OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 30, 2021

 भारतस्य आग्नेयास्त्रं ५ -  चीनः पाकिस्थानः च दूरं धावयेत्। 


नवदिल्ली> भारतेन स्वयं निर्मितम् अग्नि -५ इति आग्नेयास्त्रं परीक्षितम्। परीक्षणस्य १००% फलप्राप्तिः च अभवत्। कनिस्टर् लोञ्चर् इत्यतः आसीत् परीक्षणप्रयोगः। भारतस्य प्रथमः भूखण्डान्तर आणवाग्निसायको भवति अग्नि५। अस्य शस्त्रस्य अष्टमं परीक्षणम् असीत् इयम्। विगते बुधवासरे रात्रौ ७.५० वादने ओडीषा तीरस्थे अब्दुल् कलाम द्वीपतः आसीत् विक्षेपणम्। अस्य आक्रमण-दूरव्याप्तेः परिधौ सम्पूर्णं एष्याभूखण्डं यूरोप् - आफ्रिक्का प्रदेशयोः अर्धभागं च अन्तर्भवन्ति। शस्त्रनिर्माणस्य अखिला विद्या भारतेन कल्पिता अस्ति।

 जि उच्चशिखरमेलनाय रोमानगरं प्राप्तः प्रधानमन्त्री नरेन्द्रमोदी गान्धिप्रतिमायां पुष्पार्चनामकरोत्।

रोम् >जि-२० उच्चशिखरमेलनार्थं रोमा नगरं प्राप्तः नरेन्द्रमोदी माहात्मागान्धिनः प्रतिमां सन्दर्श्य पुष्पार्चनामकरोत्। रोमानगरे भारतीयजनैः साकं सः समवदत्| विश्वप्रचोदकादर्शयुक्तं महात्मानं बाप्पुं स्मरामि इति सः व्यजिज्ञपत्। इट्टलीदेशे रोमानगरे पियासागान्धिजनपदे स्थितायां महात्मागान्धेः प्रतिमायां सः पुष्पार्चनामकरोत्। विदेशकार्यमन्त्रालयस्य औद्योगिक वक्ता अरिन्दं बाग्जिः इमां वार्तां ट्वीट् कृतवान्।

Friday, October 29, 2021

 नागरिकविमानन-महानिदेशालयेन अन्ताराष्‍ट्रिय-वाणिज्यिक-यात्री-विमानसेवा नवम्बर मासस्य ३०दिनाङ्कं यावत् स्थगिता

नवदेहली> नागरिकविमानन-महानिदेशालयेन अन्ताराष्‍ट्रिय- -वाणिज्यिक-यात्री-विमानसेवा नवम्बर मासस्य त्रिंशद्दिनाङ्कं यावत् स्थगिता। निदेशालयस्य परिपत्रे लिखितमस्ति यत् अन्तराष्‍ट्रियविमानसेवायाः अन्तर्गतं वस्तूनां परिवहने अथ च विशिष्‍टरूपेणानुमोदितासु  विमानसेवासु प्रतिबन्धो नैव भविष्यति। निदेशालयेन इदमपि उक्तं यत् सक्षमः प्राधिकारिणः चयनितमार्गेषु निर्धारितन्ताराष्‍ट्रियविमानसञ्चालनस्य अनुमतिं दातुं शक्नुवन्ति। अवधेयं यत् केन्द्र प्रशासनेन कोविड् महामारी कारणेन गतवर्षे मार्च मासस्य त्रयोविंशतिः दिनाङ्कात् अन्ताराष्‍ट्रियविमानसेवा प्रतिबन्धितासीत्। अनन्तरं कतिपय देशेभ्यः Bubble  इति वाह्यरोध-व्‍यवस्‍थायाः अन्तर्गतं प्रतिबन्धेषु शैथिल्यं प्रदत्तम्।

Thursday, October 28, 2021

 दुर्भिक्षया दूयमानाः उत्तरकोरियाः


प्योङ्याङ्> राष्ट्रस्य नागरिकाः  अशने न्यूनता करणीया इति कोरियराष्ट्रस्य अधिपेन किं जोङ् उन्नेन आदिष्टाः। 2025 पर्यन्तं राष्ट्रं भैक्ष्यविषये न्यूनताम् अभिमुखीकरिष्यति इति तेन उक्तम्। राष्ट्रस्य सीमानः पिधानीकृताः सन्ति। उद्घाटनाय चत्वारि वर्षाणि प्रतिपालयन्तः स्युः।  तदभ्यन्तरे काले कालयापनाय खाद्यादिकं सावधानम् उपयोक्तव्यम् इति तेन जनाः आदिष्टाः। कोराणा व्यापनस्य कारणत्वेन उत्तरकोरियेन गतसंवत्सरे चीनेन सह विभक्तं सीमानं पिधानं कृतम्।  2025 संवत्सरात् पूर्वं सीमायाः उद्घाटनं न स्यात् इति कोरियस्य अधिकारिभिः प्रतिवेद्यते।

Wednesday, October 27, 2021

 मूलतो भारतीया अनीता आनन्दः कानडा देशस्य रक्षामन्त्रित्वेन नियुक्ता

 मूलतो भारतीया अनीता आनन्दः कानडा देशस्य रक्षामन्त्रित्वेन नियुक्ता। तद्देशस्य प्रधानमन्त्रिणा जस्‍टिन ट्रुडे इत्यमुना लिबरल पार्टीति दलस्य पुनरेकवारं शासनावाप्तेः एकमासानन्तरं मन्त्रिमण्डले परिवर्तनं कृतम्।

सुश्री आनन्दः सुदीर्घकालं कानडा देशस्य रक्षामन्त्री पदासीनस्य मूलतो भारतीयस्य हरजीत-सज्‍जनस्य स्‍थानं प्राप्तवती। हरजीत-सज्जनेन सैन्‍यदुष्‍कर्मविषयस्य निराकरणम् आलक्ष्य आलोचना सम्मुखीक्रियते। कानाडा देशस्य

नूतने मन्त्रिमण्डले महिला सदस्‍यानां सन्तुलिता सहभागिता दृश्यते। सुश्री आनन्दः एकस्य समवायस्य अधिवक्‍त्रित्वेन अपि कार्यं कृतवती। निरस्तीकृते मन्त्रिमण्डले सम्मिलिताः मूलतो भारतीयाः हरजीत-सज्‍जनः अनीता आनन्दः बार्द‍िश-छग्‍गडः च गतमासे सम्पन्ने संसदीये निर्वाचने विजयं प्राप्तवन्तः।

 शिशुभ्यः अपि द्विचक्रिकायां शिरस्त्राणम् निर्बन्धम्। 

नवदिल्ली> द्वि चत्रिकायात्रायां शिशवः अपि निर्बन्धतया शिरस्त्राणं धार्यम् इति केन्द्रगतागत मन्त्रालयेन उक्तम्। नवमासायुः आरभ्य शिशवः शिरस्त्राणं धार्यं, वाहनचालकेन तत् अस्ति इति दृढीकरणं कुर्यात् इत्यस्ति मान्त्रालयस्य विज्ञप्तिः। शिशुः याने अस्ति चेत् यानस्य वेगमानः ४० किलो मिट्टर् इति परिमितः भवतु इत्यस्ति निर्देशः। शिशुः  चतुर्वर्षेभ्यः ऊनः चेत् सुरक्षापट्टेन चालकेनसह बन्धनीयः इत्यपि निर्देशे अस्ति।

 पर्यावरणव्यत्यये भारतस्य गतवर्षे ६.५ लक्षं कोटिरूप्यकाणां नष्टः। 

नवदिल्ली> पर्यावरणव्यत्ययेन जातेषु प्रकृतिदुरन्तेषु गतसंवत्सरे भारतस्य ६.५लक्षं कोटिरूप्यकाणां [८७००कोटि डोलर्] नष्टः अभवदिति विश्वपर्यावरणसंघटनस्य [WMO] आवेदनपत्रे सूच्यते। 

  उष्णमण्डलचक्रवाताः, जलोपप्लवः, अनावृष्टिः इत्यादयः प्रकृतिदुष्प्रभावाः एष्यन् राष्ट्रेषु कथं बाधन्ते इति विव्रियमाणे आवेदनपत्रे एवायं वृत्तान्तः।  स्कोट्लान्ट् मध्ये अस्मिन् मासे आयोज्यमाने संयुक्तराष्ट्रसंघटनस्य पर्यावरणशिखरसम्मेलने आवेदनपत्रमिदं चर्चिष्यतेति सूच्यते। प्रकृतिदुष्प्रभावैः अधिकतमः नष्टः चीनदेशे अभवत्। द्वितीयतृतीयस्थानयोः यथाक्रमं भारतं जापानं च वर्तेते।

 तमिष़नाड् राज्ये प्रस्फोटकापणे अग्निबाधा - पञ्चजनाः मृताः।

चेन्नै> तमिष़नाड् राज्ये प्रस्फोटकापणे आपन्ने विस्फोटे पञ्चजनाः मृताः। नैके जनाः व्रणिताः च।  तेषाम् अवस्था गुरुतरा इति प्रतिवेद्यते। कल्लाकुरिच्चि जनपदस्य शङ्कर पुरस्थे प्रस्फोटकापणे आसीत् दुर्घटना। अग्निं नियन्त्रणाधीनं कर्तुं श्रमः अनुवर्तते।

 अन्तर्वाहिनीसंबन्धिविज्ञानानि रहसि अपहृतानि।  त्रयः नाविकसेनाकर्मकराः निगृहीताः।

नवदिल्ली> अन्तर्वाहिनीनौकासंबन्धीनाम् अति गूढविज्ञानानाम् अपहरणप्रकरणे त्रयः जनाः निगृहीताः। नाविकसेनायां सेनाध्यक्षपदवीं अलङ्कृतः एकः कर्मकरः, सेवानिवृत्तौ द्वौ कर्मकरौ च निगृहीतौ। भारतीय नाविकसेनायाः जलमग्ननौकायाः (submarine) नवीकरणसंबन्धीनि अतिगूढविज्ञानानि सेवानिवृत्तेभ्यः कर्मकरेभ्यः अपहृत्य अदात् इत्येव प्रकरणम्। घटनायाम् उन्नतस्तरान्वेषणमपि प्रख्यापितम्। नौसेनायाः उपाध्यक्षेण सहोपाध्यक्षेण च सहितः पञ्चाङ्गसंघः विषयेऽस्मिन् विशदान्वेषणं करिष्यति।

Tuesday, October 26, 2021

 मध्यप्रदेशे वाक्सिनस्य मात्राद्वयं स्वीकृतेषु षड्जनेषु कोविडस्य ए वै ४ विभेदः दृढीकृतः।

भोपाल्> मध्यप्रदेशे इन्डोर् जनपदे वाक्सिनीकरणं पूर्तीकृतेषु षड्जनेषु कोविड् वैराणोः ए ४ वै नाम नूतनप्रभेदः दृढीकृतः। नवदिल्ली राष्ट्रियरोगनियन्त्रणकेन्द्रेण (National centre for disease control) आयोजिते परीक्षणे एव नूतनप्रभेदः दृढीकृतः। गते सेप्तम्बर् मासे एतेषां वैराणूनां जनितकश्रेणीनिर्णयाय प्रेषितः इति मध्यप्रदेशस्य मुख्यभैषज्य स्वास्थ्याधिकारिणा (Madhya Pradesh chief medical and health officer) बि एस् सत्येन प्रोक्तम्। प्रथमतया एव राज्ये कोविडस्य एषः प्रभेदः दृढीकृतः इत्यपि सः व्यजिज्ञपत्। रोगबाधितैः सर्वैरपि पूर्वं वाक्सिनीकरणं पूर्तीकृतम् आसीत्। अधुना चिकित्सिताः ते सुखं प्राप्ताः इत्यपि सः उक्तवान्।

 वर्षाकालः अपसृतः; तुलावर्षाः संप्राप्तः। 

अनन्तपुरी> भारतस्य दक्षिणाग्रे तुलावर्षनाम्ना व्यवह्रियमाणः उत्तरपूर्वीयवर्षाकालः सम्प्राप्तः। तथा च जूण्मासे आरब्धः वर्षाकालः राष्ट्रात् निर्गतश्चेति केन्द्रपर्यावरणविभागेन निगदितम्। दक्षिणपूर्वीये वंगसमुद्रे कुजवासरे चक्रवातमण्डलं रूपीकरिष्यते। अस्य प्रभावात् आगामिनि ४८ होराभ्यन्तरे न्यूनमर्दः भविष्यति। 

  पञ्चदिनानि यावत् वज्रनिर्घोषैः सह शक्ता वर्षा भविष्यति। केरले अद्य श्वः च जाग्रतानिर्देशः कृतः।

Monday, October 25, 2021

 चीने पुनरपि कोविडः - 'मारत्तण्' व्याक्षिप्तम्। 

  बेय्जिङ्> चीनदेशे बहुकालानन्तरं कोविड्रोगः व्याप्यते। रविवासरे २६ जनाः अपि रोगबाधिताः अभवन्। अतः वुहाननगरे गतदिने आयोज्यमानं 'मारत्तण्'नामिका धावनक्रीडा किञ्चित्कालं यावत् व्याक्षिप्ता। आगामिसप्ताहे आयोज्यमानं बीजिङ् मारत्तणमपि विलम्बायितं कृतम्। 

  कोविडस्य प्रत्यागमनेन चीनदेशे सर्वत्र नियन्त्रणानि तीव्राणि कृतानि। केषुचित्स्थानेषु लोकयान - टैक्सी सेवनानि समापितानि।राष्ट्रं प्राप्तेभ्यः विनोदयात्रिकेभ्यः डेल्टा प्रभेदः व्याप्तः इति कारणतः एव रोगव्यापनं जातमिति सूच्यते।

Sunday, October 24, 2021

 ताय्वानस्य रक्षणाय सज्जः इति बैडन् । 

बाल्टिमोर्>  चीनं विरुद्ध्य ताय्वानस्य प्रतिरोधाय अमेरिक्कस्य साहाय्यता भविष्यति इति अमेरिक्कस्य राष्ट्रपतिः जोबैडनः अवदत्। विषयेऽस्मिन् इतःपर्यन्तं मौने स्थितः अमेरिकः अद्य स्वाभिमतं प्रकाशितवान्। सि एन् एन् सभायाम् आयोजिते पत्रकाराणां मेलने प्रश्नानां उत्तररूपेण आसीत् जोबैडनस्य अभिमतप्रकाशनम् ।

   बैडस्य अभिमतं ज्ञात्वा चीनः स्वस्य विप्रतिपत्तिः प्रकाशितः।

Saturday, October 23, 2021

 नेप्पाले जलोपप्लवः - १०४ मरणानि। 

काठ्मण्डुः> नेप्पालराष्ट्रे अतिवृष्ट्या जाते जलोपप्लवे भूस्खलने च मृतानां संख्या १२० अभवत्। ४१ जनाः आदृष्टाः इति सूच्यते। भारतस्य सीमायां वर्तमाने पञधरजनपदे एव मरणानि अधिकतया जातानि। 

  २१ जनपदाः दुरन्तबाधिताः अभवन्। केषुचित्स्थानेषु वीथीनाशः अभवत् इत्यतः सैन्यस्य रक्षाप्रवर्तनं प्रतिकूलं वर्तते।

 वाक्सिनीकरणे भारतस्य ऐतिहासिकलाभः - शतकोटिः अतीता। 

नवदिल्ली> कोविड् महामारिं विरुध्य युद्धे भारतस्य ऐतिहासिकविजयः। वाक्सिनीकृतानां संख्या गतदिने शतकोट्यतीता। जनुवरि १६तमे आरब्धे अस्मिन् यज्ञे नवमासे अतीते एवायं सुवर्णलाभः करगतः। 

  कोविडं विरुध्य प्रतिरोधे अस्माभिः नूतनचरितं रचितमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। विजयाघोषाय चेङ्कोट्टामध्ये  विपुलं राष्ट्रध्वजमास्तृतम्। Archeological Survey of India संस्थया १०० चरित्रस्मारकेषु दीपान् प्रज्वाल्य समलंकृतम्। भारतस्य विजयं विश्वस्वास्थासंघटनम् अन्ये लोकनेतारश्च अभ्यनन्दयन्।

 मुम्बैनगरे भवनसमुच्चये अग्निबाधा अभवत्। एकः मृतः।

 मुम्बै> मुम्बै नगरे लाल्बागे भवनसमुच्चये बृहती अग्निबाधा अभवत्। नगरस्थे भवनसमुच्चये१९ तमतले एव अग्निः बाधितः। चतुर्दशसंख्याकानाम् अग्निनिर्वापणयन्त्राणां (fire-engine) साहाय्येन अग्निशमनार्थं परिश्रमं कुर्वन्ति। घटनायाम् अस्याम् एकः मृतः इति प्रतिवेदनमस्ति।

Friday, October 22, 2021

 कोविड् समस्या २०२२ संवत्सरे अपि अनुवर्तिष्यते इति विश्वस्वास्थ्यसंगठनस्य पूर्वसूचना।

  जनीव> कोविड् समस्या २०२२ संवत्सरे अपि अनुवर्तिष्यते इति विश्वस्वास्थ्यसंगठनस्य वैज्ञानिकः डो. ब्रूस् अय्लवार्ड् पूर्वसूचनाम् अदात्। दरिद्रराष्ट्रेषु वाक्सिनस्य दौर्लभ्यमस्ति। आफ्रीक्केषु जनसंख्यायाः प्रतिशतं ५% तः न्यूनाः जनाः एव वाक्सिनीकृताः। एवं स्थिते विकसितराष्ट्राणि दरिद्रराष्ट्रेम्यः वाक्सिनमात्राः दातव्याः। औषधसंस्थाः तेषां प्राथम्यपट्टिकासु दरिद्रराष्ट्राणि समावेशनीयानि इति ब्रूस् अय्लवार्ड् अभ्यर्थितवान्।

Thursday, October 21, 2021

कुशीनगरविमानपत्तनं प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पितम्।  श्रीलङ्कायाः आगतं विमानं प्रथमतया भूस्पर्शमकरोत्।

लक्नौ> उत्तरप्रदेशे कुशीनगरे नूतनतया निर्मितं अन्ताराष्ट्रियविमानपत्तनं प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पितम्। श्रीलङ्कायाः कोलम्बोदेशात् बुद्धधर्मसन्यासीन् तीर्थाटकान् च आहत्य १२५ जनैः साकं श्रीलङ्कायाः विमानं प्रथमतया कुशीनगरे अवरोहणमकरोत् । दशाब्दपर्यन्तायाः प्रतीक्षायाः प्रवर्तनस्य च फलमेव कुशीनगरविमानपत्तनमिति विमानपत्तनस्य उद्घाटनसमारोहे प्रधानमन्त्रिणा निगदितम्। पूर्वाञ्चल् मण्डलाय प्रदत्तस्य वाग्दानस्य पूर्तीकरणमेतत् इत्यपि सः व्यजिज्ञपत्।