OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 28, 2021

 भारते समागतेभ्यः अफ्गान् नागरिकेभ्यः षण्मासीयं प्रवेशानुमतिपत्रं  दास्यति।

    नवदिल्ली> भारते समागतेभ्यः अफ्गान् नागरिकेभ्यः षण्मासीयं प्रवेशानुमतिपत्रं दास्यति इति भारतीयसर्वकारः। अधुना वर्तमाने काले अफ्गान् नागरिकाणाम् आगमनं षण्मासीयप्रवेशपत्रसुविधायाः अधीने एव इति विदेशकार्यमन्त्रालयवक्त्रा अरिन्दं बाग्चिना प्रोक्तम्। एषा एव षण्मासीया वर्तमानकालव्यवस्था। वातावरणानि परिणमेत तर्हि तदीयपत्रस्य दीर्घीकरणं वा स्थिरानुमतिः वा चिन्त्येत इति बाग्चिना निगदितम् । भारतम् अफ्गानिस्थानात् इतःपर्यन्तं ५५२ अधिकजनान् अरक्षत्। विविधैः षट्भिः विमानैरेव आसीत् आसीत् रक्षाप्रवर्तनम्।

Friday, August 27, 2021

 नवजीवने आह्लादनर्तनं कुर्वती अफगान् बालिका ।

चित्रमिदं जनमनस्सु आह्लादं जनयन् विराजते।


   बेल्जियम्> परितः सर्वं गोलिकाप्रहारकं धृत्वा मुखाच्छादिताः योद्धारः। विस्फोटशब्द मुखरितं भूमण्डलम्। भयचकितानां जनानाम् आक्रन्दनम्, मातापितृभ्यां हस्ते निक्षिप्तं वस्त्रभाण्डं ऊढ्वा कुत्र पलायनं करिष्यामि इति अज्ञात्वा   अफ्गानिस्थानस्थं विमानं तस्याः लघुबालिकायाः प्रवेष्टुं अवसरः लब्धः। षट्होरानन्तरं सा बालिका विमानात् बेल्जियस्य भूमौ  पादक्षेपणं कृतवती। बेल्जिये मिल्स्ब्रूक् विमानपत्तने सर्वं विस्मृत्य नवजीवनं लक्ष्यीकृत्य भयाशङ्कां विना आनन्दनटनं कुर्वत्याः बालिकायाः चित्रं जनमनांसि हठादाकर्षन्ति। रोयिट्टेष्स् वार्तासंघस्य जोवान गेरोण् नामकेन वार्ताहरेण गृहीतं छायाचित्रम् इदानीं सामूहिकमाध्यमेषु  त्वरितप्रशस्तं वर्तते।

 काबूल् विमानपत्तने आत्मघात्याक्रमणम् - ४० जनाः हताः। 

  काबूल्> अफ्गानिस्थानतः अभयार्थिनः स्थानान्तरं नीयमानवेलायां काबूलस्थे हमीद् कर्सायि विमानपत्तनस्य समीपे स्फोटनद्वयं सञ्जातम्। ४० जनाः मृताः अनेके व्रणिताः अभवन्। ऐ एस् भीकरसंस्थायाः आत्मघातिभिरेव स्फोटनं कृतमिति तालिबानवक्त्रा सबीनुल्ला मुजाहिद् इत्यनेन उक्तम्। 

  स्फोटनेन सह कृते भुशुण्डिप्रयोगे कतिपयाः यू एस् दौत्यसेनाङ्गाः अफ्गानिस्थानीयाः महिलाः बालकाश्च मृताः इति 'पेन्टगण्'वक्ता जोण् किर्बी न्यगादीत्।

Thursday, August 26, 2021

 कोविड्वाक्सिनस्य पञ्जीकरणं 'वाट्सप्' द्वारा शक्यते। 

    नवदिल्ली> कोविड्वाक्सिनाय इतःआरभ्य वाट्साप्सङ्केतमुपयुज्यापि पञ्जीकर्तुं शक्यते। केन्द्रस्वास्थ्यमन्त्रिणा मन्सूख् माण्डव्येनेदं ट्विटर द्वारा निगदितम्। कृतवाक्सिनस्य प्रमाणपत्रं वाट्साप् द्वारा लब्धुं सुविधा गतदिनेषु विधत्ता आसीत्। 

   पञ्जीकरणम् एवं विधं - My Govindia Corona Helpdesk इत्यस्य 9013151515 इति वाट्साप् संख्यां प्रति Book Slot इति प्रेषणीयम्। तदनन्तरं लभ्यमानस्य 'ओ टि पि' संख्यायाः प्रेषणेन वाक्सिनस्वीकरणाय स्थानं, तिथिः, कालश्च सुविधानुसारं चयनं कर्तुं शक्यते।

 संस्कृतभाषायां  सन्देशं निर्मातुं नूतना सुविधा समागता।

 

कोच्ची>  लैव् सान्स्क्रिट् संघेन निर्मिता सान्स्ग्रीट् (SansGreet) इति अन्ट्रोयिड् सुविधा प्लेस्टोर्मध्ये परिष्कृत्य प्रकाशिता। स्वेच्छानुसारं स्वस्य चित्राणि अपि संयुज्य सन्देशचित्रसृजनं शक्यते इति सर्वेषां मोदाय भविष्यति। https://livesanskrit.com/Sansgreet इति प्रविशति चेत् सुविधेयं निशुल्कं लभते। जन्मदिन, विवाहादि शुभसन्दर्भैषु शुभाशंसापत्राणि विनाक्लेशं निर्मातुं शक्यते इति Sansgreet सुविधायां संस्कृतप्रेमिणां प्रियता वर्धनास्य कारणम्। 

Wednesday, August 25, 2021

 भारतीयानां प्रवेशनिरोधं सौदी अपि निराकरोति।

   जिद्दा> सौदी-अरेबियाराष्ट्रेण भारतीयानां उपरि विहितः यः प्रवेशनिरोधः आसीत्, तं तद्राष्ट्रेण निवार्यते इति सूचना संप्रति आगच्छति। सैद्यायाः वाक्सिनस्य मात्राद्वयमपि स्वीकृत्य स्वदेशं गतवद्भ्यः, तथा च अधिवास-सम्मतिविसापत्र-युक्तेभ्यः एव प्रवेशानुज्ञां लभन्ते।   लेबननदेशस्थः सौदी स्थानपतिः वलीद् बुखारिः एव एतद्विषयं न्यवेदयत्। सौदीस्थेन भारतीयकार्यालयेनापि एतत् दृढीकृतम्।

 केरले कोविड्रोगः प्रतिदिनं वर्धते। 

    कोच्ची> कोविड्रोगबाधा केरलराज्ये प्रतिदिनं वर्धमाना अस्ति। आराष्ट्रं नूतनतया कोविड्बाधितेषु बहुसंख्यकाः केरलस्थाः एव वर्तन्ते।

  गतदिने केरले २४,२९६ जनानां नूतनतया कोविड्रोगः दृढीकृतः। रोगस्थिरीकरणमानं १८.०४ प्रतिशतमासीत्। मासत्रयाभ्यन्तरे उच्चतरं टि पि आर् मानमेवैतत्। 

 अफगानस्य नागरिकाणां विमानपत्तनेषु  प्रवेशनं नास्ति। 

यु एस् सेना अस्मिन् मासे एकत्रिंशत्तम -दिनाभ्यन्तरे राष्ट्रात् गन्तव्यम् इति तालिबानः।

  काबूल्> पाञ्च्शीरस्थानां समस्यानां शान्तिपूर्णपरिहाराय ते प्रतिज्ञाबद्धाः इति तालिबानः। आगस्त् मासस्य एकत्रिंशत्तमदिनाभ्यन्तरे अमेरिक्कायाः सेनाः पूर्णतया अपसरणीयाः इति तालिबानः पुनरप्यवदत्। मङ्गलवासरे सायाह्ने कृते वार्तासम्मेलने तालिबानस्य वक्त्रा  रेण्डमाईजेशन सबीहुल्ला मुजाहिदेन एव कार्यमिदं स्पष्टीकृतम्। पञ्चशीरस्थां समस्यां परिहर्तुं  चर्चा प्रचलति इत्यपि मुजाहितेन प्रोक्तम्।

Tuesday, August 24, 2021

 विश्वविद्यालयेषु पुरुषमहिलाछात्राणां सहोपवेशनं निरुध्य तालिबानः। 

  काबूलः> अफ्गानस्य नियन्त्रणं स्वायत्तीकृत्यानन्तरं तालिबानस्य प्रथमनियमः प्रकाशितः। 

सर्वकारीय-निजीय-विश्वविद्यालयेषु   पुरुषमहिलाछात्राणाम्  एकस्यां  कक्ष्यायां मिलित्वा उपविश्य अध्ययनं तालिबानस्य पश्चिमहेरात् मण्डलस्य अधिकारिभिः निरोधितम् । अफ्गानिस्थानस्य खाम नामकैःवार्ताहरै : एव कार्यमिदं प्रतिवेदितम्। विश्वविद्यालयस्य अध्यापकैः तथा निजीयविद्यालयाधिकारिभिः च साकं होरात्रयं चर्चां कृत्वैव नियमाः प्रकाशिताः।  बालिकाबालकौ सम्भूय  विद्याभ्यासानुवर्तने किमपि नीतीकरणं  नास्ति इति एतत्संबन्धि पत्रं प्रतिवेदयति ।

 प्रवेशनिरोधः ओमानेन निराकृतः। 

  दुबाय्> ओमानराष्ट्रेण अङ्गीकृतवाक्सिनस्य मात्राद्वयं यैः स्वीकृतं तेभ्यः सेप्टम्बर् प्रथमदिनाङ्कादारभ्य प्रवेशः साध्य इति ओमानप्रशासनेन स्पष्टीकृतम्। ओमानं प्रतिनिवर्तयितुं क्लेशमनुभूयमानानां बहूनां प्रवासिनाम् आश्वासप्रदो भवत्ययं निर्णयः। 

  एप्रिल् मासस्य अन्ते आसीत् भारतीयानां प्रवेशनिरोधं ओमानेन विहितम्। प्रारम्भे दशदिनपर्यन्तमासीत् प्रवेशनिरोधः। परन्तु भारते कोविड्बाधामानं वर्धितमित्यतः निरोधः दीर्घितः आसीत्। गतदिनेषु यू ए ई, कुवैट् राष्ट्राभ्यां, द्वयेनापि, प्रवेशनिरोधः  निराकृतः अस्ति।


Monday, August 23, 2021

 कल्याणसिंहः दिवंगतः। 

  लख्नौ> उत्तरप्रदेशस्य भूतपूर्वः मुख्यमन्त्री तथा भा ज पा दलस्य वरिष्ठनेता च कल्याणसिंहः [८९]दिवं गतः। वार्धक्यसहजरोगैः लख्नौस्थस्य  सञ्जय्गान्धी पि जी इन्स्टिट्यूट ओफ् मेडिक्कल् सयन्स् आतुरालयस्य तीव्रपरिचरणविभागे  प्रवेशितः सः शनिवासरे एव मृत्युमुपगतः।

  प्रधानमन्त्री नरेन्द्रमोदी लख्नौ मध्यस्थे कल्याणसिंहस्य गृहं प्राप्य अन्तिमोपचारान् समार्पयत्। राष्ट्रपतिः रामनाथकोविन्दः , उपराष्ट्रपतिः वेङ्कय्य नायिडुः इत्यादयः प्रमुखाः अनुशोचनानि समर्पितवन्तः। कल्याणसिंहस्य अन्त्येष्टिकर्माणि अद्य सायं नेरोदायां गङ्गातटे विधास्यन्ति।

 व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः। 

सम्प्रतिवार्तया अन्ताराष्ट्रियसंस्कृतदिनमहोत्सवः आयोजितः। 

 कोच्ची> संस्कृतभाषायाः व्वहारिकप्रयोगैः भारतस्य सांस्कृतिकभाषामिमां राष्ट्रियभाषां कर्तुं वयं प्रयत्नं करिष्यामहे इति सुप्रसिद्धः आकाशवाणीवार्ताप्रवाचकः डो. बलदेवानन्दसागरः उदबोधयत्। 'सम्प्रतिवार्तया' आयोजितस्य अन्ताराष्ट्रियसंस्कृतदिनमहोत्सवस्य समुद्घाटनं दृश्यश्राव्यमाध्यमद्वारा कुर्वन् भाषमाण आसीत् सः। संस्कृताभियानं - २०२१ इति कृतनामधेये महोत्सवेSस्मिन् विद्यालयच्छात्रैः  विविधाः संस्कृतकार्यक्रमाः दृश्यश्राव्यमाध्यमेन प्रस्तुतीकृताः।  

  'सम्प्रतिवार्ता' अन्तर्जालीयदिनपत्रिका संस्कृतप्रचारार्थं संस्कृतं व्यावहारिकं कर्तुं च अनेकधा प्रयतमाना वर्तते इति बलदेवानन्दसागरवर्येण अनुमोदितम्। तेनोद्बोधितं यत् यथा अस्माकं राष्ट्रियपक्षी मयूरः, राष्ट्रियक्रीडा होक्की तद्वत् संस्कृतं राष्ट्रियभाषा भवितुं वयं प्रयत्नं करिष्यामहे इति अस्माभिः विशेषेण विचारणीयम्। अधिकाधिकं व्यावहारिकप्रयोगः भवति चेत् संस्कृतं नातिचिरेण राष्ट्रियभाषा भवेदिति सः प्रतीक्षां प्राकटयत्। 

  राष्ट्रपतिपुरस्कारेण समादृतः पण्डितवरः महामहोपाध्यायः डो. जि. गङ्गाधरन् नायरः अध्यक्ष आसीत्। न केवलं पुस्तकपठनं किन्तु एतादृशानि पाठ्येतरप्रवर्तनान्यपि संस्कृतभाषाध्ययने प्राधान्यमर्हन्ति, तद्वारा भारतसंस्कृतिरपि उन्नेष्यतीति सः प्रस्तौति स्म। आकाशवाणी-दूरदर्शनयोः वार्ताप्रवाचकौ सुनिलजोषी, युवराजभट्टरायी च आशंसां कृतवन्तौ। सम्प्रतिवार्तायाः निदेशकमण्डलसदस्यौ डो. टि नारायणन् कुट्टी, एन् के रामचन्द्रश्च छात्रान् अनुमोदितवन्तौ। पत्रिकायाः मुख्यसम्पादकः अय्यम्पुष़ हरिकुमारः स्वागतं सहसम्पादकः ऐवर्काला रविकुमारः कृतज्ञतां च कृतवन्तौ। 

   अमेरिक्का ओमानः इत्यादिनां विदेशराष्ट्राणां मध्यप्रदेशः, राजस्थानं  गुजरातः,  महाराष्ट्रं, कर्णाटकं, तमिलनाड्, केरलं, इत्यादीनां राज्यानां च बहवः छात्राः विभिन्नाः कार्यक्रमाः प्रस्तुतीकृतवन्तः।

Sunday, August 22, 2021

 अमेरिक्कायां डेल्टा प्रभेदेन मरणानि वर्धन्ते।

    वाषिङ्टण्> यू एस् राष्ट्रे कोविडस्य डेल्टा प्रभेदकारणेन मरणानि वर्धन्ते इति तत्रस्थेन स्वास्थ्यविभागेन स्पष्टीकृतम्। सप्ताहैकस्य मृत्युमानं सामान्यतः १०१६ इति उन्नीतम्। फेब्रुवरीतः अनन्तरम् अत्युन्नतं मृत्युमानमेतदिति यू एस् स्वास्थ्यविभागेन कथ्यते। 

  तीव्रपरिचर्याप्रकोष्ठं प्रवेशितानां संख्या अपि प्रतिदिनं वर्धते। फ्लोरिडा, मिसिसिपी, जोर्जिया ,टेक्सस् राज्येषु तीव्रपरिचर्याविभागस्य  ९०प्रतिशतं प्रकोष्ठेष्वपि प्रवेशितानां अर्धाधिकाः कोविड्रोगिणः सन्ति। 

  तथा च तत्र प्रतिदिनकोविड्रोगिणां संख्या सार्धैकलक्षमतीता। ९६७ जनाः गतदिने कोविड्बाधया मृताः।

प्रवेशितानाम् अर्धाधिकाः कोविड्रोगिणः सन्ति

 जम्मुकाश्मीरे द्वौ भीकरौ व्यापादितौ। 

  श्रीनगरम्> जम्मुकाश्मीरस्य पुल्वामा जनपदे सुरक्षासेनया सह जाते गोलिकाप्रहाररूपे प्रतिद्वन्द्वे द्वौ हिस्बुल् मुजाहिदीनभीकरौ व्यापादितौ। तयोरेकः ख्रूप्रदेशस्थः मुसैब् मुस्ताख् नामकः इति प्रत्यभिज्ञातमस्ति। दक्षिणकाश्मीरेषु प्रदेशवासिनः  जनान् भुषुण्डिप्रयोगेन हत्यां कृतवत्सु एतौ भागभागित्वं कृतवन्तौ इति आरक्षणाधिकारिभिः उक्तम्।

 ३२९ भारतीयाः अफ्गानिस्थानात् प्रत्यागताः। 

   नवदिल्ली> तालिबानस्य शासननिग्रहणात् अफ्गानिस्थाने लग्नेषु भारतीयेषु भारतीयेषु ३२९ जनाः स्वदेशं प्रत्यागताः।  प्रत्याजिगमिषूणां मध्ये ये पञ्जीकृताः, तान् सर्वान् भारतीयान्  स्वराष्ट्रं सम्प्रापयितुं तीव्रोद्यमाः भारतसर्वकारेण अनुवर्तन्ते। एयरिन्डिया संस्थायाः द्वे विमाने रक्षापरिश्रमे भागं वहतः।

  ३९२ जनाः एयरिन्डियाविमानेषु भारतं नीताः। केचन नेप्पालदेशीयाः भवन्ति। शिष्टेषु ३२९ भारतीयेषु विभिन्नराज्यस्थाः अन्तर्भवन्ति। ५२ केरलीयाः अपि अन्तर्भवन्ति।

Saturday, August 21, 2021

 राष्ट्रिय पताकां स्वीकृत्य प्रतिषिध्यमाणानाम् उपरि तालिबानस्य भुशुण्डि प्रयोगः।

अफ्गानस्य राष्ट्रियपताकां स्वीकृत्य वीथिषु प्रतिषिध्यमाणानां जनानामुपरि तालिबानः भुषुण्डिप्रयोगं करोति। कार्यालयेषु अफ्गानिस्थानस्य राष्ट्रियपताका एव अनुवर्तितव्या इत्युक्त्वा एव जनाः प्रतिषेधं प्रकाशयितुं वीथिषु सम्मिलिताः। तालिबानस्य राष्ट्रियपताकां त्यक्त्वा अफ्गानस्य पताकां स्वीकृत्य प्रतिषिध्यमाणानां जनानामुपरि तालिबानः भुशुण्डिप्रयोगं  कृतवान् आसीत्। कति जनाः मारिताः, कति जनाः व्रणिताः इत्यस्मिन् विषये स्पष्टता नास्ति। घटनायाः चलनरेखादृश्यं सामूहिकमाध्यमेषु प्रचलत् अस्ति।

Friday, August 20, 2021

 काश्मीरे सेनाधिकारी वीरमृत्युं प्राप्तवान्। 

  जम्मू> जम्मुकाश्मीरस्य रजौरि प्रदेशे भीकरान् विरुध्य कृते भुषुण्डिप्रयोगे 'राष्ट्रिय रैफिल्' सेनायाः 'जूनियर् कम्मीषन्ड्' अधिकारी सुबेदार् रामसिंहः भीकरैः सह कृते प्रतिद्वन्द्वे वीरमृत्युं प्राप्तवान्। उत्तराखण्ड राज्यीयः सः ४६ वयस्कः आसीत्। सैन्यस्य प्रत्याक्रमणे एकः भीकरः अपि हतः।

Thursday, August 19, 2021

 राष्ट्रियशिक्षकपुरस्काराः  पुरस्काराः घोषिताः। 

   नवदिल्ली> भारतस्य राष्ट्रियशिक्षकपुरस्काराः गतदिने प्रख्यापिताः। आराष्ट्रं ४४ अध्यापकाः पुरस्कारान् लभन्ते । पुरस्कारार्हेषु ९ महिलाः अपि सन्ति।  राष्ट्रिय शिक्षकदिनत्वेन परिपाल्यमाने सेप्तम्बर पञ्चमदिनाङ्के राष्ट्रपतिः रामनाथकोविन्दः पुरस्कारान् समर्पयिष्यति https://nationalawardstoteachers.education.gov.in/ ।