OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 2, 2021

 विविध-सामाजिक-योगक्षेम परियोजनायाः फलभोक्तृन् प्रत्यभिज्ञातुं सुविधाः आयोक्ष्यन्ते। 



 केरलम्/अनन्तपुरी> राज्ये सर्वेभ्यः सामाजिक-योगक्षेम-परियोजनायाः गुणभोक्तारं प्रत्यभिज्ञातुं योजनाः चेत्तुं च केन्द्रीकृतसुविधायाः आयोजनं सर्वकारेण सज्जीक्रियते। प्रथमस्तरे ३४.३२ कोटि रूप्यकाणि व्ययीकृत्य अनुबन्धतन्त्रांशः (software) यन्त्रांशः (hardware) मानवसंसाधनविकासक्षमता इत्यादीन् आहत्य 'आधार् वाल्ट्' (Aadhaar vault) सुविधा सुसज्जीकृता भविष्यति। कैरल्याः मानव-विभव-पुनर्निमाण विकसनक्षमतायाः   (rebuild kerala initiative) अधीने एव योजनाः प्रयोगपदम् आनेष्यति। एतदर्थं मन्त्रिणां आलोचना योगे अनुमतिः प्रदत्ता।

 कोविड् - केरले नूतनः उपप्रभेदः वर्धते। 

 नवदिल्ली> राष्ट्रे द्वितीयकोविड्व्यापनस्य तीव्रतायां कारणभूतस्य 'डेल्टा'प्रभेदस्य नवीनः उपप्रभेदः केरले वर्धमानरीत्या दृश्यते। जुलाई आगस्ट् मासयोः राज्यस्य ५ जनपदेषु डेल्टायाः उपप्रभेदरूपः 'ए वै 1' इति कृतनामधेयः दृष्टः। आनुपातिकतया केरले एव अधिकतया दृश्यते। केरलमतिरिच्य महाराष्ट्रे अपि एषः उपप्रभेदः दृश्यते इति सि एस् ऐ आर् संस्थायाः संशोधने स्पष्टीकृतमस्ति। 

  एरणाकुलम् इटुक्की, कोट्टयं, पत्तनंतिट्टा, तिरुवनन्तपुरं जनपदेषु एव ए वै1 प्रभेदः अधिकतया दृश्यते।

Wednesday, September 1, 2021

 ऐ एस् के नाम आतङ्गवादसंघेन सह संबन्धिताः २५  भारतीयनागरिकाः अफगानिस्थाने निरीक्षणे वर्तन्ते

   काबूल्> ऐ एस् के नाम आतङ्गवादसंघेन सह सम्बन्धिताः २५ भारतीयनागरिकाः अफ्गानिस्थाने निरीक्षणे वर्तन्ते इति प्रतिवेदनम्। तालिबानेन अफ्गानिस्थानस्य प्रशासनं बलात्कारेण स्वायत्तीकृतानन्तरं कारागृहात् तान् मुमोच। तेषां चलनानि राष्ट्रसुरक्षाविभागः तथा गुप्तान्वेषणविभागः च ससूक्ष्मं निरीक्षते। पाकिस्थानस्य सीमासमीपे  अफ्गान् प्रदेशे नान्गार्हर् मण्डले एव इदानीं ते सन्ति इति सुरक्षादलः चिन्तयति। ओसामा बिन्लादनस्य पूर्वसुरक्षाधिकरी आमीन् अल्हगस्य जन्मस्थलसमीपे एव एते निलीय वसन्ति इति सूचनाप्यस्ति।

Tuesday, August 31, 2021

 भारतीयसभ्यतायाः प्रत्यभिज्ञानं संस्कृताध्ययनेन।

पालक्काट्> केरल-संसकृताद्ध्यापक-फेडरेषन् संस्थायाः दायित्वे पालक्काट् जनपदस्तरीय  संस्कृत-दिनाचरणम् समायोजितम्। भारतीय सभ्यतायाः प्रत्यभिज्ञानं संस्कृताध्यनेन स्वायत्तीकर्तुं  शक्यते इति उत्तराखण्डराज्यस्थ केन्द्रीय-संस्कृत-विश्वविद्यालयस्य वैदिकविभागस्य प्राध्यापकः डॉ. अमन्दमिश्रमहोदयः स्वीयोद्घाटनभाषणे अब्रवीत्। संस्कृतम् संस्कृतेनैव पठनस्य पाठनस्य च आवश्यकताम् अधिकृत्य केरल-सर्वकारीय महाविद्यालयीय ज्योतिषविभागस्थ प्राध्यापकः डोः सुधीष्  ओ एस् महाभागोवदत्। पालक्काट् डयट् संस्थायाः प्राचार्यः श्री के एन् सोमराज महाशयः विशिष्ठातिथि रूपेणोपस्थितः। श्री अनिल् कोन्नेलिक्कल् महोदयेन विरचितं मञ्जुभाषिणीति गीतम् आलप्य मेलने प्रकाशितम्। केरल-संसकृताद्ध्यापक -फेडरेषन् संस्थायाः प्रान्तीयाध्यक्षः श्री पि पद्मनाभः महाशयः, प्रान्तीयोपाध्यक्षः श्री के के राजेष् महोदयः, जनपदाध्यक्षः श्री एस् भास्करः, बि प्रमोद, श्रीमति रजिता, श्रीमति सि आर् सुजाता, श्रीमति पि राखी इत्येते स्वाभिमतान् प्रकटितवन्तः। १२ जनपदेभ्यः संस्कृतशिक्षकाः भागं स्वीकृतवन्तः। जनपद स्तरीय शैक्षणिक अधिकारिणः अपि भागं स्वीकृतवन्तः।

 पारालिम्पिक्स् मध्ये भारतस्य अभिमानदिनम्।

सुवर्णद्वयं समेत्य पञ्च पदकानि। 

   टोक्यो> ओलिम्पिक्स् महोत्सवस्यानन्तरं टोक्यो नगरे प्रचाल्यमाने पारालिम्पिक्स् नामके अङ्गपरिमितानाम् 'ओलिम्पिक्स्' महोत्सवे भारतस्य अत्युज्वलं प्रकटनम्। शूलक्षेपणे गुलिकाप्रक्षेपे च भारतेन सुवर्णपदकं प्राप्तम्।  एतत्समेत्य पञ्च पदकानि भारतेन प्राप्तानि। 

  पुरुषाणां शूलक्षेपणे एफ् ६६ विभागे हरियाणे पानीपत प्रदेशीयः सुमित् आन्टिलः सुवर्णपदकः प्राप्तः। महिलानां १० मीटर् 'एयर् रैफिल्' स्पर्धायां राजस्थानीया अवनी लेख्रा अपि भारताय सुवर्णं सम्पादितवती। पुरुषाणां शूलक्षेपणस्य एफ् ४६ विभागे देवेन्द्रजजारियः रजतपदकं, सुन्दरसिंह गुर्जरः कांस्यं च सम्प्राप्तवन्तौ।

अफगान् प्रकरणे नरेन्द्रमोदिनः वाचः स्वागतार्हाः - कपिलसिबिलः।

नवदेहली> अफ्गानिस्थानस्य समस्यायां मोदिनः वाचं स्वागतीकरोति इति काँग्रस् दलस्य वरिष्ठनेता  कपिल सिबिल: अवदत्। पीडितेभ्यः जनेभ्यः साहाय्यं करणीयम् इति एतत् राष्ट्रस्य लोकतान्त्रिकमर्यादा भवति इति सः अवदत्। साहाय्यं सर्वधर्मानुद्दिश्य भवितव्यम्।   "यः कोपि भारतनागरिकः विश्वस्मिन् कोणे यत्रकुत्रापि भवतु लग्नः  चेत् आराष्ट्रं तस्य साहाय्यतायैः तेन सह स्थास्यति" इति शनिवासरे मोदिना उक्तमासीत्। दुरितबाधितः हैन्दवः वा अफगानिजना: वा भवतु तस्य साहायता अस्माभिः करणीया इति भारतस्य लोकतान्त्रिक-उत्तरदायित्वं भवति इति मोदिना उक्तं यत् तत् अहं स्वीकरोमि इति कपिल सिबिलः अवदत् । 

   असङ्ख्या: प्रतिरोधाः आसन् तथापि अफ्गानिस्थानतः भारतीयाः सर्वे ततः आनीता: इति अमृतसरसि नवीकृतं 'जालियन् वालाबाग्' स्मृतिमण्डपं राष्ट्राय समर्पणं कृत्वा मोदिना उक्तम् । 'ओपरेषन् देवी' इति रक्षायोजनया शतशः जनाः एवं भारतं नीताः सन्ति इति च महोदयः अवदत्।

Monday, August 30, 2021

 काबूल् आक्रमणस्य सूत्रधारः हत इति यू एस्। 

   वाषिङ्टण्> काबूल विमानपत्तने दुरापन्नस्य रक्तरूषिताक्रमणस्य सूत्रधारः 'ऐ एस् - खोरासन' नामकभीकरसंघटनस्य नेता यू एस् सेनया व्यापादित इति अमेरिक्कायाः 'सेन्ट्रल् कमान्ड् क्याप्टन्' बिल् अर्बन् इत्यनेन उक्तम्। खोरासनस्य शक्तिकेन्द्रमिति प्रकल्प्यमानं नङ्गहारं नामकं प्रदेशं लक्ष्यीकृत्य नीतेन 'रीप्पर् ड्रोण्'यन्त्रेणैव केनचन मित्रेण सह सूत्रधारस्य वधः  साधितः इति तेनोक्तम्। 

  आत्मघातिस्फोटनेन सह कृते भुषुण्डिप्रयोगे च अफ्गानिनः यू एस् सैनिकाः च समेत्य १८२ जनाः मृताः आसन्।

Sunday, August 29, 2021

 नव न्यायाधिपेभ्यः सर्वोच्चन्यायालयं प्रति स्थानोन्नतिः। 

तिस्रः महिलाः युगपत् प्रथमं प्रवेशं  प्राप्नुवन्ति।

    नवदिल्ली> तिस्रः महिलान्यायाधिपाः समेत्य नव उच्चनीतिपीठस्थाः न्यायाधिपाः सर्वोच्चनीतिपीठस्य न्यायाधिपरूपेण पदोन्नतिं प्राप्तवन्तः। न्याय. हिमा कोहली [तेलुङ्कानस्य उच्चन्यायालयस्य मुख्यन्यायाधिपा], न्याय. बेला एम् त्रिवेदी [गुज्रालस्य उच्चन्यायालयः], न्याय. बि वि नागरत्ना इत्येताः तिस्रः महिला न्यायाधिपाः। 

  सर्वोच्चनीतिपीठस्य मुख्यन्यायमूर्तिनः एन् वि रमणस्य आध्यक्षे वर्तमानेन पञ्चाङ्गमण्डलेन समर्पितमावेदनम् राष्ट्रपतिना अङ्गीकृतमासीत्। 

  कर्णाटकस्य मुख्यन्यायमूर्तिः ए एस् ओकः, सिक्किमस्य मुख्यन्यायमूर्तिः जे के महेश्वरी, मद्रास् उच्चन्यायालयस्थः न्याय. ए एम् सुन्दरेशः, न्याय. सि टि रविकुमारः [केरलस्य उच्चनीतिपीठः], न्याय. विक्रमनाथः , न्याय. पि एस् नरसिंहः एत्येते अपरे प्राड्विवाकाः।

 वाक्सिनस्य मात्राद्वयं स्वीकृतवताम् आराष्ट्रं प्रयाणानुज्ञा। 

नवदिल्ली > कोवि़ड्वाक्सिनस्य मात्राद्वयमपि  स्वीकृतेभ्यः जनेभ्यः राष्ट्रे यत्रकुत्रापि आर् टि पि सि आर् निकषं विनैव यात्रां कर्तुं भारतसर्वकारेण अनुज्ञा दत्ता। रोगलक्षणानि सन्ति चेत् 'आन्टिजन्' परीक्षणम् आवश्यकम्। राष्ट्रे कोविड्रोगव्यापनम् आकुञ्चदस्ति इत्यत एव ईदृशं लाघवं निर्दिष्टम्। 

  विविधराज्यैः  अन्तर्राज्यप्रयाणाय भिन्नभिन्नाः मानदण्डाः स्वीकृताः इत्येतत् यात्रिकाणां क्लेशकारणमासीत्। किन्तु यत्र रोगव्यापनं तीव्रमस्ति तादृशेषु राज्येषु प्रादेशिकावस्थां निरीक्ष्य नियन्त्रणं विधत्तुमधिकारोSस्ति।

Saturday, August 28, 2021

 भारते समागतेभ्यः अफ्गान् नागरिकेभ्यः षण्मासीयं प्रवेशानुमतिपत्रं  दास्यति।

    नवदिल्ली> भारते समागतेभ्यः अफ्गान् नागरिकेभ्यः षण्मासीयं प्रवेशानुमतिपत्रं दास्यति इति भारतीयसर्वकारः। अधुना वर्तमाने काले अफ्गान् नागरिकाणाम् आगमनं षण्मासीयप्रवेशपत्रसुविधायाः अधीने एव इति विदेशकार्यमन्त्रालयवक्त्रा अरिन्दं बाग्चिना प्रोक्तम्। एषा एव षण्मासीया वर्तमानकालव्यवस्था। वातावरणानि परिणमेत तर्हि तदीयपत्रस्य दीर्घीकरणं वा स्थिरानुमतिः वा चिन्त्येत इति बाग्चिना निगदितम् । भारतम् अफ्गानिस्थानात् इतःपर्यन्तं ५५२ अधिकजनान् अरक्षत्। विविधैः षट्भिः विमानैरेव आसीत् आसीत् रक्षाप्रवर्तनम्।

Friday, August 27, 2021

 नवजीवने आह्लादनर्तनं कुर्वती अफगान् बालिका ।

चित्रमिदं जनमनस्सु आह्लादं जनयन् विराजते।


   बेल्जियम्> परितः सर्वं गोलिकाप्रहारकं धृत्वा मुखाच्छादिताः योद्धारः। विस्फोटशब्द मुखरितं भूमण्डलम्। भयचकितानां जनानाम् आक्रन्दनम्, मातापितृभ्यां हस्ते निक्षिप्तं वस्त्रभाण्डं ऊढ्वा कुत्र पलायनं करिष्यामि इति अज्ञात्वा   अफ्गानिस्थानस्थं विमानं तस्याः लघुबालिकायाः प्रवेष्टुं अवसरः लब्धः। षट्होरानन्तरं सा बालिका विमानात् बेल्जियस्य भूमौ  पादक्षेपणं कृतवती। बेल्जिये मिल्स्ब्रूक् विमानपत्तने सर्वं विस्मृत्य नवजीवनं लक्ष्यीकृत्य भयाशङ्कां विना आनन्दनटनं कुर्वत्याः बालिकायाः चित्रं जनमनांसि हठादाकर्षन्ति। रोयिट्टेष्स् वार्तासंघस्य जोवान गेरोण् नामकेन वार्ताहरेण गृहीतं छायाचित्रम् इदानीं सामूहिकमाध्यमेषु  त्वरितप्रशस्तं वर्तते।

 काबूल् विमानपत्तने आत्मघात्याक्रमणम् - ४० जनाः हताः। 

  काबूल्> अफ्गानिस्थानतः अभयार्थिनः स्थानान्तरं नीयमानवेलायां काबूलस्थे हमीद् कर्सायि विमानपत्तनस्य समीपे स्फोटनद्वयं सञ्जातम्। ४० जनाः मृताः अनेके व्रणिताः अभवन्। ऐ एस् भीकरसंस्थायाः आत्मघातिभिरेव स्फोटनं कृतमिति तालिबानवक्त्रा सबीनुल्ला मुजाहिद् इत्यनेन उक्तम्। 

  स्फोटनेन सह कृते भुशुण्डिप्रयोगे कतिपयाः यू एस् दौत्यसेनाङ्गाः अफ्गानिस्थानीयाः महिलाः बालकाश्च मृताः इति 'पेन्टगण्'वक्ता जोण् किर्बी न्यगादीत्।

Thursday, August 26, 2021

 कोविड्वाक्सिनस्य पञ्जीकरणं 'वाट्सप्' द्वारा शक्यते। 

    नवदिल्ली> कोविड्वाक्सिनाय इतःआरभ्य वाट्साप्सङ्केतमुपयुज्यापि पञ्जीकर्तुं शक्यते। केन्द्रस्वास्थ्यमन्त्रिणा मन्सूख् माण्डव्येनेदं ट्विटर द्वारा निगदितम्। कृतवाक्सिनस्य प्रमाणपत्रं वाट्साप् द्वारा लब्धुं सुविधा गतदिनेषु विधत्ता आसीत्। 

   पञ्जीकरणम् एवं विधं - My Govindia Corona Helpdesk इत्यस्य 9013151515 इति वाट्साप् संख्यां प्रति Book Slot इति प्रेषणीयम्। तदनन्तरं लभ्यमानस्य 'ओ टि पि' संख्यायाः प्रेषणेन वाक्सिनस्वीकरणाय स्थानं, तिथिः, कालश्च सुविधानुसारं चयनं कर्तुं शक्यते।

 संस्कृतभाषायां  सन्देशं निर्मातुं नूतना सुविधा समागता।

 

कोच्ची>  लैव् सान्स्क्रिट् संघेन निर्मिता सान्स्ग्रीट् (SansGreet) इति अन्ट्रोयिड् सुविधा प्लेस्टोर्मध्ये परिष्कृत्य प्रकाशिता। स्वेच्छानुसारं स्वस्य चित्राणि अपि संयुज्य सन्देशचित्रसृजनं शक्यते इति सर्वेषां मोदाय भविष्यति। https://livesanskrit.com/Sansgreet इति प्रविशति चेत् सुविधेयं निशुल्कं लभते। जन्मदिन, विवाहादि शुभसन्दर्भैषु शुभाशंसापत्राणि विनाक्लेशं निर्मातुं शक्यते इति Sansgreet सुविधायां संस्कृतप्रेमिणां प्रियता वर्धनास्य कारणम्। 

Wednesday, August 25, 2021

 भारतीयानां प्रवेशनिरोधं सौदी अपि निराकरोति।

   जिद्दा> सौदी-अरेबियाराष्ट्रेण भारतीयानां उपरि विहितः यः प्रवेशनिरोधः आसीत्, तं तद्राष्ट्रेण निवार्यते इति सूचना संप्रति आगच्छति। सैद्यायाः वाक्सिनस्य मात्राद्वयमपि स्वीकृत्य स्वदेशं गतवद्भ्यः, तथा च अधिवास-सम्मतिविसापत्र-युक्तेभ्यः एव प्रवेशानुज्ञां लभन्ते।   लेबननदेशस्थः सौदी स्थानपतिः वलीद् बुखारिः एव एतद्विषयं न्यवेदयत्। सौदीस्थेन भारतीयकार्यालयेनापि एतत् दृढीकृतम्।

 केरले कोविड्रोगः प्रतिदिनं वर्धते। 

    कोच्ची> कोविड्रोगबाधा केरलराज्ये प्रतिदिनं वर्धमाना अस्ति। आराष्ट्रं नूतनतया कोविड्बाधितेषु बहुसंख्यकाः केरलस्थाः एव वर्तन्ते।

  गतदिने केरले २४,२९६ जनानां नूतनतया कोविड्रोगः दृढीकृतः। रोगस्थिरीकरणमानं १८.०४ प्रतिशतमासीत्। मासत्रयाभ्यन्तरे उच्चतरं टि पि आर् मानमेवैतत्। 

 अफगानस्य नागरिकाणां विमानपत्तनेषु  प्रवेशनं नास्ति। 

यु एस् सेना अस्मिन् मासे एकत्रिंशत्तम -दिनाभ्यन्तरे राष्ट्रात् गन्तव्यम् इति तालिबानः।

  काबूल्> पाञ्च्शीरस्थानां समस्यानां शान्तिपूर्णपरिहाराय ते प्रतिज्ञाबद्धाः इति तालिबानः। आगस्त् मासस्य एकत्रिंशत्तमदिनाभ्यन्तरे अमेरिक्कायाः सेनाः पूर्णतया अपसरणीयाः इति तालिबानः पुनरप्यवदत्। मङ्गलवासरे सायाह्ने कृते वार्तासम्मेलने तालिबानस्य वक्त्रा  रेण्डमाईजेशन सबीहुल्ला मुजाहिदेन एव कार्यमिदं स्पष्टीकृतम्। पञ्चशीरस्थां समस्यां परिहर्तुं  चर्चा प्रचलति इत्यपि मुजाहितेन प्रोक्तम्।

Tuesday, August 24, 2021

 विश्वविद्यालयेषु पुरुषमहिलाछात्राणां सहोपवेशनं निरुध्य तालिबानः। 

  काबूलः> अफ्गानस्य नियन्त्रणं स्वायत्तीकृत्यानन्तरं तालिबानस्य प्रथमनियमः प्रकाशितः। 

सर्वकारीय-निजीय-विश्वविद्यालयेषु   पुरुषमहिलाछात्राणाम्  एकस्यां  कक्ष्यायां मिलित्वा उपविश्य अध्ययनं तालिबानस्य पश्चिमहेरात् मण्डलस्य अधिकारिभिः निरोधितम् । अफ्गानिस्थानस्य खाम नामकैःवार्ताहरै : एव कार्यमिदं प्रतिवेदितम्। विश्वविद्यालयस्य अध्यापकैः तथा निजीयविद्यालयाधिकारिभिः च साकं होरात्रयं चर्चां कृत्वैव नियमाः प्रकाशिताः।  बालिकाबालकौ सम्भूय  विद्याभ्यासानुवर्तने किमपि नीतीकरणं  नास्ति इति एतत्संबन्धि पत्रं प्रतिवेदयति ।