OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 11, 2021

 रष्येषु लघु विमानस्य भञ्जनेन षोडशजनाः मृताः।


मोस्को> रष्येषु परिष्यूताभ्यासीन् (parachut) वहन् गतस्य लघुविमानस्य भञ्जनेन षोडशजनाः मृताः। एल् ४१० विमानः एव प्रादेशिक समये प्रातःकाले ९.२३ वादने भग्नः। त्रयोविंशति जनाः विमाने आसन्। भग्नस्य विमानस्य अवशिष्टात् सप्त जनान् अत्रायत। अपरे घटनास्थले मारिताः। अपघाते पतितं विमानं द्विधा विदारितम्। ह्रस्वदूरयात्रायां उपयुज्यमानं यमल-यन्त्रसहितं भवति एतत् विमानम् ।

 ऊर्जसमस्या नास्ति। परिभ्रान्तिं प्रसारयति चेत् प्रक्रमः स्वीकरिष्यति। अङ्गारइन्धनस्य दौर्लभ्यं परिहरिष्यति इति केन्द्र सर्वकारः।

  नवदिल्ली> राष्ट्रे अङ्गारदौर्लभ्येन ऊर्जसमस्या भविष्यति इति प्रतिवेदनं केन्द्रसर्वकारेण निषेध्यते। अस्मिन् विषये अनावश्यकीं परिभ्रान्तिं न सृजेत् इति भारतस्य ऊर्जमन्त्रिणा आर् के सिंहेन अभ्यर्थितः। तापनिलयेषु पर्याप्तपरिमाणः अङ्कारः लभते। सञ्चयः चतुर्दिनेषु यावत् उपयोक्तुं पर्याप्तम् अस्ति इति तेन निगदितम्। अङ्गारखनिमन्त्रिणा प्रह्लाद् जोषिणा साकं निरन्तरं एतत् विषये चर्चां करिष्यन् अस्ति इत्यपि सः व्यजिज्ञपत्।

Sunday, October 10, 2021

 चेर्णोबिल् अणुदुरन्तम् - जर्मनी राष्ट्रे छत्रकेषु अणुविकिरणस्य सान्निध्यं प्रत्यभिज्ञातम्।

गतषड्वर्षाभ्यन्तरे जर्मनिराष्ट्रात् सञ्चितेषु प्रतिशतं ९५ वनछत्रकेषु १९८६ तमे वर्षे जातस्य चेर्णोबिल् अणुदुरन्तकारणेन जातानि रेडियो आक्टीव् मूलकानि (Radio active matter) सन्ति इति प्रत्यभिज्ञातानि। तथापि नियमानुसृतपरिधिं न अतिक्रान्तः इति जर्मनेः भक्ष्यसुरक्षाधिकारिणः वदन्ति। ७६ छत्रकमातृकाः गवेषकैः परिशोधितवन्तः।

अर्णोबिल् विस्फोटस्य स्वभावविशेषयुक्तं सीसियं - १३७, सीसियं १३४ समप्रोटानः (isotops) जर्मनि राष्ट्रे प्रत्यभिज्ञातः।

 लखिंपुरनरहत्या - मन्त्रिसुतः निगृहीतः। 

नवदिल्ली> उत्तरप्रदेशे लखिंपुरे पंरतिषेधान्दोलनं कुर्वन्तः कृषकाः यानघट्टनेन हताः इत्यस्मिन् प्रकरणे केन्द्र गृहसहमन्त्रिणः अजयमिश्रस्य पुत्रः आशिष्मिश्रः आरक्षकैः निगृहीतः। गतदिने आरक्षकसमक्षम् आत्मसमर्पणं कृतं आशिषं नवहोराधिकस्य परिपृच्छानन्तरमेव निग्रहणं कृतम्। 

  आशिषः निरपराधीति अन्वीक्षणसंघस्य पुरतः आवेदितवानिति ज्ञायते। दुर्घटनावेलायां सः प्रकृष्टस्थाने नासीदिति तेनोक्तम्। तत्प्रमाणीकर्तुं नैकानि वीडियोचित्राणि दशजनानां साक्ष्यपत्राणि च उपस्थापितानि। किन्तु तानि तस्य निरपराधित्वनिर्णये अपर्याप्तानीति आरक्षकैः सूचितमस्ति।

Saturday, October 9, 2021

 अफ्गाने देवालये आत्मघात्यक्रमेण शतं जनाः निहताः।

काबूल्> अफ्गानिस्थाने कुण्टूस् नगरे प्रार्थनावेलायां गोसर् इ सयेद् अबाद् षियादेवालये आम्पन्ने आक्रमणे शतशः जनाः निहताः। शतशः जनाः व्रणिताश्च। त्रिशतं जनाः प्रार्थनार्थं देवालये सन्निहिताः आसन्। हतेषु शिशवः अपि सन्ति। देवालयस्य अन्तर्भागे स्थितः अक्रमी स्वयं आस्फोटितः इति मण्डलस्य आरक्षकसेनायाः उपाध्यक्षेण दोष्त् मुहम्मद् ओबैदेन प्रोक्तम्।

 सिड्नीनगरम् उद्घाटितम्।

सिडनी> १०६ दिनानि यावत् दीर्घितस्य सम्पूर्णपिधानस्य अन्ते आस्ट्रेलियायाः महत्तमा नगरी सिड्नी गुरुवासरे उद्घाटिता। ५० लक्षपरिमितं जनसंख्यायुक्ते अस्मिन् नगरे १६ वयोपरियुक्ताः ७०% जनाः वाक्सिनस्य मात्राद्वयमपि स्वीकृतवन्तः इति कारणेनैव नगरे लाघवम् अनुमोदितम्। 

   किन्तु अन्ताराष्ट्रसीमाः पिहिताः एव वर्तिष्यन्ते। राष्ट्रे  रोगबाधितानां प्रतिदिनसंख्या वर्धमानावस्थायामस्ति। बुधवासरे २०२६ जनाः आराष्ट्रं रोगबाधिताः अभवन्। समीपकालस्य उन्नता संख्येयम्।

 मुख्यव्यालः भीमो न । कुक्कुटसमानः एव।

लण्डन्> भीमाकारो भविष्यति इत्यनुमानेन मुख्यव्यालः(chief Dragon ) इति नाम्ना आहूतस्य भीमगोधिकायाः आकारः कुक्कुटसमानः भवति। १९५० तमे संवत्सरे ब्रिट्टन् राष्ट्रे सौत्त् वेयिल्स् देशे शरीरावशिष्टात् प्रत्यभिज्ञाते पेन्ड्रेय्ग्स् (Pendrages ) नाम भीमगोधिकामधिकृत्य सूचनेयम्। ब्रिटणे अद्यावधि प्रत्यभिज्ञातेषु अतिप्राचीना मांसभोजी भीमगोधिका इयम्। दीर्घलाङ्गूलयुक्तकुक्कुटतुल्यः आकार एव अस्य अस्ति इति इदानीं प्रत्यभिज्ञातः। लाङ्गूलस्य आयतपर्यन्तम् आहत्य अस्य आकारः केवलं त्रिपादमितम् भवति। २१.५ कोटि संवत्सरात् पूर्वमेव आसीत् अस्य जीवनकालः।

Friday, October 8, 2021

 वातावरणव्यत्ययान् ज्ञातुं नूतनमार्गं आविष्कृतेभ्यः भौतिकवैज्ञानस्य नोबेल् पुरस्कारः।   


स्टोक्होम्> वातावरणव्यत्यय-सदृशान् सङ्कीर्णाः  समस्याः  प्रत्यभिज्ञातुं  क्षमतायुक्त प्रवचनं  प्रसारयितुं च पर्याप्तं नूतनमार्गं आविष्कृताः त्रयः वैज्ञानिकाः  २०२१ तमस्य भौतिकवैज्ञानस्य नोबेल् पुरस्कारेण समादृताः।   सुक्कुरो मनाबः. क्लोस् हासिल्मानः, जोर्जोपरीसि च भवन्ति एते। पुरस्कारराशेः ११.४ डोलर् धनस्य अर्धभागः सुक्कुरो मनाबः, क्लोस् हासिल्मानः इत्येताभ्यां लभते । शेषः भागः परीसिमहोदयाय लभते।

गुह्यं भौमवातावरणानि ज्ञातानि इत्यनेन मनुष्याणां प्रवर्तनानि कथं भूमेः वातावरणान् बाधते इति अवगन्तुं कृतेभ्यः अध्ययनेभ्यः भवति पुरस्कारः।  क्रमरहितान् पदार्थान् आकस्मिकान् प्रक्रियान् सङ्कीर्णसमस्याः प्रत्यभिज्ञातुं कृताध्ययनाय भवति परीसेः  पुरकारः॥

Thursday, October 7, 2021

 महानौकानां स्वच्छन्दतरणाय पर्याप्तं प्रथमलंबोर्ध्वसमुद्रसेतुः रामेश्वरे पाम्पन् सेतोः स्थाने निर्मीयते।

  नवदिल्ली> रामेश्वरस्थे नूतनसेतोः मनोहरचित्राणि प्रकाशयत् भारतीय रेल् संस्थया तथा रेल्मन्त्रिणा अश्वनी वैष्णवेन च। भारते निर्मितः प्रथमः लम्बोर्ध्वसेतुः भविष्यति एषः। सेतोः मध्यभागं पूर्णतया समुत्थाप्य महानौकानां सन्तरणाय व्यवस्था कल्प्यते। राष्ट्रे इदंप्रथमतया एव सेतोः मध्यभागोत्थापनक्षमः सेतुः निर्मीयते। आगामिनि मार्च् मासे सेतोः निर्माणं सम्पूर्णं भविष्यति इति प्रतीक्ष्यते।

 केरले वाक्सिनीकरणं लक्ष्यमुपागच्छति। 

अनन्तपुरी> केरलराज्ये कोविड्वाक्सिनीकरणं लक्ष्यमुपगाच्छति। वाक्सिनं स्वीकरणीयेषु जनेषु ९३. ०४% संख्याकाः प्रथममात्रां स्वीकृतवन्तः इति सर्वकारेण निगदितम्। परन्तु सार्धाष्टलक्षं जनाः परं वाक्सिनीकरणीयाः सन्ति। २०२१ तमस्य जनसंख्यागणनमनुसृत्य १८.५लक्षं जना अवशिष्यन्ते तथापि कोविड्बाधिताः उपदशलक्षं जनाः मासत्रयानन्तरं वाक्सिनीकरणीयाः भवेयुः। 

   जनसंख्यागणनानुसारं राज्ये आहत्य वाक्सिनीकरणीयानां संख्या - २.६७कोटिः। 

प्रथमात्रां स्वीकृतवन्तः - २,४८,५०३०७ [९३-०४%]

द्वितीयमात्रां स्वीकृतवन्तः - १,१४,४०,७७० [४२.८३%]

Wednesday, October 6, 2021

 केरलेषु विद्यालयाः नवम्बर् प्रथमे दिने उद्घाट्यन्ते। 

अनन्तपुरी> कोविड्महामारिहेतुना २० मासान् यावत् पिहिताः विद्यालयाः नवम्बरमासस्य प्रथमे दिने - केरलप्रसूतिदिने एव-पुनरुद्घाटयितुं राज्यसर्वकारेण निश्चितम्। राज्ये अनुक्रमेण कोविड्बाधा आकुञ्चतीति प्रकरणं विभाव्य एव सर्वकारः स्वास्थ्य-शिक्षादिभिः विविधविभागैः सह चर्चित्वा एतादृशनिर्णयः स्वीकृतः। 

  १ - ७ कक्ष्याः दशमी,+१,+२ कक्ष्याश्च नवम्बर् १ तमे आरभ्यन्ते। ८, ९ कक्ष्याः नवंबर १५ तमे च आरभ्यन्ते। 

 कोविड्प्रतिरोधकनिर्देशानि परिपाल्य एव कक्ष्याः प्रचालनीयाः। तदर्थं मार्गनिर्देशाः विज्ञापिताश्च।

 तैलेन्धनस्य मूल्यम् ऊर्ध्वं गच्छति। 

मुम्बई> अन्ताराष्ट्रविपण्याम् असंस्कृततैलेन्धनस्य मूल्यं प्रति बारल् परिमितस्य ८२.२५ डोलर्  प्राप्तम्। अतः भारते पेट्रोल् डीसल् इन्धनद्वयस्य मूल्यम् ऊर्ध्वं गच्छति। असंस्कृततैलेन्धनोत्पादनस्य मन्दगतिः, आगोलतले विविधराष्ट्राणां इन्धनसञ्चयस्य आकुञ्चनं च इन्धनमूल्यवर्धनाय हेतुरिति सूच्यते।   

  मुम्बय्यां पेट्रोलस्य मूल्यं १०८.६७ रूप्यकाणि डीसलिन्धनस्य मूल्यं ९८.८० रूप्यकाणि चाभवन्। जयपुरे पेट्रोल्- डीसल् इन्धनयोः मूल्यं यथाक्रमं १०९.६६, १००.४२ च प्राप्तम्। दिल्ल्यामेतत् यथाक्रमं  १०२.६४,९१.०७ च भवति। विविधराज्येषु तैलेन्धनस्य प्रतिदिनवर्धनं संदृश्यते।

 राष्ट्रे इन्धनरूपस्य अङ्गारस्य दौर्लभ्यकारणेन ऊर्जोद्पादने समस्या भविष्यति इति आशङ्का। 

नवदिल्ली> ऊर्जोत्पादनस्य क्रमशः वर्धनं तथा खनयः सर्वे जले निमग्नाः इत्यस्मात् कारणात् राष्ट्रे अङ्कारस्य दौर्लभ्यं अतिरूक्षं जातम्। केवलं चतुर्दिनानि यावत् वैद्युतिम् उत्पादयितुं शक्यं अङ्कारसञ्चयमेव निलयेषु वर्तते। अर्धाधिकनिलयानि समीपदिवसेषु प्रवर्तनरहितानि भविष्यन्ति। एषा स्थितिः अनुवर्तते सति भारतस्य  साम्पत्तिकव्यवस्थां बाधिष्यते इति वैज्ञानिकाः वदन्ति।

Tuesday, October 5, 2021

 तापस्य स्पर्शस्य च रहस्यस्य प्रत्यभिज्ञानाय वैद्यविज्ञानपुरस्कारः।


 स्टोक्होम्> मनुष्यशरीरे तापः स्पर्शः च संवेदयितुं सहायिकाः स्वीकरण्याः सन्ति इति प्रत्यभिज्ञातयोः अमेरिक्कायाः गवेषकद्वयोः २०२१ तम संवत्सरस्य वैद्यविज्ञाननोबल्पुरस्कारः लब्धः। जैवरसतन्त्रज्ञौ (biochemist) डेविड् जूलियस्, आर्डं पट्टपोषियन् च पुरस्कृतौ। १० लक्षं डोलर् धनं (७.२ कोटि रूप्यकाणि) पारितोषिकरूपेण लप्स्यते। स्पर्शः, वेदना, तापः च यदा भविष्यति तदा शरीरं तादृशान् भौतिकसंवेदान् कथं वैद्युतस्पन्दरूपेण सिराव्यूहं प्रापयति इति सुप्रधानज्ञानमेव तैः आविष्कृतम्। वेदनानिवारणाय नूतनमार्गदर्शकं भवत्येषः आविष्कारः।

Monday, October 4, 2021

सुखभोगमहानौकायाः उन्मादकक्स्तूनि संगृहीतानि। 

हिंदीचलनचित्रनटस्य षारूख् खानस्य पुत्रः आर्यन् खान् प्रभृतयः संगृहीताः।

मुम्बै> उन्मादकभेषजप्रकरणे हिन्दी चलनचित्रनटस्य षारूख् खानस्य पुत्रः आर्यन् खान् प्रभृतयः संगृहीताः। सुखभोगनौकायां उन्मादवस्तूनां संग्रहणस्य पश्चात् एव आर्यादिप्रभृतयः संगृहीताः। उन्मादकसत्कारवेलायां एव एन् सि बि संघेन संगृहीताः। होरादीर्घितपरिप्रश्नानन्तरं बन्धनं (arrest) प्रमाणीकृतम् ।

 महाविद्यालयाः उद्घाटयन्ति। अन्तिमवर्षीयछात्रेभ्यः अद्य कक्ष्या समारभते

अनन्तपुरी> कोविडस्य प्रसारणहेतुना कीलिताः महाविद्यालयाः बहुकालविरामानन्तरम् अद्य उद्घाटयन्ति । बिरुदबिरुदानन्तरकक्ष्यायाः अन्तिमवर्षीयछात्राणाम् अध्ययनम् एव समारभते। वाक्सिनस्य प्रथममात्रां स्वीकृतेभ्यः छात्रेभ्यः एव  कक्ष्यां प्रवेष्टुम् अनुमतिः वर्तते। मात्रादृयं स्वीकृतान् छात्रान् समाविश्य ओक्टोबर् मासस्य अष्टादशदिनाङ्कादारभ्य सर्वाः कक्ष्याः तथा परिशीलनकक्ष्याः च समारप्स्यते।

Sunday, October 3, 2021

 चीनेन सीमनि अधिकतया सेनाः विन्यस्यन्ते इति स्थलसेनामुख्यः।

लडाक्> लडाक् सीमनि सर्वत्र चीनः अधिकतया सेनाविन्यासं करोति इति स्थलसेनायाः सामान्य मुख्येन मनोज् मुकुन्द् नरवनेन प्रोक्तम्। लडाक् संघर्षः तथा सेनायाः प्रत्याहरणं च अधिकृत्य आगामिनि वासरे त्रयोदशतमां उभयचर्चां  प्रचालयितुं शक्यते इति प्रतीक्ष्यते इत्यपि तेन उक्तम्। अधिकसेनाविन्यासः आशङ्कां जनयति इति सः अवदत्। गतषण्मासाभ्यन्तरे चीनस्य सैन्यं  कोऽपि संघर्षः न अजनयत्। सीमनि वातावरणं शान्तिपूर्णं च आसीत् इत्यपि सः व्यजिज्ञपत् ।

 आस्ट्रेलिया यात्रानिरोधं निवारति। 

कान्बरा > सार्धसंवत्सरं दीर्घितं यात्रानिरोधं निवार्य आस्ट्रेलिया वाक्सिनीकृतानां  स्वनागरिकाणां कृते सीमाः उद्घाटयति। नवम्बरस्य प्रथमदिनाङ्कादारभ्य नागरिकाः विदेशयात्राः कर्तुमर्हन्तीति प्रधानमन्त्रिणा स्कोट् मोरिसणेन निगदितम्। राष्ट्रे षोडशोपरिवयस्केषु ८०% जनाः वाक्सिनीकृताः इत्यस्य आधारे एवायं निर्णयः। 

   किन्तु विदेशीयानां कृते राष्ट्रप्रवेशः कदा दास्यतीत्यस्मिन् विषये अस्पष्टता वर्तते। २०२० मार्च् २० दिनाङ्कादारभ्य आसीत् राष्ट्रे यात्रानिरोधः प्रकल्पितः। कोविडस्य प्रकरणे कर्कशं यात्रानियन्त्रणं वर्तितेषु राष्ट्रेषु अन्यतमा आस्ट्रेलिया।