OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 25, 2021

नागरिकसेवापरीक्षाफलं प्रकाशितम् - शुभंकुमारः प्रथमस्थाने।

नवदिल्ली> यू पि एस् सि संस्थया आयोजितायाः २०२० वर्षस्य नागरिकसेवापरीक्षायाः फलं प्रकाशितम्। मुम्बई ऐ ऐ टीतः बिरुदपदं प्राप्तवते शुभं कुमाराय  प्रथमस्थानं लभते। नरवंशशास्त्रमासीत् तेन ऐच्छिकविषयरूपेण स्वीकृतम्। भोपाले मौलाना आसाद् नाषणल् इन्स्टिट्यूट्तः विद्युत्तन्तशास्त्रे बिरुदधारिणी जागृती अवस्ती द्वितीयस्थानं प्राप्तवती। 

   नागरिकसेवापरीक्षार्थं १०.४ लक्षम् अपेक्षकाः आसन्। ४.८२ लक्षं परीक्षिताः। जनुवरिमासे आयोजितायां मुख्यपरीक्षायां विजयं प्राप्तेषु 

१०,५६४ उद्योगार्थिषु २०५३ संख्याकाः अभिमुखाय चिताः। तेषु ७६१ उद्योगार्थिनः नागरिकसेवापरिशीलनाय चिताश्च।

मोदी-बैडनाभिमुखं सम्पन्नम् - नवयुगारम्भ इति राष्ट्रनेतारौ। 

वाषिङ्टण्> आगोलस्तरे उन्नीयमानाः भीषाः प्रतिरोद्धुं भारत-यू एसयोर्मध्ये वर्तमानः सम्पर्कः सुदृढतया अनुवर्तनीयः इति यू एस् राष्ट्रपतिः जो बैडनः तथा भारतप्रधानमन्त्री नरेन्द्रमोदी च स्पष्टीकृतवन्तौ। बैडनस्य राष्ट्रपतिप्राप्त्यनन्तरं प्रथमतया सम्पन्ने साक्षादभिमुखे भाषमाणौ आस्तां द्वौ नेतारौ। उभयोरपि राष्ट्रयोः सम्बन्धे नवयुगप्रसूतिरभवदिति ताभ्यामुक्तम्।  सौहार्दपूर्णे वातावरणे आसीत् 'वैट् हौस्' मध्ये सम्पन्ना चर्चा। 

    भारत-पसफिक् मण्डलं स्वतन्त्रं सुरक्षितं च कर्तुम् उभयमपि राष्टं प्रतिज्ञाबद्धमस्ति। किञ्च पर्यावरणपरिवर्तनं, आर्थिकसहयोगः, प्रतिरोध-सुरक्षामण्डले सहयोगः, अफ्गानिस्थान-चीनप्रकरणम् इत्येते विषयाः अपि चर्चाविधेयाः अभवन्।

 दूरदर्शनस्य१४२ संप्रेषणकेन्द्राणि कीलयन्ति। 

नवदिल्ली> आराष्ट्रं दूरदर्शनस्य१४२ संप्रेषणकेन्द्राणि कीलयन्ति। अनलोग् रीतिमवलम्ब्य प्रवर्तमानानि सर्वाणि केन्द्राणि तथा आङ्किकविधानेषु परिणमितानि केन्द्राणि अपि कीलने अन्तर्भविष्यन्ति। प्रतिवर्षं कोटिरुप्यकाणां नष्टे एव दूरदर्शनसंप्रेषणकेन्द्राणि प्रवर्तन्ते।
 केवलं जम्मुकाश्मीर् लडाक्, सिक्किं अन्तमान - निक्कोबार, लक्षद्वीपेषु वर्तमानाः ५४ केन्द्राणि एव अनलोग् प्रसारणम् अनुवर्तन्ते च । ओक्टोबर् मासस्य ३० दिनाङ्कात्परं भूरि केन्दाणां कीलनं भविष्यति। इदानीं विद्यमानेषु ९०% उद्योगिनः २०२५ संवत्सरे विरक्ताः भविष्यन्ति। केन्द्राणां कीलनेन २५०० कोटि रूप्यकाणां अतिव्ययं संरक्षितुं शक्यते। उद्योगिनां पुनर्विन्यासाय इदानीं प्रक्रमाः समारब्धाः।

 शीतीकरणं नावश्यकम्। भारतीयवैज्ञानिकैः जङ्गमा रासायनिकमधुसूदनी सम्पुष्टीकृता।

  कोलकत्ता> शीतीकरणं विना संरक्षितुं शक्या रासायनिकमधुसूदनी (insulin) भारतीयवैज्ञानिकसंघेन सम्पुष्टीकृता। मधुमेहरोगिणां सदा सर्वत्र नेतुं शक्यते इत्येतदेव अस्य विशेषता। कोलकत्ता बोस् इन्स्टिट्यूट्, इन्ड्यन् इन्स्टिट्यूट् ओफ् केमिक्कल्, इन्ड्यन् इन्स्टिट्यूट् ओफ् केमिक्कल् टेक्नोलजि (हैदराबाद्) इत्येतायाः संस्थायाः वैज्ञानिकानां परिश्रमेणैव औषधमेतत् सम्पुष्टीकृतम्। औषधस्य 'इन्सुलोक्' इति तात्कालिकं नाम दत्तमस्ति। आचार्यस्य जगदीष् चन्द्रबोसस्य नाम दातुं प्रार्थनापत्रं शास्त्रवैज्ञानिकविभागाय समर्पितम् इति बोस् इन्स्टिट्यूट् संस्थायाः वैज्ञानिकेन शुभ्रांशु चाट्टर्जिना आवेदितम्।

Friday, September 24, 2021

 


 सन्न्यासिनः आत्माहुतिः - शिष्यः निगृहीतः। 

    लख्नौ>अखिल भारतीय अखाडपरिषदः अध्यक्षः महन्त् नरेन्द्रगिरिः इत्येतस्य आत्माहुतिप्रकरणे तस्य शिष्यः स्वामी आनन्दगिरिः उत्तरप्रदेशस्य आरक्षकदलेन निगृहीतः। आत्माहुतिप्रेरणापराधाय शिष्यं विरुध्य अपराधारोपणं कृतम्। 

 भारतं लक्ष्यीकुर्वन् उन्मादकापराधिसंघः।

अहम्मदाबादः> उन्मादकवस्तुनां वितरणाय देशान्तरं नयनाय च अपराधिसंघः भारतमुपज्यते इति केन्द्रसर्वकारस्य दक्षविभागेन निवेदितम्। तस्यान्तिमोदाहरणं भवति गतसप्ताहे गुज्रालराज्यस्य मुन्द्रा महानौकापत्तने २१,०००कोटि रूप्यकाणां उन्मादकवस्तुग्रहणमिति सूच्यते। 

  परम्परया पाकिस्थानेन सह प्रातिवेशिकभूतानां जम्मु काश्मीरः , पञ्चाबः,राजस्थानं इत्येतानि राज्यानि द्वारा आसीत् उन्मादकवस्तूनामानयनम्। इदानीं गुजरात मुम्बई तीरप्रदेशा अपि उपयुज्यन्ते। गतषण्मासाभ्यन्तरे विविधविमाननिलयेभ्यः महानौकास्थानेभ्यश्च ८६ किलोपरिमितं 'हेरयोन्' नामकमुन्मादकं निगृहीतम्। विदेशीयाः समेत्य २० जनाः निगृहीताश्च।

Thursday, September 23, 2021

   केरले कोविड्व्यापनम् आकुञ्चति। 

  अनन्तपुरी> केरलराज्ये कोविड्बाध्यमानानां संख्या आकुञ्चति। पूर्वतनसप्ताहं प्रति तारतम्यमाने २३%स्य न्यूनता अभवदिति सूच्यते। गतदिने १९,६७५ जनाः कोविड्बाधिताः अभवन्। टि पि आर् मानं १५.७५ आसीत्।

वि आर् चौधरी वायुसेनाधिकारी। 

 नवदिल्ली> एयर् मार्षल् वि आर् चौधरी वायुसेनायाः नूतनाधिकारी भविष्यति। अस्मिन् मासे विरम्यमानस्य के एस् भदौरियस्य स्थाने एव अस्य नियुक्तिः। इदानीं सः उपाधिकारिपदे वर्तते। 

कोविड्मृतानामाश्रितेभ्यः अर्धलक्षं रूप्यकाणां साहाय्यम्। 

नवदिल्ली> कोविड्बाधया मृतानां बन्धुजनेभ्यः राज्यानि अर्धलक्षं रूप्यकाणां धनसाहाय्यं दास्यन्ति इति केन्द्रसर्वकारः सर्वोच्चन्यायालयं न्यवेदयत्। 

  राज्यानां दुरन्तनिवारणनिधेः एव धनराशिदानम्। जनपदप्रशासनेन दुरन्तनिवारणसंस्थया वा साहाय्यवितरणं सम्पत्स्यते इति केन्द्रसर्वकारस्य सत्यशपथपत्रे स्पष्टीकृतम्।

Wednesday, September 22, 2021

 अमेरिक्कासन्दर्शनाय भारतस्य प्रधानमन्त्री नरेन्द्र मोदी प्रस्थितः।

यात्रा पाकिस्थानस्य व्योममार्गेण भवति

नवदिल्ली> भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः अमेरिक्कासन्दर्शनाय पाकिस्थानेन स्वव्योममार्गेण गन्तुं अनुमतिः प्रदत्ता। सुरक्षाकारणेन अफ्गानस्य व्योममार्गं विहाय पाकिस्थानस्य व्योममार्गेण अमेरिक्कां गन्तुमेव पाकिस्थानं प्रति भारतेन अनुमतिः अभ्यर्थिता। भारतस्य अभ्यर्थनां अनुसृत्य अनुमतिः प्रदत्ता इति उन्नतसर्वकारवृन्दम् उद्धृत्य वार्ता विभागेन प्रतिवेदितम्।

 भारतप्रधानमन्त्री अद्य यू एस् प्रतिष्ठते। 

नवदिल्ली> राष्ट्रसुरक्षा, आतङ्कवादः, तालिबानसर्वकारः इत्यादिविषयेषु जो बैडेन सह चर्चितुं यू एन् सामान्यसभाम् अभिसम्बोधयितुं च भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अद्य अमेरिक्कां गच्छति। अमेरिक्कायाः राष्ट्रपतिना जो बैडेन सह  मोदिनः साक्षाद प्रस्तुतिः शुक्रवासरे भविष्यति। 

  भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः गतदिने अमेरिक्कां सम्प्राप्तवान्। वाणिज्य-निक्षेप- प्रतिरोधादयः विषयाः अपि अभिमुखेषु चर्चिष्यन्ते इति विदेशकार्यसचिवः हर्षवर्धन श्रृङ्लः वार्ताहरसम्मेलने निगदितवान्। वाषिङ्टणे बैडनं प्रति चर्चायाः अनन्तरं 'क्वाड्' राष्ट्रनेतृभिः सह चर्चिष्यन्ते।

Tuesday, September 21, 2021

 जम्मूकश्मीरे सैनिकानाम् उदग्रगानं भग्नमभवत्।

प्रतिकूलं वातावरणमेव अपघातस्य कारणम्।

श्रीनगरम्> भारतीयस्थलसेनायाः उदग्रयानं जम्मूकश्मीरे भग्नमभवत्। उदंपूर जिल्लायां शिवगडदारे एव घटनेयं प्रवृत्ता। उदग्रयाने द्वौ सैनिकौ आस्ताम्। हिमपातेन जातः दृष्टिभङ्गः एव अपघातस्य कारणमिति आरक्षिदलेन आवेदितम्। अपघातस्थानम् आगताः रक्षाप्रवर्तकाः व्रणितौ सैनिकौ तत्र अपश्यताम् इति उदंपुरस्य सामान्य- उपारक्षकाधिकारिणा (D l G) सुलैमान् चौधरिणा आवेदितम्। वैमानिकः उपवैमानिकश्च उदग्रयाने आस्ताम्। आगस्त् मासे सेनायाः अन्यत् उदग्रयानमपि भूतले पतित्वा भग्नमासीत्। प्रतिकूल वातावरणेन उत वैमानिकेन आपत्कालीनावतरणाय परिश्रममाणावसरे वा अपघातः सञ्जातः इति स्पष्टता नास्ति इति सुलैमान् चौधरिणा प्रोक्तम्।

 चाटुश्लोकस्पर्धा-विजयी- अभिषेक मुखार्जी, पश्चिमबङ्ग

अभिषेक मुखार्जी

चाटुश्लोकस्य उत्तरम्
वयं याचकेभ्यो धनं रामः क्रियापदं रामः रा दाने अदादि प्रकरणे परस्मैपदी लट् उत्तमपुरुष बहुवचनं,कर्तृपदं वयम्

नमस्काराः 

 पश्चिमबङ्गराज्यान्तर्गतो जयरामबाटी इति ग्राम् एव मम जन्मस्थानम्। तिरुपतिस्थे राष्ट्रियसंस्कृतविश्वविद्यालये विद्यावारिधिच्छात्रोहम्। अपि च संस्कृतसम्वर्धनप्रतिष्ठाने वरिष्ठशोधच्छात्ररूपेण इदानीमस्मि।

 सम्प्रतिवार्तापत्रिकातः एकोनविंशे दिनांके प्राप्तप्रहेलिकोहं ज्ञानज्येष्ठवयःकनिष्ठस्य सुकान्ताभिधेयानुजस्य साहाय्यमङ्गीकृत्यास्या उत्तरं प्रेषितवान्। आदौ सदुत्तरं मयैव समर्पितमिति हेतोर्महोदयैः संसूचितोहं यत् निःशुल्केन प्रतिकृतिरिति चलच्चित्रस्य दर्शनार्हता प्राप्तेति।

अन्तर्जालादिसमस्यास्वपि चलच्चित्रस्य महता गौरवेण तास्समस्या नानुभूता एव।

 अपरिचिते संशय इति गृहस्थानां नैसर्गिकः स्वभावः। किन्तु तत्संशयादिप्रतिकूलतामतिक्रम्य परोपकारिसरलमनसा गृहजनानां मनोगतस्य संशयस्य पारं गत्वा तेषामुपरि कथं विजयप्राप्तिः सम्भवेदित्यस्मिन् चलच्चित्रे दर्शितमस्ति। अपि च जनसम्मर्द्दराहित्यम्, ग्रामस्य नैसर्गिकी स्निग्धता ग्रामवासिनां नैसर्गिकं सारल्यञ्च सहृदयदर्शकान् नितरां मुह्यन्ति। चलच्चित्रे विद्यमाना न्यायालयीया विचारव्यवस्था भारतीयन्यायालयेषु जनानां विश्वासं प्रतिष्ठापयति। चलच्चित्रस्य आमूलाग्रं विचार्य वक्तुं शक्यते यदेतादृशमनवद्यं सर्वतोमुखि इव इतोपि नैकानि संस्कृतचलच्चित्राणि  निर्मितानि भवन्ति।चलनचित्रकारः डाॅ. निधीशगोपिमहोदयम् अभिनन्दामि। एतादृशकार्यक्रमस्य कृते सम्प्रतिवार्तापत्रिकायै मम हार्द्दं कार्तज्ञ्यम् ।

Pratikriti https://www.firstshows.com/movie/pratikriti




Monday, September 20, 2021

 उल्कापतनेन भीमगोधिकासु नामावशेषासु जातासु भूमुखे भुजङ्गानां शुभकालः 

भूतलात् उल्कापतनेन भीमगोधिकासु (Dinosaur) नामावशेषासु जातासु  भुजङ्गाः अधुना दृश्यमानरीतिषु परिवर्तितः इति अध्ययनानि सूचयन्ति। भूविवरे निलीय तथा भक्षणं विना बिले  दीर्घकालम् उषित्वा च  उल्कापतनानन्तरलोके अतिजीवनाय भुजङ्गमाः शक्ताः जाताः।  विषये अस्मिन् 'बात्' विश्वविद्यालयस्य गवेषकैः कृतम् अध्ययनम्  Nature communications नाम प्रसिद्घायां विज्ञानवार्तापत्रिकायां प्रकाशितं वर्तते। इत्थं अतिजीवनक्षमाः भुजङ्गाः एव लोके सर्वत्र व्याप्ताः त्रिसहस्राधिकभेदैः परिणमिताः च। तेषां जीवाश्मं  (Fossil) निरीक्ष्य विविधकालेषु भुजङ्गानां जनितकभेदानि विशेषानुसन्धानविधेयं कृत्वा एव गवेषकाः एतादृशनिगमनेषु संप्राप्ताः।

पञ्चाबे चरणजितसिंह चन्निः नूतनः मुख्यमन्त्री। 

  नवदिल्ली> वर्तमानः मुख्यमन्त्री  अमरीन्द्रसिंहः त्यागपत्रं समर्पितवान् इत्यतः शिक्षामन्त्रिरूपेण परिलसितः चरणजितसिंह चन्निः नूतनमुख्यमन्त्रिरूपेण अद्य शपथवाचनं करोति। गतेषु कतिपयमासेषु पञ्चाबराज्ये अनुवर्तमानस्य राजनैतिककलहस्य परिणतफलमेवैतत्। 

  विधानसभानिर्वाचनाय मासचतुष्टयमेव अवशिष्यते। कोण्ग्रस् दलस्य राज्याध्यक्षः नवज्योतिसिंहसिद्दुः , देशीयसचिवप्रमुखः हरीष् रावतः इत्येताभ्यां सह राज्यपालं बलवारिलाल पुरोहितमुपगम्य चरणजितः  मुख्यमन्त्रिपदाय अधिकाराभ्यर्थनाम् उन्नीतवान्। अद्य एकादशवादने सत्यशपथं कर्तुं राज्यपालः अनुज्ञामदात्।

Sunday, September 19, 2021

भारतस्य अमृतमहोत्सवसंबन्धितया संस्कृतप्रेमिभिः किं कर्तव्यम् ?- उच्चयते च.मू कृष्णशास्त्रिणा

 नवदिल्ली> स्वतन्त्रभारतस्य पञ्चसप्ततितमे वर्षे अस्माभिः संस्कृतस्य पञ्चसप्ततिः कार्याणि करणीयानि। इति संस्कृतप्रचारकः च मू कृष्णशास्त्रि वर्येण निर्दिश्यते। तस्य महोदयस्य अभिमतानि समाजमाध्यमेषु प्रसारितं विद्यते।  च मू महोदय: एवं वदति -  संस्थया कर्तुं योग्यानि, जनेन कर्तुं शक्यानि च इति द्विधा चिन्तयितुं शक्यन्ते। संस्थया नाम संस्कृतविश्वविद्यालयेन, संस्कृतमहाविद्यालयेन, संस्कृतप्रचारसङ्घटनेन, संस्कृतप्रचारपरिषदा, संस्कृतविभागेन, संस्कृतानुरागिसंस्थया वा। 
तस्य दशविध निर्देशान् पूर्णतया पठामः

Saturday, September 18, 2021

स्वास्थ्य-राजनैतिक प्रवर्ततकाः रहसि वक्सिनस्य तृतीयमात्रां स्वीकुर्वन्ति।

 मुम्बै> मुम्बैनगरे स्वास्थ्यप्रवर्तकाः राजनैतिकप्रवर्तकाः तेषां कार्यकर्तारः च विविध आतुरालयात् वाक्सिनस्य तृतीयमात्रां स्वीकुर्वन्ति इति प्रतिवेदनम्। डैम्स् ओफ् इन्ट्या पत्रिकया एव विषयमिदम् प्रतिवेदितम्।  केचन कोविन् जालपुटे  (web site) पञ्चीकरणं विना तथा अन्ये केचन विभिन्नदूरवाणीसंख्यामुपयुज्य पञ्चीकरणं कृत्वा च तृतीयमात्रां स्वीकुर्वन्ति इति ज्ञायते। ते जनाः शरीरस्थस्य आन्टिबोडि अंशस्य स्थितिं परीक्ष्यनन्तरमेव तृतीयमात्रां स्वीकुर्वन्ति इति आवेदने सूचयन्ति। भारते वाक्सिनस्य मात्राद्वयं दातुमेव सर्वकारेण निश्चितः। तृतीयमात्रादानम् अधिकृत्य निर्णयः समीपकाले न भविष्यति इति सर्वकारेण पूर्वं सूचितमासीत्। अस्मिन् सन्दर्भे एव केचन रहसि तृतीयमात्रां स्वीकुर्वन्ति।

दिवसेनैकेन २.५० कोटि मात्रामितं वाक्सिनं प्रदाय भारतं प्रथमस्थानमवाप्तम्।

 नवदिल्ली> कोविड् वाक्सिनीकरणे नूतनाङ्गीकारेण सह भारतराष्ट्रम् । इदंप्रथमतया राष्ट्रे प्रतिदिन-वाक्सिनीकरणं सार्धद्विकोटिः अतीतम्। ह्यः सायंकाले २.२ कोटिः अतीतम्। विगतायां रात्रर्यां सार्धद्विकोटिः अधिगता च। नरेन्द्रमोदिनः एकसप्ततितमे जन्मदिनोत्सवदिने अस्मिन् वाक्सिनीकरणे विश्वस्मिन् प्रथमपदं प्राप्तुमेव सर्वकारेण संलक्षितम्। दिवसेनैकेन अधिकवाक्सिनं दत्तेषु राष्ट्रेषु प्रथमस्थानम् चीनाराष्ट्रस्य आसीत्। जून् मासस्य२४ तमे दिनाङ्के चीनाराष्ट्रे दिवसेनैकेन २.५४ कोटि मात्रामितं वक्सिनं प्रदत्तम् आसीत्।