OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 24, 2021

 प्रवेशनिरोधः ओमानेन निराकृतः। 

  दुबाय्> ओमानराष्ट्रेण अङ्गीकृतवाक्सिनस्य मात्राद्वयं यैः स्वीकृतं तेभ्यः सेप्टम्बर् प्रथमदिनाङ्कादारभ्य प्रवेशः साध्य इति ओमानप्रशासनेन स्पष्टीकृतम्। ओमानं प्रतिनिवर्तयितुं क्लेशमनुभूयमानानां बहूनां प्रवासिनाम् आश्वासप्रदो भवत्ययं निर्णयः। 

  एप्रिल् मासस्य अन्ते आसीत् भारतीयानां प्रवेशनिरोधं ओमानेन विहितम्। प्रारम्भे दशदिनपर्यन्तमासीत् प्रवेशनिरोधः। परन्तु भारते कोविड्बाधामानं वर्धितमित्यतः निरोधः दीर्घितः आसीत्। गतदिनेषु यू ए ई, कुवैट् राष्ट्राभ्यां, द्वयेनापि, प्रवेशनिरोधः  निराकृतः अस्ति।


Monday, August 23, 2021

 कल्याणसिंहः दिवंगतः। 

  लख्नौ> उत्तरप्रदेशस्य भूतपूर्वः मुख्यमन्त्री तथा भा ज पा दलस्य वरिष्ठनेता च कल्याणसिंहः [८९]दिवं गतः। वार्धक्यसहजरोगैः लख्नौस्थस्य  सञ्जय्गान्धी पि जी इन्स्टिट्यूट ओफ् मेडिक्कल् सयन्स् आतुरालयस्य तीव्रपरिचरणविभागे  प्रवेशितः सः शनिवासरे एव मृत्युमुपगतः।

  प्रधानमन्त्री नरेन्द्रमोदी लख्नौ मध्यस्थे कल्याणसिंहस्य गृहं प्राप्य अन्तिमोपचारान् समार्पयत्। राष्ट्रपतिः रामनाथकोविन्दः , उपराष्ट्रपतिः वेङ्कय्य नायिडुः इत्यादयः प्रमुखाः अनुशोचनानि समर्पितवन्तः। कल्याणसिंहस्य अन्त्येष्टिकर्माणि अद्य सायं नेरोदायां गङ्गातटे विधास्यन्ति।

 व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः। 

सम्प्रतिवार्तया अन्ताराष्ट्रियसंस्कृतदिनमहोत्सवः आयोजितः। 

 कोच्ची> संस्कृतभाषायाः व्वहारिकप्रयोगैः भारतस्य सांस्कृतिकभाषामिमां राष्ट्रियभाषां कर्तुं वयं प्रयत्नं करिष्यामहे इति सुप्रसिद्धः आकाशवाणीवार्ताप्रवाचकः डो. बलदेवानन्दसागरः उदबोधयत्। 'सम्प्रतिवार्तया' आयोजितस्य अन्ताराष्ट्रियसंस्कृतदिनमहोत्सवस्य समुद्घाटनं दृश्यश्राव्यमाध्यमद्वारा कुर्वन् भाषमाण आसीत् सः। संस्कृताभियानं - २०२१ इति कृतनामधेये महोत्सवेSस्मिन् विद्यालयच्छात्रैः  विविधाः संस्कृतकार्यक्रमाः दृश्यश्राव्यमाध्यमेन प्रस्तुतीकृताः।  

  'सम्प्रतिवार्ता' अन्तर्जालीयदिनपत्रिका संस्कृतप्रचारार्थं संस्कृतं व्यावहारिकं कर्तुं च अनेकधा प्रयतमाना वर्तते इति बलदेवानन्दसागरवर्येण अनुमोदितम्। तेनोद्बोधितं यत् यथा अस्माकं राष्ट्रियपक्षी मयूरः, राष्ट्रियक्रीडा होक्की तद्वत् संस्कृतं राष्ट्रियभाषा भवितुं वयं प्रयत्नं करिष्यामहे इति अस्माभिः विशेषेण विचारणीयम्। अधिकाधिकं व्यावहारिकप्रयोगः भवति चेत् संस्कृतं नातिचिरेण राष्ट्रियभाषा भवेदिति सः प्रतीक्षां प्राकटयत्। 

  राष्ट्रपतिपुरस्कारेण समादृतः पण्डितवरः महामहोपाध्यायः डो. जि. गङ्गाधरन् नायरः अध्यक्ष आसीत्। न केवलं पुस्तकपठनं किन्तु एतादृशानि पाठ्येतरप्रवर्तनान्यपि संस्कृतभाषाध्ययने प्राधान्यमर्हन्ति, तद्वारा भारतसंस्कृतिरपि उन्नेष्यतीति सः प्रस्तौति स्म। आकाशवाणी-दूरदर्शनयोः वार्ताप्रवाचकौ सुनिलजोषी, युवराजभट्टरायी च आशंसां कृतवन्तौ। सम्प्रतिवार्तायाः निदेशकमण्डलसदस्यौ डो. टि नारायणन् कुट्टी, एन् के रामचन्द्रश्च छात्रान् अनुमोदितवन्तौ। पत्रिकायाः मुख्यसम्पादकः अय्यम्पुष़ हरिकुमारः स्वागतं सहसम्पादकः ऐवर्काला रविकुमारः कृतज्ञतां च कृतवन्तौ। 

   अमेरिक्का ओमानः इत्यादिनां विदेशराष्ट्राणां मध्यप्रदेशः, राजस्थानं  गुजरातः,  महाराष्ट्रं, कर्णाटकं, तमिलनाड्, केरलं, इत्यादीनां राज्यानां च बहवः छात्राः विभिन्नाः कार्यक्रमाः प्रस्तुतीकृतवन्तः।

Sunday, August 22, 2021

 अमेरिक्कायां डेल्टा प्रभेदेन मरणानि वर्धन्ते।

    वाषिङ्टण्> यू एस् राष्ट्रे कोविडस्य डेल्टा प्रभेदकारणेन मरणानि वर्धन्ते इति तत्रस्थेन स्वास्थ्यविभागेन स्पष्टीकृतम्। सप्ताहैकस्य मृत्युमानं सामान्यतः १०१६ इति उन्नीतम्। फेब्रुवरीतः अनन्तरम् अत्युन्नतं मृत्युमानमेतदिति यू एस् स्वास्थ्यविभागेन कथ्यते। 

  तीव्रपरिचर्याप्रकोष्ठं प्रवेशितानां संख्या अपि प्रतिदिनं वर्धते। फ्लोरिडा, मिसिसिपी, जोर्जिया ,टेक्सस् राज्येषु तीव्रपरिचर्याविभागस्य  ९०प्रतिशतं प्रकोष्ठेष्वपि प्रवेशितानां अर्धाधिकाः कोविड्रोगिणः सन्ति। 

  तथा च तत्र प्रतिदिनकोविड्रोगिणां संख्या सार्धैकलक्षमतीता। ९६७ जनाः गतदिने कोविड्बाधया मृताः।

प्रवेशितानाम् अर्धाधिकाः कोविड्रोगिणः सन्ति

 जम्मुकाश्मीरे द्वौ भीकरौ व्यापादितौ। 

  श्रीनगरम्> जम्मुकाश्मीरस्य पुल्वामा जनपदे सुरक्षासेनया सह जाते गोलिकाप्रहाररूपे प्रतिद्वन्द्वे द्वौ हिस्बुल् मुजाहिदीनभीकरौ व्यापादितौ। तयोरेकः ख्रूप्रदेशस्थः मुसैब् मुस्ताख् नामकः इति प्रत्यभिज्ञातमस्ति। दक्षिणकाश्मीरेषु प्रदेशवासिनः  जनान् भुषुण्डिप्रयोगेन हत्यां कृतवत्सु एतौ भागभागित्वं कृतवन्तौ इति आरक्षणाधिकारिभिः उक्तम्।

 ३२९ भारतीयाः अफ्गानिस्थानात् प्रत्यागताः। 

   नवदिल्ली> तालिबानस्य शासननिग्रहणात् अफ्गानिस्थाने लग्नेषु भारतीयेषु भारतीयेषु ३२९ जनाः स्वदेशं प्रत्यागताः।  प्रत्याजिगमिषूणां मध्ये ये पञ्जीकृताः, तान् सर्वान् भारतीयान्  स्वराष्ट्रं सम्प्रापयितुं तीव्रोद्यमाः भारतसर्वकारेण अनुवर्तन्ते। एयरिन्डिया संस्थायाः द्वे विमाने रक्षापरिश्रमे भागं वहतः।

  ३९२ जनाः एयरिन्डियाविमानेषु भारतं नीताः। केचन नेप्पालदेशीयाः भवन्ति। शिष्टेषु ३२९ भारतीयेषु विभिन्नराज्यस्थाः अन्तर्भवन्ति। ५२ केरलीयाः अपि अन्तर्भवन्ति।

Saturday, August 21, 2021

 राष्ट्रिय पताकां स्वीकृत्य प्रतिषिध्यमाणानाम् उपरि तालिबानस्य भुशुण्डि प्रयोगः।

अफ्गानस्य राष्ट्रियपताकां स्वीकृत्य वीथिषु प्रतिषिध्यमाणानां जनानामुपरि तालिबानः भुषुण्डिप्रयोगं करोति। कार्यालयेषु अफ्गानिस्थानस्य राष्ट्रियपताका एव अनुवर्तितव्या इत्युक्त्वा एव जनाः प्रतिषेधं प्रकाशयितुं वीथिषु सम्मिलिताः। तालिबानस्य राष्ट्रियपताकां त्यक्त्वा अफ्गानस्य पताकां स्वीकृत्य प्रतिषिध्यमाणानां जनानामुपरि तालिबानः भुशुण्डिप्रयोगं  कृतवान् आसीत्। कति जनाः मारिताः, कति जनाः व्रणिताः इत्यस्मिन् विषये स्पष्टता नास्ति। घटनायाः चलनरेखादृश्यं सामूहिकमाध्यमेषु प्रचलत् अस्ति।

Friday, August 20, 2021

 काश्मीरे सेनाधिकारी वीरमृत्युं प्राप्तवान्। 

  जम्मू> जम्मुकाश्मीरस्य रजौरि प्रदेशे भीकरान् विरुध्य कृते भुषुण्डिप्रयोगे 'राष्ट्रिय रैफिल्' सेनायाः 'जूनियर् कम्मीषन्ड्' अधिकारी सुबेदार् रामसिंहः भीकरैः सह कृते प्रतिद्वन्द्वे वीरमृत्युं प्राप्तवान्। उत्तराखण्ड राज्यीयः सः ४६ वयस्कः आसीत्। सैन्यस्य प्रत्याक्रमणे एकः भीकरः अपि हतः।

Thursday, August 19, 2021

 राष्ट्रियशिक्षकपुरस्काराः  पुरस्काराः घोषिताः। 

   नवदिल्ली> भारतस्य राष्ट्रियशिक्षकपुरस्काराः गतदिने प्रख्यापिताः। आराष्ट्रं ४४ अध्यापकाः पुरस्कारान् लभन्ते । पुरस्कारार्हेषु ९ महिलाः अपि सन्ति।  राष्ट्रिय शिक्षकदिनत्वेन परिपाल्यमाने सेप्तम्बर पञ्चमदिनाङ्के राष्ट्रपतिः रामनाथकोविन्दः पुरस्कारान् समर्पयिष्यति https://nationalawardstoteachers.education.gov.in/ ।

 हेय्ति भूकम्पे मरणानि १९४१। 

  पोर्ट्-ओ-प्रिन्स्> हेय्ती नामके करीबियाराष्ट्रे शनिवासरे दुरापन्ने भूकम्पे मृतानां संख्या १९४१ अभवत्। ९९०० जनाः आहताः अभवन्। ग्रेस् नामकचक्रवातः गतदिनेषु राष्ट्रे अतिवृष्टेः प्रचण्डवातस्य च कारणमभवत्। भूकम्पस्य तीव्रता ७.२ इति अङ्कितमासीत्।

Wednesday, August 18, 2021

 दूरदर्शनस्य "वार्तावली" कार्यक्रमः ३०० तमं संस्करणं सम्प्राप्तम्। 


    नवदिल्ली> दूरदर्शने डी.डी.न्यूज़-वाहिन्या प्रसार्यमाणस्य "वार्तावली" कार्यक्रमस्य ३०० तमं संस्करणं प्रसारितम्। अयं साप्ताहिक-कार्यक्रमः संस्कृत-भाषायाः प्रचाराय अभिनवोपक्रमो विद्यते। प्रतिसप्ताहं संस्कृतप्रेमिभ्यः आनन्दाय कल्पते वार्तावली। शनिवासरे सायं षड्वादने कार्यक्रमस्य प्रसारणं भवति। रविवासरे च पुनः प्रसारणं भवति। वार्तावल्याम् अस्मिन् सप्ताहे प्रो.रमाकान्तपाण्डेय-महोदयानां साक्षात्कारः प्रसारितः। सुनीलजोशी वर्येण साधिते साक्षात्कारे आचार्यः पाण्डेयमहोदयः साहित्यशास्त्रमर्मज्ञः संस्कृतविद्वान् स्वतन्त्रतायाः अमृतमहोत्सवम् आलक्ष्यय संस्कृतस्य भूमिकां प्राकटयत्। अयं कार्यक्रमः संस्कृतध्वजां नूतनोत्कर्षे प्रतिष्ठापयेदिति आस्माकं कामनाः। 

Tuesday, August 17, 2021

 अफ्गानिस्थाने  सर्वत्र अरक्षितावस्था इति अभयार्थिनः।


अफ्गानः पूर्णतया तालिबानस्य नियन्त्रणे जाते जनैः प्राणरक्षार्थं संघशः पलायनम् आरब्घम्। अफ्गानस्य अध्यक्षः अषरफ् गनिः तस्य सहचराः च ओमान् राष्ट्रं प्रति पलायनम् अकुर्वन्। अन्यराष्ट्रैः च अफ्गानस्य नागरिकाणां कृते सीमाः उद्घाटिताः। अस्मिन् अवसरे विविधानां प्रमुखनेतृणां अभयकेन्द्रमभवत् भारतम्। भारते समागतानां अभयार्थिनां सकलानाम् एका तालिबान कथा वक्तुम् अस्ति। सा एवं भवति 'वयं सर्वे तालिबानस्य  अतिक्रूरपीडनम् असहमानाः पलायिताः भवामः' इति अभयार्थिनः अकथयन्।

Monday, August 16, 2021

सैनिकविद्यालये इतः परं बालिकाप्रवेशः।

नवदिल्ली> सैनिकविद्यालये इतः परं बालिकाभ्यः अपि प्रवेशाय अनुमतिः। भारतस्य पञ्चसप्ततितम स्वतन्त्रता-समारोहदिने रक्तदुर्गे (Red Fort) कृते भाषणे एव प्रधानमन्त्रिणा नरेन्द्रमोदिना एवं प्रख्यापितम्। सैनिकविद्यालये प्रवेशं दातव्यम् इति उक्त्वा बह्यः बालिकाः मह्ययं पत्रिकाम् प्रेषितवत्यः वर्तन्ते इति प्रधानमन्त्रिणा प्रोक्तम्। इदानीं राष्ट्रे ३३ सैनिकविद्यालयाः सन्ति। सार्धद्विसंवत्सरात् पूर्वं मिसोरामदेशस्थे सैनिकविद्यालये परीक्षणार्थम् इदंप्रथमतया बालिकाभ्यः प्रवेशानुमतिः दत्ता आसीत्।

हेय्ति देशे जाते भूकम्पे मरणानि ३०० अतीतानि।

   पोर्ट ओ प्रिन्स् > करीबियन् राष्ट्रे हेय्ति देशे शनिवासरे प्रातःकाले जाते अतिशक्तियुक्ते भूचलने मरणानि ३०० अतीतानि। द्विसहस्राधिकजनाः व्रणिताश्च। १०००० संख्याकानि गृहाणि भग्नानि। रिक्टर् मापिकायां ७.२ तीव्रतां रेखाङ्गिते भूचलने अधिकनाशः प्रतिवेदितः। दुरन्तस्य तीव्रतां परिगणय्य राष्ट्रे एकमासीया अतिजाग्रतीयावस्था प्रख्यापिता। रक्षाप्रवर्तनानि अनुवर्तन्ते। सेन्ट्रल् पोर्ट ओ प्रिन्स् देशात् १६० कि मि दूरे एव भूकम्पस्य प्रभवस्थानम्। प्रदेशे अष्ट किलोमीट्टर् वृत्तपरिधौ (perimetre) सप्त अनुकम्पनानि समजनि।

Sunday, August 15, 2021

 भारतस्य पञ्चसप्ततितमस्वतन्त्रतादिनसमारोहे  पञ्चसप्तति 'वन्दे भारत' रेल्यानानि प्रख्यापि तानि।


    नवदिल्ली> पञ्चसप्ततितम स्वतन्त्रतादिनसमारोहे भारतस्य प्रधानमन्त्रिणा राष्ट्राय ७५ संख्याकानि 'वन्दे भारत' रेल्यानानि प्रख्यापितानि। लघु विमानपत्तनानि तन्निबध्य उडान् नाम लघु-व्योमयाननिलयानि निर्मीय विमानयात्रासौविध्ययुक्ता रेल्यानप्रणाली इति अस्य विशेषः। एतैः रेल्यानैः राष्ट्रस्य समस्तमण्डलानि परस्परं प्रतिबन्धितानि भविष्यन्ति। 'स्वतन्त्रतायाः अमृतमहोत्सव:' इति नाम्ना  पञ्चसप्ततितमस्वतन्त्रता समारोहकार्यक्रमाः समायोजयिष्यन्ति।

 महिलानां विजयप्राप्तिः राष्ट्रविकासस्य मार्ग निर्देशिका - भारतराष्ट्रपतिः।


  नवदिल्ली> समीपकाले विविधमण्डलेषु भारतीयमहिलाभिः अधिगताः विजयप्राप्तयः भाविष्यत्काले राष्ट्रेण सम्प्राप्स्यमनस्य विकासस्य सूचनाः भवन्ति इति भारतस्य राष्ट्रपतिना  रामनाथकोविन्देन उक्तम्। भारतस्य ७५तमस्य स्वतन्त्रतादिवसस्य पूर्वेद्युः राष्ट्रमभिसंबोधयन् भाषमाण आसीत् राष्ट्रपतिः। 

 क्रीडामण्डलेन सह जीवितस्य विविधकर्मक्षेत्रेषु महिलानां भागभागित्वं विजयसाफल्यं च महत्परिवर्तनाय कारणं भवतीति ओलिम्पिक्स् मध्ये वनिताक्रीडकाणाम् उद्योगं विजयप्राप्तिं च स्मृत्वा राष्ट्रपतिना निरीक्षितम्।

 भारतस्य पञ्चसप्ततितमं स्वतन्त्रतादिनम् आभारतम् आघुष् समाचर्यते।

  St. Thoma's HS Ayroor Aluva.

    कोच्ची> राष्ट्रस्य विभिन्नराज्येषु ग्राम ग्रामान्तरेषु प्रतिगृहं पञ्चसप्ततितमं स्वतन्त्रतादिनम् समाचर्यते। कोविड्रोगबाधा अस्ति चेदपि मार्गपार्श्व जनाः सुदिनस्य आह्लादान् अभिव्यञ्जयन्तः   तिष्ठन्ति। विद्यालयेषु समीपस्थाः छात्राः अध्यापकाः च मिलित्वा ध्वजारोहणम् अकुर्वन्। प्रतिगृहं छात्राः दीपाः छात्राः दीपान् प्रज्वालयन्ति। राज्य राजधान्यां तत्तद्राज्यमुख्यमन्त्रिणः,  जनपदेषु मन्त्रिणः च ध्वजारोहणं कृतवन्तः।

आगामि जूलाय् मासादारभ्य सकृदुपयोगाय निर्मितानां पलास्तिकवस्तूनां निरोधनम् भविष्यति।

लेखिका- ज्योतिलक्ष्मी जे, वेदपूर्णपुरी 

 नवदिल्ली> भारतसर्वकारेण पलास्तिकवस्तूनां उपयोगेषु नियन्त्रणं वर्धितम्। पलास्तिवस्तूनम् उत्पादनं, वितरणम्, देशान्तरादानयनं सम्भरणं, विक्रयणं इत्यादीनां निरोधनाय "पलास्तिकमालिन्यनियन्त्रण- संस्करणनियमाः २०२१" भारतसर्वकारेण प्रकाशिताः। २०२२ जुलै मासादारभ्य ७५ मैक्रोणतः ऊनानां पलास्तिकवस्तूनाम् निरोधनं भविष्यति।
         सामान्यतः ५० मैक्रोण् घनमितानि पलास्तिकस्यूतानि उपयोक्तुं शक्यते। परन्तु सेप्तंबर् ३० दिनाङकादारभ्य नियमे प्रबले जाते (सति), ततःपरं ७५ मैक्रोन् घनमानतः ऊनानि पलास्तिकस्यूतानि उपयोक्तुम् न शक्यते।