OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 14, 2021

कोविड्मरणमधिकृत्य केन्द्रसर्वकारेण नूतनी मार्गरेखा ख्यापिता-

कोविड्स्पष्टतानन्तरं ३० दिनाभ्यन्तरमरणानि कोविड्मरणान्येव। 

  नवदिल्ली> कोविड्वैराणोः स्पष्टतानन्तरं ३० दिनाभ्यन्तरे म्रियते चेत् तादृशमरणानि कोनिड्मृत्युरिति प्रकल्प्य प्रमाणपत्रं दीयतामिति केन्द्रसर्वकारेण निगदितम्। स्वास्थ्यमन्त्रालयः तथा ऐ सि एम् आर् संस्था च मिलित्वा एव नूतनमार्गरेखां सज्जीकरोत्। 

  नूतनी मार्गरेखा सर्वोच्चन्यायालये समर्पिता। किञ्च सर्वेषां राज्याणां मुख्यपञ्जीकरणाधिकारिणां कृते चेयं मार्गरेखा प्रेषिष्यते। 

  यदि मृत्युः आतुरालये न सम्भवति चेदपि कोविड्मरणस्य प्रमाणपत्रं दास्यति। किन्तु दुर्घटना , आत्माहुतिः, हत्या, विषोपयोगेन मरणम् ईदृशप्रकरणेषु ते कोविड्रोगिणः अपि कोविड्मरणे न परिगण्यन्ते इति मार्गरेखायां स्पष्टीकृतमस्ति।

Monday, September 13, 2021

 भारते नूतनाः २८,५९१ कोविड्रोगिणः। 

नवदिल्ली> रविवासरस्य प्रातःपर्यन्तं वर्तियायां २४होरावेलायां राष्ट्रे २८,५९१ जनाः अपि कोविड्बाधिताः अभवन्। ३३८ मरणान्यपि आवेदिताः। अनेन आहत्य मरणानि ४,४२,६५५ जातानि। प्रतिदिन टि पि आर् मानं १.८७ अस्ति। 

  राष्ट्रस्य कोविड्प्रतिरोधाय सूच्यौषधप्रक्रिया ७४कोटिः अतीतेति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। शनिवासरे ७२,८६,८८३ वाक्सिनानि दत्तानि।

 भूपेन्द्रपट्टेलः गुजरातस्य नूतनः मुख्यमन्त्री।

 अहम्मदाबादः> गुजरातराज्ये नूतनमुख्यमन्त्रिरूपेण भूपेन्द्रपट्टेलः अद्य शपथवाचनं करिष्यति। मन्त्रिमण्डलस्य रूपीकरणम् अचिरादेव भविष्यति। गुजरातविधीनसभायां नूतनसामाजिकः भवति ५९वयस्कः भूपेन्द्र रजनीकान्तपट्टेलः। 

  भा ज पा राष्ट्रियनेतृत्वस्य निर्देशानुसारं वर्तमानो मुख्यमन्त्री विजयरूपाणिः गतदिने त्यागपत्रं समर्पितवानासीत्। गुजरातविधानसभानिर्वाचनाय संवत्सरैक एवावशिष्यते।

Sunday, September 12, 2021

 आतङ्कवादः प्रतिरुध्यते इति भारतम् आस्ट्रेलिया च। 

 नवदिल्ली> अफ्गानिस्थाने तालिबानेन उन्नीतानि वैरनिर्यातनानि आगोलभीकरतां च युगपद् प्रतिरोद्धुं भारत - आस्ट्रेलिया राष्ट्रयोर्मध्ये निर्णयः जातः। भारत-पसफिक् मण्डले निर्व्याजः स्वतन्त्रः च नीतिमार्गः रूपीकरणीयः इति उभयोः राष्ट्रयोः मन्त्रितलचर्चायां निर्णयोSभवत्। 

  भारतस्य विदेशकार्यमन्त्री एस्  जयशङ्करः रक्षामन्त्री राजनाथसिंहः. आस्ट्रेलियायाः विदेशकार्यमन्त्री मारिस् पेयिनः रक्षामन्त्री पीटर् डट्टणश्च चर्चायां भागभागित्वं कृतवन्तः।

  भारत-प्रशासनेन  खाद्य-तैलानाम् मानकमूल्यानि न्यूनीकृतानि

- पुरुषोत्तमशर्मा नवदेहली

नवदिल्ली> केन्द्र-प्रशासनेन उपभोक्तृभ्यः उचितमूल्येषू खाद्य-तैलानाम् उपलब्धता सुनिश्चेतुं क्रूड- पाम सोयाबीन-सूरजमुखी इत्येषां तैलेषु मानक-दरः अपचीय द्वि दशमलव पञ्च- प्रतिशतन्मिता कृता अस्ति। नूतनमूल्यानि शनिवारात्  प्रभावितानि जातानि।  वर्तमान-वर्षे अन्ताराष्ट्रियस्तरे राष्टिय-स्तरे खाद्य-तेलानां मूल्येषु वृद्धिः अभवत्। या हि मुद्रास्फीतेः उपभोक्तृणां च संदर्भे चिन्तायाः विषयः अस्ति। खाद्यतैलेषु  आयात-शुल्कम् एकं महत्वपूर्णं कारकम् अस्ति यस्य प्रभावः खाद्यतैलानां मूल्येषु दृष्टः। मूल्यवृद्धेः प्रभावम् अपाकर्तुं अस्मिन् वर्षे फरवरी मासात् अगस्त मासं यावत् नैके पदक्षेपाः उत्थापिताः।

 नवदिल्ल्यां विमानपत्तने जलसञ्चयः। 

अतिवृष्ट्या विमानसेवायां विध्नः अभवत्।।


 नवदिल्ली> अतिवृष्टिकारणेन नवदिल्ल्यां इन्दिरागान्धि विमानपत्तने विविधेषु भागेषु जलसञ्चयः जातः। ४६ संवत्सराभ्यन्तरे जाता अत्युच्चतमा वृष्टिरेव रेखाङ्‌किता। शुक्रवासरे नवदिल्ल्यां १००० एम् एम् वृष्टिः एव वर्षिता। वातावरणं विमानसेवाम् अबाधत। इन्डिगो, स्पैस् जेटट् प्रभृतयः विमानसंस्थाभिः  गृहतः विमाननिलयागमनात्  पूर्वं विमानस्थितिः  (flight status) द्रष्टव्या इति यात्रिकाः   समभ्यर्थिताः । आकस्मिकतया जातः घोरवर्षा एव जलसञ्चयस्य कारणं, समस्याः परिहृताः इति नवदिल्ल्याः विमानपत्तनाधिकारिभिः ट्विट्टर् माध्यमेन संवेदितम्।

Saturday, September 11, 2021

 बहिराकाशनिलये चलनचित्रं ग्रहीतुं  रष्यः।


  मोस्को> अन्ताराष्ट्रियबहिराकाशनिलये प्रथमं चलनचित्रं निर्मातुं सज्जतां प्राप्नोति  रष्ययः। नटी युलिया पेरेसिल्ड् तथा चित्रोत्पादकेन  क्लिं षिपेन्को सहितेन चलनचित्रकाराणां संघः ओक्टोबर् मासे पञ्चमे दिने बहिराकाशनिलयं प्रति प्रस्थास्यति। साहाय्यार्थं अन्ये द्वे, रष्यायाः बहिराकाशयात्रिकः लैग् आर्तेमिये च संघे भविष्यतः।  सोयस् एम् एस्१८ आकाशबाणः  एव संघं बहिराकाशनिलयं प्रति नयति। बहिराकाशनिलये प्रथमतया चित्रीकरिष्यमाणस्य चलनचित्रस्य चलञ्च् इति नाम  दत्तमस्ति इति रष्यायस्य रोस्कोस्मस् नाम बहिराकाश -विज्ञापनसंस्थया   अवेदितम्। भूमौ प्रत्यागन्तुम् अपि अशक्यं रोगबाधितं यात्रिकं शस्त्रक्रियां कर्तुं नियुक्तायाः वनिताभिषक्वरायाः कथा एव चलनचित्रस्य प्रतिपाद्यमिति रष्यस्य  आर् ऐ ए नाम वार्तामाध्यमेन प्रतिवेदितम्।

केरले कोविडः नियन्त्रणे ; लाघवं प्रख्यापितम्। 

 अनन्तपुरी> अस्य मासस्य प्रारम्भादारभ्य केरलस्य कोविडप्रकरणेषु न्यूनता दृश्यते। अष्टादशाधिकं प्राप्तं टि पि आर् मानं साप्ताहिकं यावत् १६.५ इति क्रमेण आकुञ्चितम्। अतः सर्वकारेण केषुचित् मण्डलेषु लाघवं विज्ञापितम्। 

  रविवासरेषु अनुवर्तितं पिधानम् अपाकृतम्। ओक्टोबरमासस्य चतुर्थे दिनाङ्के कलालयाः व्यवस्थां परिपाल्य उद्घाटयिष्यन्ते। ततः पूर्वम् अध्यापकानां छात्राणां च वाक्सिनीकरणं पूर्तीकरिष्यति इति सर्वकारेण उक्तम्।

 तालिबानेन सह चर्चा अनुवर्तनीया - यू एन्।

यूनाइटेड् नेषन्स्> अफ्गानजनतायाः हितं संरक्षणं च पुरस्कृत्य तालिबानेन सह निरन्तरचर्चा अनुवर्तनीया इति यू एन् प्रतिनिधिसभा राष्ट्रगणं प्रति निरदिशत्।  सचिवप्रमुखः अन्टोणियो गुट्टरसः उक्तवान् यत् अफ्गानजनतां प्रति ऐक्यदार्ढ्यं विज्ञाप्य जनहिततत्वेषु संस्थाय चर्चाः अनुवर्तयितुं अन्ताराष्ट्रसमूहः सज्जः भवेत्। 

   आर्थिकभञ्जनेन अफ्गानिस्थाने लक्षशः जनानां मृतिमपाकर्तुं राष्ट्राणि यतेयुरिति सभया अपेक्षितम्। तालिबानेन प्रख्यापितः नूतनसर्वकारः संतृप्तिं न प्रददातीति सभया सूचितम्।

Friday, September 10, 2021

भारते १८% जनाः कोविड्वाक्सिनस्य मात्राद्वयमपि स्वीचक्रुः। 

  नवदिल्ली> राष्ट्रे  अष्टादशोपरिवयस्केषु १८% जनाः कोविड्वाक्सिनस्य मात्राद्वयमपि स्वीकृतवन्त इति ऐ सि एम् आर् संस्थायाः निदेशकः बलराम भार्गवः अब्रवीत्। ५८% जनाः  मात्रामेकां स्वीकृतवन्तः अद्यावधि ७२ कोटि मात्राणि वाक्सिनौषधानि वितीर्णनि। अधुना प्रतिदिनं विंशतिलक्षं जनाः  वाक्सिनानि स्वीकुर्वन्तः सन्ति। 

   वाक्सिनीकरणप्रवर्तनानि त्वरितोत्साहेन अग्रे गच्छन्त्यपि राष्ट्रं कोविड्महामार्याः द्वितीयतरङ्गे एव वर्तते इति स्वास्थ्यसचिवेन राजेष् भूषणेनोक्तम्। प्रतिदिनप्रकरणानां ६८% केरले एव। राज्यस्य सर्वाणि जनपदानि समेत्य आराष्ट्रं ३५ जनपदेषु टि पि आर् मानं प्रतिशतं दशाधिकमस्ति। आगामिषु दसरा, दीपावलिः, क्रिसतुमस् इत्यादिषु उत्सवेषु अतिजाग्रता करणीया इति सर्वकारेण निर्दिष्टम्।

Thursday, September 9, 2021

प्रतिरोधशिक्षाकेन्द्रे बालिकानामपि प्रवेशानुज्ञा। 

नवदिल्ली> भारतस्य अभिमानकेन्द्रत्वेन वर्तमानायां एन् डि ए संस्थायां [National Defense Academy] बालिकानामपि प्रवेशं कर्तुम् अनुज्ञां दाुंतुं निर्णीतमिति केन्द्रसर्वकारः सर्वोच्चन्यायालयं न्यवेदयत्। सेनायाः उन्नतस्तरे एव एतदर्थं निर्णयः विहित इति 'अडीषणल् सोलिसिटर् जनरल्' एश्वर्या भाट्टी इत्यनया निवेदितम्। 

  अनेन निर्णयेन महिलानामपि सायुधसेनायां चिरनियुक्तेः अवसरः लभ्यते।

प्रतिषेधान् निरुध्य तालिबानः। 

 काबूलम्> नूतनसर्वकारस्य रूपीकरणानन्तरं अफ्गानिस्थानस्य सामान्यस्थानेषु प्रतिषेधसंघीकरणानि तालिबानप्रशासनेन निरुद्धानि। सर्वकारकार्यालयानाम् उद्घाटनानन्तरं प्रतिषेधविरुद्धाः नियमाः सर्वकारेण विशदीकरिष्यन्ते। तावत्पर्यन्तं प्रतिषेधाः निरोधिताः इति तालिबानवक्त्रा सबिहुल्ला मुजाहिदेनोक्तम्।

  कुजवासरे अफ्गानिस्थाने पाकिस्थानस्य व्यवधानं विरुध्य काबूलस्थस्य पाक्कार्यालयस्य पुरतः महिलासहिताः शतशः जनाः प्रतिषेधमायोयन्ति स्म। तदनन्तरमेवेदृशः प्रक्रमः। जनसमुदायं प्रतिनिवर्तयितुं तालिबानः आकाशं प्रति भुशुण्डिप्रयोगमकरोत्।

पारालिम्पिक्स् मेला परिसमाप्ता;  भारतस्य महल्लाभः। 

 टोक्यो> अङ्गपरिमितानां विश्वकायिकक्रीडामेलायाः - पारालिम्पिक्स्-अन्ते अभिमानस्य उत्तुङ्गश्रृङ्गे  भारतम्। पञ्चसुवर्णानि अभिव्याप्य १९ पदकानि सम्प्राप्य भारतेन पारालिम्पिक्स् चरितस्य श्रेष्ठतरं निर्वर्तनं विधत्तम्। पदकपट्टिकायां २४तमं स्थानं प्राप्तम्। 

   २०१६तमे वर्षे रियो पारालिम्पिक्स्' मध्ये प्राप्तानि सुवर्णद्वयसहितं पदकचतुष्टयमेव एतावत्पर्यन्तं भारतस्य श्रेष्ठतरं निर्वर्तनम्। अस्यां मेलायां पञ्चसुवर्णानि, अष्ट रजतानि, षट् कांस्यानि च भारतेन प्राप्तानि। पूर्वं समाप्ते ओलिम्पिक्स् महोत्सवे अपि पदकसप्तकं सम्प्राप्य श्रेष्ठतरं प्रकटनं प्रदर्शितमासीत्। 

  पारालिम्पिक्स् मध्ये चीनः ९६ सुवर्णानि समेत्य २०७ पदकैः प्रथमस्थानमवाप। ब्रिटनः द्वितीयं स्थानं प्राप्तवान्। तृतीयस्थानं तु अमेरिक्कया प्राप्तम्।

 ट्वन्टि ट्वन्टि विश्वचषकाय भारतीयदलं प्रख्यापितम्। दले प्रमुखाः केचन न सन्ति।

  नवदिल्ली> अस्मिन् संवत्सरे ट्वन्टि ट्वन्टि विश्वचषकाय भारतीय क्रिक्कट्दलं प्रख्यापितम्। बहुकालानन्तरं नियमित- कन्दुकक्षेपचक्र-क्रीडकेभ्यः बहिः स्थितः बहिः स्थितः आर् अश्विनः पञ्चदशाङ्गसंघेषु स्थानं प्राप्तवान्। कैरलीक्रीडकस्य सञ्जु साम्सणस्य दले प्रवेशः न लब्धः। आवर्तक्षेपकः (spinner) युस्वेन्द्र चाहल्, कुलदीप् यादव् प्रभृतयः अपि दलात् बहिर्गताः। शिखर् धवानस्य अपि दले अवसरो न लब्धः। पूर्वतननायकः एम् एस् धोनिः उपदेशकरूपेण दलेन साकं भविष्यति इति बि सि सि ए कार्यदर्शिना जय् षा महोदयेन आवेदितम्।

Wednesday, September 8, 2021

ब्रिक्स् उच्चशिखरसम्मेलनम् - नरेन्द्रमोदी अध्यक्षः। व्लाडिमिर् पुटिनः, षि जिन्पिङ् च भागं स्वीकरिष्यतः। 

  नवदिल्ली> त्रयोदशतमे ब्रिक्स् उच्चशिखरसम्मेलने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अध्यक्षः भविष्यति। गुरुवासरे अन्तर्जालद्वारा एव मेलनम् भविष्यति। अफ्गानिस्थानस्थस्य अद्यतनीया परिस्थितिम् अधिकृत्यैव प्रमुखचर्चाविषय: स्यात् इति प्रतीक्ष्यते। रष्यायाः राष्ट्रपतिः व्लाडिमिर् पुटिन्, चीनस्य राष्ट्रपतिः षि जिन्पिङ् दक्षिणाफ्रिक्कायाः राष्ट्रपतिः सिरिल् रामफोसा, ब्रसीलस्य राष्ट्रपतिः जयिर् बोल्सनारो इत्यादयः उच्चशिखरसम्मेलने भागं स्वीकरिष्यन्ति। केन्द्रविदेशकार्यमन्त्रालयेनैव विषयमिदं आवेदितम्। ब्रसीलः, रष्या, भारतं, चीना, दक्षिणाफ्रीक्का प्रभृतीनां पञ्च विकसितराष्ट्राणां समवायः भवति ब्रिक्स् । प्रधानमन्त्री नरेन्द्रमोदी द्वितीयवारमेव ब्रिक्स् उच्चशिखरसम्मेलने अध्यक्षपदवीं अलङ्करोति।

Tuesday, September 7, 2021

शैक्षिकसंवत्सरस्य प्रथमदिने काबुले शैक्षिकसंस्थाः छात्ररहिताः अभवन् 

चित्रग्रहणम् - ए एफ् पि 

 काबूल्> तालिबानेन प्रशासनं संग्रहीत्यनन्तरम् अफ्गानिस्थानस्य शैक्षिकसंवत्सरस्य प्रथमदिने काबुले शैक्षिकसंस्थाः छात्ररहिताः अभवन्। कक्ष्यासु तालिबानस्य कठिननियम-प्रयोगानन्तरम् अध्यापकाः छात्राः च अनिश्चितत्वे आपतिताः इति अनेन प्रतिवेदनेन संसूच्यते। 1996-2001 संवत्सरेषु स्त्रीणां स्वातन्त्यस्योपरि श्रृङ्खलां बद्ध्वा उच्चशिक्षातः निवार्य कृतं शासनम् अधुना न भविष्यति इति वाग्दत्तमासीत् । किन्तु महाविद्यालयस्य कक्ष्यायां गन्तुम् अनुज्ञा अस्ति तथापि वस्त्रधारणे आसनव्यवस्थायां बाल बालिकयो: सतीर्थ्यत्वम् इत्यादि विषयेषु  कठिन-नियन्त्रणमेव तालिबानेन निर्दिष्टं वर्तते। बालिकाः शरीरमखिलम् आच्छादितव्यम्। मुखावरणं पूर्णतया भवित व्यम्। कक्ष्यासु बालिका बालकयोः मध्ये आच्छादनपटः अनिवार्यः। किन्तु अस्य निर्देशस्य पालने छात्राः विमुखाः भवन्ति। अतः एव अस्माकं विश्वविद्यालयस्य पिधानं विना विलम्बं भविष्यति इति गर्जिस्थानस्य निजीय विश्व-विद्यालयस्य निर्देशकः नूर् अलि रह्मानि अवदत्। सोमवासरे कक्ष्याः शून्याः आसन् इत्यपि सः अवदत्।

Monday, September 6, 2021

 तालिबान् सर्वकारस्य स्थानारोहणे चीना पाकिस्थान प्रभृतीनां राष्ट्राणाम् आमन्त्रणम्।


काबूल्> अफ्गानिस्थाने सर्वकाररूपीकरणाय प्रक्रमः अन्तिमपादे इति तालिबानेन न्यगादीत्। पञ्चषीर् उपत्यकाऽपि  (Valley)  स्वायत्तीकृत्यानन्तरमेव एव तालिबानस्य घोषणा। तदभ्यन्तरे नूतनसर्वकारस्य शासकपदस्वीकरणकार्यक्रमे पाकिस्थान चीनाप्रभृतीन् राष्ट्रान् आमन्त्रयामास इति वार्ता अपि बहिरागता। पाकिस्थान:, चीना, रष्या, तुर्की, खत्तर्, इरान् प्रभृतीन् राष्ट्रान् आमन्त्रयत इति वार्ता अपि अस्ति।

Sunday, September 5, 2021

आयकरदायकेभ्यः ६७,४०१ रूप्यकाणि प्रतिददाति आयकरविभागः।

 नवदिल्ली> सार्धत्रिमासाभ्यन्तरे आयकरदायकेभ्यः ६७.४०१ कोटि रूप्यकाणि प्रतिददाति आयकरविभागः। एप्रिल् मासस्य प्रथमदिनात् आरभ्य आगस्त् मासस्य त्रिंशत् दिनं यावत् एव २४ लक्षं रूप्यकणि आयकरदायकेभ्यः प्रदत्तः। व्यक्त्यघिष्ठित एकीकृतविभागेषु एव शुल्कः दातुं निश्चितः। १६,३७३ कोटि रूप्यकाणि आयकररूपेण प्रतिदातुं तथा ५१.०२९ रूप्यकाणि एकीकृतकररूपेण प्रतिदातुमेव निश्चितः। आयकर -विवरणपत्रिका (Income tax return) यदा समर्प्यते तदनुसारमेव अधिकतया अर्पितं धनं विलम्बं विना प्रतिदास्यते।