OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 8, 2021

 पाक्किस्थानस्य नाविकसेनया भारतीयधीवरं गोलिकाप्रहरेण व्यापादितः। षट् धीवराः बलात् अपाहृताश्च।

नवदिल्ली> पाकिस्थानस्य नाविकसेनया भारतस्य धीवरं गोलिकाप्रहरेण व्यापादितः इति प्रतिवेदनम्। षट् धीवराः पाकिस्थानेन बन्धिताः। भुशुण्डिप्रयोगे एकः व्रणितः इत्यपि गुजरात्तस्य प्रादेशिकवार्तामाध्यमैः प्रतिवेदितमस्ति। गुजरात्ते द्वारकायाः तीरे अन्ताराष्ट्रियसीमायामेव पाकिस्थानस्य नाविकसेनया घीवराणाम् उपरि भुशुण्डिप्रयोगः कृतः। मृतः धीवरः श्रीधरः इत्याख्यः इति ऊह्यते।

 जम्मुकाश्मीरस्थे श्रीनगरे भीकराक्रमणम् - आरक्षकः वीरमृत्युं प्राप्तवान्।

भीकराक्रमणेन जम्मुकाश्मीरस्थे श्रीनगरे  अरक्षकः मृतः। तौफीख् अहम्मद् (२९) एव मृतः। घटनेयं श्रीनगरस्य बट्टमालू मण्डले एव प्रवृत्ता। आरक्षकैः अन्वेषणं शक्तमकरोत्। रविवासरे रात्रौ अष्टवादने एस् डि कोलनि प्रदेशस्य गृहसमीपे भीकराः निरायुधस्य आरक्षकस्योपरि गोलिकाप्रहरम् अकुर्वन्। आरक्षकम् आतुरालयं प्राविशत् चेदपि ततः पूर्वं मृत्युं प्राप्तवान्। 

Sunday, November 7, 2021

 युवगायिका मरीलिया मेन्तोन्सा विमानापघाते मृतिमुपगता।


रियोडि जनीरा> ब्रसीलस्य युवगायिका मरीलिया मेन्तोन्सा विमानापघाते दिवङ्गता। षड्विंशति वयस्कायाः मरीलियायाः विश्वस्मिन् सर्वत्र आराधकाः सन्ति। लाट्टिन् ग्रामी पुरस्कारजेत्री भवति एषा। शुक्रवासरे आसीत् अपघातः इति मरीलियायाः मरणवार्तां दृढीकृत्य अधिकृतैः निगदितम्। लघुविमाने मरीलियायाः साकं यात्रां कृतवन्तः कार्यक्रमस्य निर्माता तस्याः मातुलः, तथा द्वौ वैमानिकौ च अपघाते मृताः इति प्राथमिकसूचना अस्ति।

 पलायनसन्दर्भे शिशुः संरक्षणाय सैनिकानां पार्श्वे  दत्तः। किन्तु पश्चात् शिशुः न प्रतिलब्धः।


न्यूयोर्क्> काबूल् विमानपत्तनद्वारा प्राणरक्षार्थं पलायनावसरे सैनिकस्य हस्ते प्रदत्तवन्तौ।  स्वशिशुं प्रतिलब्धुं शिशुमन्विष्य अफगानिस्थानीयौ दम्पत्यौ विचरन्तौ। आगस्त् मासे१९ तमे दिने काबूल् विमानपत्तने जनसम्मर्दाभ्यन्तरे 'मिर्सा अलि'  तस्य पत्नी सुरय्या च द्विमासीयं सोहेल् नामकं स्वपुत्रं भित्तेरुपरिस्थात् अमेरिक्कस्य सैनिकस्य हस्ते प्रदत्तौ। अस्य घटनायाः चित्राणि वीडियोचित्राणि च अन्ताराष्ट्रियेषु वार्तामाध्यमेषु  सामाजिकमाध्यमेषु च प्रसारितानि आसन्। विमानेषु प्रवेशनव्यग्रतया एव दम्पतिः शिशुं भित्ते उपरिस्थात् सैनिकं प्रति दत्तवन्तौ। प्रधान कवाटमागत्य प्रतिगृहीतुं शक्नोति इति चिन्तया एव एवं कृतवन्तौ। किन्तु त्रिमासानन्तरमपि शिशुः कुत्र अस्ति इति विषये कापि सूचना न लब्धा।

 महाराष्ट्रस्थे आतुरालये अग्निबाधा- ११ कोविड्रोगिण‌ः मृताः। 

मुम्बई> महाराष्ट्रे अहम्मदनगरस्थे सर्वकारातुरालये दुरापन्नया अग्निबाधया ११ कोविड्रोगिणः मृताः।  तीव्रपरिचर्याविभागे प्रभाते ११ वादने  अग्निबाधा जाता।  

  कोविड्बाधया १७ आतुराः तीव्रपरिचर्यायामासन्। शिष्टानामवस्था तृप्तिकरीति अहम्मदनगरजनपदाधिकारिणा राजेन्द्र भोसले इत्यनेन निगदितम्। 'ऐ सि यू' विभागस्थेषु इलक्ट्रोणिक् उपकरणेषु अन्यतमे जाते 'षोर्ट् सर्क्यूट्' कारणेनैव इयं दुर्घटनेति प्राथमिकं निगमनम्। उन्नतस्तरान्वेषणाय आदिष्टमिति मुख्यमन्त्री उद्धवताक्करे निगदितवान्। प्रधानमन्त्रिप्रभृतयः प्रमुखाः दुरन्ते अनुशोचनानि प्रकटितवन्तः।

Saturday, November 6, 2021

 हिमालये चीनया मृणालमयूखतन्तुश्रृङ्खला (optic fibre ) स्थापिता इति प्रतिवेदनम्।

वाषिङ्टण्>२०२० संवत्सरे भारतेन सह सीमाविषये संघर्षे अनुवर्तमाने सन्दर्भे पश्चिमहिमालयस्य केचन प्रदेशेषु चीनया मृणालमयूखतन्तुशृङ्खला स्थापिता इति पेन्टगण् प्रतिवेदयति। अतिशीघ्र  -lआशयविनिमयाय तथा विदेशशक्तीनां हस्तक्षेपात् सुरक्षितत्वं दृढीकर्तुं पीपिल्स् लिबरेषन् आर्मी एव मृणालमयूखतन्तुश्रृङ्गला स्थापिता इति प्रतिवेदनं सूचयति।

 प्रधानमन्त्रिणा नरेन्द्रमोदिना केदारनाथे शङ्करप्रतिमा अनाच्छादिता। १५० कोटि रूप्यकाणां अभियोजनाः प्रख्यापिताः।

केदारनाथः> भारतस्प अध्यात्मिकं पारम्पर्यं महत्तमं भवति। तदेव केदारनाथे दृश्यते इति प्रधानमन्त्री नरेन्द्रमोदी न्यवेदयत्। केदारनाथस्थां द्वादशपादमितोन्नतां शङ्कराचार्यप्रतिमाम् उद्घाटयन् भाषमाणः आसीत् सः। केदारनाथमन्दिरदर्शनानन्तरमेव प्रधानमन्त्रिणा कृष्णशिलानिर्मिता प्रतिमा अनाच्छादिता। प्रतिकूलवातावरणानि अतिजेतुं पर्याप्ता निर्माणरीतिरेव अत्र अवलम्बिता। प्रलयं तथा भूकम्पादयः न बाधते। मैसूरे एव प्रतिमा निर्मिता।

Friday, November 5, 2021

 "वाचाटोपं प्रशमयन्तु , प्रयत्नं कुर्वन्तु" - विश्वनेतॄः प्रति चतुर्दशवयस्कायाः आवेदनम्। 

ग्लास्गो > सारशून्यानि वाग्दानानि वाग्धोरणिं च समाप्य कार्यारम्भं कुर्वन्तु इति विश्वनेतृजनान् समुद्बोधयन्ती भारतीयछात्रा काचन चकुर्दशवयस्का। परिस्थिति ओस्कार्  इत्याख्यातस्य 'एर्त् षोट्' पुरस्कारस्य अन्तिमपट्टिकायामन्तर्भूता तमिल्नाट् निवासिनी विनिषा उमाशङ्करः भवति ग्लास्को शिखरमेलने कृतेन  उज्वलप्रभाषणेन सर्वेषामभिमानभाजनं सम्पन्नम्। 

  प्रधानमन्त्री नरेन्द्रमोदी, ब्रिट्टनस्य प्रधानमन्त्री बोरिस् येत्सनः, यू एस् राष्ट्रपतिः जो बैडनः इत्यादीनां प्रमुखानां सान्निध्ये आसीत् विनिषायाः प्रभाषणम्। भूमिं संरक्षितुं  प्रयत्न एव कार्यः न प्रभाषणमिति सा स्पष्टीकृतवती।

 कोविड् औषधगोलिका ब्रिट्टणेन अङ्गीकृता 

विश्वस्मिन् प्रथमतया कोविड् चिकित्सायै औषधगोलिकायाः उपयोगः। 'मोल्नुपिराविर्' इत्यस्ति गोलिकायाः नाम। ब्रिट्टणस्य औषधायोगेन गोलिका अङ्गीकृता। कोविडेन गुरुतरावस्थां प्राप्तवतां महते उपकाराय भवति इयं गोलिका। इदम् औषधं परीक्षण-निरीक्षणेन क्षमतायुक्तम् इति प्रमाणीकृतमस्ति। धनिकराष्ट्राणि औषध गोलिका लब्ध्यर्थं प्रयत्नं कुर्वन्तः सन्ति।

Thursday, November 4, 2021

 चीनः अण्वस्त्रसन्धानाय भूगर्भकेन्द्राणि सज्जीकरोति इति प्रतिवेदनम्।

वाषिङ्टण्> अण्वस्त्राणि अनुसन्धातुं क्षमतायुक्ते सैलोस् अग्निबाणसुविधासज्जीकरणे चीनः अतिशीघ्रप्रगतिं प्राप्नोति इति प्रतिवेदनम्। एफ्  ए एस् (Federation of American scientists) एव प्रतिवेदनम् प्रकाशितम्। बालिस्टिक् अग्निबाणानां सञ्चयनाय अनुसन्धानाय च भूमेः अन्तर्भागे लम्बायमानः नलिकारूपेण निर्मितः अनिबाणप्रेषणाय निर्मिता सुविधा भवति सैलोस्। षिन्जियाङ् मण्डलस्य पूर्वभागस्थे हामिदेशात् सैलोकेन्द्राणां निर्माणस्य उपग्रहचित्राणि बहिरागतानि।  युमेन्, ओर्डोस् इत्यत्रापि सैलो केन्द्राणि निर्माति इति प्रतिवेदनमस्ति। युमने१२० सैलोकेन्द्राणि निर्मान्ति इत्येव ज्ञातुं शक्यते।

 आधारपत्रदुरुपयोगाय एककोटिपर्यन्तं धनदण्डः। विज्ञापनं प्रकाशितम्।

नवदिल्ली> आधारपत्रस्य दुरुपयोगः क्रियते चेत् एककोटिपर्यन्तं धनदण्डं दापयितुम् आधारपत्र निगमाय अधिकारं प्रदाय केन्द्रसर्वकारेण विज्ञापनं प्रकाशितम्। आधारसूचनाविज्ञानानां भञ्जनाय तथा अपरस्य बयोमेट्रिक् सूचनानां चोरणाय च त्रिवत्सरीयं कारागारबन्धम्, अयुतं रूप्यकाणां धनदण्डः च दापयिष्यति। दण्डधनं न दास्यति चेत् तेषां परिसम्पत्तिं (property) प्रतिबन्धयितुम् आधारनिगमाय अधिकारः च प्रदत्तः।

Wednesday, November 3, 2021

 उपनिर्वाचनानि - कोण्ग्रस तृणमूलदलाभ्यां लाभः। 

नवदिल्ली> १४ राज्येषु सम्पन्नानामुपनिर्वाचनानां मतगणनाफलं बहिरागतम्। त्रिषु लोकसभामण्डलेषु २९ विधानसभामण्डलेषु च संवृत्तस्य उपनिर्वाचनस्य फले विज्ञापिते कोण्ग्रस् - ८, भा ज पा- ७, तृणमूल कोण्ग्रस् - ४, जे डि यू - २, एन् पि पि - २, वै आर् एस् कोण्ग्रस् इत्यादयः प्रादेशिकदलाः आहत्य - ६ इति क्रमेण स्थानानि लब्धवन्तः। लोकसभाफलेषु एकैकं स्थानं कोण्ग्रस्, भाजपा, शिवसेनादलेभ्यः लब्धम्। 

   बहुषु मण्डलेषु भाजपादलेन अलङ्क्रियमाणानि स्थानानि कोण्ग्रसदलेन निगृहीतानि। किन्तु राष्ट्रस्य उत्तरपूर्वराज्येषु भाजपादलस्य आधिपत्यं दृश्यते।

 अवश्यवस्तुसञ्चयनाय जनेभ्यः निरदिशत्। चीनः तीव्रनियन्त्रणेषु इति सूचना।

बेय्जिङ्> अवश्यवस्तुसञ्चयनाय चीनस्य सर्वकारेण जनेभ्यः निर्देशः दत्तः। अवश्यवस्तूनां वितरणं दृढीकर्तुमपि अधिकारिभ्यः अपि निर्देशो दत्तः। राष्ट्रे पुनः कोविडस्य व्यापनं विवर्धमाने अवसरे एव अवश्यवस्तुसञ्चयनाय निर्देशः दत्तः। सर्वकारस्य वाणिज्यविभागस्य जालपुटे एतत्संबन्धि विज्ञापनं प्रकाशितमस्ति। नित्यजीवने आपत्कालीनोपयोगाय च अवश्यवस्तूनां सञ्चयनाय भवति निर्देशः। चीनेषु पुनः कोविडस्य अतिव्यापन-सन्दर्भे अस्मिन् सर्वकारः तीव्रनियन्त्रणेषु गच्छन्ति इति एतत् विषयसंबन्धीनि वृत्तानि वदन्ति।

Tuesday, November 2, 2021

 पर्यावरणमण्डलसहकारिता - मोदी बोरिस् जोण्सणयोः चर्चा सम्पन्ना।

ग्लासगो> पर्यावरणव्यत्ययं नियन्त्रयितुमुद्दिश्य उभयपक्षसहयोगितां दृढीकर्तुं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणश्च गतदिने चर्चां कृतवन्तौ। स्कोट्लान्टस्थे ग्लासगोनगरे  सम्पद्यमाने आगोलपर्यावरणशिखरसम्मेनस्य मध्ये आसीत् एतयोः मेलनं संवृत्तम्। उभयोरपि नेत्रोः प्रथमं मुखामुखं मेलनं आसीत् इदम्। 

  'फोसिल्' इन्धनादतिरिक्तम् उद्पाद्यमानानि हरितहैड्रजनं पुनरुपयोज्यमानमूर्जम्, कार्बणरहिता ऊर्जसाङ्केतिकविद्या, आर्थिक- देशसुरक्षामण्डलेषु सहकारित्वमित्यादिविषयाः चर्चायामभवन्।

 पि वत्सला एष़ुत्तच्छन् पुरस्कारेण समादृता। 

 अनन्तपुरी> पार्श्ववत्कृतानाम् अधःकृतजनानां जीवितं वाङ्मयेन साहित्यास्वादकानां पुरतः समर्पितवती पि वत्सला एषुत्तच्छन् पुरस्कारेण समादृता अस्ति। पञ्चलक्षरूप्यकात्मकः प्रशस्तिपत्रेण फलकेन च सहितोSयं पुरस्कारः केरलसर्वकारस्य परमोन्नतः पुरस्कारः भवति। 

  अर्धशतकाधिककालं यावत् आख्यायिका, लघुकथामण्डले स्वकीयां पादमुद्रामालेखितवती पि वत्सला प्रादेशिकं वंशीयं स्वत्वपरं च केरलीयपारम्पर्यं अतिमनोहारितया आविष्कृतवती साहित्यकारी भवतीति पुरस्कारसमित्या निरीक्षितम्।

 पुष्टीकरणं प्रकृतिचूषणेन माऽभूत् इति डो. माधव् गाड्गिल्।

अनन्तपुरी> अनियन्त्रितेण प्रकृतिचूषणेन क्रियमाणः पुष्टीकरणसुविधाः  कस्यापि समाजस्य नोचितमिति डो. माधव् गाड्गिलेन प्रोक्तम्। केरलस्य सुस्थिर-सम्पुष्टीकरणसमितिः राष्ट्रिय सूचनाधिकारसंघः च संभूय  'अतिशीघ्रमार्गः अतिशीघ्रदुरन्ताय वा' इति विषये समायोजितां चर्चाम् उद्घाट्य भाषमाणः आसीत् सः। पुष्टीकरणस्य नाम्नि अमितविभवचूषणम् आपत्करं भवति। पश्चिमपर्वतमण्डले आपन्नः अपघातः प्रत्यभिज्ञातव्यः अस्ति। अनियन्त्रितं प्रकृतिचूषणं भवति राज्ये अद्य अनुभूयमानानां प्रकृतिदुरन्तानां हेतुः  इत्यपि तेनोक्तम्।

Monday, November 1, 2021

 कोवाक्सिनस्य आस्ट्रेलियासर्वकारस्य अङ्गीकारः।

भारत्  बयोटेक्संस्थया संस्फुटीकृतं भारतीयं कोवाक्सिननामकं कोविडौषधम् ओस्ट्रेलियस्य सर्वकारेण अङ्गीकृतम्। यात्रिकाणां वाक्सिनः इत्येवं रूपेण ओस्ट्रेलियस्य चिकित्सावस्तु प्रशासनसंस्थया (Therapeutic goods administration ) कोवाक्सिनस्य अङ्गीकारो दत्तः।

ओस्ट्रेलियस्प भारतीयमुख्यायुक्तेन (high commissioner) बारि ओ फारल् इत्यनेन एव कार्यमिदं ट्वीट् कृतम्।अङ्गीकृतवाक्सिनानां पाट्टिकासु कोवाक्सिनं अन्तर्योजितम्। पूर्वं भारते निर्मितं कोविषील्ड् नामकस्य वाक्सिनस्यापि तैः अङ्गीकारं दत्तमासीत्।

 कोविडस्य आविश्वगणना वर्धते। विश्वस्वास्थ्यसंघटनस्य पूर्वसूचना।

नवदिल्ली>कोविडस्प आविश्वगणना वर्धते इति विश्वस्वास्थ्यसंघटनस्य पूर्वसूचना। मासद्वयानन्तरमेव आविश्वगणनायां संवर्धनं रेखाङ्कितमिति विश्वस्वास्थ्यसंघटनस्य सामान्यनिदेशकेन टेड्रोस् अथनों गब्रियेससेन वार्तासम्मेलने आवेदितम्। विश्वे सर्वत्र कोविड्वैराणुं नियन्त्रितुं न शक्यते चेत् वैराणोः जनितकपरिणामः भविष्यति। एवम् आविश्वं व्याप्स्यते इति सः पूर्वसूचनामपि दत्तवान्।