OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 19, 2021

भारतस्य अमृतमहोत्सवसंबन्धितया संस्कृतप्रेमिभिः किं कर्तव्यम् ?- उच्चयते च.मू कृष्णशास्त्रिणा

 नवदिल्ली> स्वतन्त्रभारतस्य पञ्चसप्ततितमे वर्षे अस्माभिः संस्कृतस्य पञ्चसप्ततिः कार्याणि करणीयानि। इति संस्कृतप्रचारकः च मू कृष्णशास्त्रि वर्येण निर्दिश्यते। तस्य महोदयस्य अभिमतानि समाजमाध्यमेषु प्रसारितं विद्यते।  च मू महोदय: एवं वदति -  संस्थया कर्तुं योग्यानि, जनेन कर्तुं शक्यानि च इति द्विधा चिन्तयितुं शक्यन्ते। संस्थया नाम संस्कृतविश्वविद्यालयेन, संस्कृतमहाविद्यालयेन, संस्कृतप्रचारसङ्घटनेन, संस्कृतप्रचारपरिषदा, संस्कृतविभागेन, संस्कृतानुरागिसंस्थया वा। 
तस्य दशविध निर्देशान् पूर्णतया पठामः

Saturday, September 18, 2021

स्वास्थ्य-राजनैतिक प्रवर्ततकाः रहसि वक्सिनस्य तृतीयमात्रां स्वीकुर्वन्ति।

 मुम्बै> मुम्बैनगरे स्वास्थ्यप्रवर्तकाः राजनैतिकप्रवर्तकाः तेषां कार्यकर्तारः च विविध आतुरालयात् वाक्सिनस्य तृतीयमात्रां स्वीकुर्वन्ति इति प्रतिवेदनम्। डैम्स् ओफ् इन्ट्या पत्रिकया एव विषयमिदम् प्रतिवेदितम्।  केचन कोविन् जालपुटे  (web site) पञ्चीकरणं विना तथा अन्ये केचन विभिन्नदूरवाणीसंख्यामुपयुज्य पञ्चीकरणं कृत्वा च तृतीयमात्रां स्वीकुर्वन्ति इति ज्ञायते। ते जनाः शरीरस्थस्य आन्टिबोडि अंशस्य स्थितिं परीक्ष्यनन्तरमेव तृतीयमात्रां स्वीकुर्वन्ति इति आवेदने सूचयन्ति। भारते वाक्सिनस्य मात्राद्वयं दातुमेव सर्वकारेण निश्चितः। तृतीयमात्रादानम् अधिकृत्य निर्णयः समीपकाले न भविष्यति इति सर्वकारेण पूर्वं सूचितमासीत्। अस्मिन् सन्दर्भे एव केचन रहसि तृतीयमात्रां स्वीकुर्वन्ति।

दिवसेनैकेन २.५० कोटि मात्रामितं वाक्सिनं प्रदाय भारतं प्रथमस्थानमवाप्तम्।

 नवदिल्ली> कोविड् वाक्सिनीकरणे नूतनाङ्गीकारेण सह भारतराष्ट्रम् । इदंप्रथमतया राष्ट्रे प्रतिदिन-वाक्सिनीकरणं सार्धद्विकोटिः अतीतम्। ह्यः सायंकाले २.२ कोटिः अतीतम्। विगतायां रात्रर्यां सार्धद्विकोटिः अधिगता च। नरेन्द्रमोदिनः एकसप्ततितमे जन्मदिनोत्सवदिने अस्मिन् वाक्सिनीकरणे विश्वस्मिन् प्रथमपदं प्राप्तुमेव सर्वकारेण संलक्षितम्। दिवसेनैकेन अधिकवाक्सिनं दत्तेषु राष्ट्रेषु प्रथमस्थानम् चीनाराष्ट्रस्य आसीत्। जून् मासस्य२४ तमे दिनाङ्के चीनाराष्ट्रे दिवसेनैकेन २.५४ कोटि मात्रामितं वक्सिनं प्रदत्तम् आसीत्।

 विख्यातः भौतिकशास्त्रज्ञः ताणु पद्मनाभः दिवंगतः। 

 


पूणे> विश्वप्रसिद्धः भौतिकशास्त्रज्ञः प्रोफ ताणु पद्मनाभः हृदयाघातेन पूणैय्यां स्वभवने दिवंगतः। ६४ वयस्कः सः केरलीयः अस्ति। 

   तापगतिमाधारीकृत्य सामान्यापेक्षिकता सिद्धान्तं विपुलीकृत्य भौतिकशास्त्राय सुप्रधानं योगदानं कृतवानयम्। नक्षत्र भौतिक प्रपञ्चविज्ञानीयशाखासु कृतहस्तः पण्डितः आसीत्। 

  भारतस्य पद्मश्रीपुरस्कारेण समादृतोऽयं केरलसर्वकारस्य परमोन्नतशास्त्रपुरस्कारेण 'केरलशास्त्रपुरस्कारेण' अधुनातनकाले सम्मानितवान्। आसीत्।

 केरले +1 परीक्षायै सर्वोच्चन्यायालयस्य अनुज्ञा। 

 नवदिल्ली> केरले +1 परीक्षा विद्यालयेषु साक्षात् समायोजयितुं सर्वोच्चन्यायालयेन अनुज्ञा दत्ता। परीक्षासंचालनाय केरलसर्वकारेण समर्पितं विशदीकरणं तृप्तिकरमिति न्याय. ए एम् खान्विल्करस्य आध्यक्षे वर्तमानेन नीतिपीठेन स्पष्टीकृतम्। 

  +1 परीक्षायाः समयक्रमः पुनःक्रमीकरिष्यते इति केरलशिक्षामन्त्रिणा वि. शिवन्कुट्टिवर्येणोक्तम्। अस्मिन् मासे २३ वा २४ दिनाङ्के आरब्धुं  पर्यालोचना वर्तते।  प्रश्नपत्रिकायाः वितरणमद्यैव आरप्स्यते।

Friday, September 17, 2021

 चत्वारः सामान्ययात्रिकाः बहिराकाशं प्रति गच्छन्ति। चरित्रमालेख्य स्पेस् एक्स्।

 वाषिङ्टण्> बहिराकाशसञ्चारे नूतनचरित्रं विरचयति इलोण्मास्कस्य स्पेस् एक्स्। फ्लोरिडस्य केन्नडि स्पेस् केन्द्रात् ड्रागण् गोलिकायां (Dragon capsule) आरुह्य उड्डयिताः सञ्चारिणः चरित्रे स्थानमवहन्। अद्य प्रभाते भारतसमये ५.३० वादने आ असीत् उड्डयनम्। बहिराकाशगमने परिशीलनरहिताः चत्वारः सञ्चारिणः फाल्कण् आकाशबाणमारुह्य बहिराकाशं प्रति उड्डयिताः। अमेरिक्कायाः आर्थिकसेवासंस्थायाः Shift 4 payments ink इत्यस्य स्थापकः जेर्ड् ऐसक्मानस्य नेतृत्वे सियान् प्रोक्टर्, हेय्ली आर्सी नक्स्, क्रिस् सेंब्रोस्कि प्रभृतयः एव बहिराकाशं प्रति प्रस्थिताः। एतेभ्यः दीर्घकालबहिराकाशपरिशीलनं न लब्धम्। षण्मासात् पूर्वमेव यात्रिकान् अचिन्वत।

 ऐ एस् संघटनस्य 'ग्रेटर् सहारा' नेता व्यापादितः। 

  पारीस्> भीकरसंस्थायाः ऐ एस् नामिकायाः 'ग्रेटर् सहारा' मण्डलस्य प्रमुखः नेता अद्नान् अबु वालिद् अल् सहरावि नामकः फ्रञ्च् सैन्येन निहतः इति फ्रञ्च् राष्ट्रपतिः इम्मानुवल् मक्रोणः ट्विटर्द्वारा निगदितवान्। हत्यायाः विशदांशाः न बहिरागताः। 

   २०१७ मध्ये नैजरे ऐ एस् संघटनेन कृते आक्रमणे ४ यू एस् सैनिकाः ४ नैजर् सैनिकाश्च हताः आसन्। अस्य आक्रमणस्य मुख्यसूत्रधारः आसीत् सहराविः।

 भारते ६२% जनाः वाक्सिनस्य प्रथममात्रां स्वीकृतवन्तः। 

नवदिल्ली> राष्ट्रे १८ उपरिवयस्केषु ६२ प्रतिशतं जनाः कोविड्वाक्सिनस्य प्रथममात्रां स्वीकृतवन्तः इति केन्द्रस्वास्थ्यमन्त्रालयेन स्पष्टीकृतम्। ये मात्राद्वयमपि स्वीकृताः, ते प्रतिशतं २० इति सूच्यते। 

  वाक्सिनीकरणे केरलं हिमाचलप्रदेशश्च अग्रे वर्तेते।हिमाचले अशेषाः जनाः प्रथममात्रां स्वीकृतवन्तः। द्वितीयमात्रस्वीकृताः ३७% भवन्ति। केरले तु प्रममात्रास्वीकृताः ८६ % ,तथा द्वितीयमात्रामपि स्वीकृताः ३५% च भवन्ति। वाक्सिनस्वीकरणे तृतीयस्थानं तु उत्तराखण्डाय लभते।

Thursday, September 16, 2021

 फेरो द्वीपे मृगयाविनोद:। एकदिनाभ्यनरे 1500 मकरमत्स्याः हताः।

   कोप्पन् हेगन्> डेन्मार्कस्थः फेरो द्वीपः इदानीं शोणितमयं भवति। दीपस्थे स्कालबोट्सूर् समुद्रतीरे एकस्मिन् दिनाभन्तरे  1500 मकरमत्स्याः हताः। द्वीपे प्रतिवर्षं विनोदार्थम् आयोज्यमाने ग्रैन्डड्राप् नाम  समुद्रविनोदाखेटे एव बहवः मकरमत्स्याः आहताः। गतचतुःशतसंवत्सरं यावत् अनुवर्तिते आचारसंबन्धिविनोदे गणनातीताः तिमिंगलाः, मकरमत्स्याः च आखेटिताः सन्ति। फेरो द्वीपसमीपे तीरदेशे मृतिमुपगतानां मकरमत्स्यानां चित्राणि सामूहिक माध्यमेषु प्रचलिताः सन्ति। विनोदार्थं फेरो जनतया कृतानि क्रूरकर्माणि इदानीं आगोलतले रोषकारणम् अभवत्। मकरमत्स्यानां हननं निरोधयितुं प्रक्रमः आवश्यकः इति समुद्रजीविपालनसंधाः अभिप्रयन्ति। शताब्दानि यावत् अनुवर्तमानः मृगयाविनोदः एषः इत्यतः क्रूरकर्ममेतत् फेरो द्वीपे नियमानुसृतं अङ्गीकृतं च भवति।

 मासमेकं समुद्रे जलोपरि प्लाविते मृतशरीरे कोविड्रोगः  दृढीकृतः।

जले निमज्य मरणानन्तरं त्रिंशदधिकदिनं यावत् समुद्रे  जलोपरि प्लाविते मृतशरीरे  कोविड्रोगाणुः जीवति इति दुबाय् राष्ट्रस्य आरक्षकविभागस्य व्यावहारिकभिषग्वरैः (forensic doctors) आवेदितम्। मरणानन्तरं एकमासाधिकदिवसेषु मृतशरीरे कोविड्वैराणोः  सान्निध्यम् आसीत् इति भिषग्वराः अवदन्। प्रक्रमार्थं सप्तदशदिनानि मृतदेहप्रकोष्ठे ( mortuary ) पालिते अन्ये मृतशरीरे अपि कोविड् वैराणोः सान्निध्यं दृढीकृतमिति दुबाय् राष्ट्रस्य रक्षिपुरुषैः आवेदितम्। अवस्थाद्वये  सविशेषाध्ययनं (case study) कृत्वा विलम्बं विना निगमनं प्रकाशयिष्यते  इति व्यावहारिकभैषज्यदलस्य निर्देशकेन मेजर् डॉ. अहम्मद् अल्हाष्मिना निगदितम्। प्रायेण वैराणुः मनुष्यस्य मरणानन्तरं नश्यति इत्येव इतःपर्यन्तं गवेषणफलम्। किन्तु कोविड्वैराणोः सजीवसान्निध्यं मृतदेहे अस्ति इत्येतत् विशेषानुसन्धानाध्ययनविधेयं भवितव्यमिति तेन सूचितम्।

Wednesday, September 15, 2021

पान् - आधारपत्रयोः  संयोजने विमुखेभ्यः  वित्तकोशविनिमयस्य  विघ्नः भविष्यति।

नवदिल्ली> सेप्तम्बर् मासस्य त्रिंशत्तमदिनाङ्कात् पूर्वं पान् पत्रम् आधारपत्रेण सह न योजयति चेत् वित्तकोशविनिमयस्य विघ्नः भविष्यति इति स्टेट् बैंक ओफ् इन्ट्या संस्था उपभोक्तृन् आवेदयामास। आधारपत्रेण सह न योजयति चेत् पान् पत्रम् मूल्यरहितं भविष्यति।  एवं चेत् पान् पत्रद्वारा क्रियमाणः  आर्थिकविनिमयः सफलं न भविष्यति इति वित्तकोशेन ट्विट्टर् द्वारा स्पष्टीकृतम् । वित्तकोशलेखस्य आरम्भाय तथा धननिक्षेपाय च पान् पत्रम् अत्यन्तापेक्षितं भवति।

Tuesday, September 14, 2021

कोविड्मरणमधिकृत्य केन्द्रसर्वकारेण नूतनी मार्गरेखा ख्यापिता-

कोविड्स्पष्टतानन्तरं ३० दिनाभ्यन्तरमरणानि कोविड्मरणान्येव। 

  नवदिल्ली> कोविड्वैराणोः स्पष्टतानन्तरं ३० दिनाभ्यन्तरे म्रियते चेत् तादृशमरणानि कोनिड्मृत्युरिति प्रकल्प्य प्रमाणपत्रं दीयतामिति केन्द्रसर्वकारेण निगदितम्। स्वास्थ्यमन्त्रालयः तथा ऐ सि एम् आर् संस्था च मिलित्वा एव नूतनमार्गरेखां सज्जीकरोत्। 

  नूतनी मार्गरेखा सर्वोच्चन्यायालये समर्पिता। किञ्च सर्वेषां राज्याणां मुख्यपञ्जीकरणाधिकारिणां कृते चेयं मार्गरेखा प्रेषिष्यते। 

  यदि मृत्युः आतुरालये न सम्भवति चेदपि कोविड्मरणस्य प्रमाणपत्रं दास्यति। किन्तु दुर्घटना , आत्माहुतिः, हत्या, विषोपयोगेन मरणम् ईदृशप्रकरणेषु ते कोविड्रोगिणः अपि कोविड्मरणे न परिगण्यन्ते इति मार्गरेखायां स्पष्टीकृतमस्ति।

Monday, September 13, 2021

 भारते नूतनाः २८,५९१ कोविड्रोगिणः। 

नवदिल्ली> रविवासरस्य प्रातःपर्यन्तं वर्तियायां २४होरावेलायां राष्ट्रे २८,५९१ जनाः अपि कोविड्बाधिताः अभवन्। ३३८ मरणान्यपि आवेदिताः। अनेन आहत्य मरणानि ४,४२,६५५ जातानि। प्रतिदिन टि पि आर् मानं १.८७ अस्ति। 

  राष्ट्रस्य कोविड्प्रतिरोधाय सूच्यौषधप्रक्रिया ७४कोटिः अतीतेति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। शनिवासरे ७२,८६,८८३ वाक्सिनानि दत्तानि।

 भूपेन्द्रपट्टेलः गुजरातस्य नूतनः मुख्यमन्त्री।

 अहम्मदाबादः> गुजरातराज्ये नूतनमुख्यमन्त्रिरूपेण भूपेन्द्रपट्टेलः अद्य शपथवाचनं करिष्यति। मन्त्रिमण्डलस्य रूपीकरणम् अचिरादेव भविष्यति। गुजरातविधीनसभायां नूतनसामाजिकः भवति ५९वयस्कः भूपेन्द्र रजनीकान्तपट्टेलः। 

  भा ज पा राष्ट्रियनेतृत्वस्य निर्देशानुसारं वर्तमानो मुख्यमन्त्री विजयरूपाणिः गतदिने त्यागपत्रं समर्पितवानासीत्। गुजरातविधानसभानिर्वाचनाय संवत्सरैक एवावशिष्यते।

Sunday, September 12, 2021

 आतङ्कवादः प्रतिरुध्यते इति भारतम् आस्ट्रेलिया च। 

 नवदिल्ली> अफ्गानिस्थाने तालिबानेन उन्नीतानि वैरनिर्यातनानि आगोलभीकरतां च युगपद् प्रतिरोद्धुं भारत - आस्ट्रेलिया राष्ट्रयोर्मध्ये निर्णयः जातः। भारत-पसफिक् मण्डले निर्व्याजः स्वतन्त्रः च नीतिमार्गः रूपीकरणीयः इति उभयोः राष्ट्रयोः मन्त्रितलचर्चायां निर्णयोSभवत्। 

  भारतस्य विदेशकार्यमन्त्री एस्  जयशङ्करः रक्षामन्त्री राजनाथसिंहः. आस्ट्रेलियायाः विदेशकार्यमन्त्री मारिस् पेयिनः रक्षामन्त्री पीटर् डट्टणश्च चर्चायां भागभागित्वं कृतवन्तः।

  भारत-प्रशासनेन  खाद्य-तैलानाम् मानकमूल्यानि न्यूनीकृतानि

- पुरुषोत्तमशर्मा नवदेहली

नवदिल्ली> केन्द्र-प्रशासनेन उपभोक्तृभ्यः उचितमूल्येषू खाद्य-तैलानाम् उपलब्धता सुनिश्चेतुं क्रूड- पाम सोयाबीन-सूरजमुखी इत्येषां तैलेषु मानक-दरः अपचीय द्वि दशमलव पञ्च- प्रतिशतन्मिता कृता अस्ति। नूतनमूल्यानि शनिवारात्  प्रभावितानि जातानि।  वर्तमान-वर्षे अन्ताराष्ट्रियस्तरे राष्टिय-स्तरे खाद्य-तेलानां मूल्येषु वृद्धिः अभवत्। या हि मुद्रास्फीतेः उपभोक्तृणां च संदर्भे चिन्तायाः विषयः अस्ति। खाद्यतैलेषु  आयात-शुल्कम् एकं महत्वपूर्णं कारकम् अस्ति यस्य प्रभावः खाद्यतैलानां मूल्येषु दृष्टः। मूल्यवृद्धेः प्रभावम् अपाकर्तुं अस्मिन् वर्षे फरवरी मासात् अगस्त मासं यावत् नैके पदक्षेपाः उत्थापिताः।

 नवदिल्ल्यां विमानपत्तने जलसञ्चयः। 

अतिवृष्ट्या विमानसेवायां विध्नः अभवत्।।


 नवदिल्ली> अतिवृष्टिकारणेन नवदिल्ल्यां इन्दिरागान्धि विमानपत्तने विविधेषु भागेषु जलसञ्चयः जातः। ४६ संवत्सराभ्यन्तरे जाता अत्युच्चतमा वृष्टिरेव रेखाङ्‌किता। शुक्रवासरे नवदिल्ल्यां १००० एम् एम् वृष्टिः एव वर्षिता। वातावरणं विमानसेवाम् अबाधत। इन्डिगो, स्पैस् जेटट् प्रभृतयः विमानसंस्थाभिः  गृहतः विमाननिलयागमनात्  पूर्वं विमानस्थितिः  (flight status) द्रष्टव्या इति यात्रिकाः   समभ्यर्थिताः । आकस्मिकतया जातः घोरवर्षा एव जलसञ्चयस्य कारणं, समस्याः परिहृताः इति नवदिल्ल्याः विमानपत्तनाधिकारिभिः ट्विट्टर् माध्यमेन संवेदितम्।

Saturday, September 11, 2021

 बहिराकाशनिलये चलनचित्रं ग्रहीतुं  रष्यः।


  मोस्को> अन्ताराष्ट्रियबहिराकाशनिलये प्रथमं चलनचित्रं निर्मातुं सज्जतां प्राप्नोति  रष्ययः। नटी युलिया पेरेसिल्ड् तथा चित्रोत्पादकेन  क्लिं षिपेन्को सहितेन चलनचित्रकाराणां संघः ओक्टोबर् मासे पञ्चमे दिने बहिराकाशनिलयं प्रति प्रस्थास्यति। साहाय्यार्थं अन्ये द्वे, रष्यायाः बहिराकाशयात्रिकः लैग् आर्तेमिये च संघे भविष्यतः।  सोयस् एम् एस्१८ आकाशबाणः  एव संघं बहिराकाशनिलयं प्रति नयति। बहिराकाशनिलये प्रथमतया चित्रीकरिष्यमाणस्य चलनचित्रस्य चलञ्च् इति नाम  दत्तमस्ति इति रष्यायस्य रोस्कोस्मस् नाम बहिराकाश -विज्ञापनसंस्थया   अवेदितम्। भूमौ प्रत्यागन्तुम् अपि अशक्यं रोगबाधितं यात्रिकं शस्त्रक्रियां कर्तुं नियुक्तायाः वनिताभिषक्वरायाः कथा एव चलनचित्रस्य प्रतिपाद्यमिति रष्यस्य  आर् ऐ ए नाम वार्तामाध्यमेन प्रतिवेदितम्।