासरे प्रचलिते कार्यक्रमे नौका पाकिस्थानस्य नाविकसेनायै प्रदत्ता। स्थलात् स्थलेषु, स्थलात् आकाशेषु, जलान्तर्भागात् च आक्रमणं कर्तुं सक्षमा भवति नौका एषा।

 भारतमालक्ष्य चीनस्य नूतनकार्यक्षेपः - पाकिस्थानाय अत्याधुनिकी युद्धमहानौका दत्ता।

 बीजिङ्ग्> भारतमहासमुद्रे प्रतिरोधपदक्षेपं लक्ष्यीकृत्य पाकिस्थानाय अत्याधुनिकी युद्धमहानौका चीनेन दत्ता। 'पि एन् एस् तुग्रिल्' इति कृतनानधेया महानौका चीनसर्वकारस्य महानौकानिर्माणसंस्थया एव निर्मिता। 

  चीने षाङ्हायि स्थाने आयोजिते कार्यक्रमे आसीदियं दानक्रिया प्रवृत्ता। तिस्रः महानौकाः अपि देयाः इति सूच्यते।

 चिलिदेशे वस्त्राचलः। परिस्थितिमलिनीकरणस्य अपरं रूपम्।

चिलिदेशे अट्टक्काम मरुप्रदेशे परित्यक्तानि वस्त्राणि शैलाकारं प्राप्नोति। उपयोगरहितानि तथा विक्रयणरहितानि वस्त्राणि एव परित्यक्तानि। उपयोगरहितानां विक्रयणरहितानां वस्त्राणाम् आकारेण सम्पन्नः भवति चिलिदेशः। एतेषां वस्त्राणाम् अत्र उपभोक्तारः सन्ति। चीनेषु तथा बंग्लादेशेषु च निर्माय यूरोप्पेषु अमेरिक्केषु च भ्रमणं कृत्वा अन्ते चिलिदेशे आयाति। लाट्टिनमेरिक्कादेशेषु पुनः विक्रीयते। किन्तु विक्रयणरहितानि शिष्टानि ३९,००० टण् वस्त्राणि मरुप्रदेशे निक्षिपन्ते। एतानि वस्त्राणि भूमौ न लीयन्ते। वस्त्रेषु अन्तर्गतानि रासवस्तूनि अपि पारिस्थितिकां समस्यां जनयन्ति ।

 भारतीयवाक्सिनप्रमाणपत्रं ९६ राष्ट्रैः अङ्गीकृतम् इति स्वास्थ्यमन्त्रालयः।  

नवदिल्ली> कोविडस्य कारणेन यात्रानियन्त्रणान् अतिक्रमितुं ९६ राष्ट्रैः साकं परस्परावगमनं संप्राप्तम् इति केन्द्रस्वास्थ्यमन्त्रिणा मन्सुख् माण्डव्येन प्रोक्तम्। एतत् अन्यराष्ट्रेषु भारतीयानां यात्राः सुगमं कर्तुं प्रभवति  इति मन्त्रिणा निगदितम्। कोवि षील्ड् वाक्सिनः अपि विश्वस्वास्थ्यसंघटनेन अङ्गीकृताः अन्यवाक्सिनः च स्वीकृतानां प्रमाणपत्राणि च भारतेन अङ्गीकृताः इत्यपि केन्द्रस्वास्थ्यमन्त्रालयेन आवेदितम्। एतस्मात् राष्ट्रात् भारतम् आगतेगभ्यः जनेभ्यः कोविड्  मानकनियमेषु समाश्वासः वर्तते। कोविड् पोर्टल् द्वारा स्वीकृतस्य कोविड् प्रमाणपत्रमुपयुज्य एतेषु राष्ट्रेषु यात्रां कर्तुं शक्यते।

Tuesday, November 9, 2021

 हिमो नास्ति, हिमसंहतिः नास्ति। विषफेनेन प्लाविता यमुनानदी।

नवदिल्ली> मलिनीकरणकारणेन नवदिल्ल्यां कालिन्दीकुञ्जस्य समीपे यमुनानद्यां विषफेनः रूपीकृतः। यमुनानद्याः विविधभागाः विषफेनेन आवृताः भवन्।  'चाट्' पूजायां भागं स्वीकर्तुं बहवः भक्ताः  अत्र आगतवन्तः आसन्। नद्याम् अमोणियायाः तथा फोस्फेट् मिश्रितस्य च आधिक्यमेव विषफेनरूपीकरणस्य कारणम्। यन्त्राकारात् नद्यां रासमालिन्यानां  क्षेपणमेव जले अमोणियायाः तथा फोस्फरस् मिश्रितस्य च आधिक्यस्य कारणम् ।

दिनचतुष्टयं यावत् दीर्घितायां चाट्ट् पूजायां प्रधानतया सूर्यदेवमेव आराधयन्ति। बीहार् तथा जार्खण्डदेशीयाः एव मुख्यतया पूजायां भागं स्वीकुर्वन्ति। आराधना वेलायां भक्ताः नद्यां स्नानं कुर्वन्ति। नदी तु मालिन्यानाम् आधि क्येन उपयोक्तुं न शक्यते च।

 आर्थिकसमावेशने भारतं चीनादग्रे। 

मुम्बई> आर्थिकसमावेशनमिति प्रक्रियायां ‌(Financial Inclusion) भारतं चीनराष्ट्रात् अग्रे वर्तते इति एस् बि ऐ वित्तकोशसंस्थायाः गवेषणावेदनम्। प्रधानमन्त्री जनधनयोजना, वित्तकोशशाखानां पुनर्विन्यासः, 'डिजिटल्' व्यवहारेभ्यः कृतः आधारसुविधाविकासः, वित्तकोशीयसंवादकानां (Banking Correspondents) नियुक्तिः इत्यादिभिः आयोजनाभिः राष्ट्रस्य आर्थिकसमावेशनप्रवर्तनानि शीघ्रमायातानीति आवेदने सूचितमस्ति। 

  देशकालभेदं विना आर्थिकसेवाः लघुव्ययेन समावसरेण च सर्वेभ्यः लभ्याः भवेयुः इत्येतदेव आर्थिकसमावेशनमित्युच्यते।

 न्यूसिलान्टे प्रतिदिनकोविड्रोगिणः अधिकायन्ते। 

ओक्लान्ट्> विश्वस्य प्रथमं कोविड्मुक्तराष्ट्रमिति प्रसिद्धीभूते न्यूसिलान्टे कोविड्रोगिणः प्रतिदिनं वर्धन्ते। मासत्रयात्पूर्वं  डेल्टा प्रभेदे दृष्टे कर्कशनियन्त्रणानि राष्ट्रे विहितान्यासन्। किन्तुओक्लान्ट् नगरे एव २०० प्रकरणानि आवेदितानि। राष्ट्रे समग्रं गतदिने २०६ जनाः रोगबाधिताः जाताः। 

   राष्ट्रे १२ उपरि वयस्केषु ७८% जनाः वाक्सिनस्य मात्राद्वयमपि स्वीकृतवन्तः। ८९ % जनाः प्रथममात्रां स्वीकृतवन्तः वर्तन्ते। वाक्सिनवितरणे प्रगतिरस्ति चेदपि रोगव्यापनं वर्धते इत्यस्मिन् सर्वकारः आशङ्काकुलः अस्ति।

   उल्कायाः सञ्चारपथं परिवर्तयितुं सक्षमा प्रतिरोधसुविधा नासया सज्जीकृता। 

बहिराकाशस्थः उल्काश्मानः भूमये भीषां जनयितुं समर्थाः भवन्ति। शून्याकाशात् भूमिम् अभिमुखीकृत्य  आगतानां बहूनाम् उल्काश्मनां भग्नोपग्रहांशानां सञ्चारपथं  गगननिरीक्षकाः गवेषकाः ससूक्ष्मं निरीक्षयन्तः सन्ति। अन्तरिक्षम् अतिक्रम्य भूमिं प्रति शरवेगेन आगतानाम् उल्काशिलानां सहस्राणां परमाणुविस्फोटकैः समा शक्तिः अस्ति इति गण्यते। विश्वविनाशाय पर्याप्ता भवन्ति एते। एवं भूमिं आलक्ष्य आगतानां लघुग्रहाणां सञ्चारपथं परिवर्तयितुं मार्गमन्वेषयन्नस्ति वैज्ञानिकलोकः। अस्य साक्षात्काराय नासया संस्फुटीकृता प्रतिरोधसुविधा प्रथमपरीक्षणाय सुसज्जा।

लघुग्रहे पेटकं बलात्कारेण आविश्य तस्य सञ्चारपथस्य परिवर्तनं करिष्यति एषा प्रतिरोध सुविधा। नवम्बर् मासस्य २३ तमे दिनाङ्के 'डबिल् आस्ट्रोयिड् रीडयरक्षन् टेस्ट्' नाम सुविधायाः परीक्षणं भविष्यति।

Monday, November 8, 2021

 ग्रीन्लान्ड् मध्ये न्यूयोर्क् नगरं प्लावयितुं सक्षमा हिमसंहतिः (Glacier) द्रवीभूता।

न्यूयोर्क्> अन्टार्ट्टिक्कां विहाय विश्वस्मिन् आकारे द्वितीयं स्थानम् आवहतां ग्रीन्लान्ड् मध्ये स्थितां हिमसंहत्यां गतदशाब्दाभ्यन्तरे हिमद्रवणं पूर्वाधिकं शक्तमभवत् इति पठनानि सूचयन्ति। अतिद्रवणहेतुना विश्वमिन् सर्वत्र समुद्रजलसमता (sea level) एकसेन्टीमीट्टर् मितम् अवर्धत। एवम् अनुवर्तते चेत् अस्मिन् शतकस्य अन्ते समुद्रजलसमता एकपादमितं विवर्धितुम् अवकाशः अस्ति इति अध्ययनानि सूचयन्ति। नाच्वरल् कम्युणिक्केषन्स् जेणल् मध्ये प्रकाशिते प्रतिवेदने एव घटनेयं संसूचिता ।