OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 8, 2021

 वातावरणव्यत्ययान् ज्ञातुं नूतनमार्गं आविष्कृतेभ्यः भौतिकवैज्ञानस्य नोबेल् पुरस्कारः।   


स्टोक्होम्> वातावरणव्यत्यय-सदृशान् सङ्कीर्णाः  समस्याः  प्रत्यभिज्ञातुं  क्षमतायुक्त प्रवचनं  प्रसारयितुं च पर्याप्तं नूतनमार्गं आविष्कृताः त्रयः वैज्ञानिकाः  २०२१ तमस्य भौतिकवैज्ञानस्य नोबेल् पुरस्कारेण समादृताः।   सुक्कुरो मनाबः. क्लोस् हासिल्मानः, जोर्जोपरीसि च भवन्ति एते। पुरस्कारराशेः ११.४ डोलर् धनस्य अर्धभागः सुक्कुरो मनाबः, क्लोस् हासिल्मानः इत्येताभ्यां लभते । शेषः भागः परीसिमहोदयाय लभते।

गुह्यं भौमवातावरणानि ज्ञातानि इत्यनेन मनुष्याणां प्रवर्तनानि कथं भूमेः वातावरणान् बाधते इति अवगन्तुं कृतेभ्यः अध्ययनेभ्यः भवति पुरस्कारः।  क्रमरहितान् पदार्थान् आकस्मिकान् प्रक्रियान् सङ्कीर्णसमस्याः प्रत्यभिज्ञातुं कृताध्ययनाय भवति परीसेः  पुरकारः॥

Thursday, October 7, 2021

 महानौकानां स्वच्छन्दतरणाय पर्याप्तं प्रथमलंबोर्ध्वसमुद्रसेतुः रामेश्वरे पाम्पन् सेतोः स्थाने निर्मीयते।

  नवदिल्ली> रामेश्वरस्थे नूतनसेतोः मनोहरचित्राणि प्रकाशयत् भारतीय रेल् संस्थया तथा रेल्मन्त्रिणा अश्वनी वैष्णवेन च। भारते निर्मितः प्रथमः लम्बोर्ध्वसेतुः भविष्यति एषः। सेतोः मध्यभागं पूर्णतया समुत्थाप्य महानौकानां सन्तरणाय व्यवस्था कल्प्यते। राष्ट्रे इदंप्रथमतया एव सेतोः मध्यभागोत्थापनक्षमः सेतुः निर्मीयते। आगामिनि मार्च् मासे सेतोः निर्माणं सम्पूर्णं भविष्यति इति प्रतीक्ष्यते।

 केरले वाक्सिनीकरणं लक्ष्यमुपागच्छति। 

अनन्तपुरी> केरलराज्ये कोविड्वाक्सिनीकरणं लक्ष्यमुपगाच्छति। वाक्सिनं स्वीकरणीयेषु जनेषु ९३. ०४% संख्याकाः प्रथममात्रां स्वीकृतवन्तः इति सर्वकारेण निगदितम्। परन्तु सार्धाष्टलक्षं जनाः परं वाक्सिनीकरणीयाः सन्ति। २०२१ तमस्य जनसंख्यागणनमनुसृत्य १८.५लक्षं जना अवशिष्यन्ते तथापि कोविड्बाधिताः उपदशलक्षं जनाः मासत्रयानन्तरं वाक्सिनीकरणीयाः भवेयुः। 

   जनसंख्यागणनानुसारं राज्ये आहत्य वाक्सिनीकरणीयानां संख्या - २.६७कोटिः। 

प्रथमात्रां स्वीकृतवन्तः - २,४८,५०३०७ [९३-०४%]

द्वितीयमात्रां स्वीकृतवन्तः - १,१४,४०,७७० [४२.८३%]

Wednesday, October 6, 2021

 केरलेषु विद्यालयाः नवम्बर् प्रथमे दिने उद्घाट्यन्ते। 

अनन्तपुरी> कोविड्महामारिहेतुना २० मासान् यावत् पिहिताः विद्यालयाः नवम्बरमासस्य प्रथमे दिने - केरलप्रसूतिदिने एव-पुनरुद्घाटयितुं राज्यसर्वकारेण निश्चितम्। राज्ये अनुक्रमेण कोविड्बाधा आकुञ्चतीति प्रकरणं विभाव्य एव सर्वकारः स्वास्थ्य-शिक्षादिभिः विविधविभागैः सह चर्चित्वा एतादृशनिर्णयः स्वीकृतः। 

  १ - ७ कक्ष्याः दशमी,+१,+२ कक्ष्याश्च नवम्बर् १ तमे आरभ्यन्ते। ८, ९ कक्ष्याः नवंबर १५ तमे च आरभ्यन्ते। 

 कोविड्प्रतिरोधकनिर्देशानि परिपाल्य एव कक्ष्याः प्रचालनीयाः। तदर्थं मार्गनिर्देशाः विज्ञापिताश्च।

 तैलेन्धनस्य मूल्यम् ऊर्ध्वं गच्छति। 

मुम्बई> अन्ताराष्ट्रविपण्याम् असंस्कृततैलेन्धनस्य मूल्यं प्रति बारल् परिमितस्य ८२.२५ डोलर्  प्राप्तम्। अतः भारते पेट्रोल् डीसल् इन्धनद्वयस्य मूल्यम् ऊर्ध्वं गच्छति। असंस्कृततैलेन्धनोत्पादनस्य मन्दगतिः, आगोलतले विविधराष्ट्राणां इन्धनसञ्चयस्य आकुञ्चनं च इन्धनमूल्यवर्धनाय हेतुरिति सूच्यते।   

  मुम्बय्यां पेट्रोलस्य मूल्यं १०८.६७ रूप्यकाणि डीसलिन्धनस्य मूल्यं ९८.८० रूप्यकाणि चाभवन्। जयपुरे पेट्रोल्- डीसल् इन्धनयोः मूल्यं यथाक्रमं १०९.६६, १००.४२ च प्राप्तम्। दिल्ल्यामेतत् यथाक्रमं  १०२.६४,९१.०७ च भवति। विविधराज्येषु तैलेन्धनस्य प्रतिदिनवर्धनं संदृश्यते।

 राष्ट्रे इन्धनरूपस्य अङ्गारस्य दौर्लभ्यकारणेन ऊर्जोद्पादने समस्या भविष्यति इति आशङ्का। 

नवदिल्ली> ऊर्जोत्पादनस्य क्रमशः वर्धनं तथा खनयः सर्वे जले निमग्नाः इत्यस्मात् कारणात् राष्ट्रे अङ्कारस्य दौर्लभ्यं अतिरूक्षं जातम्। केवलं चतुर्दिनानि यावत् वैद्युतिम् उत्पादयितुं शक्यं अङ्कारसञ्चयमेव निलयेषु वर्तते। अर्धाधिकनिलयानि समीपदिवसेषु प्रवर्तनरहितानि भविष्यन्ति। एषा स्थितिः अनुवर्तते सति भारतस्य  साम्पत्तिकव्यवस्थां बाधिष्यते इति वैज्ञानिकाः वदन्ति।

Tuesday, October 5, 2021

 तापस्य स्पर्शस्य च रहस्यस्य प्रत्यभिज्ञानाय वैद्यविज्ञानपुरस्कारः।


 स्टोक्होम्> मनुष्यशरीरे तापः स्पर्शः च संवेदयितुं सहायिकाः स्वीकरण्याः सन्ति इति प्रत्यभिज्ञातयोः अमेरिक्कायाः गवेषकद्वयोः २०२१ तम संवत्सरस्य वैद्यविज्ञाननोबल्पुरस्कारः लब्धः। जैवरसतन्त्रज्ञौ (biochemist) डेविड् जूलियस्, आर्डं पट्टपोषियन् च पुरस्कृतौ। १० लक्षं डोलर् धनं (७.२ कोटि रूप्यकाणि) पारितोषिकरूपेण लप्स्यते। स्पर्शः, वेदना, तापः च यदा भविष्यति तदा शरीरं तादृशान् भौतिकसंवेदान् कथं वैद्युतस्पन्दरूपेण सिराव्यूहं प्रापयति इति सुप्रधानज्ञानमेव तैः आविष्कृतम्। वेदनानिवारणाय नूतनमार्गदर्शकं भवत्येषः आविष्कारः।

Monday, October 4, 2021

सुखभोगमहानौकायाः उन्मादकक्स्तूनि संगृहीतानि। 

हिंदीचलनचित्रनटस्य षारूख् खानस्य पुत्रः आर्यन् खान् प्रभृतयः संगृहीताः।

मुम्बै> उन्मादकभेषजप्रकरणे हिन्दी चलनचित्रनटस्य षारूख् खानस्य पुत्रः आर्यन् खान् प्रभृतयः संगृहीताः। सुखभोगनौकायां उन्मादवस्तूनां संग्रहणस्य पश्चात् एव आर्यादिप्रभृतयः संगृहीताः। उन्मादकसत्कारवेलायां एव एन् सि बि संघेन संगृहीताः। होरादीर्घितपरिप्रश्नानन्तरं बन्धनं (arrest) प्रमाणीकृतम् ।

 महाविद्यालयाः उद्घाटयन्ति। अन्तिमवर्षीयछात्रेभ्यः अद्य कक्ष्या समारभते

अनन्तपुरी> कोविडस्य प्रसारणहेतुना कीलिताः महाविद्यालयाः बहुकालविरामानन्तरम् अद्य उद्घाटयन्ति । बिरुदबिरुदानन्तरकक्ष्यायाः अन्तिमवर्षीयछात्राणाम् अध्ययनम् एव समारभते। वाक्सिनस्य प्रथममात्रां स्वीकृतेभ्यः छात्रेभ्यः एव  कक्ष्यां प्रवेष्टुम् अनुमतिः वर्तते। मात्रादृयं स्वीकृतान् छात्रान् समाविश्य ओक्टोबर् मासस्य अष्टादशदिनाङ्कादारभ्य सर्वाः कक्ष्याः तथा परिशीलनकक्ष्याः च समारप्स्यते।

Sunday, October 3, 2021

 चीनेन सीमनि अधिकतया सेनाः विन्यस्यन्ते इति स्थलसेनामुख्यः।

लडाक्> लडाक् सीमनि सर्वत्र चीनः अधिकतया सेनाविन्यासं करोति इति स्थलसेनायाः सामान्य मुख्येन मनोज् मुकुन्द् नरवनेन प्रोक्तम्। लडाक् संघर्षः तथा सेनायाः प्रत्याहरणं च अधिकृत्य आगामिनि वासरे त्रयोदशतमां उभयचर्चां  प्रचालयितुं शक्यते इति प्रतीक्ष्यते इत्यपि तेन उक्तम्। अधिकसेनाविन्यासः आशङ्कां जनयति इति सः अवदत्। गतषण्मासाभ्यन्तरे चीनस्य सैन्यं  कोऽपि संघर्षः न अजनयत्। सीमनि वातावरणं शान्तिपूर्णं च आसीत् इत्यपि सः व्यजिज्ञपत् ।

 आस्ट्रेलिया यात्रानिरोधं निवारति। 

कान्बरा > सार्धसंवत्सरं दीर्घितं यात्रानिरोधं निवार्य आस्ट्रेलिया वाक्सिनीकृतानां  स्वनागरिकाणां कृते सीमाः उद्घाटयति। नवम्बरस्य प्रथमदिनाङ्कादारभ्य नागरिकाः विदेशयात्राः कर्तुमर्हन्तीति प्रधानमन्त्रिणा स्कोट् मोरिसणेन निगदितम्। राष्ट्रे षोडशोपरिवयस्केषु ८०% जनाः वाक्सिनीकृताः इत्यस्य आधारे एवायं निर्णयः। 

   किन्तु विदेशीयानां कृते राष्ट्रप्रवेशः कदा दास्यतीत्यस्मिन् विषये अस्पष्टता वर्तते। २०२० मार्च् २० दिनाङ्कादारभ्य आसीत् राष्ट्रे यात्रानिरोधः प्रकल्पितः। कोविडस्य प्रकरणे कर्कशं यात्रानियन्त्रणं वर्तितेषु राष्ट्रेषु अन्यतमा आस्ट्रेलिया।

Saturday, October 2, 2021

 महात्मागान्धिनः मूल्यानि लक्षशः जनान् दृढयन्ति इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी।

नवदिल्ली> महात्मागान्धिनः मूल्यानि लक्षशः जनान् शक्तिमन्तः कुर्वन्ति इति नरेन्द्रमोदिना गन्धिजयन्ति दिने ट्विट्टर् मध्यमद्वारा आवेदितम्। तस्य आदर्शाः अद्यापि विश्वस्मिन् प्रसक्तं भवति इत्यपि तेन उक्तम्। भारतस्य पूर्वतन प्रधानमन्त्रिणः लाल् बहदूर् शास्त्रिणः जयन्तिदिने सः आदराञ्जलिम् अर्पितवान्। मूल्येषु आदर्शेषु च अधिष्ठितं शास्त्रिणः जीवितं राष्ट्रे जनानां प्रचोदनदायकं भवति इति तेन प्रोक्तम्। महात्मागान्धिनः लाल् बहदूर् शास्त्रिणः च समाधिस्थले आगत्य प्रधानमन्त्री नरेन्द्रमोदी अन्ये प्रमुखाः नेतारः च आदराञ्जलिम् अर्पितवन्तः।

 अद्य गान्धिजयन्ती। 

भारतस्य राष्ट्रपितुः महात्मागान्धिनः १५२ तमं जन्मदिनं भवत्यद्य। आविश्वम् अद्य अहिंसादिनत्वेन परिपाल्यते।

 आविश्वं कोविड्व्यापनम् आकुञ्चति - स्वास्थ्यसंघटनम्। 

जनीवा> अन्ताराष्ट्रियस्तरे कोविड्व्यापनं मरणञ्च आकुञ्चतीति विश्वस्वास्थ्यसंघटनेन आवेदितम्। सेप्टम्बर् २० आरभ्य २६ तमपर्यन्तं गणनायाः तारतम्यमनुसृत्य अस्मिन् सप्ताहे रोगबाधितानां संख्या दश प्रतिशतस्य आकुञ्चनमभवत्। अधिकतमा न्यूनता अमेरिक्कायां सूचितम्। परन्तु ब्रिट्टने ब्रसीले च व्यापनस्य रेखीयमानं वर्धमानमस्ति। १९३ राष्ट्रेषु कोरोणाविषाणोः आल्फाप्रभेदः १४२ राष्ट्रेषु बीटा प्रभेदः १८७ राष्ट्रेषु डेल्टाप्रभेदः  ९६ राष्ट्रेषु गामाप्रभेदश्च अधिकतया दृश्यन्ते। 

  आविश्वमशेषतः २३.४ कोटिपरिमिताः जनाः कोविड्बाधिताः अभवन्। ४८ लक्षं जनाः मृत्युमुपगताः।  २१.१४ कोटिजनाः रोगमुक्तिं प्राप्तवन्तश्च। 

यु जि सि नेट्ट् परीक्षायाः नूतन समयक्रमः प्रख्यापितः। 

नवदिल्ली> महाविद्यालयाध्यापकानां योग्यता निर्णयपरीक्षा (N E T) दीर्घिता। दिसंबर्२०२०- जून् २०२१ यु जि सि नेट्ट् परीक्षा ओक्टोबर्१७ दिनाङ्कादारभ्य ओक्टोबर् मासस्य २५ दिनाङ्कपर्यन्तं भविष्यति इति एन् टि ए संस्थया (National testing agency) प्रोक्तम्। ओक्टोबर्६-८, ओक्टोबर्१७-१८ दिनाङ्कः आसीत् पूर्वं प्रख्यापितः समयक्रमः। अस्मिन् समये अन्याः काचन परीक्षाः प्रचलन्ति इति कारणेनैव इयं परीक्षा पुनः क्रमीकृता।

Friday, October 1, 2021

 कोवाक्सिने विश्वस्वास्थ्यसंघटनस्य निर्णयः अस्मिन् मासे। 

जनीवा> अत्यावश्यकानुज्ञां दीयमानेषु कोविड्वाक्सिनानां नामावलिषु भारतस्य स्वकीयवाक्सिनं कोवाक्सिन्नामकम् अन्तर्भावयितुं विश्वस्वास्थ्यसंघटनेन मासेSस्मिन् निर्णयः करिष्यते। निर्मातृभिः  भारतबयोटेक् संस्थाभिः एप्रिल् मासे कोवाक्सिनं नामावलिषु अन्तर्भावयितुम् आवेदनं प्रदत्तमासीत्। संस्थया प्रदत्ताः कोवाक्सिनसम्बन्धीनि प्रमाणानि WHO संस्थया परिशोध्यमानानि सन्ति। मानदण्डाः परिपालिताः इति निबोधति तर्हि अचिरादेव अङ्गीकारः लप्स्यते।

वित्तकोशीयलिपिकपरीक्षाणां प्रश्नपत्राणि प्रादेशिकभाषास्वपि। 

  नवदिल्ली> राष्ट्रे सार्वजनीनवित्तकोशेषु नियुज्यमानानां लिपिकानां परीक्षासु प्रश्नपत्राणि आङ्ग्ल-हिन्दीभाषाभ्यां  अतिरिच्य १३ प्रादेशिकभाषास्वपि सज्जीकर्तुं भारतीयवित्तमन्त्रालयेन निर्देशः दत्तः। राष्ट्रस्य १२ सार्वजनिकमण्डलस्थानां वित्तकोशानां रिक्तस्थानेभ्यः इतःपरं विज्ञापनीयासु विज्ञप्तिपत्रिकासु प्राथमिक मुख्यपरीक्षाः प्रादेशिकभाषाभिरपि लेखितुमनुज्ञा दास्यति। 

  बैङ्कानां लिपिकस्थानेभ्यः आयोज्यमानासु परीक्षासु प्रादेशिकभाषाभिरपि परीक्षाः चालनीयाः इति वित्तमन्त्रालयेन रूपीकृतया समित्या निर्देशः दत्तः आसीत्। तदनुसृत्य एवायं निर्णयः। एस् बी ऐ, कानरा, यूणियन् बैंक् आफ् इन्डिया इत्यादीनां वित्तकोशानां लिपिकपरीक्षार्थिभ्यः अयं निर्णयः उपकारी भविष्यति।

 सौरयूथस्य उद्भवमन्विष्य लूसी प्रतिष्ठते।

    वाषिङ्टण्> ४५० कोटि संवत्सरात् पूर्वं सौरयूथं कथं समुद्भूतम् इति रहस्यम् अवगन्तुं नासा संस्थायाः लूसी नामिका आकाशपेटिका आगामि मासे प्रस्थास्यते । बृहस्पतिः नाम ग्रहस्य पुरतः पश्चात् च सूर्यपरिक्रमणं कुर्वत्सु ड्रोजन् छिन्नग्रहेषु एव लूसी सौरयूथस्य रहस्यम् अन्विष्यति। ट्रोजन् छिन्नग्रहाणां सौरयूथवत् समानवयः अस्ति। अतः लूसी पेटिकया  प्रदास्यमानानां नूतनज्ञानानां  निर्णायकं स्थानं भविष्यति इति नासायाः ग्रहविज्ञानविभागस्य निर्देशकेन लोरि ग्लेस् महाभागेन प्रोक्तम्।