OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 9, 2021

प्रतिरोधशिक्षाकेन्द्रे बालिकानामपि प्रवेशानुज्ञा। 

नवदिल्ली> भारतस्य अभिमानकेन्द्रत्वेन वर्तमानायां एन् डि ए संस्थायां [National Defense Academy] बालिकानामपि प्रवेशं कर्तुम् अनुज्ञां दाुंतुं निर्णीतमिति केन्द्रसर्वकारः सर्वोच्चन्यायालयं न्यवेदयत्। सेनायाः उन्नतस्तरे एव एतदर्थं निर्णयः विहित इति 'अडीषणल् सोलिसिटर् जनरल्' एश्वर्या भाट्टी इत्यनया निवेदितम्। 

  अनेन निर्णयेन महिलानामपि सायुधसेनायां चिरनियुक्तेः अवसरः लभ्यते।

प्रतिषेधान् निरुध्य तालिबानः। 

 काबूलम्> नूतनसर्वकारस्य रूपीकरणानन्तरं अफ्गानिस्थानस्य सामान्यस्थानेषु प्रतिषेधसंघीकरणानि तालिबानप्रशासनेन निरुद्धानि। सर्वकारकार्यालयानाम् उद्घाटनानन्तरं प्रतिषेधविरुद्धाः नियमाः सर्वकारेण विशदीकरिष्यन्ते। तावत्पर्यन्तं प्रतिषेधाः निरोधिताः इति तालिबानवक्त्रा सबिहुल्ला मुजाहिदेनोक्तम्।

  कुजवासरे अफ्गानिस्थाने पाकिस्थानस्य व्यवधानं विरुध्य काबूलस्थस्य पाक्कार्यालयस्य पुरतः महिलासहिताः शतशः जनाः प्रतिषेधमायोयन्ति स्म। तदनन्तरमेवेदृशः प्रक्रमः। जनसमुदायं प्रतिनिवर्तयितुं तालिबानः आकाशं प्रति भुशुण्डिप्रयोगमकरोत्।

पारालिम्पिक्स् मेला परिसमाप्ता;  भारतस्य महल्लाभः। 

 टोक्यो> अङ्गपरिमितानां विश्वकायिकक्रीडामेलायाः - पारालिम्पिक्स्-अन्ते अभिमानस्य उत्तुङ्गश्रृङ्गे  भारतम्। पञ्चसुवर्णानि अभिव्याप्य १९ पदकानि सम्प्राप्य भारतेन पारालिम्पिक्स् चरितस्य श्रेष्ठतरं निर्वर्तनं विधत्तम्। पदकपट्टिकायां २४तमं स्थानं प्राप्तम्। 

   २०१६तमे वर्षे रियो पारालिम्पिक्स्' मध्ये प्राप्तानि सुवर्णद्वयसहितं पदकचतुष्टयमेव एतावत्पर्यन्तं भारतस्य श्रेष्ठतरं निर्वर्तनम्। अस्यां मेलायां पञ्चसुवर्णानि, अष्ट रजतानि, षट् कांस्यानि च भारतेन प्राप्तानि। पूर्वं समाप्ते ओलिम्पिक्स् महोत्सवे अपि पदकसप्तकं सम्प्राप्य श्रेष्ठतरं प्रकटनं प्रदर्शितमासीत्। 

  पारालिम्पिक्स् मध्ये चीनः ९६ सुवर्णानि समेत्य २०७ पदकैः प्रथमस्थानमवाप। ब्रिटनः द्वितीयं स्थानं प्राप्तवान्। तृतीयस्थानं तु अमेरिक्कया प्राप्तम्।

 ट्वन्टि ट्वन्टि विश्वचषकाय भारतीयदलं प्रख्यापितम्। दले प्रमुखाः केचन न सन्ति।

  नवदिल्ली> अस्मिन् संवत्सरे ट्वन्टि ट्वन्टि विश्वचषकाय भारतीय क्रिक्कट्दलं प्रख्यापितम्। बहुकालानन्तरं नियमित- कन्दुकक्षेपचक्र-क्रीडकेभ्यः बहिः स्थितः बहिः स्थितः आर् अश्विनः पञ्चदशाङ्गसंघेषु स्थानं प्राप्तवान्। कैरलीक्रीडकस्य सञ्जु साम्सणस्य दले प्रवेशः न लब्धः। आवर्तक्षेपकः (spinner) युस्वेन्द्र चाहल्, कुलदीप् यादव् प्रभृतयः अपि दलात् बहिर्गताः। शिखर् धवानस्य अपि दले अवसरो न लब्धः। पूर्वतननायकः एम् एस् धोनिः उपदेशकरूपेण दलेन साकं भविष्यति इति बि सि सि ए कार्यदर्शिना जय् षा महोदयेन आवेदितम्।

Wednesday, September 8, 2021

ब्रिक्स् उच्चशिखरसम्मेलनम् - नरेन्द्रमोदी अध्यक्षः। व्लाडिमिर् पुटिनः, षि जिन्पिङ् च भागं स्वीकरिष्यतः। 

  नवदिल्ली> त्रयोदशतमे ब्रिक्स् उच्चशिखरसम्मेलने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अध्यक्षः भविष्यति। गुरुवासरे अन्तर्जालद्वारा एव मेलनम् भविष्यति। अफ्गानिस्थानस्थस्य अद्यतनीया परिस्थितिम् अधिकृत्यैव प्रमुखचर्चाविषय: स्यात् इति प्रतीक्ष्यते। रष्यायाः राष्ट्रपतिः व्लाडिमिर् पुटिन्, चीनस्य राष्ट्रपतिः षि जिन्पिङ् दक्षिणाफ्रिक्कायाः राष्ट्रपतिः सिरिल् रामफोसा, ब्रसीलस्य राष्ट्रपतिः जयिर् बोल्सनारो इत्यादयः उच्चशिखरसम्मेलने भागं स्वीकरिष्यन्ति। केन्द्रविदेशकार्यमन्त्रालयेनैव विषयमिदं आवेदितम्। ब्रसीलः, रष्या, भारतं, चीना, दक्षिणाफ्रीक्का प्रभृतीनां पञ्च विकसितराष्ट्राणां समवायः भवति ब्रिक्स् । प्रधानमन्त्री नरेन्द्रमोदी द्वितीयवारमेव ब्रिक्स् उच्चशिखरसम्मेलने अध्यक्षपदवीं अलङ्करोति।

Tuesday, September 7, 2021

शैक्षिकसंवत्सरस्य प्रथमदिने काबुले शैक्षिकसंस्थाः छात्ररहिताः अभवन् 

चित्रग्रहणम् - ए एफ् पि 

 काबूल्> तालिबानेन प्रशासनं संग्रहीत्यनन्तरम् अफ्गानिस्थानस्य शैक्षिकसंवत्सरस्य प्रथमदिने काबुले शैक्षिकसंस्थाः छात्ररहिताः अभवन्। कक्ष्यासु तालिबानस्य कठिननियम-प्रयोगानन्तरम् अध्यापकाः छात्राः च अनिश्चितत्वे आपतिताः इति अनेन प्रतिवेदनेन संसूच्यते। 1996-2001 संवत्सरेषु स्त्रीणां स्वातन्त्यस्योपरि श्रृङ्खलां बद्ध्वा उच्चशिक्षातः निवार्य कृतं शासनम् अधुना न भविष्यति इति वाग्दत्तमासीत् । किन्तु महाविद्यालयस्य कक्ष्यायां गन्तुम् अनुज्ञा अस्ति तथापि वस्त्रधारणे आसनव्यवस्थायां बाल बालिकयो: सतीर्थ्यत्वम् इत्यादि विषयेषु  कठिन-नियन्त्रणमेव तालिबानेन निर्दिष्टं वर्तते। बालिकाः शरीरमखिलम् आच्छादितव्यम्। मुखावरणं पूर्णतया भवित व्यम्। कक्ष्यासु बालिका बालकयोः मध्ये आच्छादनपटः अनिवार्यः। किन्तु अस्य निर्देशस्य पालने छात्राः विमुखाः भवन्ति। अतः एव अस्माकं विश्वविद्यालयस्य पिधानं विना विलम्बं भविष्यति इति गर्जिस्थानस्य निजीय विश्व-विद्यालयस्य निर्देशकः नूर् अलि रह्मानि अवदत्। सोमवासरे कक्ष्याः शून्याः आसन् इत्यपि सः अवदत्।

Monday, September 6, 2021

 तालिबान् सर्वकारस्य स्थानारोहणे चीना पाकिस्थान प्रभृतीनां राष्ट्राणाम् आमन्त्रणम्।


काबूल्> अफ्गानिस्थाने सर्वकाररूपीकरणाय प्रक्रमः अन्तिमपादे इति तालिबानेन न्यगादीत्। पञ्चषीर् उपत्यकाऽपि  (Valley)  स्वायत्तीकृत्यानन्तरमेव एव तालिबानस्य घोषणा। तदभ्यन्तरे नूतनसर्वकारस्य शासकपदस्वीकरणकार्यक्रमे पाकिस्थान चीनाप्रभृतीन् राष्ट्रान् आमन्त्रयामास इति वार्ता अपि बहिरागता। पाकिस्थान:, चीना, रष्या, तुर्की, खत्तर्, इरान् प्रभृतीन् राष्ट्रान् आमन्त्रयत इति वार्ता अपि अस्ति।

Sunday, September 5, 2021

आयकरदायकेभ्यः ६७,४०१ रूप्यकाणि प्रतिददाति आयकरविभागः।

 नवदिल्ली> सार्धत्रिमासाभ्यन्तरे आयकरदायकेभ्यः ६७.४०१ कोटि रूप्यकाणि प्रतिददाति आयकरविभागः। एप्रिल् मासस्य प्रथमदिनात् आरभ्य आगस्त् मासस्य त्रिंशत् दिनं यावत् एव २४ लक्षं रूप्यकणि आयकरदायकेभ्यः प्रदत्तः। व्यक्त्यघिष्ठित एकीकृतविभागेषु एव शुल्कः दातुं निश्चितः। १६,३७३ कोटि रूप्यकाणि आयकररूपेण प्रतिदातुं तथा ५१.०२९ रूप्यकाणि एकीकृतकररूपेण प्रतिदातुमेव निश्चितः। आयकर -विवरणपत्रिका (Income tax return) यदा समर्प्यते तदनुसारमेव अधिकतया अर्पितं धनं विलम्बं विना प्रतिदास्यते।

Saturday, September 4, 2021

भारताय आशङ्कां  प्रदाय अफ्गानिस्थाने बाग्राविमानपत्तनस्य नियन्त्रणं स्वायत्तीकर्तुं चीनेन प्रयतते ।


 काबूल्> भारताय आशङ्कां प्रदाय अफ्गानिस्थाने विमानपत्तनानां नियन्त्रणं स्ववशे कर्तुं चीना उद्यमं करोति इति प्रतिवेदनम्।  बाग्रां विमानपत्तनं तथा अन्येषां सुप्रधानकेन्द्राणां नियन्त्रणं चीनया क्रियते इत्येतत् भारतस्य आशङ्कावर्धनाय एवेति विदेशकार्यविज्ञाः अभिप्रयन्ति। पूर्वदक्षिणेष्याराष्ट्रात् भारतं पृथक् कृत्वा मण्डलेषु स्वयं एकशक्तियुक्तराष्ट्रत्वेन परिवर्तितुम् उपायः एव विमानपत्तनानाम्  स्वायत्तीकरणेन आशङ्क्यते इति वार्तासंघेन ए एन् ऐ माध्यमेन प्रतिवेदितमस्ति।

 पारालम्पिक्स् - भारताय गतदिने पदकत्रयलब्धिः। 

टोक्यो > अङ्गपरिमितानां कायिकमहोत्सवे - पारालिम्पिक्स् - गतदिने भारताय पदकत्रयमपि अलभत। अनेन आहत्य पदकलब्धिः १३ अभवत्। 

  ह्यः गुलिकाप्रक्षेपिका अवनी लेख्रा ५० मीटर् रैफिल् स्पर्धायां कांस्यं प्राप्तवती। अवन्याः द्वितीयपदकमेवैतत्।  पूर्वं १० मी.एयर् रैफिल् विभागे सुवर्णं प्राप्तवती आसीत्। 

   पुरुषाणाम् उत्कूर्दनस्पर्धायां [टि ६४विभागः] प्रवीणकुमारः रजतं शरप्रक्षेपणे हरविन्दर सिंहः कांस्यं च प्राप्तवन्तौ। अनेन भारतस्य अशेषपदकलब्धिः १३ अभवत्। तत्र सुवर्णद्वयं षट् रजतानि चान्तर्भवन्ति।

 'ऐडा'चक्रवातः - यू एस् मध्ये ४६मरणानि। 

  न्यूयोर्क्> यू एस् राष्ट्रे दुरापन्नस्य ऐडानामकचक्रवातस्य दुष्प्रभावे ४६ मरणानि निवेदितानि। अतिवृष्ट्या नदीषु जलोपप्लवः जातः। 

   न्यूजेर्सी राज्ये २३, न्यूयोर्के १३,पेन्सिलवानियायां ५ जनाः च मृत्युमुपगताः इति आवेदितम्। न्यूयेर्के ५०० अधिकानि यानानि जले निमग्नानि। न्यूयोर्क् न्यूजेर्सी राज्ययोः विमान रेल् यानसेवाः स्थगिताः।

Friday, September 3, 2021

 वटुकच्चियम्मायाः कथा 


  Livesanskrit संघेन ब्लू पी पुस्तकप्रकाशकसंस्थायाः सहयोगेन प्रकाशिता चित्रसंयोजितकथा भवति वटुकच्चियम्मायाः कथा। पञ्चपुस्तकानाम्  एका श्रेणी भवति यक्षी कथाः। ग्राम्यकथाभ्यः अस्माकं मनस्सु गाढं पतितानां अभीष्टवरदायिनीनां देवतात्वमाप्तानां यक्षीणां कथाः एवास्यां श्रेण्यां प्रकाश्यन्ते।  तत्र प्रथमा कथा भवति वटुकच्चियम्मायाः कथा। 110 रूप्यकमूल्यात्मकमिदं पुस्तकं सप्तम्बर मासस्य दशमदिनाङ्कपर्यन्तं (10.9.21) प्राक्प्रकाशनमूल्येभ्यः 95 रूप्यकेभ्यः उपलभ्यतते। पुस्तकं प्राप्तुं अधोदत्तदूरवाणीसंख्यायां वाट्स् आप् द्वारा सम्पर्कः क्रियताम्।

http://wa.me/916282568917

 अफ्गानिस्थानः दुर्भिक्षमभिमुखीकरोति - आशङ्कां प्रकाशयत् यू एन्। 

 जनीवा> अफ्गानिस्थाने निष्किञ्चनानां कृते वर्तमानः भक्ष्यसञ्चयः समाप्तिं प्राप्नोतीति संयुक्तराष्ट्रसंघटनम् आङ्कां प्राकाशयत्। इतोऽपि भक्ष्यसञ्चयनाय २० कोटि यू एस् डोलर् परिमितं यावच्छीघ्रं लभ्यं करणीयमिति संघटनेन लोकराष्ट्राणि अपेक्षितानि। 

  राष्ट्रे जनसंख्याः त्रिषु एकांशस्य [⅓] प्रतिदिनभोजनलभ्यता नास्ति। ऊनपञ्चवयस्केषु बालकेषु अर्धाधिकाः आगामिसंवत्सरे पोषकन्यूनताग्रस्ताः भविष्यन्ति इति सचिवमुख्यः टेट्रोस् अथनों गब्रियेसूसः अवदत्।

 भारते ४७,०९२ नूतनाः कोविड्रोगिणः। 

  नवदिल्ली> गतदिने ४७,०९२ जनाः अपि कोविड्बाधिताः अभवन्। मासद्वयानन्तरं सञ्जाता अधिकसंख्याका रोगबाधा भवत्येषा। अनेन राष्ट्रे आहत्य कोविड्बाधिताः ३,२८,५७,९३७ अभवन्। 

   गतदिने ५०९ रोगिणः अपि मृत्युमुपगताः। आहत्य मरणानि ४,३९,५२९ जातानि। प्रतिसाप्ताहिकरोगस्थिरीकरणमानं २.६२ अस्ति। ३,८९,५८३ जनाः विविधराज्येषु परिचर्यायां वर्तन्ते।

Thursday, September 2, 2021

प्रतिरोधसेनायाः पुरतः तालिबानः विकम्पते। पञ्चषीरे १३ आतङ्कवादिनः हताः।


काबूल्> तालिबानेन अफ्गानिस्थानं स्ववशे कृतः तथापि अधुना तालिबानस्य पुरतः प्रतिरोधम् आनीय योधनम् अनुवर्तते पूर्वोत्तरमण्डलस्थस्य पञ्चषीरस्था प्रतिरोधसेना। अद्य तालिबानस्य १३ आतङ्कवादिनः अमारयन् इति वार्ता बहिः प्रसरयन्ती अस्ति। पञ्चषीर् प्रोविन्स् इति ट्विट्टर् लेखद्वारा एव कार्यमिदं प्रसरति। प्रदेशे योधनम् अनुवर्तते। पूर्वं तालिबानेन सह कृता चर्चा पराजिता आसीत्।

 विविध-सामाजिक-योगक्षेम परियोजनायाः फलभोक्तृन् प्रत्यभिज्ञातुं सुविधाः आयोक्ष्यन्ते। 



 केरलम्/अनन्तपुरी> राज्ये सर्वेभ्यः सामाजिक-योगक्षेम-परियोजनायाः गुणभोक्तारं प्रत्यभिज्ञातुं योजनाः चेत्तुं च केन्द्रीकृतसुविधायाः आयोजनं सर्वकारेण सज्जीक्रियते। प्रथमस्तरे ३४.३२ कोटि रूप्यकाणि व्ययीकृत्य अनुबन्धतन्त्रांशः (software) यन्त्रांशः (hardware) मानवसंसाधनविकासक्षमता इत्यादीन् आहत्य 'आधार् वाल्ट्' (Aadhaar vault) सुविधा सुसज्जीकृता भविष्यति। कैरल्याः मानव-विभव-पुनर्निमाण विकसनक्षमतायाः   (rebuild kerala initiative) अधीने एव योजनाः प्रयोगपदम् आनेष्यति। एतदर्थं मन्त्रिणां आलोचना योगे अनुमतिः प्रदत्ता।

 कोविड् - केरले नूतनः उपप्रभेदः वर्धते। 

 नवदिल्ली> राष्ट्रे द्वितीयकोविड्व्यापनस्य तीव्रतायां कारणभूतस्य 'डेल्टा'प्रभेदस्य नवीनः उपप्रभेदः केरले वर्धमानरीत्या दृश्यते। जुलाई आगस्ट् मासयोः राज्यस्य ५ जनपदेषु डेल्टायाः उपप्रभेदरूपः 'ए वै 1' इति कृतनामधेयः दृष्टः। आनुपातिकतया केरले एव अधिकतया दृश्यते। केरलमतिरिच्य महाराष्ट्रे अपि एषः उपप्रभेदः दृश्यते इति सि एस् ऐ आर् संस्थायाः संशोधने स्पष्टीकृतमस्ति। 

  एरणाकुलम् इटुक्की, कोट्टयं, पत्तनंतिट्टा, तिरुवनन्तपुरं जनपदेषु एव ए वै1 प्रभेदः अधिकतया दृश्यते।

Wednesday, September 1, 2021

 ऐ एस् के नाम आतङ्गवादसंघेन सह संबन्धिताः २५  भारतीयनागरिकाः अफगानिस्थाने निरीक्षणे वर्तन्ते

   काबूल्> ऐ एस् के नाम आतङ्गवादसंघेन सह सम्बन्धिताः २५ भारतीयनागरिकाः अफ्गानिस्थाने निरीक्षणे वर्तन्ते इति प्रतिवेदनम्। तालिबानेन अफ्गानिस्थानस्य प्रशासनं बलात्कारेण स्वायत्तीकृतानन्तरं कारागृहात् तान् मुमोच। तेषां चलनानि राष्ट्रसुरक्षाविभागः तथा गुप्तान्वेषणविभागः च ससूक्ष्मं निरीक्षते। पाकिस्थानस्य सीमासमीपे  अफ्गान् प्रदेशे नान्गार्हर् मण्डले एव इदानीं ते सन्ति इति सुरक्षादलः चिन्तयति। ओसामा बिन्लादनस्य पूर्वसुरक्षाधिकरी आमीन् अल्हगस्य जन्मस्थलसमीपे एव एते निलीय वसन्ति इति सूचनाप्यस्ति।