OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 26, 2021

 वर्षाकालः अपसृतः; तुलावर्षाः संप्राप्तः। 

अनन्तपुरी> भारतस्य दक्षिणाग्रे तुलावर्षनाम्ना व्यवह्रियमाणः उत्तरपूर्वीयवर्षाकालः सम्प्राप्तः। तथा च जूण्मासे आरब्धः वर्षाकालः राष्ट्रात् निर्गतश्चेति केन्द्रपर्यावरणविभागेन निगदितम्। दक्षिणपूर्वीये वंगसमुद्रे कुजवासरे चक्रवातमण्डलं रूपीकरिष्यते। अस्य प्रभावात् आगामिनि ४८ होराभ्यन्तरे न्यूनमर्दः भविष्यति। 

  पञ्चदिनानि यावत् वज्रनिर्घोषैः सह शक्ता वर्षा भविष्यति। केरले अद्य श्वः च जाग्रतानिर्देशः कृतः।

Monday, October 25, 2021

 चीने पुनरपि कोविडः - 'मारत्तण्' व्याक्षिप्तम्। 

  बेय्जिङ्> चीनदेशे बहुकालानन्तरं कोविड्रोगः व्याप्यते। रविवासरे २६ जनाः अपि रोगबाधिताः अभवन्। अतः वुहाननगरे गतदिने आयोज्यमानं 'मारत्तण्'नामिका धावनक्रीडा किञ्चित्कालं यावत् व्याक्षिप्ता। आगामिसप्ताहे आयोज्यमानं बीजिङ् मारत्तणमपि विलम्बायितं कृतम्। 

  कोविडस्य प्रत्यागमनेन चीनदेशे सर्वत्र नियन्त्रणानि तीव्राणि कृतानि। केषुचित्स्थानेषु लोकयान - टैक्सी सेवनानि समापितानि।राष्ट्रं प्राप्तेभ्यः विनोदयात्रिकेभ्यः डेल्टा प्रभेदः व्याप्तः इति कारणतः एव रोगव्यापनं जातमिति सूच्यते।

Sunday, October 24, 2021

 ताय्वानस्य रक्षणाय सज्जः इति बैडन् । 

बाल्टिमोर्>  चीनं विरुद्ध्य ताय्वानस्य प्रतिरोधाय अमेरिक्कस्य साहाय्यता भविष्यति इति अमेरिक्कस्य राष्ट्रपतिः जोबैडनः अवदत्। विषयेऽस्मिन् इतःपर्यन्तं मौने स्थितः अमेरिकः अद्य स्वाभिमतं प्रकाशितवान्। सि एन् एन् सभायाम् आयोजिते पत्रकाराणां मेलने प्रश्नानां उत्तररूपेण आसीत् जोबैडनस्य अभिमतप्रकाशनम् ।

   बैडस्य अभिमतं ज्ञात्वा चीनः स्वस्य विप्रतिपत्तिः प्रकाशितः।

Saturday, October 23, 2021

 नेप्पाले जलोपप्लवः - १०४ मरणानि। 

काठ्मण्डुः> नेप्पालराष्ट्रे अतिवृष्ट्या जाते जलोपप्लवे भूस्खलने च मृतानां संख्या १२० अभवत्। ४१ जनाः आदृष्टाः इति सूच्यते। भारतस्य सीमायां वर्तमाने पञधरजनपदे एव मरणानि अधिकतया जातानि। 

  २१ जनपदाः दुरन्तबाधिताः अभवन्। केषुचित्स्थानेषु वीथीनाशः अभवत् इत्यतः सैन्यस्य रक्षाप्रवर्तनं प्रतिकूलं वर्तते।

 वाक्सिनीकरणे भारतस्य ऐतिहासिकलाभः - शतकोटिः अतीता। 

नवदिल्ली> कोविड् महामारिं विरुध्य युद्धे भारतस्य ऐतिहासिकविजयः। वाक्सिनीकृतानां संख्या गतदिने शतकोट्यतीता। जनुवरि १६तमे आरब्धे अस्मिन् यज्ञे नवमासे अतीते एवायं सुवर्णलाभः करगतः। 

  कोविडं विरुध्य प्रतिरोधे अस्माभिः नूतनचरितं रचितमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। विजयाघोषाय चेङ्कोट्टामध्ये  विपुलं राष्ट्रध्वजमास्तृतम्। Archeological Survey of India संस्थया १०० चरित्रस्मारकेषु दीपान् प्रज्वाल्य समलंकृतम्। भारतस्य विजयं विश्वस्वास्थासंघटनम् अन्ये लोकनेतारश्च अभ्यनन्दयन्।

 मुम्बैनगरे भवनसमुच्चये अग्निबाधा अभवत्। एकः मृतः।

 मुम्बै> मुम्बै नगरे लाल्बागे भवनसमुच्चये बृहती अग्निबाधा अभवत्। नगरस्थे भवनसमुच्चये१९ तमतले एव अग्निः बाधितः। चतुर्दशसंख्याकानाम् अग्निनिर्वापणयन्त्राणां (fire-engine) साहाय्येन अग्निशमनार्थं परिश्रमं कुर्वन्ति। घटनायाम् अस्याम् एकः मृतः इति प्रतिवेदनमस्ति।

Friday, October 22, 2021

 कोविड् समस्या २०२२ संवत्सरे अपि अनुवर्तिष्यते इति विश्वस्वास्थ्यसंगठनस्य पूर्वसूचना।

  जनीव> कोविड् समस्या २०२२ संवत्सरे अपि अनुवर्तिष्यते इति विश्वस्वास्थ्यसंगठनस्य वैज्ञानिकः डो. ब्रूस् अय्लवार्ड् पूर्वसूचनाम् अदात्। दरिद्रराष्ट्रेषु वाक्सिनस्य दौर्लभ्यमस्ति। आफ्रीक्केषु जनसंख्यायाः प्रतिशतं ५% तः न्यूनाः जनाः एव वाक्सिनीकृताः। एवं स्थिते विकसितराष्ट्राणि दरिद्रराष्ट्रेम्यः वाक्सिनमात्राः दातव्याः। औषधसंस्थाः तेषां प्राथम्यपट्टिकासु दरिद्रराष्ट्राणि समावेशनीयानि इति ब्रूस् अय्लवार्ड् अभ्यर्थितवान्।

Thursday, October 21, 2021

कुशीनगरविमानपत्तनं प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पितम्।  श्रीलङ्कायाः आगतं विमानं प्रथमतया भूस्पर्शमकरोत्।

लक्नौ> उत्तरप्रदेशे कुशीनगरे नूतनतया निर्मितं अन्ताराष्ट्रियविमानपत्तनं प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पितम्। श्रीलङ्कायाः कोलम्बोदेशात् बुद्धधर्मसन्यासीन् तीर्थाटकान् च आहत्य १२५ जनैः साकं श्रीलङ्कायाः विमानं प्रथमतया कुशीनगरे अवरोहणमकरोत् । दशाब्दपर्यन्तायाः प्रतीक्षायाः प्रवर्तनस्य च फलमेव कुशीनगरविमानपत्तनमिति विमानपत्तनस्य उद्घाटनसमारोहे प्रधानमन्त्रिणा निगदितम्। पूर्वाञ्चल् मण्डलाय प्रदत्तस्य वाग्दानस्य पूर्तीकरणमेतत् इत्यपि सः व्यजिज्ञपत्।

Wednesday, October 20, 2021

 भीकराक्रमणं - काश्मीरात् कर्मकराः पलायन्ते। 

  श्रीनगरम्> गतेषु कतिपयदिनेषु जम्मु काश्मीरे इतरराज्यकर्मकरान् लक्ष्यीकृत्य भीकराक्रमणानि वर्धितानि इत्यतः कर्मकराः पलायनं कुर्वन्ति। जन्मराज्यं गन्तुं नैकाः जनाः जम्मु, श्रीनगरम् इत्यादिषु रेल् निस्थानेषु सम्मर्दं कुर्वन्ति। भीकरेभ्यः भीताः एते परं कदापि काश्मीरस्य अधित्यकां न प्रत्यागमिष्यन्तीति सूच्यते। दिनद्वयाभ्यन्तरे चत्वारः राज्यान्तरकर्मकराः भीकराणां भुशुण्डिनां बलिभूताः अभवन्। 

  अस्य मासस्य आरम्भतः एव  अनेकानि भीकराक्रमणानि काश्मीरस्य अधित्यकायां जातानि। ११ सामान्यजना‌ः हताश्च।  बिहारं, उत्तरप्रदेशः इत्यादिभ्यः राज्येभ्यः संवत्सराणि यावत् काश्मीरे आपणकर्मसु व्यापृताः एव भीकरैः निहताः। हत्यानां उत्तरदायित्वं लष्करि तोय्बायाः अवान्तरविभागेन युणैटड् ल्बरेशन् फ्रण्ट् इत्यनेन स्वीकृतमस्ति।

 उत्तराखण्डे प्रलयः। 

डेहराडूणः> अतिशक्ता वृष्टिः अनुवर्तते उत्तराखण्डे। वृष्टिदुर्भावेण अनेकाः मृतिवशंगताः। सर्वत्र विनाशः प्रतिवेद्यते। नैनित्ताल जनपदे ७ जनाः मृताः इति राज्यस्य आपदकालीनप्रवर्तक संस्थाया प्रतिवेदितम्। सोम वासरे नेपालदेशस्थाः त्रयः कर्मकराः अन्ये द्वे च वृष्ट प्रदुर्भावेण मृताः आसन्। द्वे व्रणिताः च। बद्रिनाथ राजमार्गे गच्छत् कार्यानं भूभ्रंशे निबद्धम् अभवत्। सुरक्षाप्रवर्तकैः यात्रिकाः रक्षिताः। अस्याः घटनायाः चित्रम् इदानीं सामाजिकमाध्यमेषु सद्यप्रसृताः वर्तते।

Tuesday, October 19, 2021

 आरबसागरात् उद्भूतानां चक्रवातानां संख्या, तीव्रता च अवर्धत।

नवदिल्ली>आरबसागरे समुद्भूतानां चक्रवातानां आवृत्तिः तीव्रता च गतद्विदशकाभ्यन्तरे अवर्धत इति अध्ययनप्रतिवेदनम्। इत्थम् अनुवर्तते चेत् समीपभाविनि भारतस्य पश्चिमतीरेषु प्रकृतिदुरन्ताः निरन्तरम्  आवर्तयिष्यति इति वैज्ञानिकाः पूर्वसूचनां ददति।१९८२-२०१९ संवत्सराभ्यन्तरे चक्रवातानां संख्यासु ५२% वर्धनमभवत्। प्रत्युत बंगसमुद्रे समुत्पन्नानां चक्रवातानां संख्यासु तीव्रतायां च ८% ह्रासमभवत् इति प्रतिवेदनं सूचयति।

 केरले त्रयः सेतुकवाटाः उद्घाटयन्ति। जनै: जाग्रता पालनीया इति मुख्यमन्त्री पिणराई विजयः। 

अनन्तपुरी> राज्ये वृष्टिमनुवर्तमाने साहचर्ये अधिकजलनिर्गमनार्थं सेतुकवाटः उद्घाटयितुं निश्चिनोत्। अतः सेतोः समीपप्रदेशस्थाः जनाः अतीव जागरूकाः भवितव्याः इति केरलस्य मुख्यमन्त्रिणा आदेशः दत्तः। अवधानतां स्वीकृत्यैव सेतुकवाटाः उद्घाटयन्ते। इडुक्कि सेतोः कवाटः मङ्गलवासरे प्रातः एकादशवादने, इटमलयार् तथा   पम्पासेतुकवाटाः च प्रातः षड्वादने च उद्‌घाटयिष्यन्ते। सेतोः जलस्तरनिरीक्षणाय सर्वकारेण नियुक्तायाः समितेः निश्चयमनुसृत्यैव अधिकजलनिर्गमनाय पूर्वोक्तसेतूनां कवाटाः उद्घाटयितुं निश्चितः।

 केरले अतिवृष्टिदुष्प्रभावः - मरणानि ३३ अभवन्। 

अनन्तपुरी> राज्ये अतिवृष्टिदुष्प्रभावेण भूस्खलनेन च दिनत्रयेण ३३ जनाः कालवशं गताः। कोट्टयं, इटुक्की, पत्तनंतिट्टा, आलप्पुष़ा तृश्शूर् जनपदेषु भूस्खलनेन जलोपप्लवेन एतदनुबन्धदुर्घटनेन च एते जनाः मृताः। 

  कोट्टयं जनपदे कूट्टिक्कल् प्रदेशे, इटुक्की जनपदस्य कोक्कयार् प्रदेशे च जाते भूस्खलनेन मृदन्तर्भागे पतितानां मृतशरीराणि दुरन्तनिवारणसेनया कृते अन्वेषणे लब्धानि। अदृष्टाणां सर्वेषां मृतदेहाः उपलब्धाः इति जनपदाधिकारिभिः निगदितम्।

Monday, October 18, 2021

 चीनस्य  बृहत्भित्त्याः बृहदाकारकम् ई - मालिन्यसञ्चयः। विश्वं दुर्घटे।

 विश्वस्मिन् नूतन-वैद्युतकोपकरणानां विधानानां रूपकल्पनाः तथा आविष्काराः च वर्धन्ते। तदनुसृत्य पुनरुपयोगं कर्तुं क्षमताहीनानां वैद्युतक ई - मालिन्यानां (electronic waste) परिमाणमपि भूमौ क्रमातीतं वर्धयत् अस्ति इति वैज्ञानिकैः संसूच्यते। लोह-पलास्तिक-धातुप्रभृतीनां पुनरुपयोगक्षमताहीनानां वस्तूनाम्  निर्मार्जनं महतीं समस्यां जनयति। सामान्यतया एतादृशानि वस्तूनि भूसमीकरणाय उपयुज्यते अथवा अग्निना भस्मीकुर्वन्ति। किन्तु मालिन्यस्य आधिक्यं मालिन्यसंस्करणं दुष्करं करोति। इ - मालिन्यानां पुनरुपयोगः तथा नूतनविभवानां न्यूनोपयोगः च अस्याः समस्यायाः परिहारः  इति वैज्ञानिकाः अभिप्रयन्ति।

 अफ्गानस्य विषये सुरक्षाकर्मकराणां मेलनम् आयोजयितुं सज्जमभवत् भारतम्। 

पाकिस्थानः अपि भागं स्वीकरिष्यति।

  नवदिल्ली> अफगानस्य विषये चर्चितुं विविधराष्ट्राणाम् उन्नतस्तर - सुरक्षाकर्मकराणां मेलनम् आयोजयितुं भारतं सज्जते। भारतं, रष्यः, चीनः,  यु एस् प्रभृतयः राष्ट्राः मेलने भागं स्वीकरिष्यन्ति इति प्रतीक्षते। नवम्बर् मासस्य द्वितीये सप्ताहे एव मेलनं भविष्यति इति टैंस् आफ् इन्ट्या पत्रिकया प्रतिवेदितम्।

मेलने भागं गृहीतृन् अतिथीन् अधिकृत्य औद्योगिकस्थिरीकरणम् इदानीं न लब्धम्। मेलने तालिबानस्य आमन्त्रणपत्रिकासमर्पणसाध्यता नास्ति। किन्तु पाकिस्थानम् आमन्त्रयिष्यति इति सूचना अस्ति। पाकिस्थानस्य सुरक्षाकर्मकराय मोयिद् युसूहाय  आमन्त्रणपत्रिकायाः प्रेषणं विलम्बायितम् इत्यपि प्रतिवेदनमस्ति।

Sunday, October 17, 2021

 केरलराज्यस्य चलनचित्रपुरस्कारः प्रख्यापितः - जयसूर्यः नटः, अन्ना बन् नटी, दि ग्रेट् इन्डियन् किच्चन् श्रेष्ठचित्रम्। 

अनन्तपुरी > 'कप्पेला' इति चलच्चित्रे जेसी इति कथापात्रं श्रेष्ठरीत्या अवतारिता अभिनेत्री अन्नाबन् केरलराज्यस्य २०२० तमस्य श्रेष्ठनटीपुरस्कारार्हा विहिता। 'वेल्लम्' इति चलच्चित्रे मुरलिः इति कथापात्ररूपेण परिणमितः जयसूर्यः श्रेष्ठनटरूपेण चितः। दि ग्रेट् इन्डियन् किच्चन् भवति श्रेष्ठं चलच्चित्रम्। 

 अन्ये पुरस्काराः एवम् - 

श्रेष्ठः निदेशकः - सिद्धार्थ शिवः [चित्रं 'एन्निवर्], जनप्रीतिभूतं चलच्चित्रं - 'अय्यप्पनुं कोशियुम्' , दृश्यकथाकारः - जियो बेबिः [चित्रं दि ग्रेट् इन्डियन् किच्चन् ]

 काश्मीरे द्वौ लष्करभीकरौ सैन्येन निहतौ। 

श्रीनगरम्> जम्मुकाश्मीरस्य पुल्वामायां पाम्पोर् प्रदेशे एकं कमान्डर् स्थानीयमभिव्याप्य द्वौ लष्कर् ई तोय्बा भीकरौ भारतसैन्येन निहतौ। सैन्येन अन्विष्यमाणेषु १० आतङ्कवादिषु अन्यतमः कमान्डर् उमर मुष्ताख् खान्डे नामकः भवति प्रतिद्वन्द्वे मृतयोः प्रमुखः। द्वितीयः न प्रत्यभिज्ञातः। 

  पूञ्च् प्रदेशे गतदिने संवृत्ते प्रतिद्वन्द्वे अदृष्टयोः द्वयोः सैनिकयोः मृतदेहौ काननान्तर्भागे दृष्टौ। अनेन साप्ताहिकद्वयाभ्यन्तरे वीरमृत्युभूतानां सैनिकानां संख्या नव अभवत्। निहताः भीकराश्च १३ अभवन्।

  केरले  अतिवृष्ट्या  भूस्खलनेन च नवजनाः मृताः २० जनाः अप्रत्यक्षाः च। 

अनन्तपुरम्> दक्षिणकेरले मध्यकेरले च अतिवृष्टिः अनुवर्तते। कोट्टयं जनपदे कुट्टिक्कल् प्रदेशे महान् भूस्खलनं च अभवत्। नव जनाः मृताः। विंशति जनाः अप्रत्यक्षाः च। रक्षाप्रवर्तनानि अनुवर्तते। अति वृष्टिः वातः भूस्खलनं  जलोपप्लवः च रक्षाप्रवर्तनान् बाधन्ते।