OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 19, 2021

 केरले त्रयः सेतुकवाटाः उद्घाटयन्ति। जनै: जाग्रता पालनीया इति मुख्यमन्त्री पिणराई विजयः। 

अनन्तपुरी> राज्ये वृष्टिमनुवर्तमाने साहचर्ये अधिकजलनिर्गमनार्थं सेतुकवाटः उद्घाटयितुं निश्चिनोत्। अतः सेतोः समीपप्रदेशस्थाः जनाः अतीव जागरूकाः भवितव्याः इति केरलस्य मुख्यमन्त्रिणा आदेशः दत्तः। अवधानतां स्वीकृत्यैव सेतुकवाटाः उद्घाटयन्ते। इडुक्कि सेतोः कवाटः मङ्गलवासरे प्रातः एकादशवादने, इटमलयार् तथा   पम्पासेतुकवाटाः च प्रातः षड्वादने च उद्‌घाटयिष्यन्ते। सेतोः जलस्तरनिरीक्षणाय सर्वकारेण नियुक्तायाः समितेः निश्चयमनुसृत्यैव अधिकजलनिर्गमनाय पूर्वोक्तसेतूनां कवाटाः उद्घाटयितुं निश्चितः।

 केरले अतिवृष्टिदुष्प्रभावः - मरणानि ३३ अभवन्। 

अनन्तपुरी> राज्ये अतिवृष्टिदुष्प्रभावेण भूस्खलनेन च दिनत्रयेण ३३ जनाः कालवशं गताः। कोट्टयं, इटुक्की, पत्तनंतिट्टा, आलप्पुष़ा तृश्शूर् जनपदेषु भूस्खलनेन जलोपप्लवेन एतदनुबन्धदुर्घटनेन च एते जनाः मृताः। 

  कोट्टयं जनपदे कूट्टिक्कल् प्रदेशे, इटुक्की जनपदस्य कोक्कयार् प्रदेशे च जाते भूस्खलनेन मृदन्तर्भागे पतितानां मृतशरीराणि दुरन्तनिवारणसेनया कृते अन्वेषणे लब्धानि। अदृष्टाणां सर्वेषां मृतदेहाः उपलब्धाः इति जनपदाधिकारिभिः निगदितम्।

Monday, October 18, 2021

 चीनस्य  बृहत्भित्त्याः बृहदाकारकम् ई - मालिन्यसञ्चयः। विश्वं दुर्घटे।

 विश्वस्मिन् नूतन-वैद्युतकोपकरणानां विधानानां रूपकल्पनाः तथा आविष्काराः च वर्धन्ते। तदनुसृत्य पुनरुपयोगं कर्तुं क्षमताहीनानां वैद्युतक ई - मालिन्यानां (electronic waste) परिमाणमपि भूमौ क्रमातीतं वर्धयत् अस्ति इति वैज्ञानिकैः संसूच्यते। लोह-पलास्तिक-धातुप्रभृतीनां पुनरुपयोगक्षमताहीनानां वस्तूनाम्  निर्मार्जनं महतीं समस्यां जनयति। सामान्यतया एतादृशानि वस्तूनि भूसमीकरणाय उपयुज्यते अथवा अग्निना भस्मीकुर्वन्ति। किन्तु मालिन्यस्य आधिक्यं मालिन्यसंस्करणं दुष्करं करोति। इ - मालिन्यानां पुनरुपयोगः तथा नूतनविभवानां न्यूनोपयोगः च अस्याः समस्यायाः परिहारः  इति वैज्ञानिकाः अभिप्रयन्ति।

 अफ्गानस्य विषये सुरक्षाकर्मकराणां मेलनम् आयोजयितुं सज्जमभवत् भारतम्। 

पाकिस्थानः अपि भागं स्वीकरिष्यति।

  नवदिल्ली> अफगानस्य विषये चर्चितुं विविधराष्ट्राणाम् उन्नतस्तर - सुरक्षाकर्मकराणां मेलनम् आयोजयितुं भारतं सज्जते। भारतं, रष्यः, चीनः,  यु एस् प्रभृतयः राष्ट्राः मेलने भागं स्वीकरिष्यन्ति इति प्रतीक्षते। नवम्बर् मासस्य द्वितीये सप्ताहे एव मेलनं भविष्यति इति टैंस् आफ् इन्ट्या पत्रिकया प्रतिवेदितम्।

मेलने भागं गृहीतृन् अतिथीन् अधिकृत्य औद्योगिकस्थिरीकरणम् इदानीं न लब्धम्। मेलने तालिबानस्य आमन्त्रणपत्रिकासमर्पणसाध्यता नास्ति। किन्तु पाकिस्थानम् आमन्त्रयिष्यति इति सूचना अस्ति। पाकिस्थानस्य सुरक्षाकर्मकराय मोयिद् युसूहाय  आमन्त्रणपत्रिकायाः प्रेषणं विलम्बायितम् इत्यपि प्रतिवेदनमस्ति।

Sunday, October 17, 2021

 केरलराज्यस्य चलनचित्रपुरस्कारः प्रख्यापितः - जयसूर्यः नटः, अन्ना बन् नटी, दि ग्रेट् इन्डियन् किच्चन् श्रेष्ठचित्रम्। 

अनन्तपुरी > 'कप्पेला' इति चलच्चित्रे जेसी इति कथापात्रं श्रेष्ठरीत्या अवतारिता अभिनेत्री अन्नाबन् केरलराज्यस्य २०२० तमस्य श्रेष्ठनटीपुरस्कारार्हा विहिता। 'वेल्लम्' इति चलच्चित्रे मुरलिः इति कथापात्ररूपेण परिणमितः जयसूर्यः श्रेष्ठनटरूपेण चितः। दि ग्रेट् इन्डियन् किच्चन् भवति श्रेष्ठं चलच्चित्रम्। 

 अन्ये पुरस्काराः एवम् - 

श्रेष्ठः निदेशकः - सिद्धार्थ शिवः [चित्रं 'एन्निवर्], जनप्रीतिभूतं चलच्चित्रं - 'अय्यप्पनुं कोशियुम्' , दृश्यकथाकारः - जियो बेबिः [चित्रं दि ग्रेट् इन्डियन् किच्चन् ]

 काश्मीरे द्वौ लष्करभीकरौ सैन्येन निहतौ। 

श्रीनगरम्> जम्मुकाश्मीरस्य पुल्वामायां पाम्पोर् प्रदेशे एकं कमान्डर् स्थानीयमभिव्याप्य द्वौ लष्कर् ई तोय्बा भीकरौ भारतसैन्येन निहतौ। सैन्येन अन्विष्यमाणेषु १० आतङ्कवादिषु अन्यतमः कमान्डर् उमर मुष्ताख् खान्डे नामकः भवति प्रतिद्वन्द्वे मृतयोः प्रमुखः। द्वितीयः न प्रत्यभिज्ञातः। 

  पूञ्च् प्रदेशे गतदिने संवृत्ते प्रतिद्वन्द्वे अदृष्टयोः द्वयोः सैनिकयोः मृतदेहौ काननान्तर्भागे दृष्टौ। अनेन साप्ताहिकद्वयाभ्यन्तरे वीरमृत्युभूतानां सैनिकानां संख्या नव अभवत्। निहताः भीकराश्च १३ अभवन्।

  केरले  अतिवृष्ट्या  भूस्खलनेन च नवजनाः मृताः २० जनाः अप्रत्यक्षाः च। 

अनन्तपुरम्> दक्षिणकेरले मध्यकेरले च अतिवृष्टिः अनुवर्तते। कोट्टयं जनपदे कुट्टिक्कल् प्रदेशे महान् भूस्खलनं च अभवत्। नव जनाः मृताः। विंशति जनाः अप्रत्यक्षाः च। रक्षाप्रवर्तनानि अनुवर्तते। अति वृष्टिः वातः भूस्खलनं  जलोपप्लवः च रक्षाप्रवर्तनान् बाधन्ते। 

Saturday, October 16, 2021

 प्राणवायोः परिमाणं न्यूनं भविष्यति। भूमौ जीवनाशः भविष्यति।

भूमौ जीवसन्धारणाय प्राणवायुः अत्यन्तापेक्षितम् इति सुविदितम् । किन्तु भूमौ प्राणवायुः आकुञ्चति इत्येतत् आशङ्कां जनयति। वातावरणपरिवर्तनमेव भूमौ प्राणवायुदौर्लभ्यस्य प्रधानकारणम्। भाविनि काले प्राणवायुः पूर्णतया अप्रत्यक्षो भविष्यति इति अध्ययनानि सूचयन्ति। तदनन्तरं ग्रहोपरितले जलमपि नष्टं भविष्यति। सूर्यविकिरणेन समुद्राणि अपि २ बिल्यण् संवत्सरानन्तरम् अप्रत्यक्षो भविष्यति इति प्रतीक्ष्यते।

  पूर्वं भूमिः सस्यरहिता आसीत्। प्राणवायुरहिता मीथेयिन् (Methane) सम्पुष्टा आसीत् भूरियम्। तदानीन्तनकाले भूमौ सयनो नाम जीवाणूनां जीवसन्धारणाय प्राणवायोः आवश्यकता न आसीत्। ते प्राणवायुम् उत्पादयित्वा बहिर्गमयन्ति। क्रमेण तेषां नाशः अभवत्। प्राणवायोः सहायात् जीवसन्धारणं कुर्वतां जीविनां संख्या अवर्धत।

 भारतं विश्वस्मिन् समुन्नतसैनिकशक्तिं करिष्ये - नरेन्द्रमोदी।

  नवदिल्ली> भारतं विश्वस्मिन् समुन्नतसैनिकशक्तिः करणीया इत्येव लक्ष्यम् इति प्रधानमन्त्री नरेन्द्रमोदी अवदत्। सर्वकारनियन्त्रणेषु वर्तमानान् सप्त निगमितप्रतिरोधयन्त्रागारः (corporate defence companies)  भारताय समर्प्य भाषमाणः आसीत् सः। स्वातन्त्र्यानन्तरं प्रथमतया प्रतिरोधस्तरेषु बहवः सुप्रधानाः परिष्काराः समभवन्। इदंप्रथमतया सुतार्यतया विश्वास्यतया च परिष्काराः संभूताः इत्यपि सः व्यजिज्ञपत्। प्रतिरोधसामग्रीणां प्रधानोत्पादकरूपेण भारतं परिवर्तयितुम् एकजालक विधानमपि सज्जीकृतमिति तेन निगदितम्।

Friday, October 15, 2021

 अद्य विश्वविद्यार्थिदिनम्। ए पि जे अब्दुल् कलामस्य नवतितमं जन्मवार्षिकदिनम्

नवदिल्ली> ओक्टोबर्१५ विश्वविद्यार्थिदिनत्वेन आचरन्ति। भारतस्य पूर्वतनराष्ट्रपतेः उन्नतकल्पनेक्षणाय प्रेरितस्य डो. ए पि जे अब्दुल्कलामस्य जन्मदिनमेव विश्वविद्यार्थिदिनत्वेन आचरति। ऐक्यराष्ट्रसभया एव ओक्टोबर्१५ विश्वविद्यार्थिदिनत्वेन आचरितुं निश्चितः। २०१० आरभ्य विश्वे विद्यार्थिदिनंम् आचरितुम् आरब्धम्। अब्दुल् कलामस्य छात्रेषु  स्नेहवात्सल्यं तथा शिक्षां प्रोत्साहयितुं तेन कृतं परिश्रमं च अस्मिन् दिने स्मरणीयमेव। राष्ट्रपतिपदे नियुक्तः अपि  देशिकस्य स्थानं एव आसीत् तस्य इष्टतमं कर्म। अध्यापककर्मणा सः विश्वे स्मर्तव्यः इत्येवमासीत् तस्य अभिलाषः।

 प्राणवायोः परिमाणं न्यूनी भविष्यति। भूमौ जीवनाशः भविष्यति।

भूनाशाय अल्पं बिल्यण् संवत्सराणि एव अवशिष्यते इति वदन्ति। भूमौ जीवसन्धारणाय प्राणवायुः अत्यन्तापेक्षितम् इति सुविदितम् । किन्तु भूमौ प्राणवायुः आकुञ्चति इत्येतत् आशङ्कां जनयति। वातावरणपरिवर्तनमेव भूमौ प्राणवायुदौर्लभ्यस्य प्रधानकारणम्। भाविनि काले प्राणवायुः पूर्णतया अप्रत्यक्षो भविष्यति इति अध्ययनानि सूचयन्ति। तदनन्तरं ग्रहोपरितले जलमपि नष्टं भविष्यति। सूर्यविकिरणेन समुद्राणि अपि २ बिल्यण् संवत्सरानन्तरम् अप्रत्यक्षो भविष्यति इति प्रतीक्षते।

  पूर्वं भूमिः सस्यरहिता आसीत्। प्राणवायुरहिता मीथेयिन् (Methane) सम्पुष्टा आसीत् भूरियम्। तदानीन्तनकाले भूमौ सयनो नाम जीवाणूनां जीवसन्धारणाय प्राणवायोः आवश्यकता न आसीत्। ते प्राणवायुम् उत्पादयित्वा बहिर्गमयन्ति। क्रमेण तेषां नाशः अभवत्। प्राणवायोः सहायात् जीवसन्धारणं कुर्वतां जीविनां संख्या अवर्धत।

 सीमालङ्घनम् अनुवर्तते चेत् अतिजवेनाक्रमणं करिष्ये -अमित् शाह।

नवदिल्ली> अवश्यं चेत् पुनरपि आकस्मिकाक्रमणं करिष्ये इति भारतस्य आभ्यन्तरमन्त्रिणा अमित् शाह महोदयेन पूर्वसूचना दत्ता। आक्रमणानि वयं न सहामहे। जम्मूकश्मीरे सामान्यजनान् लक्ष्यीकृत्य समीपकाले जातस्य आक्रमणस्य पश्चात् एव आसीत् अमित् शाहस्य पूर्वसूचना।

Thursday, October 14, 2021

 द्विवयस्केभ्यः कोवाक्सिनं - निर्देशः दत्तः। 

नवदिल्ली> वर्षद्वयादारभ्य १८ वयोपर्यन्तेभ्यः बालकेभ्यः भारतबयोटेक् इत्यस्य कोविड्प्रतिरोधवाक्सिनं कोवाक्सिन् नामकम् आपत्कालीनोपयोगाय दातुं शास्त्रनैपुण्यसमित्या (Subject Expert Committee) निर्देशः कृतः। समित्याः निर्देशः अन्तिमानुज्ञायै भारतीय औषधनियन्त्रकमुख्याय [D C G I] समर्पितः। 

  यदा डि सि जि ऐ इत्यस्मात् अङ्गीकारः लप्स्यते ततः आरभ्य राष्ट्रे द्विवयस्कानां कृते दातुमनुज्ञां लभ्यमानं प्रथमं वाक्सिनं भविष्यति कोवाक्सिनम्।

 उपराष्ट्रपतेः अरुणाचलप्रदेशसन्दर्शनं विरुध्य चीनस्य आक्षेपः। सुदृढं प्रतिरोध्य भारतम्।

 नवदिल्ली> उपराष्ट्रपतेः वेङ्कय्यनाय्डोः अरुणाचलप्रदेशसन्दर्शनं विरुध्य चीनस्य आक्षेपाय भारतेन सुदृढं प्रतिवचनं दत्तम्। सीमाविषये विलम्बं विना चीनस्य सकाशात् निर्णयम् आवश्यकमिति भारतेन प्रोक्तम्। सीमाविषयेषु अनैक्यानि वर्तमाने अस्मिन् सन्दर्भे भारतस्य उपराष्ट्रपतेः वेङकय्यनाय्डोः अरुणाचलप्रदेशसन्दर्शनम् अनुचितम् इति चीनस्य विदेशकार्यवक्त्रा साहो लिजियानेन प्रोक्तमासीत्। 

भारतं प्रतिरोध्य चीनस्य औद्योगिकवक्तुः सकाशात् जाताः परामर्शाः भारतेन शक्तियुक्तं प्रतिरुध्यते। अरुणाचलः भारतस्य भागः भवति। तत् अन्याधीनं कर्तुं न शक्यते। राष्ट्रे यथा अन्येषु राज्येषु उपराष्ट्रपतिः गच्छति तद्वत् अरुणाचले अपि गच्छति। अस्मिन् विषये चीना किमर्थं विरुध्यते इति न ज्ञातुं शक्यते इति भारतस्य विदेशकार्यवक्त्रा अरिन्दं बाग्चिना निगदितम्।

 नेप्पाले बस् यानदुर्घटना - ३२ अपमृत्यवः। 

काठ्मण्डुः > नेप्पालदेशे मुगु जनपदे बस् यानं नदीं निपत्य ३२ यात्रिकाणाम् अपमृत्युः अभूत्। आहतेषु दशानामवस्था आशङ्काजनका वर्तते। 

  गङ्गाधितः नेप्पाल् गञ्च् इति स्थानं गतं यानमासीत् नदीं निपतितम्। विजयदशम्युत्सवेषु भागं कर्तुं स्वगृहाणि ये गतवन्तः आसन्, ते एव दुर्घटनायां  दुर्घटनायां पतिताः। नेप्पालसैन्यस्य रक्षाप्रवर्तनं प्रचलदस्ति।

Wednesday, October 13, 2021

 भारतसेनायाः प्रतिक्रिया - काश्मीरे पञ्चभीकराः व्यापादिताः। 

श्रीनगरम्> जम्मु काश्मीरे पञ्च भीकराः भारतसेनया व्यापादिताः। सोमवासरे पूञ्च् प्रदेशे भीकरैः सह प्रतिद्वन्द्वे ५ भारतीयसैनिकाः वीरमृत्युं प्राप्ताः आसन्। तस्य प्रत्युत्तररूपेण आसीत् सेनायाः प्रत्याक्रमणम्। 

   काश्मीरस्य तुलरानं, इमां साहबप्रदेशेषु सोमवासरस्य रात्रौ सेनया अन्वेषणमारब्धम्। तदा 'लश्कर ई तोय्बा'याः उपसंघटनस्य 'टि आर् एफ्'नामकस्य त्रयः भीकराः हताः। कुजवासरे फिरीपोरप्रदेशे कृते अन्वेषणे अपरौ द्वौ निहतौ।

 सैनिकस्तरचर्चासु निर्णयः न जातः। युद्धं संवृत्तं चेत् भारतं पराभवं प्राप्नोति इत्येवं प्रकोपयित्वा चीनस्य वार्तामाध्यमाः।

बीजिङ्> युद्धम् आरभते चेत् भारतं पराजयं प्राप्स्यति इति ग्लोबल् टैम्स् नाम चीनस्य कम्युणिस्ट् मुखपत्रे सूचयति। सीमाविषये चर्चा: पराजिताः। पराजयस्य कारणं चीनः इति भारतस्य विमर्शनानन्तरमेव चीनस्य प्रकोपनम्। त्रयोदशतम उभयचर्चानन्तरं चीनस्योपरि दोषारोपं कृत्वा भारतेन प्रस्तावना प्रकाशिता आसीत्। भारतेन दत्तानि निर्देशानि अङ्गीकर्तुं चीनः सन्नद्धः न आसीत्। चर्चायाः पराजयकारणं चीनः एव इति भारतेन आरोपितम् आसीत्।

 वृष्टिः क्रमरहिता वर्तते। प्रतिशतं ७५ जनान् वातावणपरिवर्तनं बाधते।

  विश्वस्मिन् प्रतिशतं ८५ जनाः वातावरणव्यत्ययस्य प्रभावान् अनुभवन्ति इति अध्ययनफलमेतत् सूचयन्ति। विषये अस्मिन्  अयुताधिकानि वैज्ञानिक-अध्ययनानि निरूप्य कृतं प्रतिवेदनमेव आशङ्कां जनयति।   inter govern panel on climate change इति  समितेः  अध्ययनफलमेतत्। १९५१ तः आरभ्य २०१८ पर्यन्त-संवत्सरेषु  प्रकाशितानि लक्षशः अध्ययनानि निरूप्य एव एतादृशनिगमनेषु प्राप्ताः। वातावरण परिवर्तनानि सर्वान् भूखण्डान्   बाधन्ते इत्यस्मिन् कार्ये प्रमाणानि सन्ति इति अध्ययनरचयित्रा  माक्स् कल्लगेन AFP प्रति प्रोक्तम्।