OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 2, 2021

 महात्मागान्धिनः मूल्यानि लक्षशः जनान् दृढयन्ति इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी।

नवदिल्ली> महात्मागान्धिनः मूल्यानि लक्षशः जनान् शक्तिमन्तः कुर्वन्ति इति नरेन्द्रमोदिना गन्धिजयन्ति दिने ट्विट्टर् मध्यमद्वारा आवेदितम्। तस्य आदर्शाः अद्यापि विश्वस्मिन् प्रसक्तं भवति इत्यपि तेन उक्तम्। भारतस्य पूर्वतन प्रधानमन्त्रिणः लाल् बहदूर् शास्त्रिणः जयन्तिदिने सः आदराञ्जलिम् अर्पितवान्। मूल्येषु आदर्शेषु च अधिष्ठितं शास्त्रिणः जीवितं राष्ट्रे जनानां प्रचोदनदायकं भवति इति तेन प्रोक्तम्। महात्मागान्धिनः लाल् बहदूर् शास्त्रिणः च समाधिस्थले आगत्य प्रधानमन्त्री नरेन्द्रमोदी अन्ये प्रमुखाः नेतारः च आदराञ्जलिम् अर्पितवन्तः।

 अद्य गान्धिजयन्ती। 

भारतस्य राष्ट्रपितुः महात्मागान्धिनः १५२ तमं जन्मदिनं भवत्यद्य। आविश्वम् अद्य अहिंसादिनत्वेन परिपाल्यते।

 आविश्वं कोविड्व्यापनम् आकुञ्चति - स्वास्थ्यसंघटनम्। 

जनीवा> अन्ताराष्ट्रियस्तरे कोविड्व्यापनं मरणञ्च आकुञ्चतीति विश्वस्वास्थ्यसंघटनेन आवेदितम्। सेप्टम्बर् २० आरभ्य २६ तमपर्यन्तं गणनायाः तारतम्यमनुसृत्य अस्मिन् सप्ताहे रोगबाधितानां संख्या दश प्रतिशतस्य आकुञ्चनमभवत्। अधिकतमा न्यूनता अमेरिक्कायां सूचितम्। परन्तु ब्रिट्टने ब्रसीले च व्यापनस्य रेखीयमानं वर्धमानमस्ति। १९३ राष्ट्रेषु कोरोणाविषाणोः आल्फाप्रभेदः १४२ राष्ट्रेषु बीटा प्रभेदः १८७ राष्ट्रेषु डेल्टाप्रभेदः  ९६ राष्ट्रेषु गामाप्रभेदश्च अधिकतया दृश्यन्ते। 

  आविश्वमशेषतः २३.४ कोटिपरिमिताः जनाः कोविड्बाधिताः अभवन्। ४८ लक्षं जनाः मृत्युमुपगताः।  २१.१४ कोटिजनाः रोगमुक्तिं प्राप्तवन्तश्च। 

यु जि सि नेट्ट् परीक्षायाः नूतन समयक्रमः प्रख्यापितः। 

नवदिल्ली> महाविद्यालयाध्यापकानां योग्यता निर्णयपरीक्षा (N E T) दीर्घिता। दिसंबर्२०२०- जून् २०२१ यु जि सि नेट्ट् परीक्षा ओक्टोबर्१७ दिनाङ्कादारभ्य ओक्टोबर् मासस्य २५ दिनाङ्कपर्यन्तं भविष्यति इति एन् टि ए संस्थया (National testing agency) प्रोक्तम्। ओक्टोबर्६-८, ओक्टोबर्१७-१८ दिनाङ्कः आसीत् पूर्वं प्रख्यापितः समयक्रमः। अस्मिन् समये अन्याः काचन परीक्षाः प्रचलन्ति इति कारणेनैव इयं परीक्षा पुनः क्रमीकृता।

Friday, October 1, 2021

 कोवाक्सिने विश्वस्वास्थ्यसंघटनस्य निर्णयः अस्मिन् मासे। 

जनीवा> अत्यावश्यकानुज्ञां दीयमानेषु कोविड्वाक्सिनानां नामावलिषु भारतस्य स्वकीयवाक्सिनं कोवाक्सिन्नामकम् अन्तर्भावयितुं विश्वस्वास्थ्यसंघटनेन मासेSस्मिन् निर्णयः करिष्यते। निर्मातृभिः  भारतबयोटेक् संस्थाभिः एप्रिल् मासे कोवाक्सिनं नामावलिषु अन्तर्भावयितुम् आवेदनं प्रदत्तमासीत्। संस्थया प्रदत्ताः कोवाक्सिनसम्बन्धीनि प्रमाणानि WHO संस्थया परिशोध्यमानानि सन्ति। मानदण्डाः परिपालिताः इति निबोधति तर्हि अचिरादेव अङ्गीकारः लप्स्यते।

वित्तकोशीयलिपिकपरीक्षाणां प्रश्नपत्राणि प्रादेशिकभाषास्वपि। 

  नवदिल्ली> राष्ट्रे सार्वजनीनवित्तकोशेषु नियुज्यमानानां लिपिकानां परीक्षासु प्रश्नपत्राणि आङ्ग्ल-हिन्दीभाषाभ्यां  अतिरिच्य १३ प्रादेशिकभाषास्वपि सज्जीकर्तुं भारतीयवित्तमन्त्रालयेन निर्देशः दत्तः। राष्ट्रस्य १२ सार्वजनिकमण्डलस्थानां वित्तकोशानां रिक्तस्थानेभ्यः इतःपरं विज्ञापनीयासु विज्ञप्तिपत्रिकासु प्राथमिक मुख्यपरीक्षाः प्रादेशिकभाषाभिरपि लेखितुमनुज्ञा दास्यति। 

  बैङ्कानां लिपिकस्थानेभ्यः आयोज्यमानासु परीक्षासु प्रादेशिकभाषाभिरपि परीक्षाः चालनीयाः इति वित्तमन्त्रालयेन रूपीकृतया समित्या निर्देशः दत्तः आसीत्। तदनुसृत्य एवायं निर्णयः। एस् बी ऐ, कानरा, यूणियन् बैंक् आफ् इन्डिया इत्यादीनां वित्तकोशानां लिपिकपरीक्षार्थिभ्यः अयं निर्णयः उपकारी भविष्यति।

 सौरयूथस्य उद्भवमन्विष्य लूसी प्रतिष्ठते।

    वाषिङ्टण्> ४५० कोटि संवत्सरात् पूर्वं सौरयूथं कथं समुद्भूतम् इति रहस्यम् अवगन्तुं नासा संस्थायाः लूसी नामिका आकाशपेटिका आगामि मासे प्रस्थास्यते । बृहस्पतिः नाम ग्रहस्य पुरतः पश्चात् च सूर्यपरिक्रमणं कुर्वत्सु ड्रोजन् छिन्नग्रहेषु एव लूसी सौरयूथस्य रहस्यम् अन्विष्यति। ट्रोजन् छिन्नग्रहाणां सौरयूथवत् समानवयः अस्ति। अतः लूसी पेटिकया  प्रदास्यमानानां नूतनज्ञानानां  निर्णायकं स्थानं भविष्यति इति नासायाः ग्रहविज्ञानविभागस्य निर्देशकेन लोरि ग्लेस् महाभागेन प्रोक्तम्।

Thursday, September 30, 2021

 'लैफ्' संघटनाय समान्तरनोबेल् पुरस्कारः 

स्टोक् होम्> स्वीडनस्थस्य मानवाधिकारसंघटनस्य "Right Livelihood" पुरस्कारः भारतस्थस्य पारिस्थितिकसंरक्षणसंघटनाय Legal Initiative for Forest & Environment (LIFE) नामकाय लब्धः। समान्तरनोबेल् इति कथ्यमानमिमं पुरस्कारम् अन्यैः त्रिभिः सन्नद्धप्रवर्तकैः सह अंशग्रहणं कारयति इदं संघटनम्। 

   महिलानां बालकानां च अधिकारसंरक्षणं, परिस्थितिसंरक्षणमित्यादिषु मण्डलेषु संघटनस्य योगदानं पुरस्कृत्य एवायं पुरस्कारः। नितियुक्ताभिः प्रक्रियाभिः भारतस्य परिस्थितिसंरक्षणाय प्रवर्तमानं लैफ् नामकमिदं संघटनं २००५ तमे एव स्थापितम्।

 संस्कृतस्य जागरणं संस्कृतशिक्षकैः स्वायत्तीकर्तुं शक्यते इति डोः टि डि सुनीतिदेवी

 पालक्काट्> संस्कृतम् अक्कादमिक आयोगस्य दायित्वे पालक्काट् जनपदस्तरीय  संस्कृतमासाचरणसमापनसभा समायोजिता।   संस्कृतस्य जागरणं संस्कृतशिक्षकैः स्वायत्तीकर्तुं शक्यते इति संस्कृतस्य विशेषाधिकारिणी  डोः टि डि सुनीतिदेवीमहाभागा स्वीयोद्घाटन-भाषणेऽब्रवीत् ।  संस्कृतकथनेनैव संस्कृताध्ययनस्य अध्यापनस्य च आवश्यकतां समाजस्य पुरतः सगौरवं उपस्थापयितुं शक्नुमः इति पण्डितरत्नं डोः पि के माधवन्  महाभागोऽवदत्। पालक्काट् डि डि इ श्री कृष्णन् महोदयः कार्यक्रमे अध्यक्षपदमलङ्कृतवान्। डि जि इ श्री जीवन् बाबू ऐ ए एस् महोदयः सन्देशमदात्। अक्कादमिक कौण्सिल्  राज्यस्तरीय कार्यदर्शी एस् श्रीकुमार् महोदयः सन्देशमदात्।

संस्कृत-पटकथाकृत् डोः श्री महेष् बाबू एस् एन् महोदयः विशिष्टातिथिः आसीत् । जनार्दनमहाशयः जनपदस्तरीय प्रतियोगिता विजेतृणां घोषणां कृतवान्।

पालक्काट् डि इ ओ श्रीमती राजम्मा महाशया, ओट्टप्पालं डि इ ओ श्री षाजिमोन् महाशयः मण्णार्क्काट् डि इ ओ रघूनाथ महाशयः शिक्षकप्रतिनिधिः श्री पि पद्मनाभमहाशयः च आशंसाभाषणं कृतवन्तः। चन्दना पद्यं,वरद गानं, श्रीदेवन् सि अष्टपदीं च आलाप्य मेलनस्य गरिमामवर्धयत्। एं वि नारायणन् कुट्टि महाशयः  श्री एस् भास्करः महोदयः, श्रीमती स्मृती, श्री सैजु जोर्ज इत्येते स्वाभिमतान् प्रकटितवन्तः। १२ उपजनपदेभ्यः संस्कृतशिक्षकाः भागं स्वीकृतवन्तः। उपजनपदस्तरीय शैक्षिकाधिकारिणः अपि भागं स्वीकृतवन्तः।

Wednesday, September 29, 2021

 कोवाक्सिनस्य WHO अङ्गीकारः विलम्बते।

नवदेहली> भारते निर्मितस्य कोवाक्सिनस्य आपत्कालिकोपयोगाय अनुज्ञा पुनरपि विलम्बते।  कोवाक्सिनस्य उत्पादकं भारत-बयोटेक् संस्थां प्रति विश्व-स्वास्थ्य- सङ्घटनम्  अधिक विवराणानि अपृच्छत्। अत एव वाक्सिनस्य अङ्गीकाराय अधिकः समयः  अवश्यकः स्यात् इति मन्यते। अयं विलम्बः विदेशेषु अध्ययनं कुर्वतः छात्रान् प्रतिकूलतया बाधते।  विश्व-स्वास्थ्य- सङ्घटनस्य अङ्गीकारः नास्ति इत्यनेन कोवाक्सिनः अन्यैः राष्ट्रैः नाङ्गीकृतः।  अङ्गीकाराय आवश्यकनि प्रमाणपत्राणि पूर्वं दत्तनि आसन् इति उद्पादकेन भारतबमोटेकेन पूर्वं प्रतिवेदितमासीत्। किन्तु विश्वस्वास्थ्य-सङ्घटनम् अधुना अधिक-प्रमाणानि विवरणानि च अपृच्छत्।

उरि देशे नियन्त्रणरेखाम् उल्लङ्घितः भीकरः सेनया आहतः। एकः संगृहीतश्च।

श्रीनगरम्।> जम्मू देशे उरि वृत्तखण्डे नियन्त्रणरेखाम् अतिक्रमितुम् उद्युक्तं लक्षर् इ त्वय्ब भीकरं सैन्यं जघान। अन्यः एकः आतङ्की संगृहीतः च इति सेनया आवेदितः। संगृहीतस्य भीकरस्य नाम अलि बाबर् पत्र इति भवति। सः पाकिस्थानस्य पञ्चाबदेशात् आगतः इति सैन्यस्य वक्त्रा सर्वमुख्येन (Major General) वीरेन्द्र वट्स् महाभागेन प्रोक्तम्। गतस्प्ताहाभ्यन्तरे सीमाम् अतिक्रम्य आगताः सप्त भीकराः सैन्येन आहताः। बहवः भीकराः व्रणिताश्च। पाकिस्थानस्य सैन्यानां साहाय्यं विना सीमां उल्लङ्घयितुं न शक्यते इति सर्वमुख्यः अवदत्।

Tuesday, September 28, 2021

पाकिस्थाने जिन्नस्य प्रतिमा बलूच् लिबरेषन् सेनया स्फोटनेन भञ्जिता। 

इस्लामाबाद्> पाकिस्थाने बलूचिस्थान् मण्डले ग्यादर् नौकाश्रयनगर्यां जाते विस्फोटने पाकिस्थानस्य स्थापकनेतुः मुहम्मदलिजिन्नस्य प्रतिमा पूर्णतया भग्ना अभवत्। अस्मिन् संवत्सरादौ स्थापितायाः प्रतिमायाः पृष्ठतः स्थापितं स्फोटकवस्तु एव प्रस्फोटितम्। घटनायाः उत्तरदायित्वं बलूच् लिबरेषन् आर्मि नाम निरोधितसंघट्टनेन स्वीकृतम्। सुरक्षितमण्डलत्वेन परिगणिते प्रदेशे विनोदसञ्चारिणः इति व्याजेन आगतैः बलूच् लिबरेषन् आर्मि प्रवर्तकैः एव स्फोटकवस्तू स्थापितम् इति ग्वादरस्य  सेवानिवृत्तमुख्यः उपायुक्तः  (Deputy Commissioner (Major Rtd) ) अब्दुल् कबीर्खानेन प्रोक्तमिति बि बि सि उर्दू माध्यमेन प्रतिवेदितम्। अचिरेणैव अपराधिनः संगृहिष्यन्ते इति अब्दुल् कबीर्खानेन निगदितम्।

 ऐस्लान्टे महिलाधिकसंख्याका जनसभा। 

  रेय्कजाविक्> यूरोप् भूखण्डे ऐस्लान्ड् राष्ट्रस्य संसद् निर्वाचने इदंप्रथमतया अधिकाधिकेषु स्थानेषु महिलास्थानाशिनः विजयीभूताः। ६७ अङ्गयुक्तायां जनसभायां ३३ स्थानेषु महिलाः एव चिताः। २०१७ तमस्य संसदि केवलं नव महिलासदस्या एवासन्। संसदि महिलानां कृते प्रातिनिध्यारक्षणं किमपि नास्तीति सविशेषश्रद्धामर्हति। 

   ऐस्लान्ड् राष्ट्रे कातरिन् जेक्कब्स् डोट्टिर् नामिका एव इदानींतनप्रधानमन्त्री। तस्याः नेतृत्वे विद्यमानस्य राजनैतिकदलसंघाय एव अस्मिन् वारे अपि अग्रगामित्वम्।

 जम्मु काश्मीरे द्वौ भीकरौ निहतौ। 

श्रीनगरम्> जम्मु काश्मीरस्य बन्दिपोरप्रदेशे भीकरैः सह सुरक्षासेनया विधत्ते प्रतिद्वन्द्वे द्वौ भीकरौ हतौ। गतवर्षे जूलाय्मासे भा ज पा दलस्य बन्दिपोरजनपदाध्यक्षः बारिः, तस्य  सोदरः उमर् सुल्त्तानः, परिवाराङ्गाः इत्येतेषां हत्यायां भागं कृतवन्तौ एताविति सेनाधिकारिभिरुक्तम्।

श्वेतकपोल- ऊर्णनाभवानराः वंशनाशभीषाम् अभिमुखीकुर्वन्ति।

दावाग्नौ दग्ध्वा आमसोणस्था: जीवि वर्गाः।

आमसोण् वनान्तर्भागे संभूतः दावाग्निः तत्रस्थान् प्रतिशतं नवतिमितं सस्यान् जन्तून् च अबाधत इति अध्ययनानि सूचयन्ति। १४००० जातिविशेषेषु अन्तर्गतान् प्रतिशतं ९३-९५ पर्यन्तं दावाग्निः बाधितः इति 'नेचर्' मध्ये प्रकाशितमस्ति। पूर्वोक्तवानराणां आवासपरिधौ प्रतिशतं पञ्चमितं मण्डलेषु दावाग्निः बाधितः। विंशति संवत्सराभ्यन्तरे प्रतिशतं पञ्चमितं नष्टमभवत् इत्येतत् भीतिजनकमेव। यु एस, ब्रसीलः, नेतर्लण्ड् प्रभृतीनां विश्वविद्यालयस्थानां गवेषकानां नेतृत्वे एव अध्ययनं प्रचलितम् । आमसोण् वनेषु २००१ संवत्सरादारभ्य २०१९ संवत्सरपर्यन्तं संभूतस्य दावाग्निबाधायाः फलपरिणाम एव अध्ययनविषयः अभवत्।

Monday, September 27, 2021

अफ्गानस्य नागरिकान् संरक्षितुं विश्वराष्ट्राणाम् उत्तरदायित्वम् अस्ति - यू एन् सभायां  नरेन्द्रमोदी।

न्युयोर्क्> संयुक्तराष्ट्रसभायां भाषणावसरे भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत्  अफ्गानस्य नागरिकान् संरक्षितुं विश्वराष्ट्राणाम् उत्तरदायित्वम् अस्ति इति। केचित् राष्ट्राः अदङ्कवादाः आयुधरूपेण स्वीकृताः सन्ति,  आविश्वम् आतङ्कवादप्रवर्तनानि व्याप्यमानानि सन्ति  इति   सः अवदत्। पाकिस्थानमधिकृत्य परोक्षरूपेण  विमर्शनं कृत्वा तेन उक्तं यत् अफ्गानिस्थानं स्वार्थलाभाय उपयोक्तुम्   यस्यकस्यापि अधिकारः नास्ति। अफगनस्य नागरिकाः विश्वराष्ट्रेण संरक्षितव्याः इत्यपि तेनोक्तम्। कोविड्बाधया मृतेभ्यः श्रद्धाञ्जलयः समर्प्य २० निमेषपर्यन्तं सः अभाषयत्।

Sunday, September 26, 2021

 गुलाब् चक्रवातः भूमिं स्पृष्टवान्।

आन्ध्रा ओडीषा राज्येषु जाग्राता निर्देशः ख्यापितः।   

नवदेहली> आन्ध्रा ओडीषा राज्येषु कूलं प्राप्तवान् गुलाब् चक्रवातः।  होरायां पञ्चनवति किलोमीट्टर् वेगेन प्रतीच्यां प्रति गत्वा  चक्रवातेन आन्ध्रा-ओडीषयोः कूलाभिमुखं गच्छति। चतुर्मासाभ्यन्तरे ओडीषायां जातः द्वितीयवातः भवति गुलाब्। पूर्वं यास् चक्रवातः नाशं कृतवान्। अपघातसाध्यतां निधाय चतसृषु जनपदेषु सुरक्षाप्रक्रमाः स्वीकृताः इति मुख्यमन्त्रिणा  नवीन् पटनायिकेन उक्तम्। ओडीषायाः दुरन्तनिवारणसेनायाः  ४२ गणाः राष्ट्रिय दुरन्तनिवारणसेनायाः २४ सुरक्षा दलाः च अत्र विन्यस्थाः सन्ति। राज्यस्य आरक्षकसेना अग्निशमनसेना च प्रवर्तनसज्जौ भूत्वा  तिष्टन्तः सन्ति। 

 सीमनि चीनेन ग्रामं निर्मितम्।  लोलुपजीवनेन भारतीयान् प्रलोभयितुं प्रयतते।

 

गान्धीनगरम्> भारतचीनयोः  सीमनि ६८० कुटीरयुक्तं ग्रामं चीनेन निर्मितम् इति सूचना। अन्ताराष्ट्रिय आतङ्कवादविरुद्धसमित्या एव घटनेयं प्रतिवेदिता। तस्मिन्  ग्रामस्थाः नागरिकाः भारतीयान् प्रलोभयित्वा स्ववशं कर्तुं यतते इत्यपि प्रतिवेद्यते। एतत् चीनस्य दक्षविभागस्य प्रवर्तनं भवति। तैः भारतीयाः भारतविरुद्धाः क्रियन्ते। एतादृशप्रवर्तनानि निरोद्धुं आरक्षकेभ्यः परिशीलनं ददाति इति अन्ताराष्ट्रिय आतङ्कवादविरुद्धसमित्याः निर्वाहकसमित्यङ्गेन कृष्णवर्मणा निगदितम्।