तालिबान् सर्वकारस्य स्थानारोहणे चीना पाकिस्थान प्रभृतीनां राष्ट्राणाम् आमन्त्रणम्।
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Monday, September 6, 2021
Sunday, September 5, 2021
आयकरदायकेभ्यः ६७,४०१ रूप्यकाणि प्रतिददाति आयकरविभागः।
नवदिल्ली> सार्धत्रिमासाभ्यन्तरे आयकरदायकेभ्यः ६७.४०१ कोटि रूप्यकाणि प्रतिददाति आयकरविभागः। एप्रिल् मासस्य प्रथमदिनात् आरभ्य आगस्त् मासस्य त्रिंशत् दिनं यावत् एव २४ लक्षं रूप्यकणि आयकरदायकेभ्यः प्रदत्तः। व्यक्त्यघिष्ठित एकीकृतविभागेषु एव शुल्कः दातुं निश्चितः। १६,३७३ कोटि रूप्यकाणि आयकररूपेण प्रतिदातुं तथा ५१.०२९ रूप्यकाणि एकीकृतकररूपेण प्रतिदातुमेव निश्चितः। आयकर -विवरणपत्रिका (Income tax return) यदा समर्प्यते तदनुसारमेव अधिकतया अर्पितं धनं विलम्बं विना प्रतिदास्यते।
Saturday, September 4, 2021
भारताय आशङ्कां प्रदाय अफ्गानिस्थाने बाग्राविमानपत्तनस्य नियन्त्रणं स्वायत्तीकर्तुं चीनेन प्रयतते ।
पारालम्पिक्स् - भारताय गतदिने पदकत्रयलब्धिः।
टोक्यो > अङ्गपरिमितानां कायिकमहोत्सवे - पारालिम्पिक्स् - गतदिने भारताय पदकत्रयमपि अलभत। अनेन आहत्य पदकलब्धिः १३ अभवत्।
ह्यः गुलिकाप्रक्षेपिका अवनी लेख्रा ५० मीटर् रैफिल् स्पर्धायां कांस्यं प्राप्तवती। अवन्याः द्वितीयपदकमेवैतत्। पूर्वं १० मी.एयर् रैफिल् विभागे सुवर्णं प्राप्तवती आसीत्।
पुरुषाणाम् उत्कूर्दनस्पर्धायां [टि ६४विभागः] प्रवीणकुमारः रजतं शरप्रक्षेपणे हरविन्दर सिंहः कांस्यं च प्राप्तवन्तौ। अनेन भारतस्य अशेषपदकलब्धिः १३ अभवत्। तत्र सुवर्णद्वयं षट् रजतानि चान्तर्भवन्ति।
'ऐडा'चक्रवातः - यू एस् मध्ये ४६मरणानि।
न्यूयोर्क्> यू एस् राष्ट्रे दुरापन्नस्य ऐडानामकचक्रवातस्य दुष्प्रभावे ४६ मरणानि निवेदितानि। अतिवृष्ट्या नदीषु जलोपप्लवः जातः।
न्यूजेर्सी राज्ये २३, न्यूयोर्के १३,पेन्सिलवानियायां ५ जनाः च मृत्युमुपगताः इति आवेदितम्। न्यूयेर्के ५०० अधिकानि यानानि जले निमग्नानि। न्यूयोर्क् न्यूजेर्सी राज्ययोः विमान रेल् यानसेवाः स्थगिताः।
Friday, September 3, 2021
वटुकच्चियम्मायाः कथा
अफ्गानिस्थानः दुर्भिक्षमभिमुखीकरोति - आशङ्कां प्रकाशयत् यू एन्।
जनीवा> अफ्गानिस्थाने निष्किञ्चनानां कृते वर्तमानः भक्ष्यसञ्चयः समाप्तिं प्राप्नोतीति संयुक्तराष्ट्रसंघटनम् आङ्कां प्राकाशयत्। इतोऽपि भक्ष्यसञ्चयनाय २० कोटि यू एस् डोलर् परिमितं यावच्छीघ्रं लभ्यं करणीयमिति संघटनेन लोकराष्ट्राणि अपेक्षितानि।
राष्ट्रे जनसंख्याः त्रिषु एकांशस्य [⅓] प्रतिदिनभोजनलभ्यता नास्ति। ऊनपञ्चवयस्केषु बालकेषु अर्धाधिकाः आगामिसंवत्सरे पोषकन्यूनताग्रस्ताः भविष्यन्ति इति सचिवमुख्यः टेट्रोस् अथनों गब्रियेसूसः अवदत्।
भारते ४७,०९२ नूतनाः कोविड्रोगिणः।
नवदिल्ली> गतदिने ४७,०९२ जनाः अपि कोविड्बाधिताः अभवन्। मासद्वयानन्तरं सञ्जाता अधिकसंख्याका रोगबाधा भवत्येषा। अनेन राष्ट्रे आहत्य कोविड्बाधिताः ३,२८,५७,९३७ अभवन्।
गतदिने ५०९ रोगिणः अपि मृत्युमुपगताः। आहत्य मरणानि ४,३९,५२९ जातानि। प्रतिसाप्ताहिकरोगस्थिरीकरणमानं २.६२ अस्ति। ३,८९,५८३ जनाः विविधराज्येषु परिचर्यायां वर्तन्ते।
Thursday, September 2, 2021
प्रतिरोधसेनायाः पुरतः तालिबानः विकम्पते। पञ्चषीरे १३ आतङ्कवादिनः हताः।
विविध-सामाजिक-योगक्षेम परियोजनायाः फलभोक्तृन् प्रत्यभिज्ञातुं सुविधाः आयोक्ष्यन्ते।
कोविड् - केरले नूतनः उपप्रभेदः वर्धते।
नवदिल्ली> राष्ट्रे द्वितीयकोविड्व्यापनस्य तीव्रतायां कारणभूतस्य 'डेल्टा'प्रभेदस्य नवीनः उपप्रभेदः केरले वर्धमानरीत्या दृश्यते। जुलाई आगस्ट् मासयोः राज्यस्य ५ जनपदेषु डेल्टायाः उपप्रभेदरूपः 'ए वै 1' इति कृतनामधेयः दृष्टः। आनुपातिकतया केरले एव अधिकतया दृश्यते। केरलमतिरिच्य महाराष्ट्रे अपि एषः उपप्रभेदः दृश्यते इति सि एस् ऐ आर् संस्थायाः संशोधने स्पष्टीकृतमस्ति।
एरणाकुलम् इटुक्की, कोट्टयं, पत्तनंतिट्टा, तिरुवनन्तपुरं जनपदेषु एव ए वै1 प्रभेदः अधिकतया दृश्यते।
Wednesday, September 1, 2021
ऐ एस् के नाम आतङ्गवादसंघेन सह संबन्धिताः २५ भारतीयनागरिकाः अफगानिस्थाने निरीक्षणे वर्तन्ते
काबूल्> ऐ एस् के नाम आतङ्गवादसंघेन सह सम्बन्धिताः २५ भारतीयनागरिकाः अफ्गानिस्थाने निरीक्षणे वर्तन्ते इति प्रतिवेदनम्। तालिबानेन अफ्गानिस्थानस्य प्रशासनं बलात्कारेण स्वायत्तीकृतानन्तरं कारागृहात् तान् मुमोच। तेषां चलनानि राष्ट्रसुरक्षाविभागः तथा गुप्तान्वेषणविभागः च ससूक्ष्मं निरीक्षते। पाकिस्थानस्य सीमासमीपे अफ्गान् प्रदेशे नान्गार्हर् मण्डले एव इदानीं ते सन्ति इति सुरक्षादलः चिन्तयति। ओसामा बिन्लादनस्य पूर्वसुरक्षाधिकरी आमीन् अल्हगस्य जन्मस्थलसमीपे एव एते निलीय वसन्ति इति सूचनाप्यस्ति।
Tuesday, August 31, 2021
भारतीयसभ्यतायाः प्रत्यभिज्ञानं संस्कृताध्ययनेन।
पालक्काट्> केरल-संसकृताद्ध्यापक-फेडरेषन् संस्थायाः दायित्वे पालक्काट् जनपदस्तरीय संस्कृत-दिनाचरणम् समायोजितम्। भारतीय सभ्यतायाः प्रत्यभिज्ञानं संस्कृताध्यनेन स्वायत्तीकर्तुं शक्यते इति उत्तराखण्डराज्यस्थ केन्द्रीय-संस्कृत-विश्वविद्यालयस्य वैदिकविभागस्य प्राध्यापकः डॉ. अमन्दमिश्रमहोदयः स्वीयोद्घाटनभाषणे अब्रवीत्। संस्कृतम् संस्कृतेनैव पठनस्य पाठनस्य च आवश्यकताम् अधिकृत्य केरल-सर्वकारीय महाविद्यालयीय ज्योतिषविभागस्थ प्राध्यापकः डोः सुधीष् ओ एस् महाभागोवदत्। पालक्काट् डयट् संस्थायाः प्राचार्यः श्री के एन् सोमराज महाशयः विशिष्ठातिथि रूपेणोपस्थितः। श्री अनिल् कोन्नेलिक्कल् महोदयेन विरचितं मञ्जुभाषिणीति गीतम् आलप्य मेलने प्रकाशितम्। केरल-संसकृताद्ध्यापक -फेडरेषन् संस्थायाः प्रान्तीयाध्यक्षः श्री पि पद्मनाभः महाशयः, प्रान्तीयोपाध्यक्षः श्री के के राजेष् महोदयः, जनपदाध्यक्षः श्री एस् भास्करः, बि प्रमोद, श्रीमति रजिता, श्रीमति सि आर् सुजाता, श्रीमति पि राखी इत्येते स्वाभिमतान् प्रकटितवन्तः। १२ जनपदेभ्यः संस्कृतशिक्षकाः भागं स्वीकृतवन्तः। जनपद स्तरीय शैक्षणिक अधिकारिणः अपि भागं स्वीकृतवन्तः।सुवर्णद्वयं समेत्य पञ्च पदकानि।
टोक्यो> ओलिम्पिक्स् महोत्सवस्यानन्तरं टोक्यो नगरे प्रचाल्यमाने पारालिम्पिक्स् नामके अङ्गपरिमितानाम् 'ओलिम्पिक्स्' महोत्सवे भारतस्य अत्युज्वलं प्रकटनम्। शूलक्षेपणे गुलिकाप्रक्षेपे च भारतेन सुवर्णपदकं प्राप्तम्। एतत्समेत्य पञ्च पदकानि भारतेन प्राप्तानि।
पुरुषाणां शूलक्षेपणे एफ् ६६ विभागे हरियाणे पानीपत प्रदेशीयः सुमित् आन्टिलः सुवर्णपदकः प्राप्तः। महिलानां १० मीटर् 'एयर् रैफिल्' स्पर्धायां राजस्थानीया अवनी लेख्रा अपि भारताय सुवर्णं सम्पादितवती। पुरुषाणां शूलक्षेपणस्य एफ् ४६ विभागे देवेन्द्रजजारियः रजतपदकं, सुन्दरसिंह गुर्जरः कांस्यं च सम्प्राप्तवन्तौ।
अफगान् प्रकरणे नरेन्द्रमोदिनः वाचः स्वागतार्हाः - कपिलसिबिलः।
नवदेहली> अफ्गानिस्थानस्य समस्यायां मोदिनः वाचं स्वागतीकरोति इति काँग्रस् दलस्य वरिष्ठनेता कपिल सिबिल: अवदत्। पीडितेभ्यः जनेभ्यः साहाय्यं करणीयम् इति एतत् राष्ट्रस्य लोकतान्त्रिकमर्यादा भवति इति सः अवदत्। साहाय्यं सर्वधर्मानुद्दिश्य भवितव्यम्। "यः कोपि भारतनागरिकः विश्वस्मिन् कोणे यत्रकुत्रापि भवतु लग्नः चेत् आराष्ट्रं तस्य साहाय्यतायैः तेन सह स्थास्यति" इति शनिवासरे मोदिना उक्तमासीत्। दुरितबाधितः हैन्दवः वा अफगानिजना: वा भवतु तस्य साहायता अस्माभिः करणीया इति भारतस्य लोकतान्त्रिक-उत्तरदायित्वं भवति इति मोदिना उक्तं यत् तत् अहं स्वीकरोमि इति कपिल सिबिलः अवदत् ।
असङ्ख्या: प्रतिरोधाः आसन् तथापि अफ्गानिस्थानतः भारतीयाः सर्वे ततः आनीता: इति अमृतसरसि नवीकृतं 'जालियन् वालाबाग्' स्मृतिमण्डपं राष्ट्राय समर्पणं कृत्वा मोदिना उक्तम् । 'ओपरेषन् देवी' इति रक्षायोजनया शतशः जनाः एवं भारतं नीताः सन्ति इति च महोदयः अवदत्।
Monday, August 30, 2021
काबूल् आक्रमणस्य सूत्रधारः हत इति यू एस्।
वाषिङ्टण्> काबूल विमानपत्तने दुरापन्नस्य रक्तरूषिताक्रमणस्य सूत्रधारः 'ऐ एस् - खोरासन' नामकभीकरसंघटनस्य नेता यू एस् सेनया व्यापादित इति अमेरिक्कायाः 'सेन्ट्रल् कमान्ड् क्याप्टन्' बिल् अर्बन् इत्यनेन उक्तम्। खोरासनस्य शक्तिकेन्द्रमिति प्रकल्प्यमानं नङ्गहारं नामकं प्रदेशं लक्ष्यीकृत्य नीतेन 'रीप्पर् ड्रोण्'यन्त्रेणैव केनचन मित्रेण सह सूत्रधारस्य वधः साधितः इति तेनोक्तम्।
आत्मघातिस्फोटनेन सह कृते भुषुण्डिप्रयोगे च अफ्गानिनः यू एस् सैनिकाः च समेत्य १८२ जनाः मृताः आसन्।
Sunday, August 29, 2021
नव न्यायाधिपेभ्यः सर्वोच्चन्यायालयं प्रति स्थानोन्नतिः।
तिस्रः महिलाः युगपत् प्रथमं प्रवेशं प्राप्नुवन्ति।
नवदिल्ली> तिस्रः महिलान्यायाधिपाः समेत्य नव उच्चनीतिपीठस्थाः न्यायाधिपाः सर्वोच्चनीतिपीठस्य न्यायाधिपरूपेण पदोन्नतिं प्राप्तवन्तः। न्याय. हिमा कोहली [तेलुङ्कानस्य उच्चन्यायालयस्य मुख्यन्यायाधिपा], न्याय. बेला एम् त्रिवेदी [गुज्रालस्य उच्चन्यायालयः], न्याय. बि वि नागरत्ना इत्येताः तिस्रः महिला न्यायाधिपाः।
सर्वोच्चनीतिपीठस्य मुख्यन्यायमूर्तिनः एन् वि रमणस्य आध्यक्षे वर्तमानेन पञ्चाङ्गमण्डलेन समर्पितमावेदनम् राष्ट्रपतिना अङ्गीकृतमासीत्।
कर्णाटकस्य मुख्यन्यायमूर्तिः ए एस् ओकः, सिक्किमस्य मुख्यन्यायमूर्तिः जे के महेश्वरी, मद्रास् उच्चन्यायालयस्थः न्याय. ए एम् सुन्दरेशः, न्याय. सि टि रविकुमारः [केरलस्य उच्चनीतिपीठः], न्याय. विक्रमनाथः , न्याय. पि एस् नरसिंहः एत्येते अपरे प्राड्विवाकाः।
वाक्सिनस्य मात्राद्वयं स्वीकृतवताम् आराष्ट्रं प्रयाणानुज्ञा।
नवदिल्ली > कोवि़ड्वाक्सिनस्य मात्राद्वयमपि स्वीकृतेभ्यः जनेभ्यः राष्ट्रे यत्रकुत्रापि आर् टि पि सि आर् निकषं विनैव यात्रां कर्तुं भारतसर्वकारेण अनुज्ञा दत्ता। रोगलक्षणानि सन्ति चेत् 'आन्टिजन्' परीक्षणम् आवश्यकम्। राष्ट्रे कोविड्रोगव्यापनम् आकुञ्चदस्ति इत्यत एव ईदृशं लाघवं निर्दिष्टम्।
विविधराज्यैः अन्तर्राज्यप्रयाणाय भिन्नभिन्नाः मानदण्डाः स्वीकृताः इत्येतत् यात्रिकाणां क्लेशकारणमासीत्। किन्तु यत्र रोगव्यापनं तीव्रमस्ति तादृशेषु राज्येषु प्रादेशिकावस्थां निरीक्ष्य नियन्त्रणं विधत्तुमधिकारोSस्ति।